| |
|

This overlay will guide you through the buttons:

अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः । वसुधां अपि हस्तगामिनीं अकरोदिन्दुमतीं इवापरां । । ८.१ । ।
अथ तस्य विवाह-कौतुकम् ललितम् बिभ्रतः एव पार्थिवः । वसुधाम् अपि हस्त-गामिनीम् अकरोत् इन्दुमतीम् इव अपराम् । । ८।१ । ।
atha tasya vivāha-kautukam lalitam bibhrataḥ eva pārthivaḥ . vasudhām api hasta-gāminīm akarot indumatīm iva aparām . . 8.1 . .
दुरितैरपि कर्तुं आत्मसात्प्रयतन्ते नृपसूनवो हि यथ् । तदुपस्थितं अग्रहीदजः पितुराज्ञेति न भोगतृष्णया । । ८.२ । ।
दुरितैः अपि कर्तुम् आत्मसात् प्रयतन्ते नृप-सूनवः हि यथ् । तत् उपस्थितम् अग्रहीत् अजः पितुः आज्ञा इति न भोग-तृष्णया । । ८।२ । ।
duritaiḥ api kartum ātmasāt prayatante nṛpa-sūnavaḥ hi yath . tat upasthitam agrahīt ajaḥ pituḥ ājñā iti na bhoga-tṛṣṇayā . . 8.2 . .
अनुभूय वसिष्ठसंभृतैः सलिलैस्तेन सहाभिषेचनं । विशदोच्छवसितेन मेदिनी कथयां आस कृतार्थतां इव । । ८.३ । ।
अनुभूय वसिष्ठ-संभृतैः सलिलैः तेन सह अभिषेचनम् । विशद-उच्छवसितेन मेदिनी कथयाम् आस कृतार्थ-ताम् इव । । ८।३ । ।
anubhūya vasiṣṭha-saṃbhṛtaiḥ salilaiḥ tena saha abhiṣecanam . viśada-ucchavasitena medinī kathayām āsa kṛtārtha-tām iva . . 8.3 . .
स बभूव दुरासदः परैर्गुरुणाथर्वविदा कृतक्रियः । पवनाग्निसमागमो ह्ययं सहितं ब्रह्म यदस्त्रतेजसा । । ८.४ । ।
स बभूव दुरासदः परैः गुरुणा अथर्व-विदा कृत-क्रियः । पवन-अग्नि-समागमः हि अयम् सहितम् ब्रह्म यद्-अस्त्र-तेजसा । । ८।४ । ।
sa babhūva durāsadaḥ paraiḥ guruṇā atharva-vidā kṛta-kriyaḥ . pavana-agni-samāgamaḥ hi ayam sahitam brahma yad-astra-tejasā . . 8.4 . .
रघुं एव निवृत्तयौवनं तं अमन्यन्त नवेश्वरं प्रजाः । स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान्गुणानपि । । ८.५ । ।
रघुम् एव निवृत्त-यौवनम् तम् अमन्यन्त नव-ईश्वरम् प्रजाः । स हि तस्य न केवलाम् श्रियम् प्रतिपेदे सकलान् गुणान् अपि । । ८।५ । ।
raghum eva nivṛtta-yauvanam tam amanyanta nava-īśvaram prajāḥ . sa hi tasya na kevalām śriyam pratipede sakalān guṇān api . . 8.5 . .
अधिकं शुशुभे शुभंयुना द्वितयेन द्वयं एव संगतं । पदं ऋद्धं अजेन पैतृकं विनयेनास्य नवं च यौवनं । । ८.६ । ।
अधिकम् शुशुभे शुभंयुना द्वितयेन द्वयम् एव संगतम् । पदम् ऋद्धम् अजेन पैतृकम् विनयेन अस्य नवम् च यौवनम् । । ८।६ । ।
adhikam śuśubhe śubhaṃyunā dvitayena dvayam eva saṃgatam . padam ṛddham ajena paitṛkam vinayena asya navam ca yauvanam . . 8.6 . .
सदयं बुभुजे महाभुजः सहसोद्वेगं इयं व्रजेदिति । अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूं इव । । ८.७ । ।
स दयम् बुभुजे महा-भुजः सहसा उद्वेगम् इयम् व्रजेत् इति । अचिर-उपनताम् स मेदिनीम् नव-पाणिग्रहणाम् वधूम् इव । । ८।७ । ।
sa dayam bubhuje mahā-bhujaḥ sahasā udvegam iyam vrajet iti . acira-upanatām sa medinīm nava-pāṇigrahaṇām vadhūm iva . . 8.7 . .
अहं एव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयथ् । उदधेरिव निमगाशतेष्वभवन्नास्य विमानना क्वचिथ् । । ८.८ । ।
अहम् एव मतः महीपतेः इति सर्वः प्रकृतिषु अचिन्तयथ् । उदधेः इव निमगा-शतेषु अभवत् न अस्य विमानना । । ८।८ । ।
aham eva mataḥ mahīpateḥ iti sarvaḥ prakṛtiṣu acintayath . udadheḥ iva nimagā-śateṣu abhavat na asya vimānanā . . 8.8 . .
न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव । स पुरस्कृतमध्यमक्रमो नमयां आस नृपाननुद्धरन् । । ८.९ । ।
न खरः न च भूयसा मृदुः पवमानः पृथिवीरुहान् इव । स पुरस्कृत-मध्यम-क्रमः आस नृपान् अन् उद्धरन् । । ८।९ । ।
na kharaḥ na ca bhūyasā mṛduḥ pavamānaḥ pṛthivīruhān iva . sa puraskṛta-madhyama-kramaḥ āsa nṛpān an uddharan . . 8.9 . .
अथ वीक्स्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजं आत्मवत्तया । विषयेषु विनाशधर्मसु त्रिदिवस्तेष्वपि निःस्पृहोऽभवथ् । । ८.१० । ।
अथ वीक्स्य रघुः प्रतिष्ठितम् प्रकृतिषु आत्मजम् आत्मवत्-तया । विषयेषु विनाश-धर्मसु त्रिदिवः तेषु अपि निःस्पृहः अभवथ् । । ८।१० । ।
atha vīksya raghuḥ pratiṣṭhitam prakṛtiṣu ātmajam ātmavat-tayā . viṣayeṣu vināśa-dharmasu tridivaḥ teṣu api niḥspṛhaḥ abhavath . . 8.10 . .
गुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः । पदवीं तरुवल्कवाससां प्रयताः संयमिनां प्रपेदिरे । । ८.११ । ।
गुणवत्-सुत-रोपित-श्रियः परिणामे हि दिलीप-वंश-जाः । पदवीम् तरु-वल्क-वाससाम् प्रयताः संयमिनाम् प्रपेदिरे । । ८।११ । ।
guṇavat-suta-ropita-śriyaḥ pariṇāme hi dilīpa-vaṃśa-jāḥ . padavīm taru-valka-vāsasām prayatāḥ saṃyaminām prapedire . . 8.11 . .
तं अरण्यसमाश्रयोन्मुखं शिरसा वेष्टनशोभिना सुतः । पितरं प्रणिपत्य पादयोरपरित्यागं अयाचतात्मनः । । ८.१२ । ।
तम् अरण्य-समाश्रय-उन्मुखम् शिरसा वेष्टन-शोभिना सुतः । पितरम् प्रणिपत्य पादयोः अ परित्यागम् अयाचत आत्मनः । । ८।१२ । ।
tam araṇya-samāśraya-unmukham śirasā veṣṭana-śobhinā sutaḥ . pitaram praṇipatya pādayoḥ a parityāgam ayācata ātmanaḥ . . 8.12 . .
रघुरश्रुमुखस्य तस्य तत्कृतवानीप्सितं आत्मजप्रियः । न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियं । । ८.१३ । ।
रघुः अश्रु-मुखस्य तस्य तत् कृतवान् ईप्सितम् आत्मज-प्रियः । न तु सर्पः इव त्वचम् पुनर् प्रतिपेदे व्यपवर्जिताम् श्रियम् । । ८।१३ । ।
raghuḥ aśru-mukhasya tasya tat kṛtavān īpsitam ātmaja-priyaḥ . na tu sarpaḥ iva tvacam punar pratipede vyapavarjitām śriyam . . 8.13 . .
