| |
|

This overlay will guide you through the buttons:

अग्निवर्णम् अभिषिच्य राघवः स्वे पदे तनयम् अग्नितेजसम् । शिश्रिये श्रुतवताम् अपश्चिमः पश्चिमे वयसि नैमिषं वशी । । १९.१ । ।
अग्नि-वर्णम् अभिषिच्य राघवः स्वे पदे तनयम् अग्नि-तेजसम् । शिश्रिये श्रुतवताम् अपश्चिमः पश्चिमे वयसि नैमिषम् वशी । । १९।१ । ।
agni-varṇam abhiṣicya rāghavaḥ sve pade tanayam agni-tejasam . śiśriye śrutavatām apaścimaḥ paścime vayasi naimiṣam vaśī . . 19.1 . .
तत्र तीर्थसलिलेन दीर्घिकास्तल्पं अन्तरितभूमिभिः कुशैः । सौधवासं उटजेन विस्मृतः संचिकाय फलनिःस्पृहस्तपः । । १९.२ । ।
तत्र तीर्थ-सलिलेन दीर्घिकाः तल्पम् अन्तरित-भूमिभिः कुशैः । सौध-वासम् उटजेन विस्मृतः संचिकाय फल-निःस्पृहः तपः । । १९।२ । ।
tatra tīrtha-salilena dīrghikāḥ talpam antarita-bhūmibhiḥ kuśaiḥ . saudha-vāsam uṭajena vismṛtaḥ saṃcikāya phala-niḥspṛhaḥ tapaḥ . . 19.2 . .
लब्धपालनविधौ न तत्सुतः खेदं आप गुरुणा हि मेदिनी । भोक्तुं एव भुजनिर्जितद्विषा न प्रसाधयितुं अस्य कल्पिता । । १९.३ । ।
लब्ध-पालन-विधौ न तद्-सुतः खेदम् आप गुरुणा हि मेदिनी । भोक्तुम् एव भुज-निर्जित-द्विषा न प्रसाधयितुम् अस्य कल्पिता । । १९।३ । ।
labdha-pālana-vidhau na tad-sutaḥ khedam āpa guruṇā hi medinī . bhoktum eva bhuja-nirjita-dviṣā na prasādhayitum asya kalpitā . . 19.3 . .
सोऽधिकारं अभिकः कुलोचितं काश्चन स्वयं अवर्तयत्समाः । तं निवेश्य सचिवेष्वतः परं स्त्रीविधेयनवयौवनोऽभवथ् । । १९.४ । ।
सः अधिकारम् अभिकः कुल-उचितम् काश्चन स्वयम् अवर्तयत् समाः । तम् निवेश्य सचिवेषु अतस् परम् स्त्री-विधेय-नव-यौवनः अभवथ् । । १९।४ । ।
saḥ adhikāram abhikaḥ kula-ucitam kāścana svayam avartayat samāḥ . tam niveśya saciveṣu atas param strī-vidheya-nava-yauvanaḥ abhavath . . 19.4 . .
कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु । ऋद्धिमन्तं अधिकर्द्धिरुत्तरः पूर्वं उत्सवं अपोहदुत्सवः । । १९.५ । ।
कामिनी-सहचरस्य कामिनः तस्य वेश्मसु मृद्-अङ्गना-आदिषु । ऋद्धिमन्तम् अधिक-ऋद्धिः उत्तरः पूर्वम् उत्सवम् अपोहत्-उत्सवः । । १९।५ । ।
kāminī-sahacarasya kāminaḥ tasya veśmasu mṛd-aṅganā-ādiṣu . ṛddhimantam adhika-ṛddhiḥ uttaraḥ pūrvam utsavam apohat-utsavaḥ . . 19.5 . .
इन्द्रियार्थपरिशून्यं अक्षर्मः सोढुं एकं अपि स क्षणातरं । अन्तरे च विहरन्दिवानिशं न व्यपैक्षत समुत्सुकाः प्रजाः । । १९.६ । ।
इन्द्रिय-अर्थ-परिशून्यम् सोढुम् एकम् अपि स क्षणातरम् । अन्तरे च विहरन् दिवानिशम् न व्यपैक्षत समुत्सुकाः प्रजाः । । १९।६ । ।
indriya-artha-pariśūnyam soḍhum ekam api sa kṣaṇātaram . antare ca viharan divāniśam na vyapaikṣata samutsukāḥ prajāḥ . . 19.6 . .
गौरवाद्यदपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ । तद्गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितं । । १९.७ । ।
गौरवात् यत् अपि जातु मन्त्रिणाम् दर्शनम् प्रकृति-काङ्क्षितम् ददौ । तत् गवाक्ष-विवर-अवलम्बिना केवलेन चरणेन कल्पितम् । । १९।७ । ।
gauravāt yat api jātu mantriṇām darśanam prakṛti-kāṅkṣitam dadau . tat gavākṣa-vivara-avalambinā kevalena caraṇena kalpitam . . 19.7 . .
