| |
|

This overlay will guide you through the buttons:

अगस्तिरुवाच/ Agastira Uvacha
आजानुबाहुमरविन्ददलायता क्षमाजन्मशुद्धरसहासमुखप्रसादम् । श्यामं गृहीत शरचापमुदाररूपं रामं सराममभिराममनुस्मरामि ॥ 1 ॥
आजानु बाहुम् अरविन्द-दल-आयता क्षमा-जन्म-शुद्ध-रस-हास-मुख-प्रसादम् । श्यामम् गृहीत-शर-चापम् उदार-रूपम् रामम् स रामम् अभिरामम् अनुस्मरामि ॥ १ ॥
ājānu bāhum aravinda-dala-āyatā kṣamā-janma-śuddha-rasa-hāsa-mukha-prasādam . śyāmam gṛhīta-śara-cāpam udāra-rūpam rāmam sa rāmam abhirāmam anusmarāmi .. 1 ..
अस्य श्रीरामकवचस्य अगस्त्य ऋषिः अनुष्टुप् छन्दः सीतालक्ष्मणोपेतः श्रीरामचन्द्रो देवता श्रीरामचन्द्रप्रसादसिद्ध्यर्थे जपे विनियोगः ।
अस्य श्री-रामकवचस्य अगस्त्यः ऋषिः अनुष्टुभ् छन्दः सीता-लक्ष्मण-उपेतः श्री-रामचन्द्रः देवता श्री-रामचन्द्र-प्रसाद-सिद्धि-अर्थे जपे विनियोगः ।
asya śrī-rāmakavacasya agastyaḥ ṛṣiḥ anuṣṭubh chandaḥ sītā-lakṣmaṇa-upetaḥ śrī-rāmacandraḥ devatā śrī-rāmacandra-prasāda-siddhi-arthe jape viniyogaḥ .
अथ ध्यानं/ Dhyanam Begins
नीलजीमूतसङ्काशं विद्युद्वर्णाम्बरावृतम् । कोमलाङ्गं विशालाक्षं युवानमतिसुन्दरम् ॥ 1 ॥
नील-जीमूत-सङ्काशम् विद्युत्-वर्ण-अम्बर-आवृतम् । कोमल-अङ्गम् विशाल-अक्षम् युवानम् अति सुन्दरम् ॥ १ ॥
nīla-jīmūta-saṅkāśam vidyut-varṇa-ambara-āvṛtam . komala-aṅgam viśāla-akṣam yuvānam ati sundaram .. 1 ..
सीतासौमित्रिसहितं जटामुकुटधारिणम् । सासितूणधनुर्बाणपाणिं दानवमर्दनम् ॥ 2 ॥
सीता-सौमित्रि-सहितम् जटा-मुकुट-धारिणम् । स असि-तूण-धनुः-बाण-पाणिम् दानव-मर्दनम् ॥ २ ॥
sītā-saumitri-sahitam jaṭā-mukuṭa-dhāriṇam . sa asi-tūṇa-dhanuḥ-bāṇa-pāṇim dānava-mardanam .. 2 ..
यदा चोरभये राजभये शत्रुभये तथा । ध्यात्वा रघुपतिं क्रुद्धं कालानलसमप्रभम् ॥ 3 ॥
यदा चोर-भये राज-भये शत्रु-भये तथा । ध्यात्वा रघुपतिम् क्रुद्धम् काल-अनल-सम-प्रभम् ॥ ३ ॥
yadā cora-bhaye rāja-bhaye śatru-bhaye tathā . dhyātvā raghupatim kruddham kāla-anala-sama-prabham .. 3 ..