स कीलश्रमं अन्त्यं आश्रितो निवसन्नावसथे पुराद्बहिः । समुपास्यत पुत्रभोग्यया स्नूषयेवाविकृतेन्द्रियः श्रिया । । ८.१४ । ।
स कील-श्रमम् अन्त्यम् आश्रितः निवसन् आवसथे पुरात् बहिस् । समुपास्यत पुत्र-भोग्यया स्नूषया इव अ विकृत-इन्द्रियः श्रिया । । ८।१४ । ।
sa kīla-śramam antyam āśritaḥ nivasan āvasathe purāt bahis . samupāsyata putra-bhogyayā snūṣayā iva a vikṛta-indriyaḥ śriyā . . 8.14 . .
प्रशमस्थितपूर्वपार्थिवं कुलं अभ्युद्यत नूतनेश्वरं । नभसा निभृतेन्दुना तुलां उदितार्केण समारुरोह तथ् । । ८.१५ । ।
प्रशम-स्थित-पूर्व-पार्थिवम् कुलम् नूतन-ईश्वरम् । नभसा निभृत-इन्दुना तुलाम् उदित-अर्केण समारुरोह तथा । । ८।१५ । ।
praśama-sthita-pūrva-pārthivam kulam nūtana-īśvaram . nabhasā nibhṛta-indunā tulām udita-arkeṇa samāruroha tathā . . 8.15 . .
यतिपार्थिवलिङ्गधारिणौ ददृशते रघुराघवौ जनैः । अपवर्गमहोदयार्थयोर्भुवं अंशाविव धर्मयोर्गतौ । । ८.१६ । ।
यति-पार्थिव-लिङ्ग-धारिणौ ददृशते रघु-राघवौ जनैः । अपवर्ग-महा-उदय-अर्थयोः भुवम् अंशौ इव धर्मयोः गतौ । । ८।१६ । ।
yati-pārthiva-liṅga-dhāriṇau dadṛśate raghu-rāghavau janaiḥ . apavarga-mahā-udaya-arthayoḥ bhuvam aṃśau iva dharmayoḥ gatau . . 8.16 . .
अजिताधिगमाय मन्त्रिभिर्युयुजे नीतिविशरदैरजः । अनपायिपदोपलब्धये रघुराप्तैः समियाय योगिभिः । । ८.१७ । ।
अजित-अधिगमाय मन्त्रिभिः युयुजे नीति-विशरदैः अजः । अनपायि-पद-उपलब्धये रघुः आप्तैः समियाय योगिभिः । । ८।१७ । ।
ajita-adhigamāya mantribhiḥ yuyuje nīti-viśaradaiḥ ajaḥ . anapāyi-pada-upalabdhaye raghuḥ āptaiḥ samiyāya yogibhiḥ . . 8.17 . .
समयुजय्त भूपतिर्युवा सचिवैः प्रत्यहं अर्थसिद्धये । अपुनर्जननोपत्तये प्रययाः संयमिभिर्मनीषिभिः । । ८.१७* । ।
समयुजय्त भूपतिः युवा सचिवैः प्रत्यहम् अर्थ-सिद्धये । अ पुनर् जनन-उपत्तये प्रययाः संयमिभिः मनीषिभिः । । ८।१७ । ।
samayujayta bhūpatiḥ yuvā sacivaiḥ pratyaham artha-siddhaye . a punar janana-upattaye prayayāḥ saṃyamibhiḥ manīṣibhiḥ . . 8.17 . .
नृपतिः प्रकृतीरवेक्षितुं व्यवहारासनं आददे युवा । परिचेतुं उपांशु धारणां कुशपूतं प्रवयास्तु विष्टरं । । ८.१८ । ।
नृपतिः प्रकृतीः अवेक्षितुम् व्यवहार-आसनम् आददे युवा । परिचेतुम् उपांशु धारणाम् कुश-पूतम् प्रवयाः अस्तु विष्टरम् । । ८।१८ । ।
nṛpatiḥ prakṛtīḥ avekṣitum vyavahāra-āsanam ādade yuvā . paricetum upāṃśu dhāraṇām kuśa-pūtam pravayāḥ astu viṣṭaram . . 8.18 . .
अनुरण्जयितुं प्रजाः प्रभुर्व्यहारासनं आददे नवः । अपरः शुचिविष्टरस्थितः परिचेतुं यतते स्म धारणाः । । ८.१८* । ।
अनुरण्जयितुम् प्रजाः प्रभुः व्यहार आसनम् आददे नवः । अपरः शुचि-विष्टर-स्थितः परिचेतुम् यतते स्म धारणाः । । ८।१८ । ।
anuraṇjayitum prajāḥ prabhuḥ vyahāra āsanam ādade navaḥ . aparaḥ śuci-viṣṭara-sthitaḥ paricetum yatate sma dhāraṇāḥ . . 8.18 . .
अनयत्प्रभुशक्तिसंपदा वशं एको नृपतीननन्तरान् । अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् । । ८.१९ । ।
अनयत् प्रभु-शक्ति-संपदा वशम् एकः नृपतीन् अनन्तरान् । अपरः प्रणिधान-योग्यया मरुतः पञ्च शरीर-गोचरान् । । ८।१९ । ।
anayat prabhu-śakti-saṃpadā vaśam ekaḥ nṛpatīn anantarān . aparaḥ praṇidhāna-yogyayā marutaḥ pañca śarīra-gocarān . . 8.19 . .
नयचक्षुरजो दिदृक्षया पररन्ध्रस्य ततान मण्डले । हृदये समरोपयन्मनः परमं ज्योतिरवेक्षितुं रघुः । । ८.१९* । ।
नय-चक्षुः-रजः दिदृक्षया पर-रन्ध्रस्य ततान मण्डले । हृदये समरोपयत् मनः परमम् ज्योतिः अवेक्षितुम् रघुः । । ८।१९ । ।
naya-cakṣuḥ-rajaḥ didṛkṣayā para-randhrasya tatāna maṇḍale . hṛdaye samaropayat manaḥ paramam jyotiḥ avekṣitum raghuḥ . . 8.19 . .
अकरोदचिरेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसाथ् । अपरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना । । ८.२० । ।
अकरोत् अचिर-ईश्वरः क्षितौ द्विषत्-आरम्भ-फलानि भस्मसाथ् । अपरः दहने स्व-कर्मणाम् ववृते ज्ञान-मयेन वह्निना । । ८।२० । ।
akarot acira-īśvaraḥ kṣitau dviṣat-ārambha-phalāni bhasmasāth . aparaḥ dahane sva-karmaṇām vavṛte jñāna-mayena vahninā . . 8.20 . .
पणबन्धमुखान्गुणानजः षडुपायुङ्क्त समीक्ष्य तत्फलं । रघुरप्यजयद्गुणत्रयं प्रकृतिस्थं समलोष्टकाञ्चनः । । ८.२१ । ।
पण-बन्ध-मुखान् गुणान् अजः षट् उपायुङ्क्त समीक्ष्य तद्-फलम् । रघुः अपि अजयत् गुणत्रयम् प्रकृति-स्थम् सम-लोष्ट-काञ्चनः । । ८।२१ । ।
paṇa-bandha-mukhān guṇān ajaḥ ṣaṭ upāyuṅkta samīkṣya tad-phalam . raghuḥ api ajayat guṇatrayam prakṛti-stham sama-loṣṭa-kāñcanaḥ . . 8.21 . .
न नवः प्रभुरा फलोदयात्स्थिरकर्मा विरराम कर्मणः । न च योगविधेर्नवेतरः स्थिरधीरा परमात्मदर्शनाथ् । । ८.२२ । ।
न नवः प्रभुरा फल-उदयात् स्थिर-कर्मा विरराम कर्मणः । न च योग-विधेः नव-इतरः स्थिर-धीरा परम-आत्म-दर्शनाथ् । । ८।२२ । ।
na navaḥ prabhurā phala-udayāt sthira-karmā virarāma karmaṇaḥ . na ca yoga-vidheḥ nava-itaraḥ sthira-dhīrā parama-ātma-darśanāth . . 8.22 . .
इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ । प्रसितावुदयापवर्गयोरुभयीं सिद्धिं उभाववापतुः । । ८.२३ । ।
इति शत्रुषु च इन्द्रियेषु च प्रतिषिद्ध-प्रसरेषु जाग्रतौ । प्रसितौ उदय-अपवर्गयोः उभयीम् सिद्धिम् उभौ अवापतुः । । ८।२३ । ।
iti śatruṣu ca indriyeṣu ca pratiṣiddha-prasareṣu jāgratau . prasitau udaya-apavargayoḥ ubhayīm siddhim ubhau avāpatuḥ . . 8.23 . .
अथ काश्चिदजव्यपेक्षया गमयित्वा सम्दर्शनः समाः । तमसः परं आपदव्ययं पुरुषं योगसमाधिना रघुः । । ८.२४ । ।
अथ काश्चिद् अज-व्यपेक्षया गमयित्वा सम्दर्शनः समाः । तमसः परम् आपद्-अव्ययम् पुरुषम् योग-समाधिना रघुः । । ८।२४ । ।
atha kāścid aja-vyapekṣayā gamayitvā samdarśanaḥ samāḥ . tamasaḥ param āpad-avyayam puruṣam yoga-samādhinā raghuḥ . . 8.24 . .
शुतदेहविसर्जनः पितुश्चिरं अश्रूणि विमुच्य राघवः । विदधे विधिं अस्य नैष्ठिकं यतिभिः सार्धं अनग्निं अग्निचिथ् । । ८.२५ । ।
शुत-देह-विसर्जनः पितुः चिरम् अश्रूणि विमुच्य राघवः । विदधे विधिम् अस्य नैष्ठिकम् यतिभिः सार्धम् अनग्निम् अग्नि-चिथ् । । ८।२५ । ।
śuta-deha-visarjanaḥ pituḥ ciram aśrūṇi vimucya rāghavaḥ . vidadhe vidhim asya naiṣṭhikam yatibhiḥ sārdham anagnim agni-cith . . 8.25 . .
अकरोत्स तदौर्ध्वदैहिकं पितृभक्त्या पितृकार्यकल्पविथ् । न हि तेन पथा तनुत्यजस्तनयावर्जितपिण्डकाङ्क्षिणः । । ८.२६ । ।
अकरोत् स तत् और्ध्वदैहिकम् पितृ-भक्त्या । न हि तेन पथा तनुत्यजः तनया-वर्जित-पिण्ड-काङ्क्षिणः । । ८।२६ । ।
akarot sa tat aurdhvadaihikam pitṛ-bhaktyā . na hi tena pathā tanutyajaḥ tanayā-varjita-piṇḍa-kāṅkṣiṇaḥ . . 8.26 . .
स परार्ध्यगतेरशोच्यतां पितुरुद्दिश्य सदर्थवेदिभिः । शमिताधिरधिज्यकार्मुकः कृतवानप्रतिशासनं जगथ् । । ८.२७ । ।
स परार्ध्य-गतेः अशोच्य-ताम् पितुः उद्दिश्य सत्-अर्थ-वेदिभिः । शमित-आधिः अधिज्य-कार्मुकः कृतवान् अ प्रतिशासनम् । । ८।२७ । ।
sa parārdhya-gateḥ aśocya-tām pituḥ uddiśya sat-artha-vedibhiḥ . śamita-ādhiḥ adhijya-kārmukaḥ kṛtavān a pratiśāsanam . . 8.27 . .
क्षितिरिन्दुमती च भामिनी पतिं आसाद्य तं अग्र्यपौरुषं । प्रथमा बहुरत्नसूरभूदपरा वीरं अजीजनत्सुतं । । ८.२८ । ।
क्षितिः इन्दुमती च भामिनी पतिम् आसाद्य तम् अग्र्य-पौरुषम् । प्रथमा बहु-रत्न-सूः अभूत् अपरा वीरम् अजीजनत् सुतम् । । ८।२८ । ।
kṣitiḥ indumatī ca bhāminī patim āsādya tam agrya-pauruṣam . prathamā bahu-ratna-sūḥ abhūt aparā vīram ajījanat sutam . . 8.28 . .
दशरास्मिशतोपमद्युतिं यशसा दिक्षु दशवपि श्रुतं । दशपूर्वरथं यं आख्यया दशकण्ठारिगुरुं विदुर्बुधाः । । ८.२९ । ।
दश-रास्मि-शत-उपम-द्युतिम् यशसा दिक्षु श्रुतम् । दश-पूर्व-रथम् यम् आख्यया दशकण्ठ-अरि-गुरुम् विदुः बुधाः । । ८।२९ । ।
daśa-rāsmi-śata-upama-dyutim yaśasā dikṣu śrutam . daśa-pūrva-ratham yam ākhyayā daśakaṇṭha-ari-gurum viduḥ budhāḥ . . 8.29 . .
ऋषिदेवगणस्वधाभुजां श्रुतयागप्रस्वैः स पार्थिवः । अनृणत्वं उपेयिवान्बभौ परिधेर्मुक्त इवोष्णदीधितिः । । ८.३० । ।
ऋषि-देव-गण-स्वधाभुजाम् श्रुत-याग-प्रस्वैः स पार्थिवः । अनृण-त्वम् उपेयिवान् बभौ परिधेः मुक्तः इव उष्ण-दीधितिः । । ८।३० । ।
ṛṣi-deva-gaṇa-svadhābhujām śruta-yāga-prasvaiḥ sa pārthivaḥ . anṛṇa-tvam upeyivān babhau paridheḥ muktaḥ iva uṣṇa-dīdhitiḥ . . 8.30 . .
बलं आर्तभयोपशान्तये विदुषां संनतये बहु श्रुतं । वसु तस्य न केवलं गुणवत्तापि परप्रयोजना । । ८.३१ । ।
बलम् आर्त-भय-उपशान्तये विदुषाम् संनतये बहु श्रुतम् । वसु तस्य न केवलम् गुणवत्-ता अपि पर-प्रयोजना । । ८।३१ । ।
balam ārta-bhaya-upaśāntaye viduṣām saṃnataye bahu śrutam . vasu tasya na kevalam guṇavat-tā api para-prayojanā . . 8.31 . .
स कदाचिदवेषितप्रजः सह देव्या विजहार सुप्रजाः । नगरोपवने शचीसखो मरुतां पालयितेव नन्दने । । ८.३२ । ।
स कदाचिद् अवेषित-प्रजः सह देव्या विजहार सुप्रजाः । नगर-उपवने शची-सखः मरुताम् पालयिता इव नन्दने । । ८।३२ । ।
sa kadācid aveṣita-prajaḥ saha devyā vijahāra suprajāḥ . nagara-upavane śacī-sakhaḥ marutām pālayitā iva nandane . . 8.32 . .
अथ रोधसि दक्षिणोदधेः श्रित गोकर्णनिकेतं ईश्वरं । उपवीणयितुं ययौ रवेरुदगावृत्तिपथेन नारदः । । ८.३३ । ।
अथ रोधसि दक्षिण-उदधेः गोकर्ण-निकेतम् ईश्वरम् । उपवीणयितुम् ययौ रवेः उदक्-आवृत्ति-पथेन नारदः । । ८।३३ । ।
atha rodhasi dakṣiṇa-udadheḥ gokarṇa-niketam īśvaram . upavīṇayitum yayau raveḥ udak-āvṛtti-pathena nāradaḥ . . 8.33 . .
कुसुमैर्ग्रथितां अपार्थिवैः स्रजं आतोद्यशिरोनिवेशितां । अहरत्किल तस्य वेगवानधिवासस्पृहयेव मारुतः । । ८.३४ । ।
कुसुमैः ग्रथिताम् अपार्थिवैः स्रजम् आतोद्य-शिरः-निवेशिताम् । अहरत् किल तस्य वेगवान् अधिवास-स्पृहया इव मारुतः । । ८।३४ । ।
kusumaiḥ grathitām apārthivaiḥ srajam ātodya-śiraḥ-niveśitām . aharat kila tasya vegavān adhivāsa-spṛhayā iva mārutaḥ . . 8.34 . .
भ्रमरैः कुसुमानुसारिभिः परिकीर्णा परिवादिनी मुनेः । ददृशे पवनावलेपजं सृजती बाष्पं इवाञ्जनाविलं । । ८.३५ । ।
भ्रमरैः कुसुम-अनुसारिभिः परिकीर्णा परिवादिनी मुनेः । ददृशे पवन-अवलेप-जम् सृजती बाष्पम् इव अञ्जन-आविलम् । । ८।३५ । ।
bhramaraiḥ kusuma-anusāribhiḥ parikīrṇā parivādinī muneḥ . dadṛśe pavana-avalepa-jam sṛjatī bāṣpam iva añjana-āvilam . . 8.35 . .
