| |
|

This overlay will guide you through the buttons:

गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥ ०१ ॥
गुरुः अग्निः द्विजातीनाम् वर्णानाम् ब्राह्मणः गुरुः । पतिः एव गुरुः स्त्रीणाम् सर्वस्य अभ्यागतः गुरुः ॥ ०१ ॥
guruḥ agniḥ dvijātīnām varṇānām brāhmaṇaḥ guruḥ . patiḥ eva guruḥ strīṇām sarvasya abhyāgataḥ guruḥ .. 01 ..
Agni is the worshipable person for the twice-born; the brahmana for the other castes; the husband for the wife; and the guest who comes for food at the midday meal for all.
यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः । तथा चतुर्भिः पुरुषः परीक्ष्यते त्यागेन शीलेन गुणेन कर्मणा ॥ ०२ ॥
यथा चतुर्भिः कनकम् परीक्ष्यते निघर्षण-छेदन-ताप-ताडनैः । तथा चतुर्भिः पुरुषः परीक्ष्यते त्यागेन शीलेन गुणेन कर्मणा ॥ ०२ ॥
yathā caturbhiḥ kanakam parīkṣyate nigharṣaṇa-chedana-tāpa-tāḍanaiḥ . tathā caturbhiḥ puruṣaḥ parīkṣyate tyāgena śīlena guṇena karmaṇā .. 02 ..
As gold is tested in four ways by rubbing, cutting, heating and beating - - so a man should be tested by these four things: his renunciation, his conduct, his qualities and his actions.
तावद्भयेषु भेतव्यं यावद्भयमनागतम् । आगतं तु भयं वीक्ष्य प्रहर्तव्यमशङ्कया ॥ ०३ ॥
तावत् भयेषु भेतव्यम् यावत् भयम् अनागतम् । आगतम् तु भयम् वीक्ष्य प्रहर्तव्यम् अशङ्कया ॥ ०३ ॥
tāvat bhayeṣu bhetavyam yāvat bhayam anāgatam . āgatam tu bhayam vīkṣya prahartavyam aśaṅkayā .. 03 ..
A thing may be dreaded as long as it has not overtaken you, but once it has come upon you, try to get rid of it without hesitation.
एकोदरसमुद्भूता एकनक्षत्रजातकाः । न भवन्ति समाः शीले यथा बदरकण्टकाः ॥ ०४ ॥
एक-उदर-समुद्भूताः एक-नक्षत्र-जातकाः । न भवन्ति समाः शीले यथा बदर-कण्टकाः ॥ ०४ ॥
eka-udara-samudbhūtāḥ eka-nakṣatra-jātakāḥ . na bhavanti samāḥ śīle yathā badara-kaṇṭakāḥ .. 04 ..
Though persons be born from the same womb and under the same stars, they do not become alike in disposition as the thousand fruits of the badari tree.
निःस्पृहो नाधिकारी स्यान् नाकामो मण्डनप्रियः । नाविदग्धः प्रियं ब्रूयात्स्पष्टवक्ता न वञ्चकः ॥ ०५ ॥
निःस्पृहः न अधिकारी स्यात् न अकामः मण्डन-प्रियः । न अविदग्धः प्रियम् ब्रूयात् स्पष्ट-वक्ता न वञ्चकः ॥ ०५ ॥
niḥspṛhaḥ na adhikārī syāt na akāmaḥ maṇḍana-priyaḥ . na avidagdhaḥ priyam brūyāt spaṣṭa-vaktā na vañcakaḥ .. 05 ..
He whose hands are clean does not like to hold an office; he who desires nothing cares not for bodily decorations; he who is only partially educated cannot speak agreeably; and he who speaks out plainly cannot be a deceiver.