चीरकृष्णाजिनधरं भस्मोद्धूलितविग्रहम् । आकर्णाकृष्टविशिखकोदण्डभुजमण्डितम् ॥ 4 ॥
चीर-कृष्ण-अजिन-धरम् भस्म-उद्धूलित-विग्रहम् । आकर्ण-आकृष्ट-विशिख-कोदण्ड-भुज-मण्डितम् ॥ ४ ॥
cīra-kṛṣṇa-ajina-dharam bhasma-uddhūlita-vigraham . ākarṇa-ākṛṣṭa-viśikha-kodaṇḍa-bhuja-maṇḍitam .. 4 ..
रणे रिपून् रावणादींस्तीक्ष्णमार्गणवृष्टिभिः । संहरन्तं महावीरमुग्रमैन्द्ररथस्थितम् ॥ 5 ॥
रणे रिपून् रावण-आदीन् तीक्ष्ण-मार्गण-वृष्टिभिः । संहरन्तम् महा-वीरम् उग्रम् ऐन्द्र-रथ-स्थितम् ॥ ५ ॥
raṇe ripūn rāvaṇa-ādīn tīkṣṇa-mārgaṇa-vṛṣṭibhiḥ . saṃharantam mahā-vīram ugram aindra-ratha-sthitam .. 5 ..
लक्ष्मणाद्यैर्महावीरैर्वृतं हनुमदादिभिः । सुग्रीवाद्यैर्माहावीरैः शैलवृक्षकरोद्यतैः ॥ 6 ॥ वेगात्करालहुङ्कारैर्भुभुक्कारमहारवैः । नदद्भिः परिवादद्भिः समरे रावणं प्रति ॥ 7 ॥
लक्ष्मण-आद्यैः महा-वीरैः वृतम् हनुमत्-आदिभिः । सुग्रीव-आद्यैः माहावीरैः शैल-वृक्ष-कर-उद्यतैः ॥ ६ ॥ वेगात् कराल-हुङ्कारैः भुभुक्कार-महा-रवैः । नदद्भिः परिवादद्भिः समरे रावणम् प्रति ॥ ७ ॥
lakṣmaṇa-ādyaiḥ mahā-vīraiḥ vṛtam hanumat-ādibhiḥ . sugrīva-ādyaiḥ māhāvīraiḥ śaila-vṛkṣa-kara-udyataiḥ .. 6 .. vegāt karāla-huṅkāraiḥ bhubhukkāra-mahā-ravaiḥ . nadadbhiḥ parivādadbhiḥ samare rāvaṇam prati .. 7 ..
श्रीराम शत्रुसङ्घान्मे हन मर्दय खादय । भूतप्रेतपिशाचादीन् श्रीरामाशु विनाशय ॥ 8 ॥
श्री-राम शत्रु-सङ्घान् मे हन मर्दय खादय । भूत-प्रेत-पिशाच-आदीन् श्री-राम आशु विनाशय ॥ ८ ॥
śrī-rāma śatru-saṅghān me hana mardaya khādaya . bhūta-preta-piśāca-ādīn śrī-rāma āśu vināśaya .. 8 ..
एवं ध्यात्वा जपेद्रामकवचं सिद्धिदायकम् । सुतीक्ष्ण वज्रकवचं शृणु वक्ष्याम्यनुत्तमम् ॥ 9 ॥
एवम् ध्यात्वा जपेत् राम-कवचम् सिद्धि-दायकम् । सुतीक्ष्ण वज्र-कवचम् शृणु वक्ष्यामि अनुत्तमम् ॥ ९ ॥
evam dhyātvā japet rāma-kavacam siddhi-dāyakam . sutīkṣṇa vajra-kavacam śṛṇu vakṣyāmi anuttamam .. 9 ..
अथ कवचम्/ Kavacham Starts
श्रीरामः पातु मे मूर्ध्नि पूर्वे च रघुवंशजः । दक्षिणे मे रघुवरः पश्चिमे पातु पावनः ॥ 10 ॥
श्री-रामः पातु मे मूर्ध्नि पूर्वे च रघु-वंश-जः । दक्षिणे मे रघु-वरः पश्चिमे पातु पावनः ॥ १० ॥
śrī-rāmaḥ pātu me mūrdhni pūrve ca raghu-vaṃśa-jaḥ . dakṣiṇe me raghu-varaḥ paścime pātu pāvanaḥ .. 10 ..
