| |
|

This overlay will guide you through the buttons:

अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ ०१ ॥
अर्थ-नाशम् मनः-तापम् गृहे दुश्चरितानि च । वञ्चनम् च अपमानम् च मतिमान् न प्रकाशयेत् ॥ ०१ ॥
artha-nāśam manaḥ-tāpam gṛhe duścaritāni ca . vañcanam ca apamānam ca matimān na prakāśayet .. 01 ..
A wise man should not reveal his loss of wealth, the vexation of his mind, the misconduct of his own wife, base words spoken by others, and disgrace that has befallen him.
धनधान्यप्रयोगेषु विद्यासङ्ग्रहणे तथा । आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ॥ ०२ ॥
धन-धान्य-प्रयोगेषु विद्या-सङ्ग्रहणे तथा । आहारे व्यवहारे च त्यक्त-लज्जः सुखी भवेत् ॥ ०२ ॥
dhana-dhānya-prayogeṣu vidyā-saṅgrahaṇe tathā . āhāre vyavahāre ca tyakta-lajjaḥ sukhī bhavet .. 02 ..
He who gives up shyness in monetary dealings, in acquiring knowledge, in eating and in business, becomes happy.
सन्तोषामृततृप्तानां यत्सुखं शान्तिरेव च । न च तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ ०३ ॥
सन्तोष-अमृत-तृप्तानाम् यत् सुखम् शान्तिः एव च । न च तत् धन-लुब्धानाम् इतस् च इतस् च धावताम् ॥ ०३ ॥
santoṣa-amṛta-tṛptānām yat sukham śāntiḥ eva ca . na ca tat dhana-lubdhānām itas ca itas ca dhāvatām .. 03 ..
The happiness and peace attained by those satisfied by the nectar of spiritual tranquillity is not attained by greedy persons restlessly moving here and there.
सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने । त्रिषु चैव न कर्तव्योऽध्ययने जपदानयोः ॥ ०४ ॥
सन्तोषः त्रिषु कर्तव्यः स्व-दारे भोजने धने । त्रिषु च एव न कर्तव्यः अध्ययने जप-दानयोः ॥ ०४ ॥
santoṣaḥ triṣu kartavyaḥ sva-dāre bhojane dhane . triṣu ca eva na kartavyaḥ adhyayane japa-dānayoḥ .. 04 ..
One should feel satisfied with the following three things; his own wife, food given by Providence and wealth acquired by honest effort; but one should never feel satisfied with the following three; study, chanting the holy names of the Lord (japa) and charity.
विप्रयोर्विप्रवह्न्योश्च दम्पत्योः स्वामिभृत्ययोः । अन्तरेण न गन्तव्यं हलस्य वृषभस्य च ॥ ०५ ॥
विप्रयोः विप्र-वह्न्योः च दम्पत्योः स्वामि-भृत्ययोः । अन्तरेण न गन्तव्यम् हलस्य वृषभस्य च ॥ ०५ ॥
viprayoḥ vipra-vahnyoḥ ca dampatyoḥ svāmi-bhṛtyayoḥ . antareṇa na gantavyam halasya vṛṣabhasya ca .. 05 ..
Do not cross between two brahmanas, between a brahmana and his sacrificial fire, between a wife and her husband, a master and his servant, and a plough and an ox.
पादाभ्यां न स्पृशेदग्निं गुरुं ब्राह्मणमेव च । नैव गां न कुमारीं च न वृद्धं न शिशुं तथा ॥ ०६ ॥
पादाभ्याम् न स्पृशेत् अग्निम् गुरुम् ब्राह्मणम् एव च । न एव गाम् न कुमारीम् च न वृद्धम् न शिशुम् तथा ॥ ०६ ॥
pādābhyām na spṛśet agnim gurum brāhmaṇam eva ca . na eva gām na kumārīm ca na vṛddham na śiśum tathā .. 06 ..
Do not let your foot touch fire, the spiritual master or a brahmana; it must never touch a cow, a virgin, an old person or a child.
शकटं पञ्चहस्तेन दशहस्तेन वाजिनम् । गजं हस्तसहस्रेण देशत्यागेन दुर्जनम् ॥ ०७ ॥
शकटम् पञ्च-हस्तेन दश-हस्तेन वाजिनम् । गजम् हस्त-सहस्रेण देश-त्यागेन दुर्जनम् ॥ ०७ ॥
śakaṭam pañca-hastena daśa-hastena vājinam . gajam hasta-sahasreṇa deśa-tyāgena durjanam .. 07 ..
Keep one thousand cubits away from an elephant, a hundred from a horse, ten from a horned beast, but keep away from the wicked by leaving the country.
हस्ती अङ्कुशमात्रेण वाजी हस्तेन ताड्यते । शऋङ्गी लगुडहस्तेन खड्गहस्तेन दुर्जनः ॥ ०८ ॥
हस्ती अङ्कुश-मात्रेण वाजी हस्तेन ताड्यते । शऋङ्गी लगुड-हस्तेन खड्ग-हस्तेन दुर्जनः ॥ ०८ ॥
hastī aṅkuśa-mātreṇa vājī hastena tāḍyate . śaṛṅgī laguḍa-hastena khaḍga-hastena durjanaḥ .. 08 ..
