|
|

This overlay will guide you through the buttons:

Arjuna Vishada Yoga

Collapse

अथ प्रथमोऽध्यायः ।
अथ प्रथमः अध्यायः ।
atha prathamaḥ adhyāyaḥ .
धृतराष्ट्र उवाच । / dhrtarastra uvacha ।
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ 1 ॥
धर्म-क्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवः । मामकाः पाण्डवाः च एव किम् अकुर्वत सञ्जय ॥ १ ॥
dharma-kṣetre kurukṣetre samavetāḥ yuyutsavaḥ . māmakāḥ pāṇḍavāḥ ca eva kim akurvata sañjaya .. 1 ..
सञ्जय उवाच । / sañjaya uvacha ।
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ 2 ॥
दृष्ट्वा तु पाण्डव-अनीकम् व्यूढम् दुर्योधनः तदा । आचार्यम् उपसङ्गम्य राजा वचनम् अब्रवीत् ॥ २ ॥
dṛṣṭvā tu pāṇḍava-anīkam vyūḍham duryodhanaḥ tadā . ācāryam upasaṅgamya rājā vacanam abravīt .. 2 ..
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ 3 ॥
पश्य एताम् पाण्डु-पुत्राणाम् आचार्य महतीम् चमूम् । व्यूढाम् द्रुपद-पुत्रेण तव शिष्येण धीमता ॥ ३ ॥
paśya etām pāṇḍu-putrāṇām ācārya mahatīm camūm . vyūḍhām drupada-putreṇa tava śiṣyeṇa dhīmatā .. 3 ..
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥ 4 ॥
अत्र शूराः महा-इष्वासाः भीम-अर्जुन-समाः युधि । युयुधानः विराटः च द्रुपदः च महा-रथः ॥ ४ ॥
atra śūrāḥ mahā-iṣvāsāḥ bhīma-arjuna-samāḥ yudhi . yuyudhānaḥ virāṭaḥ ca drupadaḥ ca mahā-rathaḥ .. 4 ..
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ 5 ॥
धृष्टकेतुः चेकितानः काशि-राजः च वीर्यवान् । पुरुजित् कुन्तिभोजः च शैब्यः च नर-पुङ्गवः ॥ ५ ॥
dhṛṣṭaketuḥ cekitānaḥ kāśi-rājaḥ ca vīryavān . purujit kuntibhojaḥ ca śaibyaḥ ca nara-puṅgavaḥ .. 5 ..
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ 6 ॥
युधामन्युः च विक्रान्तः उत्तमौजाः च वीर्यवान् । सौभद्रः द्रौपदेयाः च सर्वे एव महा-रथाः ॥ ६ ॥
yudhāmanyuḥ ca vikrāntaḥ uttamaujāḥ ca vīryavān . saubhadraḥ draupadeyāḥ ca sarve eva mahā-rathāḥ .. 6 ..
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य सञ्ज्ञार्थं तान्ब्रवीमि ते ॥ 7 ॥
अस्माकम् तु विशिष्टाः ये तान् निबोध द्विजोत्तम । नायकाः मम सैन्यस्य सञ्ज्ञा-अर्थम् तान् ब्रवीमि ते ॥ ७ ॥
asmākam tu viśiṣṭāḥ ye tān nibodha dvijottama . nāyakāḥ mama sainyasya sañjñā-artham tān bravīmi te .. 7 ..
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ 8 ॥
भवान् भीष्मः च कर्णः च कृपः च समितिञ्जयः । अश्वत्थामा विकर्णः च सौमदत्तिः तथा एव च ॥ ८ ॥
bhavān bhīṣmaḥ ca karṇaḥ ca kṛpaḥ ca samitiñjayaḥ . aśvatthāmā vikarṇaḥ ca saumadattiḥ tathā eva ca .. 8 ..
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ 9 ॥
अन्ये च बहवः शूराः मद्-अर्थे त्यक्त-जीविताः । नाना शस्त्र-प्रहरणाः सर्वे युद्ध-विशारदाः ॥ ९ ॥
anye ca bahavaḥ śūrāḥ mad-arthe tyakta-jīvitāḥ . nānā śastra-praharaṇāḥ sarve yuddha-viśāradāḥ .. 9 ..
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ 10 ॥
अपर्याप्तम् तत् अस्माकम् बलम् भीष्म-अभिरक्षितम् । पर्याप्तम् तु इदम् एतेषाम् बलम् भीम-अभिरक्षितम् ॥ १० ॥
aparyāptam tat asmākam balam bhīṣma-abhirakṣitam . paryāptam tu idam eteṣām balam bhīma-abhirakṣitam .. 10 ..
अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ 11 ॥
अयनेषु च सर्वेषु यथाभागम् अवस्थिताः । भीष्मम् एव अभिरक्षन्तु भवन्तः सर्वे एव हि ॥ ११ ॥
ayaneṣu ca sarveṣu yathābhāgam avasthitāḥ . bhīṣmam eva abhirakṣantu bhavantaḥ sarve eva hi .. 11 ..
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ 12 ॥
तस्य सञ्जनयन् हर्षम् कुरुवृद्धः पितामहः । सिंहनादम् विनद्य उच्चैस् शङ्खम् दध्मौ प्रतापवान् ॥ १२ ॥
tasya sañjanayan harṣam kuruvṛddhaḥ pitāmahaḥ . siṃhanādam vinadya uccais śaṅkham dadhmau pratāpavān .. 12 ..
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ 13 ॥
ततस् शङ्खाः च भेर्यः च पणव-आनक-गोमुखाः । सहसा एव अभ्यहन्यन्त स शब्दः तुमुलः अभवत् ॥ १३ ॥
tatas śaṅkhāḥ ca bheryaḥ ca paṇava-ānaka-gomukhāḥ . sahasā eva abhyahanyanta sa śabdaḥ tumulaḥ abhavat .. 13 ..
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदघ्मतुः ॥ 14 ॥
ततस् श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवः च एव दिव्यौ शङ्खौ प्रदघ्मतुः ॥ १४ ॥
tatas śvetaiḥ hayaiḥ yukte mahati syandane sthitau . mādhavaḥ pāṇḍavaḥ ca eva divyau śaṅkhau pradaghmatuḥ .. 14 ..
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ 15 ॥
पाञ्चजन्यम् हृषीकेशः देवदत्तम् धनञ्जयः । पौण्ड्रम् दध्मौ महा-शङ्खम् भीम-कर्मा वृकोदरः ॥ १५ ॥
pāñcajanyam hṛṣīkeśaḥ devadattam dhanañjayaḥ . pauṇḍram dadhmau mahā-śaṅkham bhīma-karmā vṛkodaraḥ .. 15 ..
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ 16 ॥
अनन्तविजयम् राजा कुन्ती-पुत्रः युधिष्ठिरः । नकुलः सहदेवः च सुघोष-मणिपुष्पकौ ॥ १६ ॥
anantavijayam rājā kuntī-putraḥ yudhiṣṭhiraḥ . nakulaḥ sahadevaḥ ca sughoṣa-maṇipuṣpakau .. 16 ..
काश्यश्च परमेष्वासः शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ 17 ॥
काश्यः च परम-इष्वासः शिखण्डी च महा-रथः । धृष्टद्युम्नः विराटः च सात्यकिः च अपराजितः ॥ १७ ॥
kāśyaḥ ca parama-iṣvāsaḥ śikhaṇḍī ca mahā-rathaḥ . dhṛṣṭadyumnaḥ virāṭaḥ ca sātyakiḥ ca aparājitaḥ .. 17 ..
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते । सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ 18 ॥
द्रुपदः द्रौपदेयाः च सर्वशस् पृथिवीपते । सौभद्रः च महा-बाहुः शङ्खान् दध्मुः पृथक् पृथक् ॥ १८ ॥
drupadaḥ draupadeyāḥ ca sarvaśas pṛthivīpate . saubhadraḥ ca mahā-bāhuḥ śaṅkhān dadhmuḥ pṛthak pṛthak .. 18 ..
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ 19 ॥
स घोषः धार्तराष्ट्राणाम् हृदयानि व्यदारयत् । नभः च पृथिवीम् च एव तुमुलः व्यनुनादयन् ॥ १९ ॥
sa ghoṣaḥ dhārtarāṣṭrāṇām hṛdayāni vyadārayat . nabhaḥ ca pṛthivīm ca eva tumulaḥ vyanunādayan .. 19 ..
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ 20 ॥ हृषीकेशं तदा वाक्यमिदमाह महीपते।
अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः । प्रवृत्ते शस्त्र-सम्पाते धनुः उद्यम्य पाण्डवः ॥ २० ॥ हृषीकेशम् तदा वाक्यम् इदम् आह महीपते।
atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ . pravṛtte śastra-sampāte dhanuḥ udyamya pāṇḍavaḥ .. 20 .. hṛṣīkeśam tadā vākyam idam āha mahīpate.
अर्जुन उवाच । / arjuna uvacha ।
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ 21 ॥ यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् । कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥ 22 ॥
सेनयोः उभयोः मध्ये रथम् स्थापय मे अच्युत ॥ २१ ॥ यावत् एतान् निरीक्षे अहम् योद्धु-कामान् अवस्थितान् । कैः मया सह योद्धव्यम् अस्मिन् रण-समुद्यमे ॥ २२ ॥
senayoḥ ubhayoḥ madhye ratham sthāpaya me acyuta .. 21 .. yāvat etān nirīkṣe aham yoddhu-kāmān avasthitān . kaiḥ mayā saha yoddhavyam asmin raṇa-samudyame .. 22 ..
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ 23 ॥
योत्स्यमानान् अवेक्षे अहम् ये एते अत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेः युद्धे प्रिय-चिकीर्षवः ॥ २३ ॥
yotsyamānān avekṣe aham ye ete atra samāgatāḥ . dhārtarāṣṭrasya durbuddheḥ yuddhe priya-cikīrṣavaḥ .. 23 ..
सञ्जय उवाच । / sañjaya uvacha ।
एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ 24 ॥
एवम् उक्तः हृषीकेशः गुडाकेशेन भारत । सेनयोः उभयोः मध्ये स्थापयित्वा रथ-उत्तमम् ॥ २४ ॥
evam uktaḥ hṛṣīkeśaḥ guḍākeśena bhārata . senayoḥ ubhayoḥ madhye sthāpayitvā ratha-uttamam .. 24 ..
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ 25 ॥