उत्तरे मे रघुपतिर्भालं दशरथात्मजः । भ्रुवोर्दूर्वादलश्यामस्तयोर्मध्ये जनार्दनः ॥ 11 ॥
उत्तरे मे रघु-पतिः भालम् दशरथ-आत्मजः । भ्रुवोः दूर्वा-दल-श्यामः तयोः मध्ये जनार्दनः ॥ ११ ॥
uttare me raghu-patiḥ bhālam daśaratha-ātmajaḥ . bhruvoḥ dūrvā-dala-śyāmaḥ tayoḥ madhye janārdanaḥ .. 11 ..
श्रोत्रं मे पातु राजेन्द्रो दृशौ राजीवलोचनः । घ्राणं मे पातु राजर्षिर्गण्डौ मे जानकीपतिः ॥ 12 ॥
श्रोत्रम् मे पातु राज-इन्द्रः दृशौ राजीव-लोचनः । घ्राणम् मे पातु राजर्षिः गण्डौ मे जानकीपतिः ॥ १२ ॥
śrotram me pātu rāja-indraḥ dṛśau rājīva-locanaḥ . ghrāṇam me pātu rājarṣiḥ gaṇḍau me jānakīpatiḥ .. 12 ..
कर्णमूले खरध्वंसी भालं मे रघुवल्लभः । जिह्वां मे वाक्पतिः पातु दन्तपङ्क्ती रघूत्तमः ॥ 13 ॥
। जिह्वाम् मे वाक्पतिः पातु दन्त-पङ्क्ती रघूत्तमः ॥ १३ ॥
. jihvām me vākpatiḥ pātu danta-paṅktī raghūttamaḥ .. 13 ..
ओष्ठौ श्रीरामचन्द्रो मे मुखं पातु परात्परः । कण्ठं पातु जगद्वन्द्यः स्कन्धौ मे रावणान्तकः ॥ 14 ॥
ओष्ठौ श्री-रामचन्द्रः मे मुखम् पातु परात्परः । कण्ठम् पातु जगत्-वन्द्यः स्कन्धौ मे रावण-अन्तकः ॥ १४ ॥
oṣṭhau śrī-rāmacandraḥ me mukham pātu parātparaḥ . kaṇṭham pātu jagat-vandyaḥ skandhau me rāvaṇa-antakaḥ .. 14 ..
धनुर्बाणधरः पातु भुजौ मे वालिमर्दनः । सर्वाण्यङ्गुलिपर्वाणि हस्तौ मे राक्षसान्तकः ॥ 15 ॥
धनुः-बाण-धरः पातु भुजौ मे वालि-मर्दनः । सर्वाणि अङ्गुलि-पर्वाणि हस्तौ मे राक्षस-अन्तकः ॥ १५ ॥
dhanuḥ-bāṇa-dharaḥ pātu bhujau me vāli-mardanaḥ . sarvāṇi aṅguli-parvāṇi hastau me rākṣasa-antakaḥ .. 15 ..
वक्षो मे पातु काकुत्स्थः पातु मे हृदयं हरिः । स्तनौ सीतापतिः पातु पार्श्वं मे जगदीश्वरः ॥ 16 ॥
वक्षः मे पातु काकुत्स्थः पातु मे हृदयम् हरिः । स्तनौ सीतापतिः पातु पार्श्वम् मे जगत्-ईश्वरः ॥ १६ ॥
vakṣaḥ me pātu kākutsthaḥ pātu me hṛdayam hariḥ . stanau sītāpatiḥ pātu pārśvam me jagat-īśvaraḥ .. 16 ..
