| |
|

This overlay will guide you through the buttons:

अधमा धनमिच्छन्ति धनमानौ च मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ ०१ ॥
अधमाः धनम् इच्छन्ति धन-मानौ च मध्यमाः । उत्तमाः मानम् इच्छन्ति मानः हि महताम् धनम् ॥ ०१ ॥
adhamāḥ dhanam icchanti dhana-mānau ca madhyamāḥ . uttamāḥ mānam icchanti mānaḥ hi mahatām dhanam .. 01 ..
Low class men desire wealth; middle class men both wealth and respect; but the noble, honour only; hence honour is the noble man's true wealth.
इक्षुरापः पयो मूलं ताम्बूलं फलमौषधम् । भक्षयित्वापि कर्तव्याः स्नानदानादिकाः क्रियाः ॥ ०२ ॥
इक्षुः आपः पयः मूलम् ताम्बूलम् फलम् औषधम् । भक्षयित्वा अपि कर्तव्याः स्नान-दान-आदिकाः क्रियाः ॥ ०२ ॥
ikṣuḥ āpaḥ payaḥ mūlam tāmbūlam phalam auṣadham . bhakṣayitvā api kartavyāḥ snāna-dāna-ādikāḥ kriyāḥ .. 02 ..
After consuming sugarcane juice, milk, roots, betel leaves, fruits & medicine, one should take bath, give charity & perform other acts.
दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते । यदन्नं भक्षयते नित्यं जायते तादृशी प्रजा ॥ ०३ ॥
दीपः भक्षयते ध्वान्तम् कज्जलम् च प्रसूयते । यत् अन्नम् भक्षयते नित्यम् जायते तादृशी प्रजा ॥ ०३ ॥
dīpaḥ bhakṣayate dhvāntam kajjalam ca prasūyate . yat annam bhakṣayate nityam jāyate tādṛśī prajā .. 03 ..
The lamp eats up the darkness and therefore it produces lamp black; in the same way according to the nature of our diet (sattva, rajas, or tamas) we produce offspring in similar quality
वित्तं देहि गुणान्वितेषु मतिमन्नान्यत्र देहि क्वचित् प्राप्तं वारिनिधेर्जलं घनमुखे माधुर्ययुक्तं सदा । जीवान्स्थावरजङ्गमांश्च सकलान्सञ्जीव्य भूमण्डलं भूयः पश्य तदेव कोटिगुणितं गच्छन्तमम्भोनिधिम् ॥ ०४ ॥
वित्तम् देहि गुण-अन्वितेषु मतिमन् न अन्यत्र देहि क्वचिद् प्राप्तम् वारिनिधेः जलम् घन-मुखे माधुर्य-युक्तम् सदा । जीवान् स्थावर-जङ्गमान् च सकलान् सञ्जीव्य भू-मण्डलम् भूयस् पश्य तत् एव कोटि-गुणितम् गच्छन्तम् अम्भोनिधिम् ॥ ०४ ॥
vittam dehi guṇa-anviteṣu matiman na anyatra dehi kvacid prāptam vārinidheḥ jalam ghana-mukhe mādhurya-yuktam sadā . jīvān sthāvara-jaṅgamān ca sakalān sañjīvya bhū-maṇḍalam bhūyas paśya tat eva koṭi-guṇitam gacchantam ambhonidhim .. 04 ..
O wise man! Give your wealth only to the worthy and never to others. The water of the sea received by the clouds is always sweet. The rain water enlivens all living beings of the earth both movable and immovable creatures, and then returns to the ocean it value multiplied a million fold
चाण्डालानां सहस्रैश्च सूरिभिस्तत्त्वदर्शिभिः । एको हि यवनः प्रोक्तो न नीचो यवनात्परः ॥ ०५ ॥
चाण्डालानाम् सहस्रैः च सूरिभिः तत्त्व-दर्शिभिः । एकः हि यवनः प्रोक्तः न नीचः यवनात् परः ॥ ०५ ॥
cāṇḍālānām sahasraiḥ ca sūribhiḥ tattva-darśibhiḥ . ekaḥ hi yavanaḥ proktaḥ na nīcaḥ yavanāt paraḥ .. 05 ..