भीष्म-द्रोण-प्रमुखतस् सर्वेषाम् च महीक्षिताम् । उवाच पार्थ पश्य एतान् समवेतान् कुरून् इति ॥ २५ ॥
bhīṣma-droṇa-pramukhatas sarveṣām ca mahīkṣitām . uvāca pārtha paśya etān samavetān kurūn iti .. 25 ..
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् । आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ 26 ॥ श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
तत्र अपश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् । आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् तथा ॥ २६ ॥ श्वशुरान् सुहृदः च एव सेनयोः उभयोः अपि ।
tatra apaśyat sthitān pārthaḥ pitṝn atha pitāmahān . ācāryān mātulān bhrātṝn putrān pautrān sakhīn tathā .. 26 .. śvaśurān suhṛdaḥ ca eva senayoḥ ubhayoḥ api .
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ 27 ॥ कृपया परयाविष्टो विषीदन्निदमब्रवीत्।
तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् ॥ २७ ॥ कृपया परया आविष्टः विषीदन् इदम् अब्रवीत्।
tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān .. 27 .. kṛpayā parayā āviṣṭaḥ viṣīdan idam abravīt.
अर्जुन उवाच । / arjuna uvacha ।
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥ 28 ॥
दृष्ट्वा इमम् स्व-जनम् कृष्ण युयुत्सुम् समुपस्थितम् ॥ २८ ॥
dṛṣṭvā imam sva-janam kṛṣṇa yuyutsum samupasthitam .. 28 ..
सीदन्ति मम गात्राणि मुखं च परिशुष्यति । वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ 29 ॥
सीदन्ति मम गात्राणि मुखम् च परिशुष्यति । वेपथुः च शरीरे मे रोमहर्षः च जायते ॥ २९ ॥
sīdanti mama gātrāṇi mukham ca pariśuṣyati . vepathuḥ ca śarīre me romaharṣaḥ ca jāyate .. 29 ..
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते । न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ 30 ॥
गाण्डीवम् स्रंसते हस्तात् त्वच् च एव परिदह्यते । न च शक्नोमि अवस्थातुम् भ्रमति इव च मे मनः ॥ ३० ॥
gāṇḍīvam sraṃsate hastāt tvac ca eva paridahyate . na ca śaknomi avasthātum bhramati iva ca me manaḥ .. 30 ..
निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ 31 ॥
निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयः अनुपश्यामि हत्वा स्व-जनम् आहवे ॥ ३१ ॥
nimittāni ca paśyāmi viparītāni keśava . na ca śreyaḥ anupaśyāmi hatvā sva-janam āhave .. 31 ..
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च । किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ 32 ॥
न काङ्क्षे विजयम् कृष्ण न च राज्यम् सुखानि च । किम् नः राज्येन गोविन्द किम् भोगैः जीवितेन वा ॥ ३२ ॥
na kāṅkṣe vijayam kṛṣṇa na ca rājyam sukhāni ca . kim naḥ rājyena govinda kim bhogaiḥ jīvitena vā .. 32 ..
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ 33 ॥
येषाम् अर्थे काङ्क्षितम् नः राज्यम् भोगाः सुखानि च । ते इमे अवस्थिताः युद्धे प्राणान् त्यक्त्वा धनानि च ॥ ३३ ॥
yeṣām arthe kāṅkṣitam naḥ rājyam bhogāḥ sukhāni ca . te ime avasthitāḥ yuddhe prāṇān tyaktvā dhanāni ca .. 33 ..
आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥ 34 ॥
आचार्याः पितरः पुत्राः तथा एव च पितामहाः । मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनः तथा ॥ ३४ ॥
ācāryāḥ pitaraḥ putrāḥ tathā eva ca pitāmahāḥ . mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinaḥ tathā .. 34 ..
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन । अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ 35 ॥
एतान् न हन्तुम् इच्छामि घ्नतः अपि मधुसूदन । अपि त्रैलोक्य-राज्यस्य हेतोः किम् नु मही-कृते ॥ ३५ ॥
etān na hantum icchāmi ghnataḥ api madhusūdana . api trailokya-rājyasya hetoḥ kim nu mahī-kṛte .. 35 ..
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ 36 ॥
निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्यात् जनार्दन । पापम् एव आश्रयेत् अस्मान् हत्वा एतान् आततायिनः ॥ ३६ ॥
nihatya dhārtarāṣṭrān naḥ kā prītiḥ syāt janārdana . pāpam eva āśrayet asmān hatvā etān ātatāyinaḥ .. 36 ..
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ 37 ॥
तस्मात् न अर्हाः वयम् हन्तुम् धार्तराष्ट्रान् स्व-बान्धवान् । स्व-जनम् हि कथम् हत्वा सुखिनः स्याम माधव ॥ ३७ ॥
tasmāt na arhāḥ vayam hantum dhārtarāṣṭrān sva-bāndhavān . sva-janam hi katham hatvā sukhinaḥ syāma mādhava .. 37 ..
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ 38 ॥
यदि अपि एते न पश्यन्ति लोभ-उपहत-चेतसः । कुल-क्षय-कृतम् दोषम् मित्र-द्रोहे च पातकम् ॥ ३८ ॥
yadi api ete na paśyanti lobha-upahata-cetasaḥ . kula-kṣaya-kṛtam doṣam mitra-drohe ca pātakam .. 38 ..
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ 39 ॥
कथम् न ज्ञेयम् अस्माभिः पापात् अस्मात् निवर्तितुम् । कुल-क्षय-कृतम् दोषम् प्रपश्यद्भिः जनार्दन ॥ ३९ ॥
katham na jñeyam asmābhiḥ pāpāt asmāt nivartitum . kula-kṣaya-kṛtam doṣam prapaśyadbhiḥ janārdana .. 39 ..
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ 40 ॥
कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः । धर्मे नष्टे कुलम् कृत्स्नम् अधर्मः अभिभवति उत ॥ ४० ॥
kula-kṣaye praṇaśyanti kula-dharmāḥ sanātanāḥ . dharme naṣṭe kulam kṛtsnam adharmaḥ abhibhavati uta .. 40 ..
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ 41 ॥
अधर्म-अभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-सङ्करः ॥ ४१ ॥
adharma-abhibhavāt kṛṣṇa praduṣyanti kulastriyaḥ . strīṣu duṣṭāsu vārṣṇeya jāyate varṇa-saṅkaraḥ .. 41 ..
सङ्करो नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ 42 ॥
सङ्करः नरकाय एव कुल-घ्नानाम् कुलस्य च । पतन्ति पितरः हि एषाम् लुप्त-पिण्ड-उदक-क्रियाः ॥ ४२ ॥
saṅkaraḥ narakāya eva kula-ghnānām kulasya ca . patanti pitaraḥ hi eṣām lupta-piṇḍa-udaka-kriyāḥ .. 42 ..
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ 43 ॥
दोषैः एतैः कुल-घ्नानाम् वर्ण-सङ्कर-कारकैः । उत्साद्यन्ते जाति-धर्माः कुल-धर्माः च शाश्वताः ॥ ४३ ॥
doṣaiḥ etaiḥ kula-ghnānām varṇa-saṅkara-kārakaiḥ . utsādyante jāti-dharmāḥ kula-dharmāḥ ca śāśvatāḥ .. 43 ..
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥ 44 ॥
उत्सन्न-कुल-धर्माणाम् मनुष्याणाम् जनार्दन । नरके अनियतम् वासः भवति इति अनुशुश्रुम ॥ ४४ ॥
utsanna-kula-dharmāṇām manuṣyāṇām janārdana . narake aniyatam vāsaḥ bhavati iti anuśuśruma .. 44 ..
अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ 45 ॥
अहो बत महत् पापम् कर्तुम् व्यवसिताः वयम् । यत् राज्य-सुख-लोभेन हन्तुम् स्व-जनम् उद्यताः ॥ ४५ ॥
aho bata mahat pāpam kartum vyavasitāḥ vayam . yat rājya-sukha-lobhena hantum sva-janam udyatāḥ .. 45 ..
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ 46 ॥
यदि माम् अप्रतीकारम् अशस्त्रम् शस्त्र-पाणयः । धार्तराष्ट्राः रणे हन्युः तत् मे क्षेमतरम् भवेत् ॥ ४६ ॥
yadi mām apratīkāram aśastram śastra-pāṇayaḥ . dhārtarāṣṭrāḥ raṇe hanyuḥ tat me kṣemataram bhavet .. 46 ..
सञ्जय उवाच । / sañjaya uvacha ।
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ 47 ॥
एवम् उक्त्वा अर्जुनः सङ्ख्ये रथोपस्थे उपाविशत् । विसृज्य स शरम् चापम् शोक-संविग्न-मानसः ॥ ४७ ॥
evam uktvā arjunaḥ saṅkhye rathopasthe upāviśat . visṛjya sa śaram cāpam śoka-saṃvigna-mānasaḥ .. 47 ..
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥1 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे अर्जुनविषादयोगः नाम प्रथमः अध्यायः ॥१ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde arjunaviṣādayogaḥ nāma prathamaḥ adhyāyaḥ ..1 ..