अभिभूय विभूतिं आर्तवीं मधुगन्धातिशयेन वीरुधां । नृपतेरमरस्रगाप सा दयितोरुस्तनकोटिसुस्थितिं । । ८.३६ । ।
अभिभूय विभूतिम् आर्तवीम् मधु-गन्ध-अतिशयेन वीरुधाम् । नृपतेः अमर-स्रज् आप सा दयिता-ऊरु-स्तन-कोटि-सुस्थितिम् । । ८।३६ । ।
abhibhūya vibhūtim ārtavīm madhu-gandha-atiśayena vīrudhām . nṛpateḥ amara-sraj āpa sā dayitā-ūru-stana-koṭi-susthitim . . 8.36 . .
क्षणमात्रसखीं सुजातयोः स्तनयोस्तां अवलोक्य विहला । निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव क्ॐउदी । । ८.३७ । ।
क्षण-मात्र-सखीम् सुजातयोः स्तनयोः ताम् अवलोक्य विहला । निमिमील नर-उत्तम-प्रिया हृत-चन्द्रा तमसा इव कोंउदी । । ८।३७ । ।
kṣaṇa-mātra-sakhīm sujātayoḥ stanayoḥ tām avalokya vihalā . nimimīla nara-uttama-priyā hṛta-candrā tamasā iva koṃudī . . 8.37 . .
वपुषा करणोज्झितेन सा निपतन्ती पतिं अप्यपातयथ् । ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीं । । ८.३८ । ।
वपुषा करण-उज्झितेन सा निपतन्ती पतिम् अपि अपातयथ् । ननु तैल-निषेक-बिन्दुना सह दीप-अर्चिः उपैति मेदिनीम् । । ८।३८ । ।
vapuṣā karaṇa-ujjhitena sā nipatantī patim api apātayath . nanu taila-niṣeka-bindunā saha dīpa-arciḥ upaiti medinīm . . 8.38 . .
समं एव नराधिपेन सा गुरुसंमोहविलुप्तचेतना । गुरुसंमोहविलुप्तचेतना नवदीपार्चिरिव क्षितेस्तलं । । ८.३८* । ।
समम् एव नराधिपेन सा गुरु-संमोह-विलुप्त-चेतना । गुरु-संमोह-विलुप्त-चेतना नव-दीप-अर्चिः इव क्षितेः तलम् । । ८।३८ । ।
samam eva narādhipena sā guru-saṃmoha-vilupta-cetanā . guru-saṃmoha-vilupta-cetanā nava-dīpa-arciḥ iva kṣiteḥ talam . . 8.38 . .
उभयोरपि पार्श्ववर्तिनां तुमु लेनार्तरवेण वेजिताः । विहगाः कमलाकरालयाः समदुःखा इव तत्र चुक्रुशुः । । ८.३९ । ।
उभयोः अपि पार्श्व-वर्तिनाम् तुमु लेन आर्त-रवेण वेजिताः । विहगाः कमल-अकर-आलयाः सम-दुःखाः इव तत्र चुक्रुशुः । । ८।३९ । ।
ubhayoḥ api pārśva-vartinām tumu lena ārta-raveṇa vejitāḥ . vihagāḥ kamala-akara-ālayāḥ sama-duḥkhāḥ iva tatra cukruśuḥ . . 8.39 . .
नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता । प्रतिकारविधानं आयुषः सति शेषे हि फलाय कल्पते । । ८.४० । ।
नृपतेः व्यजन-आदिभिः तमः नुनुदे सा तु तथा एव संस्थिता । प्रतिकार-विधानम् आयुषः सति शेषे हि फलाय कल्पते । । ८।४० । ।
nṛpateḥ vyajana-ādibhiḥ tamaḥ nunude sā tu tathā eva saṃsthitā . pratikāra-vidhānam āyuṣaḥ sati śeṣe hi phalāya kalpate . . 8.40 . .
प्रतियोजयितव्यवल्लकीसमवस्थां अथ सत्त्वविप्लवाथ् । स निनाय नितान्तवत्सलः परिगृह्योचितं अङ्कं अङ्गनां । । ८.४१ । ।
प्रतियोजयितव्य-वल्लकी-समवस्थाम् अथ सत्त्व-विप्लवाः । स निनाय नितान्त-वत्सलः परिगृह्य उचितम् अङ्कम् अङ्गनाम् । । ८।४१ । ।
pratiyojayitavya-vallakī-samavasthām atha sattva-viplavāḥ . sa nināya nitānta-vatsalaḥ parigṛhya ucitam aṅkam aṅganām . . 8.41 . .
स निनाय नितान्तवत्सलः परिवृत्तप्रथमच्छविं क्षणाथ् । सलिलोद्धृतपद्मिनीनिभां दयितां अङ्कं उदशुलोचनः । । ८.४१* । ।
स निनाय नितान्त-वत्सलः परिवृत्त-प्रथम-छविम् क्षणाथ् । सलिल-उद्धृत-पद्मिनी-निभाम् दयिताम् अङ्कम् । । ८।४१ । ।
sa nināya nitānta-vatsalaḥ parivṛtta-prathama-chavim kṣaṇāth . salila-uddhṛta-padminī-nibhām dayitām aṅkam . . 8.41 . .
स निनाय नितान्तवत्सलः करणापायविभिन्नवर्णया । समलक्ष्यत बिभ्रदाविलां मृगलेखां उषसीव चन्द्रमाः । । ८.४२ । ।
स निनाय नितान्त-वत्सलः करण-अपाय-विभिन्न-वर्णया । समलक्ष्यत बिभ्रत् आविलाम् मृग-लेखाम् उषसि इव चन्द्रमाः । । ८।४२ । ।
sa nināya nitānta-vatsalaḥ karaṇa-apāya-vibhinna-varṇayā . samalakṣyata bibhrat āvilām mṛga-lekhām uṣasi iva candramāḥ . . 8.42 . .
विललाप स बाष्पगद्गदं सहजां अप्यपहाय धीरतां । अभितप्तं अयोऽपि मार्दवं भजते कैव कथा शरीरिषु । । ८.४३ । ।
विललाप स बाष्प-गद्गदम् सहजाम् अपि अपहाय धीर-ताम् । अभितप्तम् अयः अपि मार्दवम् भजते का एव कथा शरीरिषु । । ८।४३ । ।
vilalāpa sa bāṣpa-gadgadam sahajām api apahāya dhīra-tām . abhitaptam ayaḥ api mārdavam bhajate kā eva kathā śarīriṣu . . 8.43 . .
कुसुमान्यपि गात्रसंगमात्प्रभवन्त्यायुरपोहितुं यदि । न भविष्यति हन्त साधनं किं इवानयत्प्रहरिष्यतो विधेः । । ८.४४ । ।
कुसुमानि अपि गात्र-संगमात् प्रभवन्ति आयुः अपोहितुम् यदि । न भविष्यति हन्त साधनम् किम् इव अनयत् प्रहरिष्यतः विधेः । । ८।४४ । ।
kusumāni api gātra-saṃgamāt prabhavanti āyuḥ apohitum yadi . na bhaviṣyati hanta sādhanam kim iva anayat prahariṣyataḥ vidheḥ . . 8.44 . .
अथ वा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः । हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं मता । । ८.४५ । ।
अथ वा मृदु वस्तु हिंसितुम् मृदुना एव आरभते प्रजा-अन्तकः । हिम-सेक-विपत्तिः अत्र मे नलिनी पूर्व-निदर्शनम् मता । । ८।४५ । ।
atha vā mṛdu vastu hiṃsitum mṛdunā eva ārabhate prajā-antakaḥ . hima-seka-vipattiḥ atra me nalinī pūrva-nidarśanam matā . . 8.45 . .
स्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति मां । विषं अप्यमृतं क्वचिद्भवेदमृतं वा विषं ईश्वरेच्छया । । ८.४६ । ।
स्रज् इयम् यदि जीवित-अपहा हृदये किम् निहिता न हन्ति माम् । विषम् अपि अमृतम् क्वचिद् भवेत् अमृतम् वा विषम् ईश्वर-इच्छया । । ८।४६ । ।
sraj iyam yadi jīvita-apahā hṛdaye kim nihitā na hanti mām . viṣam api amṛtam kvacid bhavet amṛtam vā viṣam īśvara-icchayā . . 8.46 . .