तं कृतप्रणतयोऽनुजीविनः क्ॐअलात्मनखरागरूषितं । भेजिरे नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणं । । १९.८ । ।
तम् कृत-प्रणतयः अनुजीविनः कोंअल-आत्म-नख-राग-रूषितम् । भेजिरे नव-दिवाकर-आतप-स्पृष्ट-पङ्कज-तुला-अधिरोहणम् । । १९।८ । ।
tam kṛta-praṇatayaḥ anujīvinaḥ koṃala-ātma-nakha-rāga-rūṣitam . bhejire nava-divākara-ātapa-spṛṣṭa-paṅkaja-tulā-adhirohaṇam . . 19.8 . .
युवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश्च दीर्घिकाः । गूढमोहनगृहास्तदम्बुभिः स व्यगाहत विगाढमन्मथः । । १९.९ । ।
युवन-उन्नत-विलासिनी-स्तन-क्षोभ-लोल-कमलाः च दीर्घिकाः । गूढ-मोहन-गृहाः तद्-अम्बुभिः स व्यगाहत विगाढ-मन्मथः । । १९।९ । ।
yuvana-unnata-vilāsinī-stana-kṣobha-lola-kamalāḥ ca dīrghikāḥ . gūḍha-mohana-gṛhāḥ tad-ambubhiḥ sa vyagāhata vigāḍha-manmathaḥ . . 19.9 . .
तत्र सेकहृतलोचनाञ्जनैर्धौतरागपरिपाटलाधरैः । अङ्गनास्तं अधिकं व्यलोभयन्नर्पितप्रकृतिकान्तिभिर्मुखैः । । १९.१० । ।
तत्र सेक-हृत-लोचन-अञ्जनैः धौत-राग-परिपाटला-अधरैः । अङ्गनाः तम् अधिकम् व्यलोभयन् अर्पित-प्रकृति-कान्तिभिः मुखैः । । १९।१० । ।
tatra seka-hṛta-locana-añjanaiḥ dhauta-rāga-paripāṭalā-adharaiḥ . aṅganāḥ tam adhikam vyalobhayan arpita-prakṛti-kāntibhiḥ mukhaiḥ . . 19.10 . .
घ्राणकान्तमधुगन्धकर्षिणीः पानभूमिरचनाः प्रियासखः । अभ्यपद्यत स वासितासखः पुष्पिताः कमलिनीरिव द्विपः । । १९.११ । ।
। अभ्यपद्यत स वा असिता-सखः पुष्पिताः कमलिनीः इव द्विपः । । १९।११ । ।
. abhyapadyata sa vā asitā-sakhaḥ puṣpitāḥ kamalinīḥ iva dvipaḥ . . 19.11 . .
सातिरेकमदकारणं रहस्तेन दत्तं अभिलेषुरङ्गनाः । ताभिरप्युपहृतं मुखासवं सोऽपिबद्बकुलतुल्यदोहदः । । १९.१२ । ।
स अतिरेक-मद-कारणम् रहस्तेन दत्तम् अभिलेषुः अङ्गनाः । ताभिः अपि उपहृतम् मुख-आसवम् सः अपिबत् बकुल-तुल्य-दोहदः । । १९।१२ । ।
sa atireka-mada-kāraṇam rahastena dattam abhileṣuḥ aṅganāḥ . tābhiḥ api upahṛtam mukha-āsavam saḥ apibat bakula-tulya-dohadaḥ . . 19.12 . .
अङ्कं अङ्कपरिवर्तनोचिते तस्य निन्यतुरशून्यतां उभे । वल्लकी च हृदयंगमस्वना वल्गुवागपि च वामलोचना । । १९.१३ । ।
अङ्कम् अङ्क-परिवर्तन-उचिते तस्य उभे । वल्लकी च हृदयंगम-स्वना वल्गु-वाच् अपि च वाम-लोचना । । १९।१३ । ।
aṅkam aṅka-parivartana-ucite tasya ubhe . vallakī ca hṛdayaṃgama-svanā valgu-vāc api ca vāma-locanā . . 19.13 . .
स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन्मनः । नर्तकीरभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्वलज्जवथ् । । १९.१४ । ।
स स्वयम् प्रहत-पुष्करः कृती लोल-माल्य-वलयः हरत्-मनः । नर्तकीः अभिनय-अतिलङ्घिनीः पार्श्व-वर्तिषु गुरुषु अलज्जवथ् । । १९।१४ । ।
sa svayam prahata-puṣkaraḥ kṛtī lola-mālya-valayaḥ harat-manaḥ . nartakīḥ abhinaya-atilaṅghinīḥ pārśva-vartiṣu guruṣu alajjavath . . 19.14 . .
चारु नृत्यविगमे च तन्मुखं स्वेदभिन्नतिलकं परिश्रमाथ् । प्रेमदत्तवदनानिअः मनः सोऽन्वजीवदमरालकेश्वरौ । । १९.१५ । ।
चारु नृत्य-विगमे च तद्-मुखम् स्वेद-भिन्न-तिलकम् । मनः सः अन्वजीवत् अमरालक-ईश्वरौ । । १९।१५ । ।
cāru nṛtya-vigame ca tad-mukham sveda-bhinna-tilakam . manaḥ saḥ anvajīvat amarālaka-īśvarau . . 19.15 . .