Samkhya Yoga

Collapse

अथ द्वितीयोऽध्यायः ।
अथ द्वितीयः अध्यायः ।
atha dvitīyaḥ adhyāyaḥ .
सञ्जय उवाच । / sañjaya uvacha ।
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ 1 ॥
तम् तथा कृपया आविष्टम् अश्रु-पूर्ण-आकुल-ईक्षणम् । विषीदन्तम् इदम् वाक्यम् उवाच मधुसूदनः ॥ १ ॥
tam tathā kṛpayā āviṣṭam aśru-pūrṇa-ākula-īkṣaṇam . viṣīdantam idam vākyam uvāca madhusūdanaḥ .. 1 ..
श्रीभगवानुवाच । / sribhagavanuvacha ।
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ 2 ॥
कुतस् त्वा कश्मलम् इदम् विषमे समुपस्थितम् । अन् आर्य-जुष्टम् अस्वर्ग्यम् अकीर्ति-करम् अर्जुन ॥ २ ॥
kutas tvā kaśmalam idam viṣame samupasthitam . an ārya-juṣṭam asvargyam akīrti-karam arjuna .. 2 ..
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ 3 ॥
क्लैब्यम् मा स्म गमः पार्थ ना एतत् त्वयि उपपद्यते । क्षुद्रम् हृदय-दौर्बल्यम् त्यक्त्वा उत्तिष्ठ परन्तप ॥ ३ ॥
klaibyam mā sma gamaḥ pārtha nā etat tvayi upapadyate . kṣudram hṛdaya-daurbalyam tyaktvā uttiṣṭha parantapa .. 3 ..
अर्जुन उवाच । / arjuna uvacha ।
कथं भीष्ममहं साङ्ख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ 4 ॥
कथम् भीष्मम् अहम् साङ्ख्ये द्रोणम् च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजा-अर्हौ अरि-सूदन ॥ ४ ॥
katham bhīṣmam aham sāṅkhye droṇam ca madhusūdana . iṣubhiḥ pratiyotsyāmi pūjā-arhau ari-sūdana .. 4 ..
गुरूनहत्वा हि महानुभावान्श्रेयो भोक्तुं भैक्ष्यमपीह लोके । हत्वार्थकामांस्तु गुरुनिहैव भुञ्जीय भोगानऽरुधिरप्रदिग्धान् ॥ 5 ॥
गुरून् अ हत्वा हि महा-अनुभावान् श्रेयः भोक्तुम् भैक्ष्यम् अपि इह लोके । हत्वा अर्थ-कामान् तु गुरुन् इह एव भुञ्जीय भोगान् अ रुधिर-प्रदिग्धान् ॥ ५ ॥
gurūn a hatvā hi mahā-anubhāvān śreyaḥ bhoktum bhaikṣyam api iha loke . hatvā artha-kāmān tu gurun iha eva bhuñjīya bhogān a rudhira-pradigdhān .. 5 ..
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः। यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ 6 ॥
न च एतत् विद्मः कतरत् नः गरीयः यत् वा जयेम यदि वा नो जयेयुः। यान् एव हत्वा न जिजीविषामः ते अवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६ ॥
na ca etat vidmaḥ katarat naḥ garīyaḥ yat vā jayema yadi vā no jayeyuḥ. yān eva hatvā na jijīviṣāmaḥ te avasthitāḥ pramukhe dhārtarāṣṭrāḥ .. 6 ..
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः। यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ 7 ॥
कार्पण्य-दोष-उपहत-स्वभावः पृच्छामि त्वाम् धर्म-सम्मूढ-चेताः। यत् श्रेयः स्यात् निश्चितम् ब्रूहि तत् मे शिष्यः ते अहम् शाधि माम् त्वाम् प्रपन्नम् ॥ ७ ॥
kārpaṇya-doṣa-upahata-svabhāvaḥ pṛcchāmi tvām dharma-sammūḍha-cetāḥ. yat śreyaḥ syāt niścitam brūhi tat me śiṣyaḥ te aham śādhi mām tvām prapannam .. 7 ..
न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम्। अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥ 8 ॥
न हि प्रपश्यामि मम अपनुद्यात् यत् शोकम् उच्छोषणम् इन्द्रियाणाम्। अवाप्य भूमौ असपत्नम् ऋद्धम् राज्यम् सुराणाम् अपि च आधिपत्यम् ॥ ८ ॥
na hi prapaśyāmi mama apanudyāt yat śokam ucchoṣaṇam indriyāṇām. avāpya bhūmau asapatnam ṛddham rājyam surāṇām api ca ādhipatyam .. 8 ..
सञ्जय उवाच । / sañjaya uvacha ।
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ 9 ॥
एवम् उक्त्वा हृषीकेशम् गुडाकेशः परन्तप । न योत्स्ये इति गोविन्दम् उक्त्वा तूष्णीम् बभूव ह ॥ ९ ॥
evam uktvā hṛṣīkeśam guḍākeśaḥ parantapa . na yotsye iti govindam uktvā tūṣṇīm babhūva ha .. 9 ..
तमुवाच हृषीकेशः प्रहसन्निव भारत । सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ 10 ॥
तम् उवाच हृषीकेशः प्रहसन् इव भारत । सेनयोः उभयोः मध्ये विषीदन्तम् इदम् वचः ॥ १० ॥
tam uvāca hṛṣīkeśaḥ prahasan iva bhārata . senayoḥ ubhayoḥ madhye viṣīdantam idam vacaḥ .. 10 ..
श्रीभगवानुवाच । / sribhagavanuvacha ।
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ 11 ॥
अ शोच्यान् अन्वशोचः त्वम् प्रज्ञा-वादान् च भाषसे । गतासून् अगतासून् च न अनुशोचन्ति पण्डिताः ॥ ११ ॥
a śocyān anvaśocaḥ tvam prajñā-vādān ca bhāṣase . gatāsūn agatāsūn ca na anuśocanti paṇḍitāḥ .. 11 ..
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम् ॥ 12 ॥
न तु एव अहम् जातु न आसम् न त्वम् न इमे जनाधिपाः । न च एव न भविष्यामः सर्वे वयम् अतस् परम् ॥ १२ ॥
na tu eva aham jātu na āsam na tvam na ime janādhipāḥ . na ca eva na bhaviṣyāmaḥ sarve vayam atas param .. 12 ..
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ 13 ॥
देहिनः अस्मिन् यथा देहे कौमारम् यौवनम् जरा । तथा देह-अन्तर-प्राप्तिः धीरः तत्र न मुह्यति ॥ १३ ॥
dehinaḥ asmin yathā dehe kaumāram yauvanam jarā . tathā deha-antara-prāptiḥ dhīraḥ tatra na muhyati .. 13 ..
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ 14 ॥
मात्रा-स्पर्शाः तु कौन्तेय शीत-उष्ण-सुख-दुःख-दाः । आगम-अपायिनः अनित्याः तान् तितिक्षस्व भारत ॥ १४ ॥
mātrā-sparśāḥ tu kaunteya śīta-uṣṇa-sukha-duḥkha-dāḥ . āgama-apāyinaḥ anityāḥ tān titikṣasva bhārata .. 14 ..
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ 15 ॥
यम् हि न व्यथयन्ति एते पुरुषम् पुरुष-ऋषभ । सम-दुःख-सुखम् धीरम् सः अमृत-त्वाय कल्पते ॥ १५ ॥
yam hi na vyathayanti ete puruṣam puruṣa-ṛṣabha . sama-duḥkha-sukham dhīram saḥ amṛta-tvāya kalpate .. 15 ..
नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ 16 ॥
न असतः विद्यते भावः न अभावः विद्यते सतः । उभयोः अपि दृष्टः अन्तः तु अनयोः तत्त्व-दर्शिभिः ॥ १६ ॥
na asataḥ vidyate bhāvaḥ na abhāvaḥ vidyate sataḥ . ubhayoḥ api dṛṣṭaḥ antaḥ tu anayoḥ tattva-darśibhiḥ .. 16 ..
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ 17 ॥
अविनाशि तु तत् विद्धि येन सर्वम् इदम् ततम् । विनाशम् अव्ययस्य अस्य न कश्चिद् कर्तुम् अर्हति ॥ १७ ॥
avināśi tu tat viddhi yena sarvam idam tatam . vināśam avyayasya asya na kaścid kartum arhati .. 17 ..
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ 18 ॥
अन्तवन्तः इमे देहाः नित्यस्य उक्ताः शरीरिणः । अनाशिनः अप्रमेयस्य तस्मात् युध्यस्व भारत ॥ १८ ॥
antavantaḥ ime dehāḥ nityasya uktāḥ śarīriṇaḥ . anāśinaḥ aprameyasya tasmāt yudhyasva bhārata .. 18 ..
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ 19 ॥
यः एनम् वेत्ति हन्तारम् यः च एनम् मन्यते हतम् । उभौ तौ न विजानीतः न अयम् हन्ति न हन्यते ॥ १९ ॥
yaḥ enam vetti hantāram yaḥ ca enam manyate hatam . ubhau tau na vijānītaḥ na ayam hanti na hanyate .. 19 ..
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः। अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ 20 ॥
न जायते म्रियते वा कदाचिद् न अयम् भूत्वा भविता वा न भूयस्। अजः नित्यः शाश्वतः अयम् पुराणः न हन्यते हन्यमाने शरीरे ॥ २० ॥
na jāyate mriyate vā kadācid na ayam bhūtvā bhavitā vā na bhūyas. ajaḥ nityaḥ śāśvataḥ ayam purāṇaḥ na hanyate hanyamāne śarīre .. 20 ..
वेदाविनाशिनं नित्यं य एनमजमव्ययम् । अथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ 21॥
वेद अविनाशिनम् नित्यम् यः एनम् अजम् अव्ययम् । स पुरुषः पार्थ कम् घातयति हन्ति कम् ॥ २१॥
veda avināśinam nityam yaḥ enam ajam avyayam . sa puruṣaḥ pārtha kam ghātayati hanti kam .. 21..
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि। तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ 22 ॥
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरः अपराणि। तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देही ॥ २२ ॥
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naraḥ aparāṇi. tathā śarīrāṇi vihāya jīrṇāni anyāni saṃyāti navāni dehī .. 22 ..
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ 23 ॥
न एनम् छिन्दन्ति शस्त्राणि न एनम् दहति पावकः । न च एनम् क्लेदयन्ति आपः न शोषयति मारुतः ॥ २३ ॥
na enam chindanti śastrāṇi na enam dahati pāvakaḥ . na ca enam kledayanti āpaḥ na śoṣayati mārutaḥ .. 23 ..
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ 24 ॥
अच्छेद्यः अयम् अदाह्यः अयम् अक्लेद्यः अशोष्यः एव च । नित्यः सर्व-गतः स्थाणुः अचलः अयम् सनातनः ॥ २४ ॥
acchedyaḥ ayam adāhyaḥ ayam akledyaḥ aśoṣyaḥ eva ca . nityaḥ sarva-gataḥ sthāṇuḥ acalaḥ ayam sanātanaḥ .. 24 ..
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ 25 ॥
अव्यक्तः अयम् अचिन्त्यः अयम् अविकार्यः अयम् उच्यते । तस्मात् एवम् विदित्वा एनम् न अनुशोचितुम् अर्हसि ॥ २५ ॥
avyaktaḥ ayam acintyaḥ ayam avikāryaḥ ayam ucyate . tasmāt evam viditvā enam na anuśocitum arhasi .. 25 ..
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥ 26 ॥
अथ च एनम् नित्य-जातम् नित्यम् वा मन्यसे मृतम् । तथा अपि त्वम् महा-बाहो न एवम् शोचितुम् अर्हसि ॥ २६ ॥
atha ca enam nitya-jātam nityam vā manyase mṛtam . tathā api tvam mahā-bāho na evam śocitum arhasi .. 26 ..
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ 27 ॥
जातस्य हि ध्रुवः मृत्युः ध्रुवम् जन्म मृतस्य च । तस्मात् अपरिहार्ये अर्थे न त्वम् शोचितुम् अर्हसि ॥ २७ ॥
jātasya hi dhruvaḥ mṛtyuḥ dhruvam janma mṛtasya ca . tasmāt aparihārye arthe na tvam śocitum arhasi .. 27 ..
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ 28 ॥
अव्यक्त-आदीनि भूतानि व्यक्त-मध्यानि भारत । अव्यक्त-निधनानि एव तत्र का परिदेवना ॥ २८ ॥
avyakta-ādīni bhūtāni vyakta-madhyāni bhārata . avyakta-nidhanāni eva tatra kā paridevanā .. 28 ..
आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः। आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ 29 ॥
आश्चर्य-वत् पश्यति कश्चिद् एनम् आश्चर्य-वत् वदति तथा एव च अन्यः। आश्चर्य-वत् च एनम् अन्यः शृणोति श्रुत्वा अपि एनम् वेद न च एव कश्चिद् ॥ २९ ॥
āścarya-vat paśyati kaścid enam āścarya-vat vadati tathā eva ca anyaḥ. āścarya-vat ca enam anyaḥ śṛṇoti śrutvā api enam veda na ca eva kaścid .. 29 ..
देही नित्यमवध्योऽयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ 30 ॥
देही नित्यम् अवध्यः अयम् देहे सर्वस्य भारत । तस्मात् सर्वाणि भूतानि न त्वम् शोचितुम् अर्हसि ॥ ३० ॥
dehī nityam avadhyaḥ ayam dehe sarvasya bhārata . tasmāt sarvāṇi bhūtāni na tvam śocitum arhasi .. 30 ..
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ 31 ॥
स्वधर्मम् अपि च अवेक्ष्य न विकम्पितुम् अर्हसि । धर्म्यात् हि युद्धात् श्रेयः अन्यत् क्षत्रियस्य न विद्यते ॥ ३१ ॥
svadharmam api ca avekṣya na vikampitum arhasi . dharmyāt hi yuddhāt śreyaḥ anyat kṣatriyasya na vidyate .. 31 ..
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ 32 ॥
यदृच्छया च उपपन्नम् स्वर्ग-द्वारम् अपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ॥ ३२ ॥
yadṛcchayā ca upapannam svarga-dvāram apāvṛtam . sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam .. 32 ..
अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि । ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ 33 ॥
अथ चेद् त्वम् इमम् धर्म्यम् सङ्ग्रामम् न करिष्यसि । ततस् स्वधर्मम् कीर्तिम् च हित्वा पापम् अवाप्स्यसि ॥ ३३ ॥
atha ced tvam imam dharmyam saṅgrāmam na kariṣyasi . tatas svadharmam kīrtim ca hitvā pāpam avāpsyasi .. 33 ..
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ 34 ॥
अकीर्तिम् च अपि भूतानि कथयिष्यन्ति ते अव्ययाम् । सम्भावितस्य च अकीर्तिः मरणात् अतिरिच्यते ॥ ३४ ॥
akīrtim ca api bhūtāni kathayiṣyanti te avyayām . sambhāvitasya ca akīrtiḥ maraṇāt atiricyate .. 34 ..
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ 35 ॥
भयात् रणात् उपरतम् मंस्यन्ते त्वाम् महा-रथाः । येषाम् च त्वम् बहु-मतः भूत्वा यास्यसि लाघवम् ॥ ३५ ॥
bhayāt raṇāt uparatam maṃsyante tvām mahā-rathāḥ . yeṣām ca tvam bahu-mataḥ bhūtvā yāsyasi lāghavam .. 35 ..