An elephant is controlled by a goad (ankusha), a horse by a slap of the hand, a horned animal with the show of a stick, and a rascal with a sword.
तुष्यन्ति भोजने विप्रा मयूरा घनगर्जिते । साधवः परसम्पत्तौ खलाः परविपत्तिषु ॥ ०९ ॥
तुष्यन्ति भोजने विप्राः मयूराः घन-गर्जिते । साधवः पर-सम्पत्तौ खलाः पर-विपत्तिषु ॥ ०९ ॥
tuṣyanti bhojane viprāḥ mayūrāḥ ghana-garjite . sādhavaḥ para-sampattau khalāḥ para-vipattiṣu .. 09 ..
Brahmanas find satisfaction in a good meal, peacocks in the peal of thunder, a sadhu in seeing the prosperity of others, and the wicked in the misery of others
अनुलोमेन बलिनं प्रतिलोमेन दुर्जनम् । आत्मतुल्यबलं शत्रुं विनयेन बलेन वा ॥ १० ॥
अनुलोमेन बलिनम् प्रतिलोमेन दुर्जनम् । आत्म-तुल्य-बलम् शत्रुम् विनयेन बलेन वा ॥ १० ॥
anulomena balinam pratilomena durjanam . ātma-tulya-balam śatrum vinayena balena vā .. 10 ..
Conciliate a strong man by submission, a wicked man by opposition, and the one whose power is equal to yours by politeness or force
बाहुवीर्यं बलं राज्ञां ब्रह्मणो ब्रह्मविद्बली । रूपयौवनमाधुर्यं स्त्रीणां बलमनुत्तमम् ॥ ११ ॥
बाहु-वीर्यम् बलम् राज्ञाम् ब्रह्मणः ब्रह्म-विद् बली । रूप-यौवन-माधुर्यम् स्त्रीणाम् बलम् अनुत्तमम् ॥ ११ ॥
bāhu-vīryam balam rājñām brahmaṇaḥ brahma-vid balī . rūpa-yauvana-mādhuryam strīṇām balam anuttamam .. 11 ..
The power of a king lies in his mighty arms; that of a brahmana in his spiritual knowledge; and that of a woman in her beauty youth and sweet words.
नात्यन्तं सरलैर्भाव्यं गत्वा पश्य वनस्थलीम् । छिद्यन्ते सरलास्तत्र कुब्जास्तिष्ठन्ति पादपाः ॥ १२ ॥
न अत्यन्तम् सरलैः भाव्यम् गत्वा पश्य वन-स्थलीम् । छिद्यन्ते सरलाः तत्र कुब्जाः तिष्ठन्ति पादपाः ॥ १२ ॥
na atyantam saralaiḥ bhāvyam gatvā paśya vana-sthalīm . chidyante saralāḥ tatra kubjāḥ tiṣṭhanti pādapāḥ .. 12 ..
Do not be very upright in your dealings for you would see by going to the forest that straight trees are cut down while crooked ones are left standing.
यत्रोदकं तत्र वसन्ति हंसा- स्तथैव शुष्कं परिवर्जयन्ति । न हंसतुल्येन नरेण भाव्यं पुनस्त्यजन्तः पुनराश्रयन्ते ॥ १३ ॥
यत्र उदकम् तत्र वसन्ति हंसाः स्तथा एव शुष्कम् परिवर्जयन्ति । न हंस-तुल्येन नरेण भाव्यम् पुनर् त्यजन्तः पुनर् आश्रयन्ते ॥ १३ ॥
yatra udakam tatra vasanti haṃsāḥ stathā eva śuṣkam parivarjayanti . na haṃsa-tulyena nareṇa bhāvyam punar tyajantaḥ punar āśrayante .. 13 ..
Swans live wherever there is water, and leave the place where water dries up; let not a man act so -- and come and go as he pleases.
उपार्जितानां वित्तानां त्याग एव हि रक्षणम् । तडागोदरसंस्थानां परीवाह इवाम्भसाम् ॥ १४ ॥
उपार्जितानाम् वित्तानाम् त्यागः एव हि रक्षणम् । तडाग-उदर-संस्थानाम् परीवाहः इव अम्भसाम् ॥ १४ ॥
upārjitānām vittānām tyāgaḥ eva hi rakṣaṇam . taḍāga-udara-saṃsthānām parīvāhaḥ iva ambhasām .. 14 ..
Accumulated wealth is saved by spending just as incoming fresh water is saved by letting out stagnant water.
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥ १५ ॥
यस्य अर्थाः तस्य मित्राणि यस्य अर्थाः तस्य बान्धवाः । यस्य अर्थाः स पुमान् लोके यस्य अर्थाः स च पण्डितः ॥ १५ ॥
yasya arthāḥ tasya mitrāṇi yasya arthāḥ tasya bāndhavāḥ . yasya arthāḥ sa pumān loke yasya arthāḥ sa ca paṇḍitaḥ .. 15 ..