मध्यं मे पातु लक्ष्मीशो नाभिं मे रघुनायकः । कौसल्येयः कटी पातु पृष्ठं दुर्गतिनाशनः ॥ 17 ॥
मध्यम् मे पातु लक्ष्मीशः नाभिम् मे रघुनायकः । कौसल्येयः कटी पातु पृष्ठम् दुर्गति-नाशनः ॥ १७ ॥
madhyam me pātu lakṣmīśaḥ nābhim me raghunāyakaḥ . kausalyeyaḥ kaṭī pātu pṛṣṭham durgati-nāśanaḥ .. 17 ..
गुह्यं पातु हृषीकेशः सक्थिनी सत्यविक्रमः । ऊरू शार्ङ्गधरः पातु जानुनी हनुमत्प्रियः ॥ 18 ॥
गुह्यम् पातु हृषीकेशः सक्थिनी सत्य-विक्रमः । ऊरू शार्ङ्गधरः पातु जानुनी हनुमत्-प्रियः ॥ १८ ॥
guhyam pātu hṛṣīkeśaḥ sakthinī satya-vikramaḥ . ūrū śārṅgadharaḥ pātu jānunī hanumat-priyaḥ .. 18 ..
जङ्घे पातु जगद्व्यापी पादौ मे ताटकान्तकः । सर्वाङ्गं पातु मे विष्णुः सर्वसन्धीननामयः ॥ 19 ॥
जङ्घे पातु जगद्व्यापी पादौ मे ताटका-अन्तकः । सर्व-अङ्गम् पातु मे विष्णुः सर्व-सन्धीन् अनामयः ॥ १९ ॥
jaṅghe pātu jagadvyāpī pādau me tāṭakā-antakaḥ . sarva-aṅgam pātu me viṣṇuḥ sarva-sandhīn anāmayaḥ .. 19 ..
ज्ञानेन्द्रियाणि प्राणादीन् पातु मे मधुसूदनः । पातु श्रीरामभद्रो मे शब्दादीन्विषयानपि ॥ 20 ॥
ज्ञान-इन्द्रियाणि प्राण-आदीन् पातु मे मधुसूदनः । पातु श्री-रामभद्रः मे शब्द-आदीन् विषयान् अपि ॥ २० ॥
jñāna-indriyāṇi prāṇa-ādīn pātu me madhusūdanaḥ . pātu śrī-rāmabhadraḥ me śabda-ādīn viṣayān api .. 20 ..
द्विपदादीनि भूतानि मत्सम्बन्धीनि यानि च । जामदग्न्यमहादर्पदलनः पातु तानि मे ॥ 21 ॥
द्विपद-आदीनि भूतानि मद्-सम्बन्धीनि यानि च । जामदग्न्य-महा-दर्प-दलनः पातु तानि मे ॥ २१ ॥
dvipada-ādīni bhūtāni mad-sambandhīni yāni ca . jāmadagnya-mahā-darpa-dalanaḥ pātu tāni me .. 21 ..
सौमित्रिपूर्वजः पातु वागादीनीन्द्रियाणि च । रोमाङ्कुराण्यशेषाणि पातु सुग्रीवराज्यदः ॥ 22 ॥
सौमित्रि-पूर्वजः पातु वाच्-आदीनि इन्द्रियाणि च । रोम-अङ्कुराणि अशेषाणि पातु सुग्रीव-राज्य-दः ॥ २२ ॥
saumitri-pūrvajaḥ pātu vāc-ādīni indriyāṇi ca . roma-aṅkurāṇi aśeṣāṇi pātu sugrīva-rājya-daḥ .. 22 ..