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ 36 ॥
अवाच्य-वादान् च बहून् वदिष्यन्ति तव अहिताः । निन्दन्तः तव सामर्थ्यम् ततस् दुःखतरम् नु किम् ॥ ३६ ॥
avācya-vādān ca bahūn vadiṣyanti tava ahitāḥ . nindantaḥ tava sāmarthyam tatas duḥkhataram nu kim .. 36 ..
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ 37 ॥
हतः वा प्राप्स्यसि स्वर्गम् जित्वा वा भोक्ष्यसे महीम् । तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृत-निश्चयः ॥ ३७ ॥
hataḥ vā prāpsyasi svargam jitvā vā bhokṣyase mahīm . tasmāt uttiṣṭha kaunteya yuddhāya kṛta-niścayaḥ .. 37 ..
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ 38 ॥
सुख-दुःखे समे कृत्वा लाभ-अलाभौ जय-अजयौ । ततस् युद्धाय युज्यस्व न एवम् पापम् अवाप्स्यसि ॥ ३८ ॥
sukha-duḥkhe same kṛtvā lābha-alābhau jaya-ajayau . tatas yuddhāya yujyasva na evam pāpam avāpsyasi .. 38 ..
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ 39 ॥
एषा ते अभिहिता साङ्ख्ये बुद्धिः योगे तु इमाम् शृणु । बुद्ध्या युक्तः यया पार्थ कर्म-बन्धम् प्रहास्यसि ॥ ३९ ॥
eṣā te abhihitā sāṅkhye buddhiḥ yoge tu imām śṛṇu . buddhyā yuktaḥ yayā pārtha karma-bandham prahāsyasi .. 39 ..
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ 40 ॥
न इह अभिक्रम-नाशः अस्ति प्रत्यवायः न विद्यते । स्वल्पम् अपि अस्य धर्मस्य त्रायते महतः भयात् ॥ ४० ॥
na iha abhikrama-nāśaḥ asti pratyavāyaḥ na vidyate . svalpam api asya dharmasya trāyate mahataḥ bhayāt .. 40 ..
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ 41 ॥
व्यवसाय-आत्मिका बुद्धिः एका इह कुरु-नन्दन । बहु-शाखाः हि अनन्ताः च बुद्धयः अव्यवसायिनाम् ॥ ४१ ॥
vyavasāya-ātmikā buddhiḥ ekā iha kuru-nandana . bahu-śākhāḥ hi anantāḥ ca buddhayaḥ avyavasāyinām .. 41 ..
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ 42 ॥
याम् इमाम् पुष्पिताम् वाचम् प्रवदन्ति अ विपश्चितः । वेद-वाद-रताः पार्थ न अन्यत् अस्ति इति वादिनः ॥ ४२ ॥
yām imām puṣpitām vācam pravadanti a vipaścitaḥ . veda-vāda-ratāḥ pārtha na anyat asti iti vādinaḥ .. 42 ..
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ 43 ॥
काम-आत्मानः स्वर्ग-पराः जन्म-कर्म-फल-प्रदाम् । क्रिया-विशेष-बहुलाम् भोग-ऐश्वर्य-गतिम् प्रति ॥ ४३ ॥
kāma-ātmānaḥ svarga-parāḥ janma-karma-phala-pradām . kriyā-viśeṣa-bahulām bhoga-aiśvarya-gatim prati .. 43 ..
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ 44 ॥
भोग-ऐश्वर्य-प्रसक्तानाम् तया अपहृत-चेतसाम् । व्यवसाय-आत्मिका बुद्धिः समाधौ न विधीयते ॥ ४४ ॥
bhoga-aiśvarya-prasaktānām tayā apahṛta-cetasām . vyavasāya-ātmikā buddhiḥ samādhau na vidhīyate .. 44 ..
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ 45 ॥
त्रैगुण्य-विषयाः वेदाः निस्त्रैगुण्यः भव अर्जुन । निर्द्वन्द्वः नित्य-सत्त्व-स्थः निर्योगक्षेमः आत्मवान् ॥ ४५ ॥
traiguṇya-viṣayāḥ vedāḥ nistraiguṇyaḥ bhava arjuna . nirdvandvaḥ nitya-sattva-sthaḥ niryogakṣemaḥ ātmavān .. 45 ..
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके । तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ 46 ॥
यावान् अर्थः उदपाने सर्वतस् सम्प्लुत-उदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६ ॥
yāvān arthaḥ udapāne sarvatas sampluta-udake . tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ .. 46 ..
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ 47 ॥
कर्मणि एव अधिकारः ते मा फलेषु कदाचन । मा कर्म-फल-हेतुः भूः मा ते सङ्गः अस्तु अकर्मणि ॥ ४७ ॥
karmaṇi eva adhikāraḥ te mā phaleṣu kadācana . mā karma-phala-hetuḥ bhūḥ mā te saṅgaḥ astu akarmaṇi .. 47 ..
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ 48 ॥
योग-स्थः कुरु कर्माणि सङ्गम् त्यक्त्वा धनञ्जय । सिद्धि-असिद्ध्योः समः भूत्वा सम-त्वम् योगः उच्यते ॥ ४८ ॥
yoga-sthaḥ kuru karmāṇi saṅgam tyaktvā dhanañjaya . siddhi-asiddhyoḥ samaḥ bhūtvā sama-tvam yogaḥ ucyate .. 48 ..
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय । बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ 49 ॥
दूरेण हि अवरम् कर्म बुद्धि-योगात् धनञ्जय । बुद्धौ शरणम् अन्विच्छ कृपणाः फल-हेतवः ॥ ४९ ॥
dūreṇa hi avaram karma buddhi-yogāt dhanañjaya . buddhau śaraṇam anviccha kṛpaṇāḥ phala-hetavaḥ .. 49 ..
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ 50 ॥
बुद्धि-युक्तः जहाति इह उभे सुकृत-दुष्कृते । तस्मात् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ ५० ॥
buddhi-yuktaḥ jahāti iha ubhe sukṛta-duṣkṛte . tasmāt yogāya yujyasva yogaḥ karmasu kauśalam .. 50 ..
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ 51 ॥
कर्म-जम् बुद्धि-युक्ताः हि फलम् त्यक्त्वा मनीषिणः । जन्म-बन्ध-विनिर्मुक्ताः पदम् गच्छन्ति अनामयम् ॥ ५१ ॥
karma-jam buddhi-yuktāḥ hi phalam tyaktvā manīṣiṇaḥ . janma-bandha-vinirmuktāḥ padam gacchanti anāmayam .. 51 ..
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ 52 ॥
यदा ते मोह-कलिलम् बुद्धिः व्यतितरिष्यति । तदा गन्तासि निर्वेदम् श्रोतव्यस्य श्रुतस्य च ॥ ५२ ॥
yadā te moha-kalilam buddhiḥ vyatitariṣyati . tadā gantāsi nirvedam śrotavyasya śrutasya ca .. 52 ..
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ 53 ॥
श्रुति-विप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधौ अचला बुद्धिः तदा योगम् अवाप्स्यसि ॥ ५३ ॥
śruti-vipratipannā te yadā sthāsyati niścalā . samādhau acalā buddhiḥ tadā yogam avāpsyasi .. 53 ..
अर्जुन उवाच । / arjuna uvacha ।
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ 54 ॥
स्थित-प्रज्ञस्य का भाषा समाधि-स्थस्य केशव । स्थित-धीः किम् प्रभाषेत किम् आसीत व्रजेत किम् ॥ ५४ ॥
sthita-prajñasya kā bhāṣā samādhi-sthasya keśava . sthita-dhīḥ kim prabhāṣeta kim āsīta vrajeta kim .. 54 ..
श्रीभगवानुवाच । / sribhagavanuvacha ।
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ 55 ॥
प्रजहाति यदा कामान् सर्वान् पार्थ मनः-गतान् । आत्मनि एव आत्मना तुष्टः स्थित-प्रज्ञः तदा उच्यते ॥ ५५ ॥
prajahāti yadā kāmān sarvān pārtha manaḥ-gatān . ātmani eva ātmanā tuṣṭaḥ sthita-prajñaḥ tadā ucyate .. 55 ..
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ 56 ॥
दुःखेषु अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः । वीत-राग-भय-क्रोधः स्थित-धीः मुनिः उच्यते ॥ ५६ ॥
duḥkheṣu anudvigna-manāḥ sukheṣu vigata-spṛhaḥ . vīta-rāga-bhaya-krodhaḥ sthita-dhīḥ muniḥ ucyate .. 56 ..
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ 57 ॥
यः सर्वत्र अनभिस्नेहः तत् तत् प्राप्य शुभ-अशुभम् । न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥
yaḥ sarvatra anabhisnehaḥ tat tat prāpya śubha-aśubham . na abhinandati na dveṣṭi tasya prajñā pratiṣṭhitā .. 57 ..
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ 58 ॥
यदा संहरते च अयम् कूर्मः अङ्गानि इव सर्वशस् । इन्द्रियाणि इन्द्रिय-अर्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥ ५८ ॥
yadā saṃharate ca ayam kūrmaḥ aṅgāni iva sarvaśas . indriyāṇi indriya-arthebhyaḥ tasya prajñā pratiṣṭhitā .. 58 ..
विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ 59 ॥
विषयाः विनिवर्तन्ते निराहारस्य देहिनः । रस-वर्जम् रसः अपि अस्य परम् दृष्ट्वा निवर्तते ॥ ५९ ॥
viṣayāḥ vinivartante nirāhārasya dehinaḥ . rasa-varjam rasaḥ api asya param dṛṣṭvā nivartate .. 59 ..
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ 60 ॥
यततः हि अपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभम् मनः ॥ ६० ॥
yatataḥ hi api kaunteya puruṣasya vipaścitaḥ . indriyāṇi pramāthīni haranti prasabham manaḥ .. 60 ..
तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ 61 ॥
तानि सर्वाणि संयम्य युक्तः आसीत मद्-परः । वशे हि यस्य इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ ६१ ॥
tāni sarvāṇi saṃyamya yuktaḥ āsīta mad-paraḥ . vaśe hi yasya indriyāṇi tasya prajñā pratiṣṭhitā .. 61 ..
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ 62 ॥
ध्यायतः विषयान् पुंसः सङ्गः तेषु उपजायते । सङ्गात् सञ्जायते कामः कामात् क्रोधः अभिजायते ॥ ६२ ॥
dhyāyataḥ viṣayān puṃsaḥ saṅgaḥ teṣu upajāyate . saṅgāt sañjāyate kāmaḥ kāmāt krodhaḥ abhijāyate .. 62 ..
क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ 63 ॥
क्रोधात् भवति सम्मोहः सम्मोहात् स्मृति-विभ्रमः । स्मृति-भ्रंशात् बुद्धि-नाशः बुद्धि-नाशात् प्रणश्यति ॥ ६३ ॥
krodhāt bhavati sammohaḥ sammohāt smṛti-vibhramaḥ . smṛti-bhraṃśāt buddhi-nāśaḥ buddhi-nāśāt praṇaśyati .. 63 ..
रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ 64 ॥
राग-द्वेष-विमुक्तैः तु विषयान् इन्द्रियैः चरन् । आत्म-वश्यैः विधेय-आत्मा प्रसादम् अधिगच्छति ॥ ६४ ॥
rāga-dveṣa-vimuktaiḥ tu viṣayān indriyaiḥ caran . ātma-vaśyaiḥ vidheya-ātmā prasādam adhigacchati .. 64 ..
प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ 65 ॥
प्रसादे सर्व-दुःखानाम् हानिः अस्य उपजायते । प्रसन्न-चेतसः हि आशु बुद्धिः पर्यवतिष्ठते ॥ ६५ ॥
prasāde sarva-duḥkhānām hāniḥ asya upajāyate . prasanna-cetasaḥ hi āśu buddhiḥ paryavatiṣṭhate .. 65 ..
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ 66 ॥
न अस्ति बुद्धिः अयुक्तस्य न च अयुक्तस्य भावना । न च अभावयतः शान्तिः अशान्तस्य कुतस् सुखम् ॥ ६६ ॥
na asti buddhiḥ ayuktasya na ca ayuktasya bhāvanā . na ca abhāvayataḥ śāntiḥ aśāntasya kutas sukham .. 66 ..
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ 67 ॥
इन्द्रियाणाम् हि चरताम् यत् मनः अनुविधीयते । तत् अस्य हरति प्रज्ञाम् वायुः नावम् इव अम्भसि ॥ ६७ ॥
indriyāṇām hi caratām yat manaḥ anuvidhīyate . tat asya harati prajñām vāyuḥ nāvam iva ambhasi .. 67 ..
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ 68 ॥
तस्मात् यस्य महा-बाहो निगृहीतानि सर्वशस् । इन्द्रियाणि इन्द्रिय-अर्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥ ६८ ॥
tasmāt yasya mahā-bāho nigṛhītāni sarvaśas . indriyāṇi indriya-arthebhyaḥ tasya prajñā pratiṣṭhitā .. 68 ..
या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ 69 ॥
या निशा सर्व-भूतानाम् तस्याम् जागर्ति संयमी । यस्याम् जाग्रति भूतानि सा निशा पश्यतः मुनेः ॥ ६९ ॥
yā niśā sarva-bhūtānām tasyām jāgarti saṃyamī . yasyām jāgrati bhūtāni sā niśā paśyataḥ muneḥ .. 69 ..
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्। तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ 70 ॥
आपूर्यमाणम् अचल-प्रतिष्ठम् समुद्रम् आपः प्रविशन्ति यद्वत्। तद्वत् कामाः यम् प्रविशन्ति सर्वे स शान्तिम् आप्नोति न काम-कामी ॥ ७० ॥
āpūryamāṇam acala-pratiṣṭham samudram āpaḥ praviśanti yadvat. tadvat kāmāḥ yam praviśanti sarve sa śāntim āpnoti na kāma-kāmī .. 70 ..
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः । निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ 71 ॥
विहाय कामान् यः सर्वान् पुमान् चरति निःस्पृहः । निर्ममः निरहङ्कारः स शान्तिम् अधिगच्छति ॥ ७१ ॥
vihāya kāmān yaḥ sarvān pumān carati niḥspṛhaḥ . nirmamaḥ nirahaṅkāraḥ sa śāntim adhigacchati .. 71 ..
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ 72 ॥
एषा ब्राह्मी स्थितिः पार्थ न एनाम् प्राप्य विमुह्यति । स्थित्वा अस्याम् अन्त-काले अपि ब्रह्म-निर्वाणम् ऋच्छति ॥ ७२ ॥
eṣā brāhmī sthitiḥ pārtha na enām prāpya vimuhyati . sthitvā asyām anta-kāle api brahma-nirvāṇam ṛcchati .. 72 ..
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगो नाम द्वितीयोऽध्यायः ॥2 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे साङ्ख्ययोगः नाम द्वितीयः अध्यायः ॥२ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ ..2 ..