मूर्खाणां पण्डिता द्वेष्या अधनानां महाधनाः । पराङ्गना कुलस्त्रीणां सुभगानां च दुर्भगाः ॥ ०६ ॥
मूर्खाणाम् पण्डिताः द्वेष्याः अधनानाम् महाधनाः । पर-अङ्गना कुल-स्त्रीणाम् सुभगानाम् च दुर्भगाः ॥ ०६ ॥
mūrkhāṇām paṇḍitāḥ dveṣyāḥ adhanānām mahādhanāḥ . para-aṅganā kula-strīṇām subhagānām ca durbhagāḥ .. 06 ..
The learned are envied by the foolish; rich men by the poor; chaste women by adulteresses; and beautiful ladies by ugly ones.
आलस्योपगता विद्या परहस्तगतं धनम् । अल्पबीजं हतं क्षेत्रं हतं सैन्यमनायकम् ॥ ०७ ॥
आलस्य-उपगता विद्या पर-हस्त-गतम् धनम् । अल्प-बीजम् हतम् क्षेत्रम् हतम् सैन्यम् अनायकम् ॥ ०७ ॥
ālasya-upagatā vidyā para-hasta-gatam dhanam . alpa-bījam hatam kṣetram hatam sainyam anāyakam .. 07 ..
Indolent application ruins study; money is lost when entrusted to others; a farmer who sows his seed sparsely is ruined; and an army is lost for want of a commander.
अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते । गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते ॥ ०८ ॥
अभ्यासात् धार्यते विद्या कुलम् शीलेन धार्यते । गुणेन ज्ञायते तु आर्यः कोपः नेत्रेण गम्यते ॥ ०८ ॥
abhyāsāt dhāryate vidyā kulam śīlena dhāryate . guṇena jñāyate tu āryaḥ kopaḥ netreṇa gamyate .. 08 ..
Learning is retained through putting into practice; family prestige is maintained through good behaviour; a respectable person is recognised by his excellent qualities; and anger is seen in the eyes.
वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । मृदुना रक्ष्यते भूपः सत्स्त्रिया रक्ष्यते गृहम् ॥ ०९ ॥
वित्तेन रक्ष्यते धर्मः विद्या योगेन रक्ष्यते । मृदुना रक्ष्यते भूपः सत्-स्त्रिया रक्ष्यते गृहम् ॥ ०९ ॥
vittena rakṣyate dharmaḥ vidyā yogena rakṣyate . mṛdunā rakṣyate bhūpaḥ sat-striyā rakṣyate gṛham .. 09 ..
Religion is preserved by wealth; knowledge by diligent practice; a king by conciliatory words; and a home by a dutiful housewife.
अन्यथा वेदशास्त्राणि ज्ञानपाण्डित्यमन्यथा । अन्यथा तत्पदं शान्तं लोकाः क्लिश्यन्ति चाह्न्यथा ॥ १० ॥
अन्यथा वेद-शास्त्राणि ज्ञान-पाण्डित्यम् अन्यथा । अन्यथा तत् पदम् शान्तम् लोकाः क्लिश्यन्ति च अह्नि अथा ॥ १० ॥
anyathā veda-śāstrāṇi jñāna-pāṇḍityam anyathā . anyathā tat padam śāntam lokāḥ kliśyanti ca ahni athā .. 10 ..
Those who blaspheme Vedic wisdom, who ridicule the life style recommended in the satras, and who deride men of peaceful temperament, come to grief unnecessarily.
दारिद्र्यनाशनं दानं शीलं दुर्गतिनाशनम् । अज्ञाननाशिनी प्रज्ञा भावना भयनाशिनी ॥ ११ ॥
दारिद्र्य-नाशनम् दानम् शीलम् दुर्गति-नाशनम् । अज्ञान-नाशिनी प्रज्ञा भावना भय-नाशिनी ॥ ११ ॥
dāridrya-nāśanam dānam śīlam durgati-nāśanam . ajñāna-nāśinī prajñā bhāvanā bhaya-nāśinī .. 11 ..
Charity puts an end to poverty; righteous conduct to misery; discretion to ignorance; and scrutiny to fear.
नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः । नास्ति कोपसमो वह्निर्नास्ति ज्ञानात्परं सुखम् ॥ १२ ॥
ना अस्ति काम-समः व्याधिः ना अस्ति मोह-समः रिपुः । ना अस्ति कोप-समः वह्निः ना अस्ति ज्ञानात् परम् सुखम् ॥ १२ ॥
nā asti kāma-samaḥ vyādhiḥ nā asti moha-samaḥ ripuḥ . nā asti kopa-samaḥ vahniḥ nā asti jñānāt param sukham .. 12 ..
There is no disease as destructive as lust; no enemy like infatuation; no fire like wrath; and no happiness like spiritual knowledge.
जन्ममृत्यू हि यात्येको भुनक्त्येकः शुभाशुभम् । नरकेषु पतत्येक एको याति परां गतिम् ॥ १३ ॥
जन्म-मृत्यू हि याति एकः भुनक्ति एकः शुभ-अशुभम् । नरकेषु पतति एकः एकः याति पराम् गतिम् ॥ १३ ॥
janma-mṛtyū hi yāti ekaḥ bhunakti ekaḥ śubha-aśubham . narakeṣu patati ekaḥ ekaḥ yāti parām gatim .. 13 ..
A man is born alone and dies alone; and he experiences the good and bad consequences of his karma alone; and he goes alone to hell or the Supreme abode
तृणं ब्रह्मविदः स्वर्गस्तृणं शूरस्य जीवितम् । जिताशस्य तृणं नारी निःस्पृहस्य तृणं जगत् ॥ १४ ॥
तृणम् ब्रह्म-विदः स्वर्गः तृणम् शूरस्य जीवितम् । जित-आशस्य तृणम् नारी निःस्पृहस्य तृणम् जगत् ॥ १४ ॥
tṛṇam brahma-vidaḥ svargaḥ tṛṇam śūrasya jīvitam . jita-āśasya tṛṇam nārī niḥspṛhasya tṛṇam jagat .. 14 ..
Heaven is but a straw to him who knows spiritual life; so is life to a valiant man; a woman to him who has subdued his senses; and the universe to him who is without attachment for the world.
विद्या मित्रं प्रवासे च भार्या मित्रं गृहेषु च । व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥ १५ ॥
विद्या मित्रम् प्रवासे च भार्या मित्रम् गृहेषु च । व्याधितस्य औषधम् मित्रम् धर्मः मित्रम् मृतस्य च ॥ १५ ॥
vidyā mitram pravāse ca bhāryā mitram gṛheṣu ca . vyādhitasya auṣadham mitram dharmaḥ mitram mṛtasya ca .. 15 ..
Learning is a friend on the journey; a wife in the house; medicine in sickness; and righteous action is the only friend after death.
वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम् । वृथा दानं समर्थस्य वृथा दीपो दिवापि च ॥ १६ ॥
वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम् । वृथा दानम् समर्थस्य वृथा दीपः दिवा अपि च ॥ १६ ॥
vṛthā vṛṣṭiḥ samudreṣu vṛthā tṛptasya bhojanam . vṛthā dānam samarthasya vṛthā dīpaḥ divā api ca .. 16 ..
Rain which falls upon the sea is useless; so is food for one who is satiated; in vain is a gift for one who is wealthy; and a burning lamp during the daytime is useless.
नास्ति मेघसमं तोयं नास्ति चात्मसमं बलम् । नास्ति चक्षुःसमं तेजो नास्ति धान्यसमं प्रियम् ॥ १७ ॥
न अस्ति मेघ-समम् तोयम् न अस्ति च आत्म-समम् बलम् । न अस्ति चक्षुः-समम् तेजः न अस्ति धान्य-समम् प्रियम् ॥ १७ ॥
na asti megha-samam toyam na asti ca ātma-samam balam . na asti cakṣuḥ-samam tejaḥ na asti dhānya-samam priyam .. 17 ..
There is no water like rainwater; no strength like one's own; no light like that of the eyes; and no wealth more dear than food grain.