वाङ्मनोबुद्ध्यहङ्कारैर्ज्ञानाज्ञानकृतानि च । जन्मान्तरकृतानीह पापानि विविधानि च ॥ 23 ॥ तानि सर्वाणि दग्ध्वाशु हरकोदण्डखण्डनः । पातु मां सर्वतो रामः शार्ङ्गबाणधरः सदा ॥ 24 ॥
वाच्-मनः-बुद्धि-अहङ्कारैः ज्ञान-अज्ञान-कृतानि च । जन्म-अन्तर-कृतानि इह पापानि विविधानि च ॥ २३ ॥ तानि सर्वाणि दग्ध्वा आशु हर-कोदण्ड-खण्डनः । पातु माम् सर्वतस् रामः शार्ङ्ग-बाण-धरः सदा ॥ २४ ॥
vāc-manaḥ-buddhi-ahaṅkāraiḥ jñāna-ajñāna-kṛtāni ca . janma-antara-kṛtāni iha pāpāni vividhāni ca .. 23 .. tāni sarvāṇi dagdhvā āśu hara-kodaṇḍa-khaṇḍanaḥ . pātu mām sarvatas rāmaḥ śārṅga-bāṇa-dharaḥ sadā .. 24 ..
इति श्रीरामचन्द्रस्य कवचं वज्रसम्मितम् । गुह्याद्गुह्यतमं दिव्यं सुतीक्ष्ण मुनिसत्तम ॥ 25 ॥
इति श्री-रामचन्द्रस्य कवचम् वज्र-सम्मितम् । गुह्यात् गुह्यतमम् दिव्यम् सु तीक्ष्ण मुनि-सत्तम ॥ २५ ॥
iti śrī-rāmacandrasya kavacam vajra-sammitam . guhyāt guhyatamam divyam su tīkṣṇa muni-sattama .. 25 ..
यः पठेच्छृणुयाद्वापि श्रावयेद्वा समाहितः । स याति परमं स्थानं रामचन्द्रप्रसादतः ॥ 26 ॥
यः पठेत् शृणुयात् वा अपि श्रावयेत् वा समाहितः । स याति परमम् स्थानम् रामचन्द्र-प्रसादतः ॥ २६ ॥
yaḥ paṭhet śṛṇuyāt vā api śrāvayet vā samāhitaḥ . sa yāti paramam sthānam rāmacandra-prasādataḥ .. 26 ..
महापातकयुक्तो वा गोघ्नो वा भ्रूणहा तथा । श्रीरामचन्द्रकवचपठनाच्छुद्धिमाप्नुयात् ॥ 27 ॥
महापातक-युक्तः वा गो-घ्नः वा भ्रूण-हा तथा । श्री-रामचन्द्र-कवच-पठनात् शुद्धिम् आप्नुयात् ॥ २७ ॥
mahāpātaka-yuktaḥ vā go-ghnaḥ vā bhrūṇa-hā tathā . śrī-rāmacandra-kavaca-paṭhanāt śuddhim āpnuyāt .. 27 ..
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः । भो सुतीक्ष्ण यथा पृष्टं त्वया मम पुराः शुभम् । तथा श्रीरामकवचं मया ते विनिवेदितम् ॥ 28 ॥
ब्रह्महत्या-आदिभिः पापैः मुच्यते न अत्र संशयः । भो सुतीक्ष्ण यथा पृष्टम् त्वया मम शुभम् । तथा श्री-राम-कवचम् मया ते विनिवेदितम् ॥ २८ ॥
brahmahatyā-ādibhiḥ pāpaiḥ mucyate na atra saṃśayaḥ . bho sutīkṣṇa yathā pṛṣṭam tvayā mama śubham . tathā śrī-rāma-kavacam mayā te viniveditam .. 28 ..
इति श्रीमदानन्दरामायणे मनोहरकाण्डे सुतीक्ष्णागस्त्यसंवादे श्रीरामकवचम् ॥
इति श्रीमत्-आनन्दरामायणे मनोहर-काण्डे सुतीक्ष्ण-अगस्त्य-संवादे श्री-रामकवचम् ॥
iti śrīmat-ānandarāmāyaṇe manohara-kāṇḍe sutīkṣṇa-agastya-saṃvāde śrī-rāmakavacam ..
Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In