तस्य सावरणदृष्टसंधयः काम्यवस्तुषु नवेषु सङ्गिनः । वल्लभाभिरुपसृत्य चक्रिरे सामिभुक्तविषयाः समागमाः । । १९.१६ । ।
तस्य स आवरण-दृष्ट-संधयः काम्य-वस्तुषु नवेषु सङ्गिनः । वल्लभाभिः उपसृत्य चक्रिरे सामिभुक्त-विषयाः समागमाः । । १९।१६ । ।
tasya sa āvaraṇa-dṛṣṭa-saṃdhayaḥ kāmya-vastuṣu naveṣu saṅginaḥ . vallabhābhiḥ upasṛtya cakrire sāmibhukta-viṣayāḥ samāgamāḥ . . 19.16 . .
अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितं । मेखलाभिरसकृच्च बन्धनं वञ्चयन्प्रणयिनीरवाप सः । । १९.१७ । ।
अङ्गुली-किसलय-अग्र-तर्जनम् भ्रू-विभङ्ग-कुटिलम् च वीक्षितम् । मेखलाभिः असकृत् च बन्धनम् वञ्चयन् प्रणयिनीः अवाप सः । । १९।१७ । ।
aṅgulī-kisalaya-agra-tarjanam bhrū-vibhaṅga-kuṭilam ca vīkṣitam . mekhalābhiḥ asakṛt ca bandhanam vañcayan praṇayinīḥ avāpa saḥ . . 19.17 . .
तेन दूतिविदितं निषेदुषा पृष्ठतः सुरतवाररात्रिषु । शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः । । १९.१८ । ।
तेन दूति-विदितम् निषेदुषा पृष्ठतस् सुरत-वार-रात्रिषु । शुश्रुवे प्रिय-जनस्य कातरम् विप्रलम्भ-परिशङ्किनः वचः । । १९।१८ । ।
tena dūti-viditam niṣeduṣā pṛṣṭhatas surata-vāra-rātriṣu . śuśruve priya-janasya kātaram vipralambha-pariśaṅkinaḥ vacaḥ . . 19.18 . .
लौल्यं एत्य गृहिणीपरिग्रहान्नर्तकीष्वसुलभासु तद्वपुः । वर्तते स्म स कथंचिदालिखन्नङ्गुलीक्षरणसन्नवर्तिकः । । १९.१९ । ।
लौल्यम् एत्य गृहिणी-परिग्रहात् नर्तकीषु अ सुलभासु तद्-वपुः । वर्तते स्म स कथंचिद् आलिखन् अङ्गुली-क्षरण-सन्न-वर्तिकः । । १९।१९ । ।
laulyam etya gṛhiṇī-parigrahāt nartakīṣu a sulabhāsu tad-vapuḥ . vartate sma sa kathaṃcid ālikhan aṅgulī-kṣaraṇa-sanna-vartikaḥ . . 19.19 . .
प्रेमगर्वितविपक्षमत्सरादायताच्च मदनान्महीक्षितं । निन्युरुत्सवविधिच्छलेन तं देव्य उज्जितरुषः कृतार्थतां । । १९.२० । ।
प्रेम-गर्वित-विपक्ष-मत्सरात् आयतात् च मदनात् महीक्षितम् । निन्युः उत्सव-विधि-छलेन तम् देव्यः उज्जित-रुषः कृतार्थ-ताम् । । १९।२० । ।
prema-garvita-vipakṣa-matsarāt āyatāt ca madanāt mahīkṣitam . ninyuḥ utsava-vidhi-chalena tam devyaḥ ujjita-ruṣaḥ kṛtārtha-tām . . 19.20 . .
प्रातरेत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः । प्राञ्जलिः प्रणयिनीः प्रसादयन्सोऽदुनोत्प्रणयमन्थरः पुनः । । १९.२१ । ।
प्रातर् एत्य परिभोग-शोभिना दर्शनेन कृत-खण्डन-व्यथाः । प्राञ्जलिः प्रणयिनीः प्रसादयन् सः अदुनोत् प्रणय-मन्थरः पुनर् । । १९।२१ । ।
prātar etya paribhoga-śobhinā darśanena kṛta-khaṇḍana-vyathāḥ . prāñjaliḥ praṇayinīḥ prasādayan saḥ adunot praṇaya-mantharaḥ punar . . 19.21 . .
स्वप्नकीर्तितविपक्षं अङ्गनाः दर्शनेन कृतखण्डनव्यथाः । प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधभिन्नवलयैर्विवर्तनैः । । १९.२२ । ।
स्वप्न-कीर्तित-विपक्षम् अङ्गनाः दर्शनेन कृत-खण्डन-व्यथाः । प्रच्छद-अन्त-गलित-अश्रु-बिन्दुभिः क्रोध-भिन्न-वलयैः विवर्तनैः । । १९।२२ । ।
svapna-kīrtita-vipakṣam aṅganāḥ darśanena kṛta-khaṇḍana-vyathāḥ . pracchada-anta-galita-aśru-bindubhiḥ krodha-bhinna-valayaiḥ vivartanaiḥ . . 19.22 . .
क्ëप्तपुष्पशयनांल्लतागृहानेत्य दूतिकृतमार्गदर्शनः । अन्वभूत्परिजनाङ्गनारतं सोऽवरोधभयवेपथूत्तरं । । १९.२३ । ।
क्ëप्त-पुष्प-शयनान् लता-गृहान् एत्य दूति-कृत-मार्ग-दर्शनः । अन्वभूत् परिजन-अङ्गना-रतम् सः अवरोध-भय-वेपथु-उत्तरम् । । १९।२३ । ।
këpta-puṣpa-śayanān latā-gṛhān etya dūti-kṛta-mārga-darśanaḥ . anvabhūt parijana-aṅganā-ratam saḥ avarodha-bhaya-vepathu-uttaram . . 19.23 . .