Karma Yoga

Collapse

अथ तृतीयोऽध्यायः ।
अथ तृतीयः अध्यायः ।
atha tṛtīyaḥ adhyāyaḥ .
अर्जुन उवाच । / arjuna uvacha ।
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ 1 ॥
ज्यायसी चेद् कर्मणः ते मता बुद्धिः जनार्दन । तत् किम् कर्मणि घोरे माम् नियोजयसि केशव ॥ १ ॥
jyāyasī ced karmaṇaḥ te matā buddhiḥ janārdana . tat kim karmaṇi ghore mām niyojayasi keśava .. 1 ..
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ 2 ॥
व्यामिश्रेण इव वाक्येन बुद्धिम् मोहयसि इव मे । तत् एकम् वद निश्चित्य येन श्रेयः अहम् आप्नुयाम् ॥ २ ॥
vyāmiśreṇa iva vākyena buddhim mohayasi iva me . tat ekam vada niścitya yena śreyaḥ aham āpnuyām .. 2 ..
श्रीभगवानुवाच । / sribhagavanuvacha ।
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ 3 ॥
लोके अस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मया अनघ । ज्ञान-योगेन साङ्ख्यानाम् कर्म-योगेन योगिनाम् ॥ ३ ॥
loke asmin dvividhā niṣṭhā purā proktā mayā anagha . jñāna-yogena sāṅkhyānām karma-yogena yoginām .. 3 ..
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते । न च सन्न्यसनादेव सिद्धिं समधिगच्छति ॥ 4 ॥
न कर्मणाम् अनारम्भात् नैष्कर्म्यम् पुरुषः अश्नुते । न च सन् न्यसनात् एव सिद्धिम् समधिगच्छति ॥ ४ ॥
na karmaṇām anārambhāt naiṣkarmyam puruṣaḥ aśnute . na ca san nyasanāt eva siddhim samadhigacchati .. 4 ..
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ 5 ॥
न हि कश्चिद् क्षणम् अपि जातु तिष्ठति अ कर्म-कृत् । कार्यते हि अवशः कर्म सर्वः प्रकृति-जैः गुणैः ॥ ५ ॥
na hi kaścid kṣaṇam api jātu tiṣṭhati a karma-kṛt . kāryate hi avaśaḥ karma sarvaḥ prakṛti-jaiḥ guṇaiḥ .. 5 ..
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ 6 ॥
कर्मेन्द्रियाणि संयम्य यः आस्ते मनसा स्मरन् । इन्द्रिय-अर्थान् विमूढ-आत्मा मिथ्या आचारः सः उच्यते ॥ ६ ॥
karmendriyāṇi saṃyamya yaḥ āste manasā smaran . indriya-arthān vimūḍha-ātmā mithyā ācāraḥ saḥ ucyate .. 6 ..
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ 7 ॥
यः तु इन्द्रियाणि मनसा नियम्य आरभते अर्जुन । कर्मेन्द्रियैः कर्म-योगम् असक्तः स विशिष्यते ॥ ७ ॥
yaḥ tu indriyāṇi manasā niyamya ārabhate arjuna . karmendriyaiḥ karma-yogam asaktaḥ sa viśiṣyate .. 7 ..
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ 8 ॥
नियतम् कुरु कर्म त्वम् कर्म ज्यायः हि अकर्मणः । शरीर-यात्रा अपि च ते न प्रसिद्ध्येत् अकर्मणः ॥ ८ ॥
niyatam kuru karma tvam karma jyāyaḥ hi akarmaṇaḥ . śarīra-yātrā api ca te na prasiddhyet akarmaṇaḥ .. 8 ..
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ 9 ॥
यज्ञ-अर्थात् कर्मणः अन्यत्र लोकः अयम् कर्म-बन्धनः । तद्-अर्थम् कर्म कौन्तेय मुक्त-सङ्गः समाचर ॥ ९ ॥
yajña-arthāt karmaṇaḥ anyatra lokaḥ ayam karma-bandhanaḥ . tad-artham karma kaunteya mukta-saṅgaḥ samācara .. 9 ..
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ 10 ॥
सह यज्ञाः प्रजाः सृष्ट्वा पुरा उवाच प्रजापतिः । अनेन प्रसविष्यध्वम् एष वः अस्तु इष्ट-कामधुक् ॥ १० ॥
saha yajñāḥ prajāḥ sṛṣṭvā purā uvāca prajāpatiḥ . anena prasaviṣyadhvam eṣa vaḥ astu iṣṭa-kāmadhuk .. 10 ..
देवान्भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ 11 ॥
देवान् भावयत अनेन ते देवाः भावयन्तु वः । परस्परम् भावयन्तः श्रेयः परम् अवाप्स्यथ ॥ ११ ॥
devān bhāvayata anena te devāḥ bhāvayantu vaḥ . parasparam bhāvayantaḥ śreyaḥ param avāpsyatha .. 11 ..
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ 12 ॥
इष्टान् भोगान् हि वः देवाः दास्यन्ते यज्ञ-भाविताः । तैः दत्तान् अ प्रदाय एभ्यः यः भुङ्क्ते स्तेनः एव सः ॥ १२ ॥
iṣṭān bhogān hi vaḥ devāḥ dāsyante yajña-bhāvitāḥ . taiḥ dattān a pradāya ebhyaḥ yaḥ bhuṅkte stenaḥ eva saḥ .. 12 ..
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ 13 ॥
यज्ञ-शिष्ट-आशिनः सन्तः मुच्यन्ते सर्व-किल्बिषैः । भुञ्जते ते तु अघम् पापाः ये पचन्ति आत्म-कारणात् ॥ १३ ॥
yajña-śiṣṭa-āśinaḥ santaḥ mucyante sarva-kilbiṣaiḥ . bhuñjate te tu agham pāpāḥ ye pacanti ātma-kāraṇāt .. 13 ..
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ 14 ॥
अन्नात् भवन्ति भूतानि पर्जन्यात् अन्न-सम्भवः । यज्ञात् भवति पर्जन्यः यज्ञः कर्म-समुद्भवः ॥ १४ ॥
annāt bhavanti bhūtāni parjanyāt anna-sambhavaḥ . yajñāt bhavati parjanyaḥ yajñaḥ karma-samudbhavaḥ .. 14 ..
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ 15 ॥
कर्म ब्रह्म-उद्भवम् विद्धि ब्रह्म अक्षर-समुद्भवम् । तस्मात् सर्व-गतम् ब्रह्म नित्यम् यज्ञे प्रतिष्ठितम् ॥ १५ ॥
karma brahma-udbhavam viddhi brahma akṣara-samudbhavam . tasmāt sarva-gatam brahma nityam yajñe pratiṣṭhitam .. 15 ..
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ 16 ॥
एवम् प्रवर्तितम् चक्रम् न अनुवर्तयति इह यः । अघायुः इन्द्रिय-आरामः मोघम् पार्थ स जीवति ॥ १६ ॥
evam pravartitam cakram na anuvartayati iha yaḥ . aghāyuḥ indriya-ārāmaḥ mogham pārtha sa jīvati .. 16 ..
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ 17 ॥
यः तु आत्म-रतिः एव स्यात् आत्म-तृप्तः च मानवः । आत्मनि एव च सन्तुष्टः तस्य कार्यम् न विद्यते ॥ १७ ॥
yaḥ tu ātma-ratiḥ eva syāt ātma-tṛptaḥ ca mānavaḥ . ātmani eva ca santuṣṭaḥ tasya kāryam na vidyate .. 17 ..
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ 18 ॥
न एव तस्य कृतेन अर्थः न अकृतेन इह कश्चन । न च अस्य सर्व-भूतेषु कश्चिद् अर्थ-व्यपाश्रयः ॥ १८ ॥
na eva tasya kṛtena arthaḥ na akṛtena iha kaścana . na ca asya sarva-bhūteṣu kaścid artha-vyapāśrayaḥ .. 18 ..
तस्मादसक्तः सततं कार्यं कर्म समाचर । असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ 19 ॥
तस्मात् असक्तः सततम् कार्यम् कर्म समाचर । असक्तः हि आचरन् कर्म परम् आप्नोति पूरुषः ॥ १९ ॥
tasmāt asaktaḥ satatam kāryam karma samācara . asaktaḥ hi ācaran karma param āpnoti pūruṣaḥ .. 19 ..
कर्मणैव हि संसिद्धिमास्थिता जनकादयः । लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥ 20 ॥
कर्मणा एव हि संसिद्धिम् आस्थिताः जनक-आदयः । लोक-सङ्ग्रहम् एवा अपि सम्पश्यन् कर्तुम् अर्हसि ॥ २० ॥
karmaṇā eva hi saṃsiddhim āsthitāḥ janaka-ādayaḥ . loka-saṅgraham evā api sampaśyan kartum arhasi .. 20 ..
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ 21 ॥
यत् यत् आचरति श्रेष्ठः तत् तत् एव इतरः जनः । स यत् प्रमाणम् कुरुते लोकः तत् अनुवर्तते ॥ २१ ॥
yat yat ācarati śreṣṭhaḥ tat tat eva itaraḥ janaḥ . sa yat pramāṇam kurute lokaḥ tat anuvartate .. 21 ..
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ 22 ॥
न मे पार्थ अस्ति कर्तव्यम् त्रिषु लोकेषु किञ्चन । न अनवाप्तम् अवाप्तव्यम् वर्ते एव च कर्मणि ॥ २२ ॥
na me pārtha asti kartavyam triṣu lokeṣu kiñcana . na anavāptam avāptavyam varte eva ca karmaṇi .. 22 ..
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ 23 ॥
यदि हि अहम् न वर्तेयम् जातु कर्मणि अतन्द्रितः । मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशस् ॥ २३ ॥
yadi hi aham na varteyam jātu karmaṇi atandritaḥ . mama vartma anuvartante manuṣyāḥ pārtha sarvaśas .. 23 ..
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ 24 ॥
उत्सीदेयुः इमे लोकाः न कुर्याम् कर्म चेद् अहम् । सङ्करस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥ २४ ॥
utsīdeyuḥ ime lokāḥ na kuryām karma ced aham . saṅkarasya ca kartā syām upahanyām imāḥ prajāḥ .. 24 ..
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥ 25 ॥
सक्ताः कर्मणि अविद्वांसः यथा कुर्वन्ति भारत । कुर्यात् विद्वान् तथा असक्तः चिकीर्षुः लोक-सङ्ग्रहम् ॥ २५ ॥
saktāḥ karmaṇi avidvāṃsaḥ yathā kurvanti bhārata . kuryāt vidvān tathā asaktaḥ cikīrṣuḥ loka-saṅgraham .. 25 ..
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ 26 ॥
न बुद्धि-भेदम् जनयेत् अज्ञानाम् कर्म-सङ्गिनाम् । जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् ॥ २६ ॥
na buddhi-bhedam janayet ajñānām karma-saṅginām . joṣayet sarva-karmāṇi vidvān yuktaḥ samācaran .. 26 ..
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ 27 ॥
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशस् । अहङ्कार-विमूढ-आत्मा कर्ताहम् इति मन्यते ॥ २७ ॥
prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśas . ahaṅkāra-vimūḍha-ātmā kartāham iti manyate .. 27 ..
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ 28 ॥
तत्त्व-विद् तु महा-बाहो गुण-कर्म-विभागयोः । गुणाः गुणेषु वर्तन्ते इति मत्वा न सज्जते ॥ २८ ॥
tattva-vid tu mahā-bāho guṇa-karma-vibhāgayoḥ . guṇāḥ guṇeṣu vartante iti matvā na sajjate .. 28 ..
प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु । तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥ 29 ॥
प्रकृतेः गुण-सम्मूढाः सज्जन्ते गुण-कर्मसु । तान् अकृत्स्न-विदः मन्दान् कृत्स्न-विद् न विचालयेत् ॥ २९ ॥
prakṛteḥ guṇa-sammūḍhāḥ sajjante guṇa-karmasu . tān akṛtsna-vidaḥ mandān kṛtsna-vid na vicālayet .. 29 ..
मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ 30 ॥
मयि सर्वाणि कर्माणि सन् न्यस्य अध्यात्म-चेतसा । निराशीः निर्ममः भूत्वा युध्यस्व विगत-ज्वरः ॥ ३० ॥
mayi sarvāṇi karmāṇi san nyasya adhyātma-cetasā . nirāśīḥ nirmamaḥ bhūtvā yudhyasva vigata-jvaraḥ .. 30 ..
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ 31 ॥
ये मे मतम् इदम् नित्यम् अनुतिष्ठन्ति मानवाः । श्रद्धावन्तः अनसूयन्तः मुच्यन्ते ते अपि कर्मभिः ॥ ३१ ॥
ye me matam idam nityam anutiṣṭhanti mānavāḥ . śraddhāvantaḥ anasūyantaḥ mucyante te api karmabhiḥ .. 31 ..
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ 32 ॥
ये तु एतत् अभ्यसूयन्तः न अनुतिष्ठन्ति मे मतम् । सर्व-ज्ञान-विमूढान् तान् विद्धि नष्टान् अचेतसः ॥ ३२ ॥
ye tu etat abhyasūyantaḥ na anutiṣṭhanti me matam . sarva-jñāna-vimūḍhān tān viddhi naṣṭān acetasaḥ .. 32 ..
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ 33 ॥
सदृशम् चेष्टते स्वस्याः प्रकृतेः ज्ञानवान् अपि । प्रकृतिम् यान्ति भूतानि निग्रहः किम् करिष्यति ॥ ३३ ॥
sadṛśam ceṣṭate svasyāḥ prakṛteḥ jñānavān api . prakṛtim yānti bhūtāni nigrahaḥ kim kariṣyati .. 33 ..
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ 34 ॥
इन्द्रियस्य इन्द्रियस्य अर्थे राग-द्वेषौ व्यवस्थितौ । तयोः न वशम् आगच्छेत् तौ हि अस्य परिपन्थिनौ ॥ ३४ ॥
indriyasya indriyasya arthe rāga-dveṣau vyavasthitau . tayoḥ na vaśam āgacchet tau hi asya paripanthinau .. 34 ..
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ 35 ॥
श्रेयान् स्वधर्मः विगुणः पर-धर्मात् सु अनुष्ठितात् । स्वधर्मे निधनम् श्रेयः पर-धर्मः भय-आवहः ॥ ३५ ॥
śreyān svadharmaḥ viguṇaḥ para-dharmāt su anuṣṭhitāt . svadharme nidhanam śreyaḥ para-dharmaḥ bhaya-āvahaḥ .. 35 ..
अर्जुन उवाच । / arjuna uvacha ।
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ 36 ॥
अथ केन प्रयुक्तः अयम् पापम् चरति पूरुषः । अन् इच्छन् अपि वार्ष्णेय बलात् इव नियोजितः ॥ ३६ ॥
atha kena prayuktaḥ ayam pāpam carati pūruṣaḥ . an icchan api vārṣṇeya balāt iva niyojitaḥ .. 36 ..
श्रीभगवानुवाच । / sribhagavanuvacha ।
काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ 37 ॥
कामः एष क्रोधः एष रजः-गुण-समुद्भवः । महा-अशनः महा-पाप्मा विद्धि एनम् इह वैरिणम् ॥ ३७ ॥
kāmaḥ eṣa krodhaḥ eṣa rajaḥ-guṇa-samudbhavaḥ . mahā-aśanaḥ mahā-pāpmā viddhi enam iha vairiṇam .. 37 ..
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च । यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ 38 ॥
धूमेन आव्रियते वह्निः यथा आदर्शः मलेन च । यथा उल्बेन आवृतः गर्भः तथा तेन इदम् आवृतम् ॥ ३८ ॥
dhūmena āvriyate vahniḥ yathā ādarśaḥ malena ca . yathā ulbena āvṛtaḥ garbhaḥ tathā tena idam āvṛtam .. 38 ..
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ 39 ॥
आवृतम् ज्ञानम् एतेन ज्ञानिनः नित्य-वैरिणा । कामरूपेण कौन्तेय दुष्पूरेण अनलेन च ॥ ३९ ॥
āvṛtam jñānam etena jñāninaḥ nitya-vairiṇā . kāmarūpeṇa kaunteya duṣpūreṇa analena ca .. 39 ..
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ 40 ॥
इन्द्रियाणि मनः बुद्धिः अस्य अधिष्ठानम् उच्यते । एतैः विमोहयति एष ज्ञानम् आवृत्य देहिनम् ॥ ४० ॥
indriyāṇi manaḥ buddhiḥ asya adhiṣṭhānam ucyate . etaiḥ vimohayati eṣa jñānam āvṛtya dehinam .. 40 ..
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ 41 ॥
तस्मात् त्वम् इन्द्रियाणि आदौ नियम्य भरत-ऋषभ । पाप्मानम् प्रजहि हि एनम् ज्ञान-विज्ञान-नाशनम् ॥ ४१ ॥
tasmāt tvam indriyāṇi ādau niyamya bharata-ṛṣabha . pāpmānam prajahi hi enam jñāna-vijñāna-nāśanam .. 41 ..
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ 42 ॥
इन्द्रियाणि पराणि आहुः इन्द्रियेभ्यः परम् मनः । मनसः तु परा बुद्धिः यः बुद्धेः परतस् तु सः ॥ ४२ ॥
indriyāṇi parāṇi āhuḥ indriyebhyaḥ param manaḥ . manasaḥ tu parā buddhiḥ yaḥ buddheḥ paratas tu saḥ .. 42 ..
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ 43 ॥
एवम् बुद्धेः परम् बुद्ध्वा संस्तभ्य आत्मानम् आत्मना । जहि शत्रुम् महा-बाहो काम-रूपम् दुरासदम् ॥ ४३ ॥
evam buddheḥ param buddhvā saṃstabhya ātmānam ātmanā . jahi śatrum mahā-bāho kāma-rūpam durāsadam .. 43 ..
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः ॥3 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे कर्मयोगः नाम तृतीयः अध्यायः ॥३ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahma-vidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde karmayogaḥ nāma tṛtīyaḥ adhyāyaḥ ..3 ..

