| |
|

This overlay will guide you through the buttons:

अस्य श्री अङ्गारक कवचस्य, कश्यप ऋषीः, अनुष्टुप् चन्दः, अङ्गारको देवता, भौम प्रीत्यर्थे जपे विनियोगः ॥
अस्य श्री-अङ्गारक-कवचस्य, कश्यपः ऋषीः, अनुष्टुभ् चन्दः, अङ्गारकः देवता, भौम-प्रीति-अर्थे जपे विनियोगः ॥
asya śrī-aṅgāraka-kavacasya, kaśyapaḥ ṛṣīḥ, anuṣṭubh candaḥ, aṅgārakaḥ devatā, bhauma-prīti-arthe jape viniyogaḥ ..
ध्यानम्/dhyānam
रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् । धरासुतः शक्तिधरश्च शूली सदा मम स्याद्वरदः प्रशान्तः ॥
। धरा-सुतः शक्ति-धरः च शूली सदा मम स्यात् वर-दः प्रशान्तः ॥
. dharā-sutaḥ śakti-dharaḥ ca śūlī sadā mama syāt vara-daḥ praśāntaḥ ..
अथ अङ्गारक कवचम्/atha aṅgāraka kavacham
अङ्गारकः शिरो रक्षेत् मुखं वै धरणीसुतः । श्रवौ रक्तम्बरः पातु नेत्रे मे रक्तलोचनः ॥ 1 ॥
अङ्गारकः शिरः रक्षेत् मुखम् वै धरणीसुतः । श्रवौ रक्तम्बरः पातु नेत्रे मे रक्तलोचनः ॥ १ ॥
aṅgārakaḥ śiraḥ rakṣet mukham vai dharaṇīsutaḥ . śravau raktambaraḥ pātu netre me raktalocanaḥ .. 1 ..
नासां शक्तिधरः पातु मुखं मे रक्तलोचनः । भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा ॥2 ॥
नासाम् शक्ति-धरः पातु मुखम् मे रक्त-लोचनः । भुजौ मे रक्त-माली च हस्तौ शक्ति-धरः तथा ॥२ ॥
nāsām śakti-dharaḥ pātu mukham me rakta-locanaḥ . bhujau me rakta-mālī ca hastau śakti-dharaḥ tathā ..2 ..
वक्षः पातु वराङ्गश्च हृदयं पातु रोहितः । कटिं मे ग्रहराजश्च मुखं चैव धरासुतः ॥ 3 ॥
वक्षः पातु वराङ्गः च हृदयम् पातु रोहितः । कटिम् मे ग्रहराजः च मुखम् च एव धरासुतः ॥ ३ ॥
vakṣaḥ pātu varāṅgaḥ ca hṛdayam pātu rohitaḥ . kaṭim me graharājaḥ ca mukham ca eva dharāsutaḥ .. 3 ..
जानुजङ्घे कुजः पातु पादौ भक्तप्रियः सदा । सर्वाण्यन्यानि चाङ्गानि रक्षेन्मे मेषवाहनः ॥ 4 ॥
जानु-जङ्घे कुजः पातु पादौ भक्त-प्रियः सदा । सर्वाणि अन्यानि च अङ्गानि रक्षेत् मे मेषवाहनः ॥ ४ ॥
jānu-jaṅghe kujaḥ pātu pādau bhakta-priyaḥ sadā . sarvāṇi anyāni ca aṅgāni rakṣet me meṣavāhanaḥ .. 4 ..
फलश्रुतिः/phalaśrutih
य इदं कवचं दिव्यं सर्वशत्रुनिवारणम् । भूतप्रेतपिशाचानां नाशनं सर्वसिद्धिदम् ॥
यः इदम् कवचम् दिव्यम् सर्व-शत्रु-निवारणम् । भूत-प्रेत-पिशाचानाम् नाशनम् सर्व-सिद्धि-दम् ॥
yaḥ idam kavacam divyam sarva-śatru-nivāraṇam . bhūta-preta-piśācānām nāśanam sarva-siddhi-dam ..
सर्वरोगहरं चैव सर्वसम्पत्प्रदं शुभम् । भुक्तिमुक्तिप्रदं नॄणां सर्वसौभाग्यवर्धनम् ॥ रोगबन्धविमोक्षं च सत्यमेतन्न संशयः ॥
सर्व-रोग-हरम् च एव सर्व-सम्पद्-प्रदम् शुभम् । भुक्ति-मुक्ति-प्रदम् नॄणाम् सर्व-सौभाग्य-वर्धनम् ॥ रोग-बन्ध-विमोक्षम् च सत्यम् एतत् न संशयः ॥
sarva-roga-haram ca eva sarva-sampad-pradam śubham . bhukti-mukti-pradam nṝṇām sarva-saubhāgya-vardhanam .. roga-bandha-vimokṣam ca satyam etat na saṃśayaḥ ..
॥ इति श्री मार्कण्डेयपुराणे अङ्गारक कवचं सम्पूर्णम् ॥
॥ इति श्री-मार्कण्डेयपुराणे अङ्गारक-कवचम् सम्पूर्णम् ॥
.. iti śrī-mārkaṇḍeyapurāṇe aṅgāraka-kavacam sampūrṇam ..
Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In