He who has wealth has friends and relations; he alone survives and is respected as a man.
स्वर्गस्थितानामिह जीवलोके चत्वारि चिह्नानि वसन्ति देहे । दानप्रसङ्गो मधुरा च वाणी देवार्चनं ब्राह्मणतर्पणं च ॥ १६ ॥
स्वर्ग-स्थितानाम् इह जीव-लोके चत्वारि चिह्नानि वसन्ति देहे । दान-प्रसङ्गः मधुरा च वाणी देव-अर्चनम् ब्राह्मण-तर्पणम् च ॥ १६ ॥
svarga-sthitānām iha jīva-loke catvāri cihnāni vasanti dehe . dāna-prasaṅgaḥ madhurā ca vāṇī deva-arcanam brāhmaṇa-tarpaṇam ca .. 16 ..
The following four characteristics of the residents of heaven may be seen in the residents of this earth planet; charity, sweet words, worship of the Supreme Personality of Godhead, and satisfying the needs of brahmanas.
अत्यन्तकोपः कटुका च वाणी दरिद्रता च स्वजनेषु वैरम् । नीचप्रसङ्गः कुलहीनसेवा चिह्नानि देहे नरकस्थितानाम् ॥ १७ ॥
अत्यन्त-कोपः कटुका च वाणी दरिद्र-ता च स्व-जनेषु वैरम् । नीच-प्रसङ्गः कुल-हीन-सेवा चिह्नानि देहे नरक-स्थितानाम् ॥ १७ ॥
atyanta-kopaḥ kaṭukā ca vāṇī daridra-tā ca sva-janeṣu vairam . nīca-prasaṅgaḥ kula-hīna-sevā cihnāni dehe naraka-sthitānām .. 17 ..
The following qualities of the denizens of hell may characterise men on earth; extreme wrath, harsh speech, enmity with one's relations, the company with the base, and service to men of low extraction.
गम्यते यदि मृगेन्द्रमन्दिरं लभ्यते करिकपालमौक्तिकम् । जम्बुकालयगते च प्राप्यते वत्सपुच्छखरचर्मखण्डनम् ॥ १८ ॥
गम्यते यदि मृगेन्द्र-मन्दिरम् लभ्यते करि-कपाल-मौक्तिकम् । जम्बुकालय-गते च प्राप्यते वत्स-पुच्छ-खर-चर्म-खण्डनम् ॥ १८ ॥
gamyate yadi mṛgendra-mandiram labhyate kari-kapāla-mauktikam . jambukālaya-gate ca prāpyate vatsa-puccha-khara-carma-khaṇḍanam .. 18 ..
By going to the den of a lion pearls from the head of an elephant may be obtained; but by visiting the hole of a jackal nothing but the tail of a calf or a bit of the hide of an ass may found.
शुनः पुच्छमिव व्यर्थं जीवितं विद्यया विना । न गुह्यगोपने शक्तं न च दंशनिवारणे ॥ १९ ॥
शुनः पुच्छम् इव व्यर्थम् जीवितम् विद्यया विना । न गुह्य-गोपने शक्तम् न च दंश-निवारणे ॥ १९ ॥
śunaḥ puccham iva vyartham jīvitam vidyayā vinā . na guhya-gopane śaktam na ca daṃśa-nivāraṇe .. 19 ..
The life of an uneducated man is as useless as the tail of a dog which neither covers its rear end, nor protects it from the bites of insects.
वाचां शौचं च मनसः शौचमिन्द्रियनिग्रहः । सर्वभूतदयाशौचमेतच्छौचं परार्थिनाम् ॥ २० ॥
वाचाम् शौचम् च मनसः शौचम् इन्द्रिय-निग्रहः । सर्व-भूत-दया-शौचम् एतत् शौचम् पर-अर्थिनाम् ॥ २० ॥
vācām śaucam ca manasaḥ śaucam indriya-nigrahaḥ . sarva-bhūta-dayā-śaucam etat śaucam para-arthinām .. 20 ..
Purity of speech, of the mind, of the senses, and the of a compassionate heart are needed by one who desires to rise to the divine platform.
पुष्पे गन्धं तिले तैलं काष्ठेऽग्निं पयसि घृतम् । इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः ॥ २१ ॥
पुष्पे गन्धम् तिले तैलम् काष्ठे अग्निम् पयसि घृतम् । इक्षौ गुडम् तथा देहे पश्य आत्मानम् विवेकतः ॥ २१ ॥
puṣpe gandham tile tailam kāṣṭhe agnim payasi ghṛtam . ikṣau guḍam tathā dehe paśya ātmānam vivekataḥ .. 21 ..
As you seek fragrance in a flower, oil in the sesamum seed, fire in wood, ghee in milk, and jaggery (guda) in sugarcane; so seek the spirit that is in the body by means of discrimination

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In