नाम वल्लभजनस्य ते मया प्राप्य भाग्यं अपि तस्य काङ्क्ष्यते । लोलुपं बत मनो ममेति तं गोत्रविस्खलितं ऊचुरङ्गनाः । । १९.२४ । ।
नाम वल्लभ-जनस्य ते मया प्राप्य भाग्यम् अपि तस्य काङ्क्ष्यते । लोलुपम् बत मनः मम इति तम् गोत्र-विस्खलितम् ऊचुः अङ्गनाः । । १९।२४ । ।
nāma vallabha-janasya te mayā prāpya bhāgyam api tasya kāṅkṣyate . lolupam bata manaḥ mama iti tam gotra-viskhalitam ūcuḥ aṅganāḥ . . 19.24 . .
चूर्णबभ्रु लुलितस्रगाकुलं छिन्नमेखलं अलक्तकाङ्कितं । उत्थितस्य शयनं विलासिनस्तस्य विभ्रमर्ततान्यपावृणोथ् । । १९.२५ । ।
चूर्ण-बभ्रु लुलित-स्रज्-आकुलम् छिन्न-मेखलम् अलक्तक-अङ्कितम् । उत्थितस्य शयनम् विलासिनः तस्य । । १९।२५ । ।
cūrṇa-babhru lulita-sraj-ākulam chinna-mekhalam alaktaka-aṅkitam . utthitasya śayanam vilāsinaḥ tasya . . 19.25 . .
स स्वयं चरणरागं आदधे योषितं न च तथा समाहितः । लोभ्यमाननयनः श्लथांशुकैर्मेखलागुणपदैर्नितम्बिभिः । । १९.२६ । ।
स स्वयम् चरण-रागम् आदधे योषितम् न च तथा समाहितः । लोभ्यमान-नयनः श्लथ-अंशुकैः मेखला-गुण-पदैः नितम्बिभिः । । १९।२६ । ।
sa svayam caraṇa-rāgam ādadhe yoṣitam na ca tathā samāhitaḥ . lobhyamāna-nayanaḥ ślatha-aṃśukaiḥ mekhalā-guṇa-padaiḥ nitambibhiḥ . . 19.26 . .
चुम्बने विपरिवर्तिताधरं हस्तरोधि रशनाविघट्टने । विघ्नितेच्छं अपि तस्य सर्वतो मन्मथेन्धनं अभूद्वधूरतं । । १९.२७ । ।
चुम्बने विपरिवर्तित-अधरम् हस्त-रोधि रशना-विघट्टने । विघ्नित-इच्छम् अपि तस्य सर्वतस् मन्मथ-इन्धनम् अभूत् वधू-रतम् । । १९।२७ । ।
cumbane viparivartita-adharam hasta-rodhi raśanā-vighaṭṭane . vighnita-iccham api tasya sarvatas manmatha-indhanam abhūt vadhū-ratam . . 19.27 . .
दर्पणेषु परिभोगदर्शिनीर्नर्मपूर्वं अनुपृष्ठसंस्थितः । छायया स्मितमनोज्ञया वधूर्ह्रीनिमीलितमुखीश्चकार सः । । १९.२८ । ।
दर्पणेषु परिभोग-दर्शिनीः नर्म-पूर्वम् अनु पृष्ठ-संस्थितः । छायया स्मित-मनोज्ञया वधूः ह्री-निमीलित-मुखीः चकार सः । । १९।२८ । ।
darpaṇeṣu paribhoga-darśinīḥ narma-pūrvam anu pṛṣṭha-saṃsthitaḥ . chāyayā smita-manojñayā vadhūḥ hrī-nimīlita-mukhīḥ cakāra saḥ . . 19.28 . .
कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलं अग्रपादयोः । प्रार्थयन्त शयनोत्थितं प्रियास्तं निशात्ययविसर्गचुम्बनं । । १९.२९ । ।
कण्ठ-सक्त-मृदु-बाहु-बन्धनम् न्यस्त-पाद-तलम् अग्र-पादयोः । प्रार्थयन्त शयन-उत्थितम् प्रियाः तम् निशा-अत्यय-विसर्ग-चुम्बनम् । । १९।२९ । ।
kaṇṭha-sakta-mṛdu-bāhu-bandhanam nyasta-pāda-talam agra-pādayoḥ . prārthayanta śayana-utthitam priyāḥ tam niśā-atyaya-visarga-cumbanam . . 19.29 . .
प्रेक्ष्य दर्पणतल्स्थं आत्मनो राजवेषं अतिशक्रशोभिनं । पिप्रिये स न तथा यथा युवा व्यक्तलक्ष्म परिभोगमण्डनं । । १९.३० । ।
प्रेक्ष्य दर्पण-तल्-स्थम् आत्मनः राज-वेषम् अति शक्र-शोभिनम् । पिप्रिये स न तथा यथा युवा व्यक्त-लक्ष्म परिभोग-मण्डनम् । । १९।३० । ।
prekṣya darpaṇa-tal-stham ātmanaḥ rāja-veṣam ati śakra-śobhinam . pipriye sa na tathā yathā yuvā vyakta-lakṣma paribhoga-maṇḍanam . . 19.30 . .