The wise who discern the essence of things have declared that the yavana (meat eater) is equal in baseness to a thousand candalas the lowest class, and hence a yavana is the basest of men; indeed there is no one more base.
तैलाभ्यङ्गे चिताधूमे मैथुने क्षौरकर्मणि । तावद्भवति चाण्डालो यावत्स्नानं न चाचरेत् ॥ ०६ ॥
तैल-अभ्यङ्गे चिता-धूमे मैथुने क्षौर-कर्मणि । तावत् भवति चाण्डालः यावत् स्नानम् न च आचरेत् ॥ ०६ ॥
taila-abhyaṅge citā-dhūme maithune kṣaura-karmaṇi . tāvat bhavati cāṇḍālaḥ yāvat snānam na ca ācaret .. 06 ..
After having rubbed oil on the body, after encountering the smoke from a funeral pyre, after sexual intercourse, and after being shaved, one remains a chandala until he bathes.
अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् । भोजने चामृतं वारि भोजनान्ते विषापहम् ॥ ०७ ॥
अजीर्णे भेषजम् वारि जीर्णे वारि बल-प्रदम् । भोजने च अमृतम् वारि भोजन-अन्ते विष-अपहम् ॥ ०७ ॥
ajīrṇe bheṣajam vāri jīrṇe vāri bala-pradam . bhojane ca amṛtam vāri bhojana-ante viṣa-apaham .. 07 ..
Water is the medicine for indigestion; it is invigorating when the food that is eaten is well digested; it is like nectar when drunk in the middle of a dinner; and it is like poison when taken at the end of a meal, referring to over-consumption of water.
हतं ज्ञानं क्रियाहीनं हतश्चाज्ञानतो नरः । हतं निर्णायकं सैन्यं स्त्रियो नष्टा ह्यभर्तृकाः ॥ ०८ ॥
हतम् ज्ञानम् क्रिया-हीनम् हतः च अज्ञानतः नरः । हतम् निर्णायकम् सैन्यम् स्त्रियः नष्टाः हि अभर्तृकाः ॥ ०८ ॥
hatam jñānam kriyā-hīnam hataḥ ca ajñānataḥ naraḥ . hatam nirṇāyakam sainyam striyaḥ naṣṭāḥ hi abhartṛkāḥ .. 08 ..
Knowledge is lost without putting it into practice; a man is lost due to ignorance; an army is lost without a commander; and a woman is lost without a husband.
वृद्धकाले मृता भार्या बन्धुहस्तगतं धनम् । भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः ॥ ०९ ॥
वृद्ध-काले मृता भार्या बन्धु-हस्त-गतम् धनम् । भोजनम् च पर-अधीनम् तिस्रः पुंसाम् विडम्बनाः ॥ ०९ ॥
vṛddha-kāle mṛtā bhāryā bandhu-hasta-gatam dhanam . bhojanam ca para-adhīnam tisraḥ puṃsām viḍambanāḥ .. 09 ..
A man who encounters the following three is unfortunate; the death of his wife in his old age, the entrusting of money into the hands of relatives, and depending upon others for food.
नाग्निहोत्रं विना वेदा न च दानं विना क्रिया । न भावेन विना सिद्धिस्तस्माद्भावो हि कारणम् ॥ १० ॥
न अग्निहोत्रम् विना वेदाः न च दानम् विना क्रिया । न भावेन विना सिद्धिः तस्मात् भावः हि कारणम् ॥ १० ॥
na agnihotram vinā vedāḥ na ca dānam vinā kriyā . na bhāvena vinā siddhiḥ tasmāt bhāvaḥ hi kāraṇam .. 10 ..
Chanting of the Vedas without making ritualistic sacrifices to the Supreme Lord through the medium of Agni, and sacrifices not followed by bountiful gifts are futile. Perfection can be achieved only through devotion , for devotion is the basis of all success.
