| |
|

This overlay will guide you through the buttons:

प्रणम्य शिरसा विष्णुं त्रैलोक्याधिपतिं प्रभुम् । नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्चयम् ॥ ०१ ॥
प्रणम्य शिरसा विष्णुम् त्रैलोक्य-अधिपतिम् प्रभुम् । नाना शास्त्र-उद्धृतम् वक्ष्ये राज-नीति-समुच्चयम् ॥ ०१ ॥
praṇamya śirasā viṣṇum trailokya-adhipatim prabhum . nānā śāstra-uddhṛtam vakṣye rāja-nīti-samuccayam .. 01 ..
Humbly bowing down before the almighty Lord Sri Vishnu, the Lord of the three worlds, I recite maxims of the science of political ethics (niti) selected from the various shastras.
अधीत्येदं यथाशास्त्रं नरो जानाति सत्तमः । धर्मोपदेशविख्यातं कार्याकार्यं शुभाशुभम् ॥ ०२ ॥
अधीत्य इदम् यथाशास्त्रम् नरः जानाति सत्तमः । धर्म-उपदेश-विख्यातम् कार्य-अकार्यम् शुभ-अशुभम् ॥ ०२ ॥
adhītya idam yathāśāstram naraḥ jānāti sattamaḥ . dharma-upadeśa-vikhyātam kārya-akāryam śubha-aśubham .. 02 ..
That man who by the study of these maxims from the satras acquires a knowledge of the most celebrated principles of duty, and understands what ought and what ought not to be followed, and what is good and what is bad, is most excellent.
तदहं सम्प्रवक्ष्यामि लोकानां हितकाम्यया । येन विज्ञातमात्रेण सर्वज्ञात्वं प्रपद्यते ॥ ०३ ॥
तत् अहम् सम्प्रवक्ष्यामि लोकानाम् हित-काम्यया । येन विज्ञात-मात्रेण सर्वज्ञा-त्वम् प्रपद्यते ॥ ०३ ॥
tat aham sampravakṣyāmi lokānām hita-kāmyayā . yena vijñāta-mātreṇa sarvajñā-tvam prapadyate .. 03 ..
Therefore with an eye to the public good, I shall speak that which, when understood, will lead to an understanding of things in their proper perspective.
मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेन च । दुःखितैः सम्प्रयोगेण पण्डितोऽप्यवसीदति ॥ ०४ ॥
मूर्ख-शिष्य-उपदेशेन दुष्ट-स्त्री-भरणेन च । दुःखितैः सम्प्रयोगेण पण्डितः अपि अवसीदति ॥ ०४ ॥
mūrkha-śiṣya-upadeśena duṣṭa-strī-bharaṇena ca . duḥkhitaiḥ samprayogeṇa paṇḍitaḥ api avasīdati .. 04 ..
Even a pandit or a learned person comes to grief by giving instruction to a foolish disciple, by maintaining a wicked wife, and by excessive familiarity with the miserable.
दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः । ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥ ०५ ॥
दुष्टा भार्या शठम् मित्रम् भृत्यः च उत्तर-दायकः । स सर्पे च गृहे वासः मृत्युः एव न संशयः ॥ ०५ ॥
duṣṭā bhāryā śaṭham mitram bhṛtyaḥ ca uttara-dāyakaḥ . sa sarpe ca gṛhe vāsaḥ mṛtyuḥ eva na saṃśayaḥ .. 05 ..
A wicked wife, a false friend, a saucy servant and living in a house with a serpent in it are nothing but death.
आपदर्थे धनं रक्षेद्दारान् रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ ०६ ॥
आपद्-अर्थे धनम् रक्षेत् दारान् रक्षेत् धनैः अपि । आत्मानम् सततम् रक्षेत् दारैः अपि धनैः अपि ॥ ०६ ॥
āpad-arthe dhanam rakṣet dārān rakṣet dhanaiḥ api . ātmānam satatam rakṣet dāraiḥ api dhanaiḥ api .. 06 ..
One should save his money against hard times, save his wife at the sacrifice of his riches, but invariably one should save his soul even at the sacrifice of his wife and riches.
आपदर्थे धनं रक्षेच्छ्रीमतां कुत आपदः । कदाचिच्चलते लक्ष्मीः सञ्चितोऽपि विनश्यति ॥ ०७ ॥
आपद्-अर्थे धनम् रक्षेत् श्रीमताम् कुतस् आपदः । कदाचिद् चलते लक्ष्मीः सञ्चितः अपि विनश्यति ॥ ०७ ॥
āpad-arthe dhanam rakṣet śrīmatām kutas āpadaḥ . kadācid calate lakṣmīḥ sañcitaḥ api vinaśyati .. 07 ..
Save your wealth against future calamity. Do not say, "What what fear has a rich man of calamity?" When riches begin to forsake one even the accumulated stock dwindles away
यस्मिन्देशे न सम्मानो न वृत्तिर्न च बान्धवाः । न च विद्यागमोऽप्यस्ति वासं तत्र न कारयेत् ॥ ०८ ॥
यस्मिन् देशे न सम्मानः न वृत्तिः न च बान्धवाः । न च विद्या-आगमः अपि अस्ति वासम् तत्र न कारयेत् ॥ ०८ ॥
yasmin deśe na sammānaḥ na vṛttiḥ na ca bāndhavāḥ . na ca vidyā-āgamaḥ api asti vāsam tatra na kārayet .. 08 ..
Do not inhabit a country where you are not respected, cannot earn your livelihood, have no friends, or cannot acquire knowledge.
धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः । पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत् ॥ ०९ ॥
धनिकः श्रोत्रियः राजा नदी वैद्यः तु पञ्चमः । पञ्च यत्र न विद्यन्ते न तत्र दिवसम् वसेत् ॥ ०९ ॥
dhanikaḥ śrotriyaḥ rājā nadī vaidyaḥ tu pañcamaḥ . pañca yatra na vidyante na tatra divasam vaset .. 09 ..
Do not stay for a single day where there are not these five persons: a wealthy man, a brahmana well versed in Vedic lore, a king, a river and a physician.
लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता । पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम् ॥ १० ॥
लोकयात्रा भयम् लज्जा दाक्षिण्यम् त्याग-शील-ता । पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ॥ १० ॥
lokayātrā bhayam lajjā dākṣiṇyam tyāga-śīla-tā . pañca yatra na vidyante na kuryāt tatra saṃsthitim .. 10 ..
Wise men should never go into a country where there are no means of earning one's livelihood, where the people have no dread of anybody, have no sense of shame, no intelligence, or a charitable disposition.
जानीयात्प्रेषणे भृत्यान्बान्धवान् व्यसनागमे । मित्रं चापत्तिकालेषु भार्यां च विभवक्षये ॥ ११ ॥
जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसन-आगमे । मित्रम् च आपत्ति-कालेषु भार्याम् च विभव-क्षये ॥ ११ ॥
jānīyāt preṣaṇe bhṛtyān bāndhavān vyasana-āgame . mitram ca āpatti-kāleṣu bhāryām ca vibhava-kṣaye .. 11 ..
Test a servant while in the discharge of his duty, a relative in difficulty, a friend in adversity, and a wife in misfortune.
आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रुसङ्कटे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ १२ ॥
आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रु-सङ्कटे । राजद्वारे श्मशाने च यः तिष्ठति स बान्धवः ॥ १२ ॥
āture vyasane prāpte durbhikṣe śatru-saṅkaṭe . rājadvāre śmaśāne ca yaḥ tiṣṭhati sa bāndhavaḥ .. 12 ..
He is a true friend who does not forsake us in time of need, misfortune, famine, or war, in a king's court, or at the crematorium (smasana).
यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते । ध्रुवाणि तस्य नश्यन्ति चाध्रुवं नष्टमेव हि ॥ १३ ॥
यः ध्रुवाणि परित्यज्य अध्रुवम् परिषेवते । ध्रुवाणि तस्य नश्यन्ति च अध्रुवम् नष्टम् एव हि ॥ १३ ॥
yaḥ dhruvāṇi parityajya adhruvam pariṣevate . dhruvāṇi tasya naśyanti ca adhruvam naṣṭam eva hi .. 13 ..
He who gives up what is imperishable for that which perishable, loses that which is imperishable; and doubtlessly loses that which is perishable also.
वरयेत्कुलजां प्राज्ञो विरूपामपि कन्यकाम् । रूपशीलां न नीचस्य विवाहः सदृशे कुले ॥ १४ ॥
वरयेत् कुल-जाम् प्राज्ञः विरूपाम् अपि कन्यकाम् । रूप-शीलाम् न नीचस्य विवाहः सदृशे कुले ॥ १४ ॥
varayet kula-jām prājñaḥ virūpām api kanyakām . rūpa-śīlām na nīcasya vivāhaḥ sadṛśe kule .. 14 ..
A wise man should marry a virgin of a respectable family even if she is deformed. He should not marry one of a low-class family, through beauty. Marriage in a family of equal status is preferable.
नदीनां शस्त्रपाणीनान्नखीनां शऋङ्गिणां तथा । विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥ १५ ॥
नदीनाम् शस्त्र-पाणीनाम् नखीनाम् शऋङ्गिणाम् तथा । विश्वासः ना एव कर्तव्यः स्त्रीषु राज-कुलेषु च ॥ १५ ॥
nadīnām śastra-pāṇīnām nakhīnām śaṛṅgiṇām tathā . viśvāsaḥ nā eva kartavyaḥ strīṣu rāja-kuleṣu ca .. 15 ..
Do not put your trust in rivers, men who carry weapons, beasts with claws or horns, women, and members of a royal family.
विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् । अमित्रादपि सद्वृत्तं बालादपि सुभाषितम् ॥ १६ ॥
विषात् अपि अमृतम् ग्राह्यम् अमेध्यात् अपि काञ्चनम् । अमित्रात् अपि सत्-वृत्तम् बालात् अपि सुभाषितम् ॥ १६ ॥
viṣāt api amṛtam grāhyam amedhyāt api kāñcanam . amitrāt api sat-vṛttam bālāt api subhāṣitam .. 16 ..
Even from poison extract nectar, wash and take back gold if it has fallen in filth, receive the highest knowledge (Krsna consciousness) from a low born person; so also a girl possessing virtuous qualities (stri-ratna) even if she be born in a disreputable family.
स्त्रीणां द्विगुण आहारो लज्जा चापि चतुर्गुणा । साहसं षड्गुणं चैव कामश्चाष्टगुणः स्मृतः ॥ १७ ॥
स्त्रीणाम् द्विगुणः आहारः लज्जा च अपि चतुर्गुणा । साहसम् षड्गुणम् च एव कामः च अष्टगुणः स्मृतः ॥ १७ ॥
strīṇām dviguṇaḥ āhāraḥ lajjā ca api caturguṇā . sāhasam ṣaḍguṇam ca eva kāmaḥ ca aṣṭaguṇaḥ smṛtaḥ .. 17 ..
Women have hunger two-fold, shyness four-fold, daring six-fold, and lust eight-fold as compared to men.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In