अथ वा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा । यदनेन तरुर्न पातितस्क्षपिता तद्विटपाश्रितलता । । ८.४७ । ।
अथ वा मम भाग्य-विप्लवात् अशनिः कल्पितः एष वेधसा । यत् अनेन तरुः न पातितः क्षपिता तद्-विटप-आश्रित-लता । । ८।४७ । ।
atha vā mama bhāgya-viplavāt aśaniḥ kalpitaḥ eṣa vedhasā . yat anena taruḥ na pātitaḥ kṣapitā tad-viṭapa-āśrita-latā . . 8.47 . .
कृतवत्यसि नावधीरणां अपराध्हेऽपि यदा चिरं मयि । कथं एकपदे निरागसं जनं आभाष्यं इमं न मन्यसे । । ८.४८ । ।
कृतवती असि न अवधीरणाम् अपराध्हे अपि यदा चिरम् मयि । कथम् एकपदे निरागसम् जनम् आभाष्यम् इमम् न मन्यसे । । ८।४८ । ।
kṛtavatī asi na avadhīraṇām aparādhhe api yadā ciram mayi . katham ekapade nirāgasam janam ābhāṣyam imam na manyase . . 8.48 . .
ध्रुवं अस्मि शठः शुचिस्मिते विधितः कैतववत्सलस्तव । परलोकं असंनिवृत्तये यदनापृच्छ्य गतासि मां इतः । । ८.४९ । ।
ध्रुवम् अस्मि शठः शुचि-स्मिते विधितः कैतव-वत्सलः तव । पर-लोकम् अ संनिवृत्तये यत् अन् आपृच्छ्य गता असि माम् इतस् । । ८।४९ । ।
dhruvam asmi śaṭhaḥ śuci-smite vidhitaḥ kaitava-vatsalaḥ tava . para-lokam a saṃnivṛttaye yat an āpṛcchya gatā asi mām itas . . 8.49 . .
दयितां यदि तावदन्वगाद्विनिवृत्तं किं इदं तया विना । सहतां हतजीवितं मम प्रबलां आत्मकृतेन वेदनां । । ८.५० । ।
दयिताम् यदि तावत् अन्वगात् विनिवृत्तम् किम् इदम् तया विना । सहताम् हत-जीवितम् मम प्रबलाम् आत्म-कृतेन वेदनाम् । । ८।५० । ।
dayitām yadi tāvat anvagāt vinivṛttam kim idam tayā vinā . sahatām hata-jīvitam mama prabalām ātma-kṛtena vedanām . . 8.50 . .
सुरतश्रमसंभृतो मुखे ध्रियते स्वेदलवोद्गमोऽपि ते । अथ चास्तमिताऽस्यहो बत धिगिमां देहभृतां असारतां । । ८.५१ । ।
सुरत-श्रम-संभृतः मुखे ध्रियते स्वेद-लव-उद्गमः अपि ते । अथ च अस्तमिता असि अहो बत धिक् इमाम् देहभृताम् अ सार-ताम् । । ८।५१ । ।
surata-śrama-saṃbhṛtaḥ mukhe dhriyate sveda-lava-udgamaḥ api te . atha ca astamitā asi aho bata dhik imām dehabhṛtām a sāra-tām . . 8.51 . .
सुरतश्रमवारिबिन्दवो न हि तावद्विरमन्ति ते मुखे । कथं अस्तमिताऽस्यहो बत धिगिमां देहवतां असारतां । । ८.५१* । ।
सुरत-श्रम-वारि-बिन्दवः न हि तावत् विरमन्ति ते मुखे । कथम् अस्तमिता असि अहो बत धिक् इमाम् देहवताम् अ सार-ताम् । । ८।५१ । ।
surata-śrama-vāri-bindavaḥ na hi tāvat viramanti te mukhe . katham astamitā asi aho bata dhik imām dehavatām a sāra-tām . . 8.51 . .
मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि मां । ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः । । ८.५२ । ।
मनसा अपि न विप्रियम् मया कृत-पूर्वम् तव किम् जहासि माम् । ननु शब्द-पतिः क्षितेः अहम् त्वयि मे भाव-निबन्धना रतिः । । ८।५२ । ।
manasā api na vipriyam mayā kṛta-pūrvam tava kim jahāsi mām . nanu śabda-patiḥ kṣiteḥ aham tvayi me bhāva-nibandhanā ratiḥ . . 8.52 . .
कुसुमोत्कचितान्वलीमतश्चलयन्भृङ्गरुचस्तवालकान् । करभोरु करोति मारुतस्त्वदुपावर्तन्शङ्कि मे मनः । । ८.५३ । ।
कुसुम-उत्कचितान् वलीमतः चलयन् भृङ्ग-रुचः तव अलकान् । करभ-ऊरु करोति मारुतः त्वत् उपावर्तन् शङ्कि मे मनः । । ८।५३ । ।
kusuma-utkacitān valīmataḥ calayan bhṛṅga-rucaḥ tava alakān . karabha-ūru karoti mārutaḥ tvat upāvartan śaṅki me manaḥ . . 8.53 . .
तदपोहितुं अर्हसि प्रिये प्रतिबोधेन विषादं आषु मे । ज्वलितेन गुहागतं तमस्तुहिनाद्रेरिव नतं ओषधिः । । ८.५४ । ।
तत् अपोहितुम् अर्हसि प्रिये प्रतिबोधेन विषादम् मे । ज्वलितेन गुहा-गतम् तमः तुहिन-अद्रेः इव नतम् ओषधिः । । ८।५४ । ।
tat apohitum arhasi priye pratibodhena viṣādam me . jvalitena guhā-gatam tamaḥ tuhina-adreḥ iva natam oṣadhiḥ . . 8.54 . .
इदं उच्छ्वसितालकं मुखं विश्रान्तकथं दुनोति मां । निशि सुप्तं इवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनं । । ८.५५ । ।
इदम् उच्छ्वसित-अलकम् मुखम् विश्रान्त-कथम् दुनोति माम् । निशि सुप्तम् इव एक-पङ्कजम् विरत-अभ्यन्तर-षट्पद-स्वनम् । । ८।५५ । ।
idam ucchvasita-alakam mukham viśrānta-katham dunoti mām . niśi suptam iva eka-paṅkajam virata-abhyantara-ṣaṭpada-svanam . . 8.55 . .
शशिनं पुनरेति शार्वरी दयिता द्वन्द्वचरं पतत्रिणं । इति तौ विर्हान्तरक्षमौ कथं अत्यन्तगता न मां दहेः । । ८.५६ । ।
शशिनम् पुनर् एति शार्वरी दयिता द्वन्द्व-चरम् पतत्रिणम् । इति तौ कथम् अत्यन्त-गता न माम् दहेः । । ८।५६ । ।
śaśinam punar eti śārvarī dayitā dvandva-caram patatriṇam . iti tau katham atyanta-gatā na mām daheḥ . . 8.56 . .
नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गं अर्पितं । तदिदं विषहिष्यते कथं वद वामोरु चिताधिरोहणं । । ८.५७ । ।
नव-पल्लव-संस्तरे अपि ते मृदु दूयेत यत् अङ्गम् अर्पितम् । तत् इदम् विषहिष्यते कथम् वद वाम-ऊरु चिता-अधिरोहणम् । । ८।५७ । ।
nava-pallava-saṃstare api te mṛdu dūyeta yat aṅgam arpitam . tat idam viṣahiṣyate katham vada vāma-ūru citā-adhirohaṇam . . 8.57 . .
इयं अप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी । गतिविभ्रमसाद नीरवा न शुचा नानुमृतेव लक्ष्य्ते । । ८.५८ । ।
इयम् अप्रतिबोध-शायिनीम् रशना त्वाम् प्रथमा रहः-सखी । गति-विभ्रम-साद नीरवा न शुचा न अनुमृता इव लक्ष्यते । । ८।५८ । ।
iyam apratibodha-śāyinīm raśanā tvām prathamā rahaḥ-sakhī . gati-vibhrama-sāda nīravā na śucā na anumṛtā iva lakṣyate . . 8.58 . .