न देवो विद्यते काष्ठे न पाषाणे न मृण्मये । न भावेन विना सिद्धिस्तस्माद्भावो हि कारणम् ॥ ११ ॥
न देवः विद्यते काष्ठे न पाषाणे न मृण्मये । न भावेन विना सिद्धिः तस्मात् भावः हि कारणम् ॥ ११ ॥
na devaḥ vidyate kāṣṭhe na pāṣāṇe na mṛṇmaye . na bhāvena vinā siddhiḥ tasmāt bhāvaḥ hi kāraṇam .. 11 ..
God can not be found in a wood piece, stone or a mud idol. It is the belief that makes us feel the presence of God. Hence, only the feeling matters – not the material.
काष्ठपाषाणधातूनां कृत्वा भावेन सेवनम् । श्रद्धया च तथा सिद्धिस्तस्य विष्णुप्रसादतः ॥ १२ ॥
काष्ठ-पाषाण-धातूनाम् कृत्वा भावेन सेवनम् । श्रद्धया च तथा सिद्धिः तस्य विष्णु-प्रसादतः ॥ १२ ॥
kāṣṭha-pāṣāṇa-dhātūnām kṛtvā bhāvena sevanam . śraddhayā ca tathā siddhiḥ tasya viṣṇu-prasādataḥ .. 12 ..
By crafting and carving the idol of the God with wood, stone and metal, and then worshipping it with devotion and utmost care, would lead to one attaining the abode of sri visnu.
न देवो विद्यते काष्ठे न पाषाणे न मृन्मये । भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥ १३ ॥
न देवः विद्यते काष्ठे न पाषाणे न मृद्-मये । भावे हि विद्यते देवः तस्मात् भावः हि कारणम् ॥ १३ ॥
na devaḥ vidyate kāṣṭhe na pāṣāṇe na mṛd-maye . bhāve hi vidyate devaḥ tasmāt bhāvaḥ hi kāraṇam .. 13 ..
The Supreme Lord is not present in the wood, stone and metal. Instead, he is present in the thoughts. Only with the purity in the thoughts will one be able to attain the Supreme Lord.
शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम् । अपत्यं च कलत्रं च सतां सङ्गतिरेव च ॥ १४ ॥
शान्ति-तुल्यम् तपः ना अस्ति न सन्तोषात् परम् सुखम् । अपत्यम् च कलत्रम् च सताम् सङ्गतिः एव च ॥ १४ ॥
śānti-tulyam tapaḥ nā asti na santoṣāt param sukham . apatyam ca kalatram ca satām saṅgatiḥ eva ca .. 14 ..
There is no austerity equal to a balanced mind, and there is no happiness equal to contentment; there is no disease like covetousness, and no virtue like mercy.
गुणो भूषयते रूपं शीलं भूषयते कुलम् । प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥ १५ ॥
गुणः भूषयते रूपम् शीलम् भूषयते कुलम् । प्रासाद-शिखर-स्थः अपि काकः किम् गरुडायते ॥ १५ ॥
guṇaḥ bhūṣayate rūpam śīlam bhūṣayate kulam . prāsāda-śikhara-sthaḥ api kākaḥ kim garuḍāyate .. 15 ..
Moral excellence is an ornament for personal beauty; righteous conduct, for high birth; success for learning; and proper spending for wealth.
निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम् । असिद्धस्य हता विद्या ह्यभोगेन हतं धनम् ॥ १६ ॥
निर्गुणस्य हतम् रूपम् दुःशीलस्य हतम् कुलम् । असिद्धस्य हता विद्या हि अभोगेन हतम् धनम् ॥ १६ ॥
nirguṇasya hatam rūpam duḥśīlasya hatam kulam . asiddhasya hatā vidyā hi abhogena hatam dhanam .. 16 ..
Beauty is spoiled by an immoral nature; noble birth by bad conduct; learning, without being perfected; and wealth by not being properly utilised.
