| |
|

This overlay will guide you through the buttons:

दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता । अभ्यासेन न लभ्यन्ते चत्वारः सहजा गुणाः ॥ ०१ ॥
दातृ-त्वम् प्रिय-वक्तृ-त्वम् धीर-त्वम् उचित-ज्ञ-ता । अभ्यासेन न लभ्यन्ते चत्वारः सहजाः गुणाः ॥ ०१ ॥
dātṛ-tvam priya-vaktṛ-tvam dhīra-tvam ucita-jña-tā . abhyāsena na labhyante catvāraḥ sahajāḥ guṇāḥ .. 01 ..
Generosity, pleasing address, courage and propriety of conduct are not acquired, but are inbred qualities.
आत्मवर्गं परित्यज्य परवर्गं समाश्रयेत् । स्वयमेव लयं याति यथा राजान्यधर्मतः ॥ ०२ ॥
आत्म-वर्गम् परित्यज्य पर-वर्गम् समाश्रयेत् । स्वयम् एव लयम् याति यथा राजा अन्य-धर्मतः ॥ ०२ ॥
ātma-vargam parityajya para-vargam samāśrayet . svayam eva layam yāti yathā rājā anya-dharmataḥ .. 02 ..
He who forsakes his own community and joins another perishes as the king who embraces an unrighteous path.
हस्ती स्थूलतनुः स चाङ्कुशवशः किं हस्तिमात्रोऽङ्कुशो दीपे प्रज्वलिते प्रणश्यति तमः किं दीपमात्रं तमः । वज्रेणापि हताः पतन्ति गिरयः किं वज्रमात्रं नगा- स्तेजो यस्य विराजते स बलवान्स्थूलेषु कः प्रत्ययः ॥ ०३ ॥
हस्ती स्थूल-तनुः स च अङ्कुश-वशः किम् दीपे प्रज्वलिते प्रणश्यति तमः किम् दीप-मात्रम् तमः । वज्रेण अपि हताः पतन्ति गिरयः किम् वज्र-मात्रम् स् तेजः यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः ॥ ०३ ॥
hastī sthūla-tanuḥ sa ca aṅkuśa-vaśaḥ kim dīpe prajvalite praṇaśyati tamaḥ kim dīpa-mātram tamaḥ . vajreṇa api hatāḥ patanti girayaḥ kim vajra-mātram s tejaḥ yasya virājate sa balavān sthūleṣu kaḥ pratyayaḥ .. 03 ..
The elephant has a huge body but is controlled by the ankusha (goad): yet, is the goad as large as the elephant? A lighted candle banishes darkness: is the candle as vast as the darkness. A mountain is broken even by a thunderbolt: is the thunderbolt therefore as big as the mountain? No, he whose power prevails is really mighty; what is there in bulk?
कलौ दशसहस्राणि हरिस्त्यजति मेदिनीम् । तदर्धं जाह्नवीतोयं तदर्धं ग्रामदेवताः ॥ ०४ ॥
कलौ दश-सहस्राणि हरिः त्यजति मेदिनीम् । तद्-अर्धम् जाह्नवी-तोयम् तद्-अर्धम् ग्राम-देवताः ॥ ०४ ॥
kalau daśa-sahasrāṇi hariḥ tyajati medinīm . tad-ardham jāhnavī-toyam tad-ardham grāma-devatāḥ .. 04 ..
In the kaliyuga, after 1०,००० years hari (visnu) will leave this earth. Water from the Ganga river leaves after 5००० years. After 2००० years, the village deity will also leave.
गृहासक्तस्य नो विद्या नो दया मांसभोजिनः । द्रव्यलुब्धस्य नो सत्यं स्त्रैणस्य न पवित्रता ॥ ०५ ॥
गृह-आसक्तस्य नः विद्या नः दया मांस-भोजिनः । द्रव्य-लुब्धस्य नो सत्यम् स्त्रैणस्य न पवित्र-ता ॥ ०५ ॥
gṛha-āsaktasya naḥ vidyā naḥ dayā māṃsa-bhojinaḥ . dravya-lubdhasya no satyam straiṇasya na pavitra-tā .. 05 ..
He who is engrossed in family life will never acquire knowledge; there can be no mercy in the eater of flesh; the greedy man will not be truthful; and purity will not be found in a woman and a hunter.
न दुर्जनः साधुदशामुपैति बहुप्रकारैरपि शिक्ष्यमाणः । आमूलसिक्तः पयसा घृतेन न निम्बवृक्षो मधुरत्वमेति ॥ ०६ ॥
न दुर्जनः साधु-दशाम् उपैति बहु-प्रकारैः अपि शिक्ष्यमाणः । आ मूल-सिक्तः पयसा घृतेन न निम्ब-वृक्षः मधुर-त्वम् एति ॥ ०६ ॥
na durjanaḥ sādhu-daśām upaiti bahu-prakāraiḥ api śikṣyamāṇaḥ . ā mūla-siktaḥ payasā ghṛtena na nimba-vṛkṣaḥ madhura-tvam eti .. 06 ..