अधना धनमिच्छन्ति वाचं चैव चतुष्पदाः । मानवाः स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवताः ॥ १८ ॥
अधनाः धनम् इच्छन्ति वाचम् च एव चतुष्पदाः । मानवाः स्वर्गम् इच्छन्ति मोक्षम् इच्छन्ति देवताः ॥ १८ ॥
adhanāḥ dhanam icchanti vācam ca eva catuṣpadāḥ . mānavāḥ svargam icchanti mokṣam icchanti devatāḥ .. 18 ..
The poor wish for wealth; animals for the faculty of speech; men wish for heaven; and godly persons for liberation.
सत्येन धार्यते पृथ्वी सत्येन तपते रविः । सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥ १९ ॥
सत्येन धार्यते पृथ्वी सत्येन तपते रविः । सत्येन वाति वायुः च सर्वम् सत्ये प्रतिष्ठितम् ॥ १९ ॥
satyena dhāryate pṛthvī satyena tapate raviḥ . satyena vāti vāyuḥ ca sarvam satye pratiṣṭhitam .. 19 ..
The earth is supported by the power of truth; it is the power of truth that makes the sun shine and the winds blow; indeed all things rest upon truth.
चला लक्ष्मीश्चलाः प्राणाश्चले जीवितमन्दिरे । चलाचले च संसारे धर्म एको हि निश्चलः ॥ २० ॥
चला लक्ष्मीः चलाः प्राणाः चले जीवित-मन्दिरे । चल-अचले च संसारे धर्मः एकः हि निश्चलः ॥ २० ॥
calā lakṣmīḥ calāḥ prāṇāḥ cale jīvita-mandire . cala-acale ca saṃsāre dharmaḥ ekaḥ hi niścalaḥ .. 20 ..
The wealth is unsteady and it is bound to leave at sometime, and so is the breath of this life. The duration of life is uncertain, and the place of habitation is uncertain; but in all this inconsistent world, the righteous action alone is immovable.
नराणां नापितो धूर्तः पक्षिणां चैव वायसः । चतुष्पादं शऋगालस्तु स्त्रीणां धूर्ता च मालिनी ॥ २१ ॥
नराणाम् नापितः धूर्तः पक्षिणाम् च एव वायसः । चतुष्पादम् शऋगालः तु स्त्रीणाम् धूर्ता च मालिनी ॥ २१ ॥
narāṇām nāpitaḥ dhūrtaḥ pakṣiṇām ca eva vāyasaḥ . catuṣpādam śaṛgālaḥ tu strīṇām dhūrtā ca mālinī .. 21 ..
Among men the barber is cunning; among birds, it is the crow; among beasts, it is the jackal; and among women, it is the flower girl.
जनिता चोपनेता च यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ॥ २२ ॥
जनिता च उपनेता च यः तु विद्याम् प्रयच्छति । अन्न-दाता भय-त्राता पञ्चा एते पितरः स्मृताः ॥ २२ ॥
janitā ca upanetā ca yaḥ tu vidyām prayacchati . anna-dātā bhaya-trātā pañcā ete pitaraḥ smṛtāḥ .. 22 ..
These five are your fathers; he who gave you birth, girdled you with sacred thread, teaches you, provides you with food, and protects you from fearful situations.
राजपत्नी गुरोः पत्नी मित्रपत्नी तथैव च । पत्नीमाता स्वमाता च पञ्चैता मातरः स्मृताः ॥ २३ ॥
राज-पत्नी गुरोः पत्नी मित्र-पत्नी तथा एव च । पत्नी-माता स्व-माता च पञ्च एताः मातरः स्मृताः ॥ २३ ॥
rāja-patnī guroḥ patnī mitra-patnī tathā eva ca . patnī-mātā sva-mātā ca pañca etāḥ mātaraḥ smṛtāḥ .. 23 ..
These five should be considered as mothers; the king's wife, the preceptor's wife, the friend's wife, your wife's mother, and your own mother.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In