शुद्धं भूमिगतं तोयं शुद्धा नारी पतिव्रता । शुचिः क्षेमकरो राजा सन्तोषो ब्राह्मणः शुचिः ॥ १७ ॥
शुद्धम् भूमि-गतम् तोयम् शुद्धा नारी पतिव्रता । शुचिः क्षेम-करः राजा सन्तोषः ब्राह्मणः शुचिः ॥ १७ ॥
śuddham bhūmi-gatam toyam śuddhā nārī pativratā . śuciḥ kṣema-karaḥ rājā santoṣaḥ brāhmaṇaḥ śuciḥ .. 17 ..
Water seeping into the earth is pure; and a devoted wife is pure; the king who is the benefactor of his people is pure; and pure is the brahmana who is contented.
असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्च महीभृतः । सलज्जा गणिका नष्टा निर्लज्जाश्च कुलाङ्गना ॥ १८ ॥
अ सन्तुष्टाः द्विजाः नष्टाः सन्तुष्टाः च महीभृतः । स लज्जा गणिका नष्टा निर्लज्जाः च कुल-अङ्गना ॥ १८ ॥
a santuṣṭāḥ dvijāḥ naṣṭāḥ santuṣṭāḥ ca mahībhṛtaḥ . sa lajjā gaṇikā naṣṭā nirlajjāḥ ca kula-aṅganā .. 18 ..
Discontented brahmanas, contented kings, shy prostitutes, and immodest housewives are ruined.
किं कुलेन विशालेन विद्याहीनेन देहिनाम् । दुष्कुलं चापि विदुषो देवैरपि स पूज्यते ॥ १९ ॥
किम् कुलेन विशालेन विद्या-हीनेन देहिनाम् । दुष्कुलम् च अपि विदुषः देवैः अपि स पूज्यते ॥ १९ ॥
kim kulena viśālena vidyā-hīnena dehinām . duṣkulam ca api viduṣaḥ devaiḥ api sa pūjyate .. 19 ..
Of what avail is a high birth if a person is destitute of scholarship? A man who is of low extraction is honoured even by the demigods if he is learned.
विद्वान्प्रशस्यते लोके विद्वान् सर्वत्र पूज्यते । विद्यया लभते सर्वं विद्या सर्वत्र पूज्यते ॥ २०
विद्वान् प्रशस्यते लोके विद्वान् सर्वत्र पूज्यते । विद्यया लभते सर्वम् विद्या सर्वत्र पूज्यते ॥ २०
vidvān praśasyate loke vidvān sarvatra pūjyate . vidyayā labhate sarvam vidyā sarvatra pūjyate .. 20
A learned man is honoured by the people. A learned man commands respect everywhere for his learning. Indeed, learning is honoured everywhere.
मांसभक्ष्यैः सुरापानैर्मुखैश्चाक्षरवर्जितैः । पशुभिः पुरुषाकारैर्भाराक्रान्ता हि मेदिनी ॥ २१ ॥
मांस-भक्ष्यैः सुरा-पानैः मुखैः च अक्षर-वर्जितैः । पशुभिः पुरुष-आकारैः भार-आक्रान्ता हि मेदिनी ॥ २१ ॥
māṃsa-bhakṣyaiḥ surā-pānaiḥ mukhaiḥ ca akṣara-varjitaiḥ . paśubhiḥ puruṣa-ākāraiḥ bhāra-ākrāntā hi medinī .. 21 ..
The earth is encumbered with the weight of the flesh-eaters, wine- bibblers, dolts and blockheads, who are beasts in the form of men.
अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनश्च ऋत्विजः । यजमानं दानहीनो नास्ति यज्ञसमो रिपुः ॥ २२ ॥
अन्न-हीनः दहेत् राष्ट्रम् मन्त्र-हीनः च ऋत्विजः । यजमानम् दान-हीनः न अस्ति यज्ञ-समः रिपुः ॥ २२ ॥
anna-hīnaḥ dahet rāṣṭram mantra-hīnaḥ ca ṛtvijaḥ . yajamānam dāna-hīnaḥ na asti yajña-samaḥ ripuḥ .. 22 ..
There is no enemy like a yajna which consumes the kingdom when not attended by feeding on a large scale; consumes the priest when the chanting is not done properly; and consumes the yajaman when the gifts are not made.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In