The wicked man will not attain sanctity even if he is instructed in different ways, and the nim tree will not become sweet even if it is sprinkled from the top to the roots with milk and ghee.
अन्तर्गतमलो दुष्टस्तीर्थस्नानशतैरपि । न शुध्यति यथा भाण्डं सुराया दाहितं च सत् ॥ ०७ ॥
अन्तर्गत-मलः दुष्टः तीर्थ-स्नान-शतैः अपि । न शुध्यति यथा भाण्डम् सुरायाः दाहितम् च सत् ॥ ०७ ॥
antargata-malaḥ duṣṭaḥ tīrtha-snāna-śataiḥ api . na śudhyati yathā bhāṇḍam surāyāḥ dāhitam ca sat .. 07 ..
Mental dirt cannot be washed away even by one-hundred baths in the sacred waters, just as a wine pot cannot be purified even by evaporating all the wine by fire.
न वेत्ति यो यस्य गुणप्रकर्षं स तं सदा निन्दति नात्र चित्रम् । यथा किराती करिकुम्भलब्धां मुक्तां परित्यज्य बिभर्ति गुञ्जाम् ॥ ०८ ॥
न वेत्ति यः यस्य गुण-प्रकर्षम् स तम् सदा निन्दति न अत्र चित्रम् । यथा किराती करि-कुम्भ-लब्धाम् मुक्ताम् परित्यज्य बिभर्ति गुञ्जाम् ॥ ०८ ॥
na vetti yaḥ yasya guṇa-prakarṣam sa tam sadā nindati na atra citram . yathā kirātī kari-kumbha-labdhām muktām parityajya bibharti guñjām .. 08 ..
It is not strange if a man reviles (Degrades) a thing of which he has no knowledge, just as a wild hunter's wife throws away the pearl that is found in the head of an elephant, and picks up a gunj
ये तु संवत्सरं पूर्णं नित्यं मौनेन भुञ्जते । युगकोटिसहस्रं तैः स्वर्गलोके महीयते ॥ ०९ ॥
ये तु संवत्सरम् पूर्णम् नित्यम् मौनेन भुञ्जते । युग-कोटि-सहस्रम् तैः स्वर्ग-लोके महीयते ॥ ०९ ॥
ye tu saṃvatsaram pūrṇam nityam maunena bhuñjate . yuga-koṭi-sahasram taiḥ svarga-loke mahīyate .. 09 ..
He who for one year eats his meals silently (inwardly meditating upon the Lord's prasadam); attains to the heavenly planets for a thousand crore of years.
कामक्रोधौ तथा लोभं स्वादुशऋङ्गारकौतुके । अतिनिद्रातिसेवे च विद्यार्थी ह्यष्ट वर्जयेत् ॥ १० ॥
काम-क्रोधौ तथा लोभम् । अतिनिद्रा-अतिसेवे च विद्या-अर्थी हि अष्ट वर्जयेत् ॥ १० ॥
kāma-krodhau tathā lobham . atinidrā-atiseve ca vidyā-arthī hi aṣṭa varjayet .. 10 ..
The student (brahmachari) should completely renounce the following eight things -- his lust, anger, greed, desire for sweets, sense of decorating the body, excessive curiosity, excessive sleep, and excessive endeavour for bodily maintenance.
अकृष्टफलमूलेन वनवासरतः सदा । कुरुतेऽहरहः श्राद्धमृषिर्विप्रः स उच्यते ॥ ११ ॥
अ कृष्ट-फल-मूलेन वन-वास-रतः सदा । कुरुते अहरहर् श्राद्धम् ऋषिः विप्रः सः उच्यते ॥ ११ ॥
a kṛṣṭa-phala-mūlena vana-vāsa-rataḥ sadā . kurute aharahar śrāddham ṛṣiḥ vipraḥ saḥ ucyate .. 11 ..
The brahmana who eats roots from the earth without effort, who always lives in the forrest, one who always performs his duties with care sraddha is referred to as rsi or sage.
एकाहारेण सन्तुष्टः षट्कर्मनिरतः सदा । ऋतुकालाभिगामी च स विप्रो द्विज उच्यते ॥ १२ ॥
एकाहारेण सन्तुष्टः षट्कर्म-निरतः सदा । ऋतु-काल-अभिगामी च स विप्रः द्विजः उच्यते ॥ १२ ॥
ekāhāreṇa santuṣṭaḥ ṣaṭkarma-nirataḥ sadā . ṛtu-kāla-abhigāmī ca sa vipraḥ dvijaḥ ucyate .. 12 ..
He alone is a true brahmana who is satisfied with one meal a day, who has the six samskaras performed for him, and who cohabits with his wife only once in a month on an auspicious day after her menses.