Gyaan Karma Sanyasa Yoga

Collapse

अथ चतुर्थोऽध्यायः ।
अथ चतुर्थः अध्यायः ।
atha caturthaḥ adhyāyaḥ .
श्रीभगवानुवाच । / sribhagavanuvacha ।
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ 1 ॥
इमम् विवस्वते योगम् प्रोक्तवान् अहम् अव्ययम् । विवस्वान् मनवे प्राह मनुः इक्ष्वाकवे अब्रवीत् ॥ १ ॥
imam vivasvate yogam proktavān aham avyayam . vivasvān manave prāha manuḥ ikṣvākave abravīt .. 1 ..
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥ 2 ॥
एवम् परम्परा-प्राप्तम् इमम् राजर्षयः विदुः । स कालेन इह महता योगः नष्टः परन्तप ॥ २ ॥
evam paramparā-prāptam imam rājarṣayaḥ viduḥ . sa kālena iha mahatā yogaḥ naṣṭaḥ parantapa .. 2 ..
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ 3 ॥
सः एव अयम् मया ते अद्य योगः प्रोक्तः पुरातनः । भक्तः असि मे सखा च इति रहस्यम् हि एतत् उत्तमम् ॥ ३ ॥
saḥ eva ayam mayā te adya yogaḥ proktaḥ purātanaḥ . bhaktaḥ asi me sakhā ca iti rahasyam hi etat uttamam .. 3 ..
अर्जुन उवाच । / arjuna uvacha ।
अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ 4 ॥
अपरम् भवतः जन्म परम् जन्म विवस्वतः । कथम् एतत् विजानीयाम् त्वम् आदौ प्रोक्तवान् इति ॥ ४ ॥
aparam bhavataḥ janma param janma vivasvataḥ . katham etat vijānīyām tvam ādau proktavān iti .. 4 ..
श्रीभगवानुवाच । / sribhagavanuvacha ।
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ 5 ॥
बहूनि मे व्यतीतानि जन्मानि तव च अर्जुन । तानि अहम् वेद सर्वाणि न त्वम् वेत्थ परन्तप ॥ ५ ॥
bahūni me vyatītāni janmāni tava ca arjuna . tāni aham veda sarvāṇi na tvam vettha parantapa .. 5 ..
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ 6 ॥
अजः अपि सन् अव्यय-आत्मा भूतानाम् ईश्वरः अपि सन् । प्रकृतिम् स्वाम् अधिष्ठाय सम्भवामि आत्म-मायया ॥ ६ ॥
ajaḥ api san avyaya-ātmā bhūtānām īśvaraḥ api san . prakṛtim svām adhiṣṭhāya sambhavāmi ātma-māyayā .. 6 ..
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ 7 ॥
यदा यदा हि धर्मस्य ग्लानिः भवति भारत । अभ्युत्थानम् अधर्मस्य तदा आत्मानम् सृजामि अहम् ॥ ७ ॥
yadā yadā hi dharmasya glāniḥ bhavati bhārata . abhyutthānam adharmasya tadā ātmānam sṛjāmi aham .. 7 ..
परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ 8 ॥
परित्राणाय साधूनाम् विनाशाय च दुष्कृताम् । धर्म-संस्थापन-अर्थाय सम्भवामि युगे युगे ॥ ८ ॥
paritrāṇāya sādhūnām vināśāya ca duṣkṛtām . dharma-saṃsthāpana-arthāya sambhavāmi yuge yuge .. 8 ..
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ 9 ॥
जन्म कर्म च मे दिव्यम् एवम् यः वेत्ति तत्त्वतः । त्यक्त्वा देहम् पुनर्जन्म न एति माम् एति सः अर्जुन ॥ ९ ॥
janma karma ca me divyam evam yaḥ vetti tattvataḥ . tyaktvā deham punarjanma na eti mām eti saḥ arjuna .. 9 ..
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ 10 ॥
वीत-राग-भय-क्रोधाः मद्-मयाः माम् उपाश्रिताः । बहवः ज्ञान-तपसा पूताः मद्-भावम् आगताः ॥ १० ॥
vīta-rāga-bhaya-krodhāḥ mad-mayāḥ mām upāśritāḥ . bahavaḥ jñāna-tapasā pūtāḥ mad-bhāvam āgatāḥ .. 10 ..
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ 11 ॥
ये यथा माम् प्रपद्यन्ते तान् तथा एव भजामि अहम् । मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशस् ॥ ११ ॥
ye yathā mām prapadyante tān tathā eva bhajāmi aham . mama vartma anuvartante manuṣyāḥ pārtha sarvaśas .. 11 ..
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ 12 ॥
काङ्क्षन्तः कर्मणाम् सिद्धिम् यजन्तः इह देवताः । क्षिप्रम् हि मानुषे लोके सिद्धिः भवति कर्म-जा ॥ १२ ॥
kāṅkṣantaḥ karmaṇām siddhim yajantaḥ iha devatāḥ . kṣipram hi mānuṣe loke siddhiḥ bhavati karma-jā .. 12 ..
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ 13 ॥
चातुर्वर्ण्यम् मया सृष्टम् गुण-कर्म-विभागशः । तस्य कर्तारम् अपि माम् विद्धि अकर्तारम् अव्ययम् ॥ १३ ॥
cāturvarṇyam mayā sṛṣṭam guṇa-karma-vibhāgaśaḥ . tasya kartāram api mām viddhi akartāram avyayam .. 13 ..
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ 14 ॥
न माम् कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा । इति माम् यः अभिजानाति कर्मभिः न स बध्यते ॥ १४ ॥
na mām karmāṇi limpanti na me karma-phale spṛhā . iti mām yaḥ abhijānāti karmabhiḥ na sa badhyate .. 14 ..
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ 15 ॥
एवम् ज्ञात्वा कृतम् कर्म पूर्वैः अपि मुमुक्षुभिः । कुरु कर्म एव तस्मात् त्वम् पूर्वैः पूर्वतरम् कृतम् ॥ १५ ॥
evam jñātvā kṛtam karma pūrvaiḥ api mumukṣubhiḥ . kuru karma eva tasmāt tvam pūrvaiḥ pūrvataram kṛtam .. 15 ..
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ 16 ॥
किम् कर्म किम् अकर्म इति कवयः अपि अत्र मोहिताः । तत् ते कर्म प्रवक्ष्यामि यत् ज्ञात्वा मोक्ष्यसे अशुभात् ॥ १६ ॥
kim karma kim akarma iti kavayaḥ api atra mohitāḥ . tat te karma pravakṣyāmi yat jñātvā mokṣyase aśubhāt .. 16 ..
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ 17 ॥
कर्मणः हि अपि बोद्धव्यम् बोद्धव्यम् च विकर्मणः । अकर्मणः च बोद्धव्यम् गहना कर्मणः गतिः ॥ १७ ॥
karmaṇaḥ hi api boddhavyam boddhavyam ca vikarmaṇaḥ . akarmaṇaḥ ca boddhavyam gahanā karmaṇaḥ gatiḥ .. 17 ..
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ 18 ॥
कर्मणि अकर्म यः पश्येत् अकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्न-कर्म-कृत् ॥ १८ ॥
karmaṇi akarma yaḥ paśyet akarmaṇi ca karma yaḥ . sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsna-karma-kṛt .. 18 ..
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ 19 ॥
यस्य सर्वे समारम्भाः काम-सङ्कल्प-वर्जिताः । ज्ञान-अग्नि-दग्ध-कर्माणम् तम् आहुः पण्डितम् बुधाः ॥ १९ ॥
yasya sarve samārambhāḥ kāma-saṅkalpa-varjitāḥ . jñāna-agni-dagdha-karmāṇam tam āhuḥ paṇḍitam budhāḥ .. 19 ..
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ 20 ॥
त्यक्त्वा कर्म-फल-आसङ्गम् नित्य-तृप्तः निराश्रयः । कर्मणि अभिप्रवृत्तः अपि ना एव किञ्चिद् करोति सः ॥ २० ॥
tyaktvā karma-phala-āsaṅgam nitya-tṛptaḥ nirāśrayaḥ . karmaṇi abhipravṛttaḥ api nā eva kiñcid karoti saḥ .. 20 ..
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ 21 ॥
निराशीः यत-चित्त-आत्मा त्यक्त-सर्व-परिग्रहः । शारीरम् केवलम् कर्म कुर्वन् आप्नोति किल्बिषम् ॥ २१ ॥
nirāśīḥ yata-citta-ātmā tyakta-sarva-parigrahaḥ . śārīram kevalam karma kurvan āpnoti kilbiṣam .. 21 ..
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ 22 ॥
यदृच्छा-लाभ-सन्तुष्टः द्वन्द्व-अतीतः विमत्सरः । समः सिद्धौ असिद्धौ च कृत्वा अपि न निबध्यते ॥ २२ ॥
yadṛcchā-lābha-santuṣṭaḥ dvandva-atītaḥ vimatsaraḥ . samaḥ siddhau asiddhau ca kṛtvā api na nibadhyate .. 22 ..
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ 23 ॥
गत-सङ्गस्य मुक्तस्य ज्ञान-अवस्थित-चेतसः । यज्ञाय आचरतः कर्म समग्रम् प्रविलीयते ॥ २३ ॥
gata-saṅgasya muktasya jñāna-avasthita-cetasaḥ . yajñāya ācarataḥ karma samagram pravilīyate .. 23 ..
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ 24 ॥
ब्रह्म अर्पणम् ब्रह्म हविः ब्रह्म अग्नौ ब्रह्मणा हुतम् । ब्रह्म एव तेन गन्तव्यम् ब्रह्म-कर्म-समाधिना ॥ २४ ॥
brahma arpaṇam brahma haviḥ brahma agnau brahmaṇā hutam . brahma eva tena gantavyam brahma-karma-samādhinā .. 24 ..
दैवमेवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ 25 ॥
दैवम् एव अपरे यज्ञम् योगिनः पर्युपासते । ब्रह्म-अग्नौ अपरे यज्ञम् यज्ञेन एव उपजुह्वति ॥ २५ ॥
daivam eva apare yajñam yoginaḥ paryupāsate . brahma-agnau apare yajñam yajñena eva upajuhvati .. 25 ..
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ 26 ॥
श्रोत्र-आदीनि इन्द्रियाणि अन्ये संयम-अग्निषु जुह्वति । शब्द-आदीन् विषयान् अन्ये इन्द्रिय-अग्निषु जुह्वति ॥ २६ ॥
śrotra-ādīni indriyāṇi anye saṃyama-agniṣu juhvati . śabda-ādīn viṣayān anye indriya-agniṣu juhvati .. 26 ..
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ 27 ॥
सर्वाणि इन्द्रिय-कर्माणि प्राण-कर्माणि च अपरे । आत्म-संयम-योग-अग्नौ जुह्वति ज्ञान-दीपिते ॥ २७ ॥
sarvāṇi indriya-karmāṇi prāṇa-karmāṇi ca apare . ātma-saṃyama-yoga-agnau juhvati jñāna-dīpite .. 27 ..
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ 28 ॥
द्रव्य-यज्ञाः तपः-यज्ञाः योग-यज्ञाः तथा अपरे । स्वाध्याय-ज्ञान-यज्ञाः च यतयः संशित-व्रताः ॥ २८ ॥
dravya-yajñāḥ tapaḥ-yajñāḥ yoga-yajñāḥ tathā apare . svādhyāya-jñāna-yajñāḥ ca yatayaḥ saṃśita-vratāḥ .. 28 ..
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ 29 ॥
अपाने जुह्वति प्राणम् प्राणे अपानम् तथा अपरे । प्राण-अपान-गतीः रुद्ध्वा प्राणायाम-परायणाः ॥ २९ ॥
apāne juhvati prāṇam prāṇe apānam tathā apare . prāṇa-apāna-gatīḥ ruddhvā prāṇāyāma-parāyaṇāḥ .. 29 ..
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति । सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ 30 ॥
अपरे नियत-आहाराः प्राणान् प्राणेषु जुह्वति । सर्वे अपि एते यज्ञ-विदः यज्ञ-क्षपित-कल्मषाः ॥ ३० ॥
apare niyata-āhārāḥ prāṇān prāṇeṣu juhvati . sarve api ete yajña-vidaḥ yajña-kṣapita-kalmaṣāḥ .. 30 ..
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ 31 ॥
यज्ञ-शिष्ट-अमृत-भुजः यान्ति ब्रह्म सनातनम् । न अयम् लोकः अस्ति अयज्ञस्य कुतस् अन्यः कुरुसत्तम ॥ ३१ ॥
yajña-śiṣṭa-amṛta-bhujaḥ yānti brahma sanātanam . na ayam lokaḥ asti ayajñasya kutas anyaḥ kurusattama .. 31 ..
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ 32 ॥
एवम् बहुविधाः यज्ञाः वितताः ब्रह्मणः मुखे । कर्म-जान् विद्धि तान् सर्वान् एवम् ज्ञात्वा विमोक्ष्यसे ॥ ३२ ॥
evam bahuvidhāḥ yajñāḥ vitatāḥ brahmaṇaḥ mukhe . karma-jān viddhi tān sarvān evam jñātvā vimokṣyase .. 32 ..
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ 33 ॥
श्रेयान् द्रव्य-मयात् यज्ञात् ज्ञान-यज्ञः परन्तप । सर्वम् कर्म अखिलम् पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥
śreyān dravya-mayāt yajñāt jñāna-yajñaḥ parantapa . sarvam karma akhilam pārtha jñāne parisamāpyate .. 33 ..
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ 34 ॥
तत् विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानम् ज्ञानिनः तत्त्व-दर्शिनः ॥ ३४ ॥
tat viddhi praṇipātena paripraśnena sevayā . upadekṣyanti te jñānam jñāninaḥ tattva-darśinaḥ .. 34 ..
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ 35 ॥
यत् ज्ञात्वा न पुनर् मोहम् एवम् यास्यसि पाण्डव । येन भूतानि अशेषेण द्रक्ष्यसि आत्मनि अथो मयि ॥ ३५ ॥
yat jñātvā na punar moham evam yāsyasi pāṇḍava . yena bhūtāni aśeṣeṇa drakṣyasi ātmani atho mayi .. 35 ..
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ 36 ॥
अपि चेद् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः । सर्वम् ज्ञान-प्लवेन एव वृजिनम् सन्तरिष्यसि ॥ ३६ ॥
api ced asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛttamaḥ . sarvam jñāna-plavena eva vṛjinam santariṣyasi .. 36 ..
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ 37 ॥
यथा एधांसि समिद्धः अग्निः भस्मसात्कुरुते अर्जुन । ज्ञान-अग्निः सर्व-कर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥
yathā edhāṃsi samiddhaḥ agniḥ bhasmasātkurute arjuna . jñāna-agniḥ sarva-karmāṇi bhasmasātkurute tathā .. 37 ..
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ 38 ॥
न हि ज्ञानेन सदृशम् पवित्रम् इह विद्यते । तत् स्वयम् योग-संसिद्धः कालेन आत्मनि विन्दति ॥ ३८ ॥
na hi jñānena sadṛśam pavitram iha vidyate . tat svayam yoga-saṃsiddhaḥ kālena ātmani vindati .. 38 ..
श्रद्धावा~ंल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ 39 ॥
श्रद्धावान् लभते ज्ञानम् तद्-परः संयत-इन्द्रियः । ज्ञानम् लब्ध्वा पराम् शान्तिम् अचिरेण अधिगच्छति ॥ ३९ ॥
śraddhāvān labhate jñānam tad-paraḥ saṃyata-indriyaḥ . jñānam labdhvā parām śāntim acireṇa adhigacchati .. 39 ..
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ 40 ॥
अज्ञः च अश्रद्दधानः च संशय-आत्मा विनश्यति । न अयम् लोकः अस्ति न परः न सुखम् संशय-आत्मनः ॥ ४० ॥
ajñaḥ ca aśraddadhānaḥ ca saṃśaya-ātmā vinaśyati . na ayam lokaḥ asti na paraḥ na sukham saṃśaya-ātmanaḥ .. 40 ..
योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ 41 ॥
योग-सन्न्यस्त-कर्माणम् ज्ञान-सञ्छिन्न-संशयम् । आत्मवन्तम् न कर्माणि निबध्नन्ति धनञ्जय ॥ ४१ ॥
yoga-sannyasta-karmāṇam jñāna-sañchinna-saṃśayam . ātmavantam na karmāṇi nibadhnanti dhanañjaya .. 41 ..
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ 42 ॥
तस्मात् अज्ञान-सम्भूतम् हृद्-स्थम् ज्ञान-असिना आत्मनः । छित्त्वा एनम् संशयम् योगम् आतिष्ठ उत्तिष्ठ भारत ॥ ४२ ॥
tasmāt ajñāna-sambhūtam hṛd-stham jñāna-asinā ātmanaḥ . chittvā enam saṃśayam yogam ātiṣṭha uttiṣṭha bhārata .. 42 ..
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसन्न्यासयोगो नाम चतुर्थोऽध्यायः ॥4 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे ज्ञानकर्मसन्न्यासयोगः नाम चतुर्थः अध्यायः ॥४ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde jñānakarmasannyāsayogaḥ nāma caturthaḥ adhyāyaḥ ..4 ..