मित्रकृत्यं अपदिश्य पार्श्वतः प्रस्थितं तं अनवस्थितं प्रियाः । विद्म हे शठ पलायनच्छलान्यञ्जसेति रुरुधुः कचग्रहैः । । १९.३१ । ।
मित्र-कृत्यम् अपदिश्य पार्श्वतस् प्रस्थितम् तम् अनवस्थितम् प्रियाः । विद्म हे शठ पलायन-छलानि अञ्जसा इति रुरुधुः कच-ग्रहैः । । १९।३१ । ।
mitra-kṛtyam apadiśya pārśvatas prasthitam tam anavasthitam priyāḥ . vidma he śaṭha palāyana-chalāni añjasā iti rurudhuḥ kaca-grahaiḥ . . 19.31 . .
तस्य निर्दयरतिश्रमालसाः कण्ठसूत्रं अपदिश्ययोषितः । अध्यशेरत बृहद्(?) भुजान्तरं पीवरस्तनविलुप्तचन्दनं । । १९.३२ । ।
तस्य निर्दय-रति-श्रम-अलसाः कण्ठ-सूत्रम् अपदिश्य योषितः । अध्यशेरत बृहत्(?) भुजान्तरम् पीवर-स्तन-विलुप्त-चन्दनम् । । १९।३२ । ।
tasya nirdaya-rati-śrama-alasāḥ kaṇṭha-sūtram apadiśya yoṣitaḥ . adhyaśerata bṛhat(?) bhujāntaram pīvara-stana-vilupta-candanam . . 19.32 . .
संगमाय निशि गूढचारिणं चारदूतिकथितं पुरो गताः । वञ्चयिष्यसि कुतस्तमोवृतः कामुकेति चकृषुस्तं अङ्गनाः । । १९.३३ । ।
संगमाय निशि गूढ-चारिणम् चार-दूति-कथितम् पुरस् गताः । वञ्चयिष्यसि कुतस् तमः-वृतः कामुक इति चकृषुः तम् अङ्गनाः । । १९।३३ । ।
saṃgamāya niśi gūḍha-cāriṇam cāra-dūti-kathitam puras gatāḥ . vañcayiṣyasi kutas tamaḥ-vṛtaḥ kāmuka iti cakṛṣuḥ tam aṅganāḥ . . 19.33 . .
योषितां उडुपतेरिवाचिषां स्पर्शनिर्वृतिं असावनाप्नुवन् । आरुरोह कुमुदाकरोपमां रात्रिजागरपरो दिवाशयः । । १९.३४ । ।
योषिताम् उडुपतेः इव आचिषाम् स्पर्श-निर्वृतिम् असौ अन् आप्नुवन् । आरुरोह कुमुद-आकर-उपमाम् रात्रि-जागर-परः दिवा आशयः । । १९।३४ । ।
yoṣitām uḍupateḥ iva āciṣām sparśa-nirvṛtim asau an āpnuvan . āruroha kumuda-ākara-upamām rātri-jāgara-paraḥ divā āśayaḥ . . 19.34 . .
वेणुना दशनपीडिताधरा वीणया नखपदाङ्कितोरवः । शिलपकार्य उभयेन वेजितास्तं विजिह्मनयना व्यलोभयन् । । १९.३५ । ।
वेणुना दशन-पीडित-अधराः वीणया नख-पद-अङ्कित-ऊरवः । शिलप-कार्यः उभयेन वेजिताः तम् विजिह्म-नयनाः व्यलोभयन् । । १९।३५ । ।
veṇunā daśana-pīḍita-adharāḥ vīṇayā nakha-pada-aṅkita-ūravaḥ . śilapa-kāryaḥ ubhayena vejitāḥ tam vijihma-nayanāḥ vyalobhayan . . 19.35 . .
अङ्गसत्त्ववचनाश्रयं मिथः स्त्रीषु नृत्यं उपधाय दर्शयन् । स प्रयोगनिपुणैः प्रयोक्तृभिः संजघर्ष सह मित्रसंनिधौ । । १९.३६ । ।
अङ्ग-सत्त्व-वचन-आश्रयम् मिथस् स्त्रीषु नृत्यम् उपधाय दर्शयन् । स प्रयोग-निपुणैः प्रयोक्तृभिः संजघर्ष सह मित्र-संनिधौ । । १९।३६ । ।
aṅga-sattva-vacana-āśrayam mithas strīṣu nṛtyam upadhāya darśayan . sa prayoga-nipuṇaiḥ prayoktṛbhiḥ saṃjagharṣa saha mitra-saṃnidhau . . 19.36 . .
अंसलम्बिकुटजार्जुनस्रजस्तस्य नीपरजसाङ्गरागिणः । प्रावृषि प्रमदबर्हिणेष्वभूत्कृतिमाद्रिषु विहारविभ्रमः । । १९.३७ । ।
अंस-लम्बि-कुटज-अर्जुन-स्रजः तस्य नीप-रजसा अङ्गरागिणः । प्रावृषि प्रमद-बर्हिणेषु अभूत् कृतिम-अद्रिषु विहार-विभ्रमः । । १९।३७ । ।
aṃsa-lambi-kuṭaja-arjuna-srajaḥ tasya nīpa-rajasā aṅgarāgiṇaḥ . prāvṛṣi pramada-barhiṇeṣu abhūt kṛtima-adriṣu vihāra-vibhramaḥ . . 19.37 . .