कलं अन्यभृतासु भाषितं कलहंसीषु गतं मदालसं । पृटतीषु विलोलं ईक्षितं पवनाधूतलतासु विभ्रमः । । ८.५९ । ।
कलम् अन्य-भृतासु भाषितम् कलहंसीषु गतम् मद-अलसम् । विलोलम् ईक्षितम् पवन-आधूत-लतासु विभ्रमः । । ८।५९ । ।
kalam anya-bhṛtāsu bhāṣitam kalahaṃsīṣu gatam mada-alasam . vilolam īkṣitam pavana-ādhūta-latāsu vibhramaḥ . . 8.59 . .
त्रिदिवोत्सुकयाप्यवेक्ष्य मां निहिताः सत्यं अमी गुणास्त्वया । विरहे तव मे गुरुव्यथं हृदयं न त्ववलम्बितुं क्षमाः । । ८.६० । ।
त्रिदिव-उत्सुकया अपि अवेक्ष्य माम् निहिताः सत्यम् अमी गुणाः त्वया । विरहे तव मे गुरु-व्यथम् हृदयम् न तु अवलम्बितुम् क्षमाः । । ८।६० । ।
tridiva-utsukayā api avekṣya mām nihitāḥ satyam amī guṇāḥ tvayā . virahe tava me guru-vyatham hṛdayam na tu avalambitum kṣamāḥ . . 8.60 . .
मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ । अविधाय विवाहसत्क्रियां अनयोर्गम्यत इव्यसांप्रतं । । ८.६१ । ।
मिथुनम् परिकल्पितम् त्वया सहकारः फलिनी च ननु इमौ । अ विधाय विवाह-सत्क्रियाम् अनयोः गम्यते इवि असांप्रतम् । । ८।६१ । ।
mithunam parikalpitam tvayā sahakāraḥ phalinī ca nanu imau . a vidhāya vivāha-satkriyām anayoḥ gamyate ivi asāṃpratam . . 8.61 . .
कुसुमं कृतदोहदस्त्वया यदशोकोऽयं उदीरयिष्यति । अलकाभरणं कथं नु तत्तव नेष्यामि निवापलाल्यतां । । ८.६२ । ।
कुसुमम् कृत-दोहदः त्वया यत् अशोकः अयम् उदीरयिष्यति । अलक-आभरणम् कथम् नु तत् तव नेष्यामि निवाप-लाल्यताम् । । ८।६२ । ।
kusumam kṛta-dohadaḥ tvayā yat aśokaḥ ayam udīrayiṣyati . alaka-ābharaṇam katham nu tat tava neṣyāmi nivāpa-lālyatām . . 8.62 . .
स्मरतेव सशब्दनूपुरं चरणानुग्रहं अन्यदुर्लभं । अमुना कुसुमाश्रुवर्षिणा त्वं अशोकेन सुगात्रि शोच्यसे । । ८.६३ । ।
स्मरता इव स शब्द-नूपुरम् चरण-अनुग्रहम् अन्य-दुर्लभम् । अमुना कुसुम-अश्रु-वर्षिणा त्वम् अशोकेन सु गात्रि शोच्यसे । । ८।६३ । ।
smaratā iva sa śabda-nūpuram caraṇa-anugraham anya-durlabham . amunā kusuma-aśru-varṣiṇā tvam aśokena su gātri śocyase . . 8.63 . .
तव निःश्वसितानुकारिभिर्बकुलैरर्धचितां समं मया । असमाप्य विलासमेखलां किं इदं किंनरकण्ठि सुप्यते । । ८.६४ । ।
तव निःश्वसित-अनुकारिभिः बकुलैः अर्ध-चिताम् समम् मया । अ समाप्य विलासमेखलाम् किम् इदम् किंनर-कण्ठि सुप्यते । । ८।६४ । ।
tava niḥśvasita-anukāribhiḥ bakulaiḥ ardha-citām samam mayā . a samāpya vilāsamekhalām kim idam kiṃnara-kaṇṭhi supyate . . 8.64 . .
समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभोऽयं आत्मजः । अहं एकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः । । ८.६५ । ।
सम-दुःख-सुखः सखी-जनः प्रतिपद्-चन्द्र-निभः अयम् आत्मजः । अहम् एकरसः तथा अपि ते व्यवसायः प्रतिपत्ति-निष्ठुरः । । ८।६५ । ।
sama-duḥkha-sukhaḥ sakhī-janaḥ pratipad-candra-nibhaḥ ayam ātmajaḥ . aham ekarasaḥ tathā api te vyavasāyaḥ pratipatti-niṣṭhuraḥ . . 8.65 . .
धृतिरस्तमिता रतिश्च्युता विरतं गेयं ऋतुर्निरुत्सवः । गतं आभरणप्रयोजनं परिशून्यं शयनीयं अद्य मे । । ८.६६ । ।
धृतिः अस्तमिता रतिः च्युता विरतम् गेयम् ऋतुः निरुत्सवः । गतम् आभरण-प्रयोजनम् परिशून्यम् शयनीयम् अद्य मे । । ८।६६ । ।
dhṛtiḥ astamitā ratiḥ cyutā viratam geyam ṛtuḥ nirutsavaḥ . gatam ābharaṇa-prayojanam pariśūnyam śayanīyam adya me . . 8.66 . .
गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतं । । ८.६७ । ।
गृहिणी सचिवः सखी मिथस् प्रिय-शिष्याः ललिते कला-विधौ । करुणा-विमुखेन मृत्युना हरता त्वाम् वद किम् न मे हृतम् । । ८।६७ । ।
gṛhiṇī sacivaḥ sakhī mithas priya-śiṣyāḥ lalite kalā-vidhau . karuṇā-vimukhena mṛtyunā haratā tvām vada kim na me hṛtam . . 8.67 . .
मदिराक्षि मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे । अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिं । । ८.६८ । ।
मदिरा-अक्षि मद्-आनन-अर्पितम् मधु पीत्वा रसवत् कथम् नु मे । अनुपास्यसि बाष्प-दूषितम् पर-लोक-उपनतम् जलाञ्जलिम् । । ८।६८ । ।
madirā-akṣi mad-ānana-arpitam madhu pītvā rasavat katham nu me . anupāsyasi bāṣpa-dūṣitam para-loka-upanatam jalāñjalim . . 8.68 . .
विभवेऽपि सति त्वया विना सुखं एतावदजस्य गण्यतां । अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्तदाश्रयाः । । ८.६९ । ।
विभवे अपि सति त्वया विना सुखम् एतावत् अजस्य गण्यताम् । अहृतस्य विलोभन-अन्तरैः मम सर्वे विषयाः तद्-आश्रयाः । । ८।६९ । ।
vibhave api sati tvayā vinā sukham etāvat ajasya gaṇyatām . ahṛtasya vilobhana-antaraiḥ mama sarve viṣayāḥ tad-āśrayāḥ . . 8.69 . .
विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति । अकरोत्पृथिवीरुहानपि स्रुतशाखारसभाष्पदुर्दिनान् । । ८.७० । ।
विलपन् इति कोसल-अधिपः करुण-अर्थ-ग्रथितम् प्रियाम् प्रति । अकरोत् पृथिवीरुहान् अपि स्रुत-शाखा-रस-भाष्प-दुर्दिनान् । । ८।७० । ।
vilapan iti kosala-adhipaḥ karuṇa-artha-grathitam priyām prati . akarot pṛthivīruhān api sruta-śākhā-rasa-bhāṣpa-durdinān . . 8.70 . .
अथ तस्य कथंचिदङ्कतः स्वजनस्तां अपनीय सुन्दरीं । विससर्ज कृतान्त्यमण्डनां अनलाय्ऽ आगुरुचन्दनदिहसे । । ८.७१ । ।
अथ तस्य कथंचिद् अङ्कतः स्व-जनः ताम् अपनीय सुन्दरीम् । विससर्ज कृत-अन्त्य-मण्डनाम् अनलाय । । ८।७१ । ।
atha tasya kathaṃcid aṅkataḥ sva-janaḥ tām apanīya sundarīm . visasarja kṛta-antya-maṇḍanām analāya . . 8.71 . .