लौकिके कर्मणि रतः पशूनां परिपालकः । वाणिज्यकृषिकर्मा यः स विप्रो वैश्य उच्यते ॥ १३ ॥
लौकिके कर्मणि रतः पशूनाम् परिपालकः । वाणिज्य-कृषि-कर्मा यः स विप्रः वैश्यः उच्यते ॥ १३ ॥
laukike karmaṇi rataḥ paśūnām paripālakaḥ . vāṇijya-kṛṣi-karmā yaḥ sa vipraḥ vaiśyaḥ ucyate .. 13 ..
The brahmana who is engrossed in worldly affairs, brings up cows and is engaged in trade is really called a vaisya
लाक्षादितैलनीलीनां कौसुम्भमधुसर्पिषाम् । विक्रेता मद्यमांसानां स विप्रः शूद्र उच्यते ॥ १४ ॥
लाक्षा-आदि-तैल-नीलीनाम् कौसुम्भ-मधु-सर्पिषाम् । विक्रेता मद्य-मांसानाम् स विप्रः शूद्रः उच्यते ॥ १४ ॥
lākṣā-ādi-taila-nīlīnām kausumbha-madhu-sarpiṣām . vikretā madya-māṃsānām sa vipraḥ śūdraḥ ucyate .. 14 ..
The brahmana who deals in lac-die, articles, oil, indigo, silken cloth, honey, clarified butter, liquor, and flesh is called a sūdra
परकार्यविहन्ता च दाम्भिकः स्वार्थसाधकः । छली द्वेषी मृदुः क्रूरो विप्रो मार्जार उच्यते ॥ १५ ॥
पर-कार्य-विहन्ता च दाम्भिकः स्व-अर्थ-साधकः । छली द्वेषी मृदुः क्रूरः विप्रः मार्जारः उच्यते ॥ १५ ॥
para-kārya-vihantā ca dāmbhikaḥ sva-artha-sādhakaḥ . chalī dveṣī mṛduḥ krūraḥ vipraḥ mārjāraḥ ucyate .. 15 ..
The brahmana who thwarts the doings of others, who is hypocritical, selfish, and a deceitful hater, and while speaking mildly cherishes cruelty in his heart, is called a marjara
वापीकूपतडागानामारामसुरवेश्मनाम् । उच्छेदने निराशङ्कः स विप्रो म्लेच्छ उच्यते ॥ १६ ॥
वापी-कूप-तडागानाम् आराम-सुर-वेश्मनाम् । उच्छेदने निराशङ्कः स विप्रः म्लेच्छः उच्यते ॥ १६ ॥
vāpī-kūpa-taḍāgānām ārāma-sura-veśmanām . ucchedane nirāśaṅkaḥ sa vipraḥ mlecchaḥ ucyate .. 16 ..
The brahmana who destroys a pond, a well, a tank, a garden and a temple is called a mlechCha
देवद्रव्यं गुरुद्रव्यं परदाराभिमर्शनम् । निर्वाहः सर्वभूतेषु विप्रश्चाण्डाल उच्यते ॥ १७ ॥
देव-द्रव्यम् गुरु-द्रव्यम् पर-दार-अभिमर्शनम् । निर्वाहः सर्व-भूतेषु विप्रः चाण्डालः उच्यते ॥ १७ ॥
deva-dravyam guru-dravyam para-dāra-abhimarśanam . nirvāhaḥ sarva-bhūteṣu vipraḥ cāṇḍālaḥ ucyate .. 17 ..
The brahmana who steals the property of the Deities and the spiritual preceptor, who cohabits with another's wife, and who maintains himself by eating anything and everything s called a chandala
देयं भोज्यधनं धनं सुकृतिभिर्नो सञ्चयस्तस्य वै श्रीकर्णस्य बलेश्च विक्रमपतेरद्यापि कीर्तिः स्थिता । अस्माकं मधुदानभोगरहितं नाथं चिरात्सञ्चितं निर्वाणादिति नैजपादयुगलं धर्षन्त्यहो मक्षिकाः ॥ १८ ॥
देयम् भोज्य-धनम् धनम् सुकृतिभिः नो सञ्चयः तस्य वै श्रीकर्णस्य बलेः च विक्रम-पतेः अद्या अपि कीर्तिः स्थिता । अस्माकम् मधु-दान-भोग-रहितम् नाथम् चिरात् सञ्चितम् निर्वाणात् इति नैज-पाद-युगलम् धर्षन्ति अहो मक्षिकाः ॥ १८ ॥
deyam bhojya-dhanam dhanam sukṛtibhiḥ no sañcayaḥ tasya vai śrīkarṇasya baleḥ ca vikrama-pateḥ adyā api kīrtiḥ sthitā . asmākam madhu-dāna-bhoga-rahitam nātham cirāt sañcitam nirvāṇāt iti naija-pāda-yugalam dharṣanti aho makṣikāḥ .. 18 ..
The meritorious should give away in charity all that they have in excess of their needs. By charity only Karna, Bali and King Vikramaditya survive even today. Just see the plight of the honeybees beating their legs in despair upon the earth. They are saying to themselves, "Alas! We neither enjoyed our stored-up honey nor gave it in charity, and now someone has taken it from us in an instant."

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In