विग्रहाच्च शयने पराङ्मुखीर्नानुनेतुं अबलाः स तत्वरे । आचकाङ्क्ष घनशब्दविक्लवास्ता विवृत्य विशतीर्भुजान्तरं । । १९.३८ । ।
विग्रहात् च शयने पराङ्मुखीः न अनुनेतुम् अबलाः स तत्वरे । आचकाङ्क्ष घन-शब्द-विक्लवाः ताः विवृत्य विशतीः भुजान्तरम् । । १९।३८ । ।
vigrahāt ca śayane parāṅmukhīḥ na anunetum abalāḥ sa tatvare . ācakāṅkṣa ghana-śabda-viklavāḥ tāḥ vivṛtya viśatīḥ bhujāntaram . . 19.38 . .
कार्त्तिकीषु सवितानहर्म्यभाग्यामिनीषु ललिताङ्गनासखः । अन्वभुङ्क्त सुरतश्रमापहां मेघमुक्तविशदां स चन्द्रिकां । । १९.३९ । ।
कार्त्तिकीषु ललिता-अङ्गना-सखः । अन्वभुङ्क्त सुरत-श्रम-अपहाम् मेघ-मुक्त-विशदाम् स चन्द्रिकाम् । । १९।३९ । ।
kārttikīṣu lalitā-aṅganā-sakhaḥ . anvabhuṅkta surata-śrama-apahām megha-mukta-viśadām sa candrikām . . 19.39 . .
सैकतं च सरयूं विवृण्वतीं श्रोणिबिम्बं इव हंसमेखलं । स्वप्रियाविलसितानुकारिणीं सौधजाल्विवरैर्व्यलोकयथ् । । १९.४० । ।
सैकतम् च सरयूम् विवृण्वतीम् श्रोणि-बिम्बम् इव हंस-मेखलम् । स्व-प्रिया-विलसित-अनुकारिणीम् सौध-जालु-इवरैः व्यलोकयथ् । । १९।४० । ।
saikatam ca sarayūm vivṛṇvatīm śroṇi-bimbam iva haṃsa-mekhalam . sva-priyā-vilasita-anukāriṇīm saudha-jālu-ivaraiḥ vyalokayath . . 19.40 . .
मर्मरैरगुरुधूपगन्धिभिर्व्यक्तहेमर्शनैस्तं एकतः । जह्रुराग्रथनमोक्षलोलुपं हैमनैर्निव्सनैः सुमध्यमाः । । १९.४१ । ।
मर्मरैः अगुरु-धूप-गन्धिभिः व्यक्त-हेम-र्शनैः तम् एकतस् । जह्रुः आग्रथन-मोक्ष-लोलुपम् हैमनैः निव्सनैः सुमध्यमाः । । १९।४१ । ।
marmaraiḥ aguru-dhūpa-gandhibhiḥ vyakta-hema-rśanaiḥ tam ekatas . jahruḥ āgrathana-mokṣa-lolupam haimanaiḥ nivsanaiḥ sumadhyamāḥ . . 19.41 . .
अर्पितस्तिमितदीपदृष्टयो गर्भवेश्मसु निवातकुक्षिषु । तस्य सर्वसुरतान्तरक्षमाः साक्षितां शिशिररात्रयो ययुः । । १९.४२ । ।
अर्पित-स्तिमित-दीप-दृष्टयः गर्भवेश्मसु निवात-कुक्षिषु । तस्य सर्व-सुरत-अन्तर-क्षमाः साक्षि-ताम् शिशिर-रात्रयः ययुः । । १९।४२ । ।
arpita-stimita-dīpa-dṛṣṭayaḥ garbhaveśmasu nivāta-kukṣiṣu . tasya sarva-surata-antara-kṣamāḥ sākṣi-tām śiśira-rātrayaḥ yayuḥ . . 19.42 . .
दक्षिणेन पवनेन संभृतं प्रेक्ष्य चूतकुसुमं सपल्लवं । अन्वनैषुरवधूतविग्रहास्तं दुरुत्सहवियोगं अङ्गनाः । । १९.४३ । ।
दक्षिणेन पवनेन संभृतम् प्रेक्ष्य चूत-कुसुमम् स पल्लवम् । अन्वनैषुः अवधूत-विग्रहाः तम् दुरुत्सह-वियोगम् अङ्गनाः । । १९।४३ । ।
dakṣiṇena pavanena saṃbhṛtam prekṣya cūta-kusumam sa pallavam . anvanaiṣuḥ avadhūta-vigrahāḥ tam durutsaha-viyogam aṅganāḥ . . 19.43 . .
ताः स्वं अङ्कं अधिरोप्य दोलया प्रेङ्खयन्परिजनापविद्धया । मुक्तरज्जु निबिडं भयच्छलात्कण्ठबन्धनं अवाप बाहुभिः । । १९.४४ । ।
ताः स्वम् अङ्कम् अधिरोप्य दोलया प्रेङ्खयन् परिजन-अपविद्धया । मुक्त-रज्जु निबिडम् भय-छलात् कण्ठ-बन्धनम् अवाप बाहुभिः । । १९।४४ । ।
tāḥ svam aṅkam adhiropya dolayā preṅkhayan parijana-apaviddhayā . mukta-rajju nibiḍam bhaya-chalāt kaṇṭha-bandhanam avāpa bāhubhiḥ . . 19.44 . .