प्रमदां अनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनाथ् । न चकार शरीरं अग्निसात्सह देव्या न तु जीविताशया । । ८.७२ । ।
प्रमदाम् अनु संस्थितः शुचा नृपतिः सन् इति वाच्य-दर्शनाथ् । न चकार शरीरम् अग्निसात् सह देव्या न तु जीवित-आशया । । ८।७२ । ।
pramadām anu saṃsthitaḥ śucā nṛpatiḥ san iti vācya-darśanāth . na cakāra śarīram agnisāt saha devyā na tu jīvita-āśayā . . 8.72 . .
अथ तेन दशाहतः परे गुणशेषां उपदिष्य गेहिनीं । विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः । । ८.७३ । ।
अथ तेन दश-अहतः परे गुण-शेषाम् उपदिष्य गेहिनीम् । विदुषा विधयः महा-ऋद्धयः पुरस् एव उपवने समापिताः । । ८।७३ । ।
atha tena daśa-ahataḥ pare guṇa-śeṣām upadiṣya gehinīm . viduṣā vidhayaḥ mahā-ṛddhayaḥ puras eva upavane samāpitāḥ . . 8.73 . .
स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः । परिवाहं इवावलोकयन्स्वशुचः पौरवधूमुखाश्रुषु । । ८.७४ । ।
स विवेश पुरीम् तया विना क्षणदा-अपाय-शशाङ्क-दर्शनः । परिवाहम् इव अवलोकयन् स्व-शुचः पौर-वधू-मुख-अश्रुषु । । ८।७४ । ।
sa viveśa purīm tayā vinā kṣaṇadā-apāya-śaśāṅka-darśanaḥ . parivāham iva avalokayan sva-śucaḥ paura-vadhū-mukha-aśruṣu . . 8.74 . .
अथ तं सवनाय दिषितः प्रणिधानाद्गुरुराश्रमस्थितः । अभिषङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोधयथ् । । ८.७५ । ।
अथ तम् सवनाय प्रणिधानात् गुरुः आश्रम-स्थितः । अभिषङ्ग-जडम् विजज्ञिवान् इति शिष्येण किल अन्वबोधयथ् । । ८।७५ । ।
atha tam savanāya praṇidhānāt guruḥ āśrama-sthitaḥ . abhiṣaṅga-jaḍam vijajñivān iti śiṣyeṇa kila anvabodhayath . . 8.75 . .
असमाप्तविधिर्यतो मुनिस्तव विद्वानपि तापकारणं । न भवन्तं उपस्थितः स्वयं प्रकृतौ स्थापयितुं कृतस्थितिः । । ८.७६ । ।
असमाप्त-विधिः यतस् मुनिः तव विद्वान् अपि ताप-कारणम् । न भवन्तम् उपस्थितः स्वयम् प्रकृतौ स्थापयितुम् कृत-स्थितिः । । ८।७६ । ।
asamāpta-vidhiḥ yatas muniḥ tava vidvān api tāpa-kāraṇam . na bhavantam upasthitaḥ svayam prakṛtau sthāpayitum kṛta-sthitiḥ . . 8.76 . .
मयि तस्य सुवृत्त वर्तते लघुसंदेशपदा सरस्वती । शृणु विश्रुतसत्त्वसार तां हृदि चैनां उपधातुं अर्हसि । । ८.७७ । ।
मयि तस्य सु वृत्त वर्तते लघु-संदेश-पदा सरस्वती । शृणु विश्रुत-सत्त्व-सार ताम् हृदि च एनाम् उपधातुम् अर्हसि । । ८।७७ । ।
mayi tasya su vṛtta vartate laghu-saṃdeśa-padā sarasvatī . śṛṇu viśruta-sattva-sāra tām hṛdi ca enām upadhātum arhasi . . 8.77 . .
पुरुषस्य पदेष्वजन्मनः समतीतं च भवच्च भावि च । स हि निष्प्रतिघेन चक्षुषा त्रितयं ज्ञानमयेन पश्यति । । ८.७८ । ।
पुरुषस्य पदेषु अजन्मनः समतीतम् च भवत् च भावि च । स हि निष्प्रतिघेन चक्षुषा त्रितयम् ज्ञान-मयेन पश्यति । । ८।७८ । ।
puruṣasya padeṣu ajanmanaḥ samatītam ca bhavat ca bhāvi ca . sa hi niṣpratighena cakṣuṣā tritayam jñāna-mayena paśyati . . 8.78 . .
चरतः किल दुश्चरं तपस्तृणबिन्दोः परिशङ्कितः पुरा । प्रजिघाय समाधिबेदिनीं हरिरस्मै हरिणीं सुराङ्गनां । । ८.७९ । ।
चरतः किल दुश्चरम् तपः तृणबिन्दोः परिशङ्कितः पुरा । प्रजिघाय समाधि-बेदिनीम् हरिः अस्मै हरिणीम् सुर-अङ्गनाम् । । ८।७९ । ।
carataḥ kila duścaram tapaḥ tṛṇabindoḥ pariśaṅkitaḥ purā . prajighāya samādhi-bedinīm hariḥ asmai hariṇīm sura-aṅganām . . 8.79 . .
स तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमां । अशपद्भव मानुषीति तां शमवेलाप्रलयोर्मिणा मुनिः । । ८.८० । ।
स तपः-प्रतिबन्ध-मन्युना प्रमुख-आविष्कृत-चारु-विभ्रमाम् । अशपत् भव मानुषी इति ताम् शम-वेला-प्रलय-ऊर्मिणा मुनिः । । ८।८० । ।
sa tapaḥ-pratibandha-manyunā pramukha-āviṣkṛta-cāru-vibhramām . aśapat bhava mānuṣī iti tām śama-velā-pralaya-ūrmiṇā muniḥ . . 8.80 . .
भगवन्परवानयं जनः प्रतिकूलाचरितं क्षमस्व मे । इति चोपनतां क्षितिपृशं विवशा शापनिवृत्तिकारणं । । ८.८१ । ।
भगवन् परवान् अयम् जनः प्रतिकूल-आचरितम् क्षमस्व मे । इति च उपनताम् क्षितिपृशम् विवशा शाप-निवृत्ति-कारणम् । । ८।८१ । ।
bhagavan paravān ayam janaḥ pratikūla-ācaritam kṣamasva me . iti ca upanatām kṣitipṛśam vivaśā śāpa-nivṛtti-kāraṇam . . 8.81 . .
क्रथकैशिकवंशसंभवा तव भूत्वा महिषी चिराय सा । उपलब्धवती दिवश्च्युतं विवशा शापनिवृत्तिकारणं । । ८.८२ । ।
क्रथ-कैशिक-वंश-संभवा तव भूत्वा महिषी चिराय सा । उपलब्धवती दिवः च्युतम् विवशा शाप-निवृत्ति-कारणम् । । ८।८२ । ।
kratha-kaiśika-vaṃśa-saṃbhavā tava bhūtvā mahiṣī cirāya sā . upalabdhavatī divaḥ cyutam vivaśā śāpa-nivṛtti-kāraṇam . . 8.82 . .
तदलं तदपायचिन्तया विपदुत्पत्तिमतां उपस्थिता । वसुधेयं अवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः । । ८.८३ । ।
तत् अलम् तद्-अपाय-चिन्तया विपद्-उत्पत्तिमताम् उपस्थिता । वसुधा इयम् अवेक्ष्यताम् त्वया वसुमत्याः हि नृपाः कलत्रिणः । । ८।८३ । ।
tat alam tad-apāya-cintayā vipad-utpattimatām upasthitā . vasudhā iyam avekṣyatām tvayā vasumatyāḥ hi nṛpāḥ kalatriṇaḥ . . 8.83 . .
उदये मदवाच्यं उज्झता श्रुतं आविष्कृतं आत्मवत्तया । मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यतां । । ८.८४ । ।
उदये मद-वाच्यम् उज्झता श्रुतम् आविष्कृतम् आत्मवत्-तया । मनसः तत् उपस्थिते ज्वरे पुनर् अक्लीब-तया प्रकाश्यताम् । । ८।८४ । ।
udaye mada-vācyam ujjhatā śrutam āviṣkṛtam ātmavat-tayā . manasaḥ tat upasthite jvare punar aklība-tayā prakāśyatām . . 8.84 . .
रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते । परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनां । । ८.८५ । ।
रुदता कुतस् एव सा पुनर् भवता न अनुमृता अपि लभ्यते । पर-लोक-जुषाम् स्व-कर्मभिः गतयः भिन्न-पथाः हि देहिनाम् । । ८।८५ । ।
rudatā kutas eva sā punar bhavatā na anumṛtā api labhyate . para-loka-juṣām sva-karmabhiḥ gatayaḥ bhinna-pathāḥ hi dehinām . . 8.85 . .
रुदितेन न सा निवर्तते नृप तत्तावदन्र्थकं तव । न भवाननुसंस्थितोऽपि तां लभते कर्मवशा हि देहिनः । । ८.८५* । ।
रुदितेन न सा निवर्तते नृप तत् तावत् अन्र्थकम् तव । न भवान् अनुसंस्थितः अपि ताम् लभते कर्म-वशाः हि देहिनः । । ८।८५ । ।
ruditena na sā nivartate nṛpa tat tāvat anrthakam tava . na bhavān anusaṃsthitaḥ api tām labhate karma-vaśāḥ hi dehinaḥ . . 8.85 . .
अपशोकमनाः कुटुम्बिनीं अनुगृह्णीष्व निवापदत्तिभिः । स्वजनाश्रु किलात्रिसंततं दहति प्रेतं इति प्रचक्षते । । ८.८६ । ।
अपशोक-मनाः कुटुम्बिनीम् अनुगृह्णीष्व निवाप-दत्तिभिः । स्व-जन-अश्रु किल अ त्रि-संततम् दहति प्रेतम् इति प्रचक्षते । । ८।८६ । ।
apaśoka-manāḥ kuṭumbinīm anugṛhṇīṣva nivāpa-dattibhiḥ . sva-jana-aśru kila a tri-saṃtatam dahati pretam iti pracakṣate . . 8.86 . .
मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितं उच्यते बुधैः । क्षणं अप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ । । ८.८७ । ।
मरणम् प्रकृतिः शरीरिणाम् विकृतिः जीवितम् उच्यते बुधैः । क्षणम् अपि अवतिष्ठते श्वसन् यदि जन्तुः ननु लाभवान् असौ । । ८।८७ । ।
maraṇam prakṛtiḥ śarīriṇām vikṛtiḥ jīvitam ucyate budhaiḥ . kṣaṇam api avatiṣṭhate śvasan yadi jantuḥ nanu lābhavān asau . . 8.87 . .
अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यं अर्पितं । स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतं । । ८.८८ । ।
अवगच्छति मूढ-चेतनः प्रिय-नाशम् हृदि शल्यम् अर्पितम् । स्थिर-धीः तु तत् एव मन्यते कुशल-द्वार-तया समुद्धृतम् । । ८।८८ । ।
avagacchati mūḍha-cetanaḥ priya-nāśam hṛdi śalyam arpitam . sthira-dhīḥ tu tat eva manyate kuśala-dvāra-tayā samuddhṛtam . . 8.88 . .
स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदा । विरहः किं इवानुतापयेद्वद बाह्यैर्विषयैर्विपश्चितम् । । ८.८९ । ।
स्व-शरीर-शरीरिणौ अपि श्रुत-संयोग-विपर्ययौ यदा । विरहः किम् इव अनुतापयेत् वद बाह्यैः विषयैः विपश्चितम् । । ८।८९ । ।
sva-śarīra-śarīriṇau api śruta-saṃyoga-viparyayau yadā . virahaḥ kim iva anutāpayet vada bāhyaiḥ viṣayaiḥ vipaścitam . . 8.89 . .
न पृथग्जनवच्छुचो वशं वशिनां उत्तम गन्तुं अर्हसि । द्रुमसानुमतां किं अन्तरं यदि वायौ द्वितयेऽपि ते चलाः । । ८.९० । ।
न पृथग्जन-वत् शुचः वशम् वशिनाम् उत्तम गन्तुम् अर्हसि । द्रुम-सानुमताम् किम् अन्तरम् यदि वायौ द्वितये अपि ते चलाः । । ८।९० । ।
na pṛthagjana-vat śucaḥ vaśam vaśinām uttama gantum arhasi . druma-sānumatām kim antaram yadi vāyau dvitaye api te calāḥ . . 8.90 . .
स तथेति विनेतुरुदारमतेः प्रतिगृह्य वचो विससर्ज मुनिम् । तदलब्धपदं हृदि शोकघने प्रतियातं इवान्तिकं अस्य गुरोः । । ८.९१ । ।
स तथा इति विनेतुः उदार-मतेः प्रतिगृह्य वचः विससर्ज मुनिम् । तद्-अलब्ध-पदम् हृदि शोक-घने प्रतियातम् इव अन्तिकम् अस्य गुरोः । । ८।९१ । ।
sa tathā iti vinetuḥ udāra-mateḥ pratigṛhya vacaḥ visasarja munim . tad-alabdha-padam hṛdi śoka-ghane pratiyātam iva antikam asya guroḥ . . 8.91 . .
तेनाष्टौ परिगमिताः समाः कथंचिद्बालत्वादवितथसूनृतेन सूनोः । सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागम्तोसवैश्च । । ८.९२ । ।
तेन अष्टौ परिगमिताः समाः कथंचिद् बाल-त्वात् अवितथ-सूनृतेन सूनोः । सादृश्य-प्रतिकृति-दर्शनैः प्रियायाः स्वप्नेषु । । ८।९२ । ।
tena aṣṭau parigamitāḥ samāḥ kathaṃcid bāla-tvāt avitatha-sūnṛtena sūnoḥ . sādṛśya-pratikṛti-darśanaiḥ priyāyāḥ svapneṣu . . 8.92 . .
तस्य प्रसह्य हृदयं किल शोकशङ्कुः प्लक्षप्ररोह इव सौधतलं बिभेद । प्राणान्तहेतुं अपि तं भिषजां असाध्यं लाभं प्रियानुगमने त्वरया स मेने । । ८.९३ । ।
तस्य प्रसह्य हृदयम् किल शोक-शङ्कुः प्लक्ष-प्ररोहः इव सौध-तलम् बिभेद । प्राणान्त-हेतुम् अपि तम् भिषजाम् असाध्यम् लाभम् प्रिय-अनुगमने त्वरया स मेने । । ८।९३ । ।
tasya prasahya hṛdayam kila śoka-śaṅkuḥ plakṣa-prarohaḥ iva saudha-talam bibheda . prāṇānta-hetum api tam bhiṣajām asādhyam lābham priya-anugamane tvarayā sa mene . . 8.93 . .
सम्यग्विनीतं अथ वर्महरं कुमारं आदिश्य रक्षणविधौ विधिवत्प्रजानां । रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः प्रायोपवेशनमतिर्नृपतिर्बभूव । । ८.९४ । ।
सम्यक् विनीतम् अथ वर्महरम् कुमारम् आदिश्य रक्षण-विधौ विधिवत् प्रजानाम् । रोग-उपसृष्ट-तनु-दुर्वसतिम् मुमुक्षुः प्राय-उपवेशन-मतिः नृपतिः बभूव । । ८।९४ । ।
samyak vinītam atha varmaharam kumāram ādiśya rakṣaṇa-vidhau vidhivat prajānām . roga-upasṛṣṭa-tanu-durvasatim mumukṣuḥ prāya-upaveśana-matiḥ nṛpatiḥ babhūva . . 8.94 . .
तीर्थे तोयव्यतिकरभवे जह्नुकन्यासर्य्वोर्देहत्यागादमरगणनालेख्यं आसाद्य सद्यः । पूर्वाकाराधिकतररुचा संगतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु । । ८.९५ । ।
तीर्थे तोय-व्यतिकर-भवे जह्नु-कन्या-सर्य्वोः देहत्यागात् अमर-गणना-लेख्यम् आसाद्य सद्यस् । पूर्व-आकार-अधिकतर-रुचा संगतः कान्तया असौ लीला-आगारेषु अरमत पुनर् नन्दन-अभ्यन्तरेषु । । ८।९५ । ।
tīrthe toya-vyatikara-bhave jahnu-kanyā-saryvoḥ dehatyāgāt amara-gaṇanā-lekhyam āsādya sadyas . pūrva-ākāra-adhikatara-rucā saṃgataḥ kāntayā asau līlā-āgāreṣu aramata punar nandana-abhyantareṣu . . 8.95 . .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In