Karma Sanyasa Yoga

Collapse

अथ पञ्चमोऽध्यायः ।
अथ पञ्चमः अध्यायः ।
atha pañcamaḥ adhyāyaḥ .
अर्जुन उवाच । / arjuna uvacha ।
सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ 1 ॥
सन्न्यासम् कर्मणाम् कृष्ण पुनर् योगम् च शंससि । यत् श्रेयः एतयोः एकम् तत् मे ब्रूहि सु निश्चितम् ॥ १ ॥
sannyāsam karmaṇām kṛṣṇa punar yogam ca śaṃsasi . yat śreyaḥ etayoḥ ekam tat me brūhi su niścitam .. 1 ..
श्रीभगवानुवाच । / sribhagavanuvacha ।
सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसन्न्यासात्कर्मयोगो विशिष्यते ॥ 2 ॥
सन्न्यासः कर्म-योगः च निःश्रेयस-करौ उभौ । तयोः तु कर्म-सन्न्यासात् कर्म-योगः विशिष्यते ॥ २ ॥
sannyāsaḥ karma-yogaḥ ca niḥśreyasa-karau ubhau . tayoḥ tu karma-sannyāsāt karma-yogaḥ viśiṣyate .. 2 ..
ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ 3 ॥
ज्ञेयः स नित्य-सन्न्यासी यः न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वः हि महा-बाहो सुखम् बन्धात् प्रमुच्यते ॥ ३ ॥
jñeyaḥ sa nitya-sannyāsī yaḥ na dveṣṭi na kāṅkṣati . nirdvandvaḥ hi mahā-bāho sukham bandhāt pramucyate .. 3 ..
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥ 4 ॥
साङ्ख्य-योगौ पृथक् बालाः प्रवदन्ति न पण्डिताः । एकम् अपि आस्थितः सम्यक् उभयोः विन्दते फलम् ॥ ४ ॥
sāṅkhya-yogau pṛthak bālāḥ pravadanti na paṇḍitāḥ . ekam api āsthitaḥ samyak ubhayoḥ vindate phalam .. 4 ..
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ 5 ॥
यत् साङ्ख्यैः प्राप्यते स्थानम् तत् योगैः अपि गम्यते । एकम् साङ्ख्यम् च योगम् च यः पश्यति स पश्यति ॥ ५ ॥
yat sāṅkhyaiḥ prāpyate sthānam tat yogaiḥ api gamyate . ekam sāṅkhyam ca yogam ca yaḥ paśyati sa paśyati .. 5 ..
सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ 6 ॥
सन्न्यासः तु महा-बाहो दुःखम् आप्तुम् अ योगतः । योग-युक्तः मुनिः ब्रह्म नचिरेण अधिगच्छति ॥ ६ ॥
sannyāsaḥ tu mahā-bāho duḥkham āptum a yogataḥ . yoga-yuktaḥ muniḥ brahma nacireṇa adhigacchati .. 6 ..
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ 7 ॥
योग-युक्तः विशुद्ध-आत्मा विजित-आत्मा जित-इन्द्रियः । सर्व-भूत-आत्म-भूत-आत्मा कुर्वन् अपि न लिप्यते ॥ ७ ॥
yoga-yuktaḥ viśuddha-ātmā vijita-ātmā jita-indriyaḥ . sarva-bhūta-ātma-bhūta-ātmā kurvan api na lipyate .. 7 ..
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् । पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ 8 ॥
न एव किञ्चिद् करोमि इति युक्तः मन्येत तत्त्व-विद् । पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् ॥ ८ ॥
na eva kiñcid karomi iti yuktaḥ manyeta tattva-vid . paśyan śṛṇvan spṛśan jighran aśnan gacchan svapan śvasan .. 8 ..
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ 9 ॥
प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि । इन्द्रियाणि इन्द्रिय-अर्थेषु वर्तन्ते इति धारयन् ॥ ९ ॥
pralapan visṛjan gṛhṇan unmiṣan nimiṣan api . indriyāṇi indriya-artheṣu vartante iti dhārayan .. 9 ..
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ 10 ॥
ब्रह्मणि आधाय कर्माणि सङ्गम् त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्म-पत्रम् इव अम्भसा ॥ १० ॥
brahmaṇi ādhāya karmāṇi saṅgam tyaktvā karoti yaḥ . lipyate na sa pāpena padma-patram iva ambhasā .. 10 ..
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ 11 ॥
कायेन मनसा बुद्ध्या केवलैः इन्द्रियैः अपि । योगिनः कर्म कुर्वन्ति सङ्गम् त्यक्त्वा आत्म-शुद्धये ॥ ११ ॥
kāyena manasā buddhyā kevalaiḥ indriyaiḥ api . yoginaḥ karma kurvanti saṅgam tyaktvā ātma-śuddhaye .. 11 ..
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ 12 ॥
युक्तः कर्म-फलम् त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् । अ युक्तः कामकारेण फले सक्तः निबध्यते ॥ १२ ॥
yuktaḥ karma-phalam tyaktvā śāntim āpnoti naiṣṭhikīm . a yuktaḥ kāmakāreṇa phale saktaḥ nibadhyate .. 12 ..
सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ 13 ॥
सर्व-कर्माणि मनसा सन्न्यस्य आस्ते सुखम् वशी । नव-द्वारे पुरे देही ना एव कुर्वन् न कारयन् ॥ १३ ॥
sarva-karmāṇi manasā sannyasya āste sukham vaśī . nava-dvāre pure dehī nā eva kurvan na kārayan .. 13 ..
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ 14 ॥
न कर्तृ-त्वम् न कर्माणि लोकस्य सृजति प्रभुः । न कर्म-फल-संयोगम् स्वभावः तु प्रवर्तते ॥ १४ ॥
na kartṛ-tvam na karmāṇi lokasya sṛjati prabhuḥ . na karma-phala-saṃyogam svabhāvaḥ tu pravartate .. 14 ..
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ 15 ॥
न आदत्ते कस्यचिद् पापम् न च एव सुकृतम् विभुः । अज्ञानेन आवृतम् ज्ञानम् तेन मुह्यन्ति जन्तवः ॥ १५ ॥
na ādatte kasyacid pāpam na ca eva sukṛtam vibhuḥ . ajñānena āvṛtam jñānam tena muhyanti jantavaḥ .. 15 ..
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ 16 ॥
ज्ञानेन तु तत् अज्ञानम् येषाम् नाशितम् आत्मनः । तेषाम् आदित्य-वत् ज्ञानम् प्रकाशयति तत् परम् ॥ १६ ॥
jñānena tu tat ajñānam yeṣām nāśitam ātmanaḥ . teṣām āditya-vat jñānam prakāśayati tat param .. 16 ..
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ 17 ॥
तद्-बुद्धयः तद्-आत्मानः तद्-निष्ठाः तद्-परायणाः । गच्छन्ति अपुनरावृत्तिम् ज्ञान-निर्धूत-कल्मषाः ॥ १७ ॥
tad-buddhayaḥ tad-ātmānaḥ tad-niṣṭhāḥ tad-parāyaṇāḥ . gacchanti apunarāvṛttim jñāna-nirdhūta-kalmaṣāḥ .. 17 ..
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ 18 ॥
विद्या-विनय-सम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि च एव श्वपाके च पण्डिताः सम-दर्शिनः ॥ १८ ॥
vidyā-vinaya-sampanne brāhmaṇe gavi hastini . śuni ca eva śvapāke ca paṇḍitāḥ sama-darśinaḥ .. 18 ..
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥ 19 ॥
इह एव तैः जितः सर्गः येषाम् साम्ये स्थितम् मनः । निर्दोषम् हि समम् ब्रह्म तस्मात् ब्रह्मणि ते स्थिताः ॥ १९ ॥
iha eva taiḥ jitaḥ sargaḥ yeṣām sāmye sthitam manaḥ . nirdoṣam hi samam brahma tasmāt brahmaṇi te sthitāḥ .. 19 ..
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । स्थिरबुद्धिरसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥ 20 ॥
न प्रहृष्येत् प्रियम् प्राप्य न उद्विजेत् प्राप्य च अप्रियम् । स्थिर-बुद्धिः असम्मूढः ब्रह्म-विद् ब्रह्मणि स्थितः ॥ २० ॥
na prahṛṣyet priyam prāpya na udvijet prāpya ca apriyam . sthira-buddhiḥ asammūḍhaḥ brahma-vid brahmaṇi sthitaḥ .. 20 ..
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ 21 ॥
बाह्य-स्पर्शेषु असक्त-आत्मा विन्दति आत्मनि यत् सुखम् । स ब्रह्म-योग-युक्त-आत्मा सुखम् अक्षयम् अश्नुते ॥ २१ ॥
bāhya-sparśeṣu asakta-ātmā vindati ātmani yat sukham . sa brahma-yoga-yukta-ātmā sukham akṣayam aśnute .. 21 ..
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ 22 ॥
ये हि संस्पर्श-जाः भोगाः दुःख-योनयः एव ते । आदि-अन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ २२ ॥
ye hi saṃsparśa-jāḥ bhogāḥ duḥkha-yonayaḥ eva te . ādi-antavantaḥ kaunteya na teṣu ramate budhaḥ .. 22 ..
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ 23 ॥
शक्नोति इह एव यः सोढुम् प्राक् शरीरविमोक्षणात् । काम-क्रोध-उद्भवम् वेगम् स युक्तः स सुखी नरः ॥ २३ ॥
śaknoti iha eva yaḥ soḍhum prāk śarīravimokṣaṇāt . kāma-krodha-udbhavam vegam sa yuktaḥ sa sukhī naraḥ .. 23 ..
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ 24 ॥
यः अन्तर् सुखः अन्तर-आरामः तथा अन्तर् ज्योतिः एव यः । स योगी ब्रह्म-निर्वाणम् ब्रह्म-भूतः अधिगच्छति ॥ २४ ॥
yaḥ antar sukhaḥ antara-ārāmaḥ tathā antar jyotiḥ eva yaḥ . sa yogī brahma-nirvāṇam brahma-bhūtaḥ adhigacchati .. 24 ..
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ 25 ॥
लभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः । छिन्न-द्वैधाः यत-आत्मानः सर्व-भूत-हिते रताः ॥ २५ ॥
labhante brahma-nirvāṇam ṛṣayaḥ kṣīṇa-kalmaṣāḥ . chinna-dvaidhāḥ yata-ātmānaḥ sarva-bhūta-hite ratāḥ .. 25 ..
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ 26 ॥
काम-क्रोध-वियुक्तानाम् यतीनाम् यत-चेतसाम् । अभितस् ब्रह्म-निर्वाणम् वर्तते विदित-आत्मनाम् ॥ २६ ॥
kāma-krodha-viyuktānām yatīnām yata-cetasām . abhitas brahma-nirvāṇam vartate vidita-ātmanām .. 26 ..
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ 27 ॥
स्पर्शान् कृत्वा बहिस् बाह्यान् चक्षुः च एव अन्तरे भ्रुवोः । प्राण-अपानौ समौ कृत्वा नासा-अभ्यन्तर-चारिणौ ॥ २७ ॥
sparśān kṛtvā bahis bāhyān cakṣuḥ ca eva antare bhruvoḥ . prāṇa-apānau samau kṛtvā nāsā-abhyantara-cāriṇau .. 27 ..
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ 28 ॥
यत-इन्द्रिय-मनः-बुद्धिः मुनिः मोक्ष-परायणः । विगत-इच्छा-भय-क्रोधः यः सदा मुक्तः एव सः ॥ २८ ॥
yata-indriya-manaḥ-buddhiḥ muniḥ mokṣa-parāyaṇaḥ . vigata-icchā-bhaya-krodhaḥ yaḥ sadā muktaḥ eva saḥ .. 28 ..
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ 29 ॥
भोक्तारम् यज्ञ-तपसाम् सर्व-लोक-महा-ईश्वरम् । सुहृदम् सर्व-भूतानाम् ज्ञात्वा माम् शान्तिम् ऋच्छति ॥ २९ ॥
bhoktāram yajña-tapasām sarva-loka-mahā-īśvaram . suhṛdam sarva-bhūtānām jñātvā mām śāntim ṛcchati .. 29 ..
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसन्न्यासयोगो नाम पञ्चमोऽध्यायः ॥5 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे कर्मसन्न्यासयोगः नाम पञ्चमः अध्यायः ॥५ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde karmasannyāsayogaḥ nāma pañcamaḥ adhyāyaḥ ..5 ..