तं पयोधरनिषक्तचन्दनैर्मौक्तिकग्रथितचारुभूषणैः । ग्रीष्मवेषविधिभिः सिषेविरे श्रोणिलम्बिमणिमेखलाः प्रियाः । । १९.४५ । ।
तम् पयोधर-निषक्त-चन्दनैः मौक्तिक-ग्रथित-चारु-भूषणैः । ग्रीष्म-वेष-विधिभिः सिषेविरे श्रोणि-लम्बि-मणि-मेखलाः प्रियाः । । १९।४५ । ।
tam payodhara-niṣakta-candanaiḥ mauktika-grathita-cāru-bhūṣaṇaiḥ . grīṣma-veṣa-vidhibhiḥ siṣevire śroṇi-lambi-maṇi-mekhalāḥ priyāḥ . . 19.45 . .
यत्स भग्नसहकारं आसवं रक्तपाटलसमागमं पपौ । तेन तस्य मधुनिर्गमात्कृशश्चित्तयोनिरभवत्पुनर्नवः । । १९.४६ । ।
यत् स भग्न-सहकारम् आसवम् रक्त-पाटल-समागमम् पपौ । तेन तस्य मधु-निर्गमात् कृशः चित्त-योनिः अभवत् पुनर्नवः । । १९।४६ । ।
yat sa bhagna-sahakāram āsavam rakta-pāṭala-samāgamam papau . tena tasya madhu-nirgamāt kṛśaḥ citta-yoniḥ abhavat punarnavaḥ . . 19.46 . .
एवं इन्द्रियसुखानि निर्विशन्नन्यकार्यविमुखः स पार्थिवः । आत्मलक्षणनिवेदितानृतूनत्यवाहयदनङ्गवाहितः । । १९.४७ । ।
एवम् इन्द्रिय-सुखानि निर्विशन् अन्य-कार्य-विमुखः स पार्थिवः । आत्म-लक्षण-निवेदितान् ऋतून् अत्यवाहयत् अनङ्ग-वाहितः । । १९।४७ । ।
evam indriya-sukhāni nirviśan anya-kārya-vimukhaḥ sa pārthivaḥ . ātma-lakṣaṇa-niveditān ṛtūn atyavāhayat anaṅga-vāhitaḥ . . 19.47 . .
तं प्रमत्तं अपि न प्रभावतः शेकुराक्रमितुं अन्यपार्थिवाः । आमयस्तु रतिरागसंभवो दक्षशाप इव चन्द्रं अक्षिणोथ् । । १९.४८ । ।
तम् प्रमत्तम् अपि न प्रभावतः शेकुः आक्रमितुम् अन्य-पार्थिवाः । आमयः तु रति-राग-संभवः दक्ष-शापः इव चन्द्रम् । । १९।४८ । ।
tam pramattam api na prabhāvataḥ śekuḥ ākramitum anya-pārthivāḥ . āmayaḥ tu rati-rāga-saṃbhavaḥ dakṣa-śāpaḥ iva candram . . 19.48 . .
दृष्टदोषं अपि तन्न सोऽत्यजत्सङ्गवस्तु भिषजां अनाश्रवः । स्वादुभिस्तु विषयैर्हृतस्ततो दुःखं इन्द्रियगणो निवार्यते । । १९.४९ । ।
दृष्ट-दोषम् अपि तत् न सः अत्यजत् सङ्गवस्तु भिषजाम् अनाश्रवः । स्वादुभिः तु विषयैः हृतः ततस् दुःखम् इन्द्रिय-गणः निवार्यते । । १९।४९ । ।
dṛṣṭa-doṣam api tat na saḥ atyajat saṅgavastu bhiṣajām anāśravaḥ . svādubhiḥ tu viṣayaiḥ hṛtaḥ tatas duḥkham indriya-gaṇaḥ nivāryate . . 19.49 . .
तस्य पाण्डुवदनाल्पभूषणा सावलम्बगमना मृदुस्वना । यक्ष्मणापि परिहानिराययौ कामयानसमवस्थया तुलां । । १९.५० । ।
तस्य पाण्डु-वदन-अल्प-भूषणा स अवलम्ब-गमना मृदु-स्वना । यक्ष्मणा अपि परिहानिः आययौ कामयान-समवस्थया तुलाम् । । १९।५० । ।
tasya pāṇḍu-vadana-alpa-bhūṣaṇā sa avalamba-gamanā mṛdu-svanā . yakṣmaṇā api parihāniḥ āyayau kāmayāna-samavasthayā tulām . . 19.50 . .
व्य्ॐअ पश्चिमकलास्थितेन्दु वा पङ्कशेषं इव घर्मपल्वलं । राज्ञि तत्कुलं अभूत्क्षयातुरे वामनार्चिरिव दीपभाजनं । । १९.५१ । ।
पश्चिम-कला-स्थित-इन्दु वा पङ्क-शेषम् इव घर्म-पल्वलम् । राज्ञि तत् कुलम् अभूत् क्षय-आतुरे वामन-अर्चिः इव दीप-भाजनम् । । १९।५१ । ।
paścima-kalā-sthita-indu vā paṅka-śeṣam iva gharma-palvalam . rājñi tat kulam abhūt kṣaya-āture vāmana-arciḥ iva dīpa-bhājanam . . 19.51 . .
बाढं एषु दिवसेषु कर्म साधयति पुत्रजन्मने । इत्यदर्शितरुजोऽस्य मन्त्रिणः शश्वदूचुरघशङ्किनीः प्रजाः । । १९.५२ । ।
बाढम् एषु दिवसेषु कर्म साधयति पुत्र-जन्मने । इति अदर्शित-रुजः अस्य मन्त्रिणः शश्वत् ऊचुः अघ-शङ्किनीः प्रजाः । । १९।५२ । ।
bāḍham eṣu divaseṣu karma sādhayati putra-janmane . iti adarśita-rujaḥ asya mantriṇaḥ śaśvat ūcuḥ agha-śaṅkinīḥ prajāḥ . . 19.52 . .
स त्वनेकवनितासखोऽपि सन्पावनीं अनवलोक्य संततिं । वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुं अत्यगाथ् । । १९.५३ । ।
स तु अनेक-वनिता-सखः अपि सन् पावनीम् अन् अवलोक्य संततिम् । वैद्य-यत्न-परिभाविनम् गदम् न प्रदीपः इव वायुम् अत्यगाथ् । । १९।५३ । ।
sa tu aneka-vanitā-sakhaḥ api san pāvanīm an avalokya saṃtatim . vaidya-yatna-paribhāvinam gadam na pradīpaḥ iva vāyum atyagāth . . 19.53 . .
तं गृहोपवन एव संगताः पश्चिमक्रतुविदा पुरोधसा । रोगशान्तिं अपदिश्य मन्त्रिणः संभृते शिखिनि गूढं आदधुः । । १९.५४ । ।
तम् गृह-उपवने एव संगताः पश्चिम-क्रतु-विदा पुरोधसा । रोग-शान्तिम् अपदिश्य मन्त्रिणः संभृते शिखिनि गूढम् आदधुः । । १९।५४ । ।
tam gṛha-upavane eva saṃgatāḥ paścima-kratu-vidā purodhasā . roga-śāntim apadiśya mantriṇaḥ saṃbhṛte śikhini gūḍham ādadhuḥ . . 19.54 . .
तैः कृतप्रकृतिमुख्यसंग्रहैराशु तस्य सहधर्मचारिणी । साधु दृष्टशुभगर्भलक्षणा प्रत्यपद्यत नराधिपश्रियं । । १९.५५ । ।
तैः कृत-प्रकृति-मुख्य-संग्रहैः आशु तस्य सह धर्मचारिणी । साधु दृष्ट-शुभ-गर्भ-लक्षणा प्रत्यपद्यत नराधिप-श्रियम् । । १९।५५ । ।
taiḥ kṛta-prakṛti-mukhya-saṃgrahaiḥ āśu tasya saha dharmacāriṇī . sādhu dṛṣṭa-śubha-garbha-lakṣaṇā pratyapadyata narādhipa-śriyam . . 19.55 . .
तस्यास्तथाविधनरेन्द्रविपत्तिशोकादुष्णैर्विलोचनजलैः प्रथमाभितप्तः । निर्वापितः कनककुम्भमुखोज्झितेन वंशाभिषेकविधिना शिशिरेण गर्भः । । १९.५६ । ।
तस्याः तथाविध-नरेन्द्र-विपत्ति-शोकात् उष्णैः विलोचन-जलैः प्रथम-अभितप्तः । निर्वापितः कनक-कुम्भ-मुख-उज्झितेन वंश-अभिषेक-विधिना शिशिरेण गर्भः । । १९।५६ । ।
tasyāḥ tathāvidha-narendra-vipatti-śokāt uṣṇaiḥ vilocana-jalaiḥ prathama-abhitaptaḥ . nirvāpitaḥ kanaka-kumbha-mukha-ujjhitena vaṃśa-abhiṣeka-vidhinā śiśireṇa garbhaḥ . . 19.56 . .
तं भावार्थ प्रसवसमयाकाङ्क्षिणीनां प्रजानां अन्तर्गूढं क्षितिरिव बभौ बीजमुष्टिं दधाना । मौलैः सार्धं स्थविरसचिवैर्हेमसिंहासनस्था राज्ञी राज्यं विधिवदशिषद्भर्तुरव्याहताज्ञा । । १९.५७ । ।
तम् भाव-अर्थ प्रसव-समय-आकाङ्क्षिणीनाम् प्रजानाम् अन्तर् गूढम् क्षितिः इव बभौ बीज-मुष्टिम् दधाना । मौलैः सार्धम् स्थविर-सचिवैः हेम-सिंहासन-स्था राज्ञी राज्यम् विधिवत् अशिषत् भर्तुः अव्याहत-आज्ञा । । १९।५७ । ।
tam bhāva-artha prasava-samaya-ākāṅkṣiṇīnām prajānām antar gūḍham kṣitiḥ iva babhau bīja-muṣṭim dadhānā . maulaiḥ sārdham sthavira-sacivaiḥ hema-siṃhāsana-sthā rājñī rājyam vidhivat aśiṣat bhartuḥ avyāhata-ājñā . . 19.57 . .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In