Aatma Sanyam Yoga

Collapse

अथ षष्ठोऽध्यायः ।
अथ षष्ठः अध्यायः ।
atha ṣaṣṭhaḥ adhyāyaḥ .
श्रीभगवानुवाच । / sribhagavanuvacha ।
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ॥ 1 ॥
अनाश्रितः कर्म-फलम् कार्यम् कर्म करोति यः । स सन्न्यासी च योगी च न निरग्निः न च अक्रियः ॥ १ ॥
anāśritaḥ karma-phalam kāryam karma karoti yaḥ . sa sannyāsī ca yogī ca na niragniḥ na ca akriyaḥ .. 1 ..
यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन ॥ 2 ॥
यम् सन्न्यासम् इति प्राहुः योगम् तम् विद्धि पाण्डव । न हि असत्-न्यस्त-सङ्कल्पः योगी भवति कश्चन ॥ २ ॥
yam sannyāsam iti prāhuḥ yogam tam viddhi pāṇḍava . na hi asat-nyasta-saṅkalpaḥ yogī bhavati kaścana .. 2 ..
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ 3 ॥
आरुरुक्षोः मुनेः योगम् कर्म कारणम् उच्यते । योग-आरूढस्य तस्य एव शमः कारणम् उच्यते ॥ ३ ॥
ārurukṣoḥ muneḥ yogam karma kāraṇam ucyate . yoga-ārūḍhasya tasya eva śamaḥ kāraṇam ucyate .. 3 ..
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते ॥ 4 ॥
यदा हि न इन्द्रिय-अर्थेषु न कर्मसु अनुषज्जते । सर्व-सङ्कल्प-सन्न्यासी योग-आरूढः तदा उच्यते ॥ ४ ॥
yadā hi na indriya-artheṣu na karmasu anuṣajjate . sarva-saṅkalpa-sannyāsī yoga-ārūḍhaḥ tadā ucyate .. 4 ..
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ 5 ॥
उद्धरेत् आत्मना आत्मानम् न आत्मानम् अवसादयेत् । आत्मा एव हि आत्मनः बन्धुः आत्मा एव रिपुः आत्मनः ॥ ५ ॥
uddharet ātmanā ātmānam na ātmānam avasādayet . ātmā eva hi ātmanaḥ bandhuḥ ātmā eva ripuḥ ātmanaḥ .. 5 ..
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ 6 ॥
बन्धुः आत्मा आत्मनः तस्य येन आत्मा एव आत्मना जितः । अनात्मनः तु शत्रु-त्वे वर्तेत आत्मा एव शत्रु-वत् ॥ ६ ॥
bandhuḥ ātmā ātmanaḥ tasya yena ātmā eva ātmanā jitaḥ . anātmanaḥ tu śatru-tve varteta ātmā eva śatru-vat .. 6 ..
जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ 7 ॥
जित-आत्मनः प्रशान्तस्य परमात्मा समाहितः । शीत-उष्ण-सुख-दुःखेषु तथा मान-अपमानयोः ॥ ७ ॥
jita-ātmanaḥ praśāntasya paramātmā samāhitaḥ . śīta-uṣṇa-sukha-duḥkheṣu tathā māna-apamānayoḥ .. 7 ..
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥ 8 ॥
ज्ञान-विज्ञान-तृप्त-आत्मा कूटस्थः विजित-इन्द्रियः । युक्तः इति उच्यते योगी सम-लोष्ट-अश्म-काञ्चनः ॥ ८ ॥
jñāna-vijñāna-tṛpta-ātmā kūṭasthaḥ vijita-indriyaḥ . yuktaḥ iti ucyate yogī sama-loṣṭa-aśma-kāñcanaḥ .. 8 ..
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ 9 ॥
सुहृद्-मित्र-अरि-उदासीन-मध्यस्थ-द्वेष्य-बन्धुषु । साधुषु अपि च पापेषु सम-बुद्धिः विशिष्यते ॥ ९ ॥
suhṛd-mitra-ari-udāsīna-madhyastha-dveṣya-bandhuṣu . sādhuṣu api ca pāpeṣu sama-buddhiḥ viśiṣyate .. 9 ..
योगी युञ्जीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ 10 ॥
योगी युञ्जीत सततम् आत्मानम् रहसि स्थितः । एकाकी यत-चित्त-आत्मा निराशीः अपरिग्रहः ॥ १० ॥
yogī yuñjīta satatam ātmānam rahasi sthitaḥ . ekākī yata-citta-ātmā nirāśīḥ aparigrahaḥ .. 10 ..
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ 11 ॥
शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः । न अति उच्छ्रितम् न अति नीचम् चैल-अजिन-कुश-उत्तरम् ॥ ११ ॥
śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ . na ati ucchritam na ati nīcam caila-ajina-kuśa-uttaram .. 11 ..
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियाः । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ 12 ॥
तत्र एकाग्रम् मनः कृत्वा यत-चित्त-इन्द्रिय-क्रियाः । उपविश्य आसने युञ्ज्यात् योगम् आत्म-विशुद्धये ॥ १२ ॥
tatra ekāgram manaḥ kṛtvā yata-citta-indriya-kriyāḥ . upaviśya āsane yuñjyāt yogam ātma-viśuddhaye .. 12 ..
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ 13 ॥
समम् काय-शिरः-ग्रीवम् धारयन् अचलम् स्थिरः । सम्प्रेक्ष्य नासिका-अग्रम् स्वम् दिशः च अनवलोकयन् ॥ १३ ॥
samam kāya-śiraḥ-grīvam dhārayan acalam sthiraḥ . samprekṣya nāsikā-agram svam diśaḥ ca anavalokayan .. 13 ..
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ 14 ॥
प्रशान्त-आत्मा विगत-भीः ब्रह्मचारि-व्रते स्थितः । मनः संयम्य मद्-चित्तः युक्तः आसीत मद्-परः ॥ १४ ॥
praśānta-ātmā vigata-bhīḥ brahmacāri-vrate sthitaḥ . manaḥ saṃyamya mad-cittaḥ yuktaḥ āsīta mad-paraḥ .. 14 ..
युञ्जन्नेवं सदात्मानं योगी नियतमानसः । शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ 15 ॥
युञ्जन् एवम् सदा आत्मानम् योगी नियत-मानसः । शान्तिम् निर्वाण-परमाम् मद्-संस्थाम् अधिगच्छति ॥ १५ ॥
yuñjan evam sadā ātmānam yogī niyata-mānasaḥ . śāntim nirvāṇa-paramām mad-saṃsthām adhigacchati .. 15 ..
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ 16 ॥
न अत्यश्नतः तु योगः अस्ति न च एकान्तम् अनश्नतः । न च अति स्वप्न-शीलस्य जाग्रतः ना एव च अर्जुन ॥ १६ ॥
na atyaśnataḥ tu yogaḥ asti na ca ekāntam anaśnataḥ . na ca ati svapna-śīlasya jāgrataḥ nā eva ca arjuna .. 16 ..
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ 17 ॥
युक्त-आहार-विहारस्य युक्त-चेष्टस्य कर्मसु । युक्त-स्वप्न-अवबोधस्य योगः भवति दुःख-हा ॥ १७ ॥
yukta-āhāra-vihārasya yukta-ceṣṭasya karmasu . yukta-svapna-avabodhasya yogaḥ bhavati duḥkha-hā .. 17 ..
यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ 18 ॥
यदा विनियतम् चित्तम् आत्मनि एव अवतिष्ठते । निःस्पृहः सर्व-कामेभ्यः युक्तः इति उच्यते तदा ॥ १८ ॥
yadā viniyatam cittam ātmani eva avatiṣṭhate . niḥspṛhaḥ sarva-kāmebhyaḥ yuktaḥ iti ucyate tadā .. 18 ..
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ 19 ॥
यथा दीपः निवात-स्थः न इङ्गते सा उपमा स्मृता । योगिनः यत-चित्तस्य युञ्जतः योगम् आत्मनः ॥ १९ ॥
yathā dīpaḥ nivāta-sthaḥ na iṅgate sā upamā smṛtā . yoginaḥ yata-cittasya yuñjataḥ yogam ātmanaḥ .. 19 ..
यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ 20 ॥
यत्र उपरमते चित्तम् निरुद्धम् योग-सेवया । यत्र च एव आत्मना आत्मानम् पश्यन् आत्मनि तुष्यति ॥ २० ॥
yatra uparamate cittam niruddham yoga-sevayā . yatra ca eva ātmanā ātmānam paśyan ātmani tuṣyati .. 20 ..
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ 21 ॥
सुखम् आत्यन्तिकम् यत् तत् बुद्धि-ग्राह्यम् अतीन्द्रियम् । वेत्ति यत्र न च एव अयम् स्थितः चलति तत्त्वतः ॥ २१ ॥
sukham ātyantikam yat tat buddhi-grāhyam atīndriyam . vetti yatra na ca eva ayam sthitaḥ calati tattvataḥ .. 21 ..
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ 22 ॥
यम् लब्ध्वा च अपरम् लाभम् मन्यते न अधिकम् ततस् । यस्मिन् स्थितः न दुःखेन गुरुणा अपि विचाल्यते ॥ २२ ॥
yam labdhvā ca aparam lābham manyate na adhikam tatas . yasmin sthitaḥ na duḥkhena guruṇā api vicālyate .. 22 ..
तं विद्याद्दुःखसंयोगवियोगं योगसञ्ज्ञितम् । स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ 23 ॥
तम् विद्यात् दुःख-संयोग-वियोगम् योग-सञ्ज्ञितम् । स निश्चयेन योक्तव्यः योगः अनिर्विण्ण-चेतसा ॥ २३ ॥
tam vidyāt duḥkha-saṃyoga-viyogam yoga-sañjñitam . sa niścayena yoktavyaḥ yogaḥ anirviṇṇa-cetasā .. 23 ..
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ 24 ॥
सङ्कल्प-प्रभवान् कामान् त्यक्त्वा सर्वान् अशेषतस् । मनसा एवा इन्द्रिय-ग्रामम् विनियम्य समन्ततः ॥ २४ ॥
saṅkalpa-prabhavān kāmān tyaktvā sarvān aśeṣatas . manasā evā indriya-grāmam viniyamya samantataḥ .. 24 ..
शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ 25 ॥
शनैस् शनैस् उपरमेत् बुद्ध्या धृति-गृहीतया । आत्म-संस्थम् मनः कृत्वा न किञ्चिद् अपि चिन्तयेत् ॥ २५ ॥
śanais śanais uparamet buddhyā dhṛti-gṛhītayā . ātma-saṃstham manaḥ kṛtvā na kiñcid api cintayet .. 25 ..
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ 26 ॥
यतस् यतस् निश्चरति मनः चञ्चलम् अस्थिरम् । ततस् ततस् नियम्य एतत् आत्मनि एव वशम् नयेत् ॥ २६ ॥
yatas yatas niścarati manaḥ cañcalam asthiram . tatas tatas niyamya etat ātmani eva vaśam nayet .. 26 ..
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ 27 ॥
प्रशान्त-मनसम् हि एनम् योगिनम् सुखम् उत्तमम् । उपैति शान्त-रजसम् ब्रह्म-भूतम् अकल्मषम् ॥ २७ ॥
praśānta-manasam hi enam yoginam sukham uttamam . upaiti śānta-rajasam brahma-bhūtam akalmaṣam .. 27 ..
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः । सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ 28 ॥
युञ्जन् एवम् सदा आत्मानम् योगी विगत-कल्मषः । सुखेन ब्रह्म-संस्पर्शम् अत्यन्तम् सुखम् अश्नुते ॥ २८ ॥
yuñjan evam sadā ātmānam yogī vigata-kalmaṣaḥ . sukhena brahma-saṃsparśam atyantam sukham aśnute .. 28 ..
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ 29 ॥
सर्व-भूत-स्थम् आत्मानम् सर्व-भूतानि च आत्मनि । ईक्षते योग-युक्त-आत्मा सर्वत्र सम-दर्शनः ॥ २९ ॥
sarva-bhūta-stham ātmānam sarva-bhūtāni ca ātmani . īkṣate yoga-yukta-ātmā sarvatra sama-darśanaḥ .. 29 ..
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ 30 ॥
यः माम् पश्यति सर्वत्र सर्वम् च मयि पश्यति । तस्य अहम् न प्रणश्यामि स च मे न प्रणश्यति ॥ ३० ॥
yaḥ mām paśyati sarvatra sarvam ca mayi paśyati . tasya aham na praṇaśyāmi sa ca me na praṇaśyati .. 30 ..
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ 31 ॥
सर्व-भूत-स्थितम् यः माम् भजति एक-त्वम् आस्थितः । सर्वथा वर्तमानः अपि स योगी मयि वर्तते ॥ ३१ ॥
sarva-bhūta-sthitam yaḥ mām bhajati eka-tvam āsthitaḥ . sarvathā vartamānaḥ api sa yogī mayi vartate .. 31 ..
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ 32 ॥
आत्म-औपम्येन सर्वत्र समम् पश्यति यः अर्जुन । सुखम् वा यदि वा दुःखम् स योगी परमः मतः ॥ ३२ ॥
ātma-aupamyena sarvatra samam paśyati yaḥ arjuna . sukham vā yadi vā duḥkham sa yogī paramaḥ mataḥ .. 32 ..
अर्जुन उवाच । / arjuna uvacha ।
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ 33 ॥
यः अयम् योगः त्वया प्रोक्तः साम्येन मधुसूदन । एतस्य अहम् न पश्यामि चञ्चल-त्वात् स्थितिम् स्थिराम् ॥ ३३ ॥
yaḥ ayam yogaḥ tvayā proktaḥ sāmyena madhusūdana . etasya aham na paśyāmi cañcala-tvāt sthitim sthirām .. 33 ..
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ 34 ॥
चञ्चलम् हि मनः कृष्ण प्रमाथि बलवत् दृढम् । तस्य अहम् निग्रहम् मन्ये वायोः इव सु दुष्करम् ॥ ३४ ॥
cañcalam hi manaḥ kṛṣṇa pramāthi balavat dṛḍham . tasya aham nigraham manye vāyoḥ iva su duṣkaram .. 34 ..
श्रीभगवानुवाच । / sribhagavanuvacha ।
असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ 35 ॥
असंशयम् महा-बाहो मनः दुर्निग्रहम् चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ३५ ॥
asaṃśayam mahā-bāho manaḥ durnigraham calam . abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate .. 35 ..
असंयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ 36 ॥
असंयत-आत्मना योगः दुष्प्रापः इति मे मतिः । वश्य-आत्मना तु यतता शक्यः अवाप्तुम् उपायतः ॥ ३६ ॥
asaṃyata-ātmanā yogaḥ duṣprāpaḥ iti me matiḥ . vaśya-ātmanā tu yatatā śakyaḥ avāptum upāyataḥ .. 36 ..
अर्जुन उवाच । / arjuna uvacha ।
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ 37 ॥
अयतिः श्रद्धया उपेतः योगात् चलित-मानसः । अ प्राप्य योग-संसिद्धिम् काम् गतिम् कृष्ण गच्छति ॥ ३७ ॥
ayatiḥ śraddhayā upetaḥ yogāt calita-mānasaḥ . a prāpya yoga-saṃsiddhim kām gatim kṛṣṇa gacchati .. 37 ..
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ 38 ॥
कच्चित् न उभय-विभ्रष्टः छिन्न-अभ्रम् इव नश्यति । अप्रतिष्ठः महा-बाहो विमूढः ब्रह्मणः पथि ॥ ३८ ॥
kaccit na ubhaya-vibhraṣṭaḥ chinna-abhram iva naśyati . apratiṣṭhaḥ mahā-bāho vimūḍhaḥ brahmaṇaḥ pathi .. 38 ..
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः । त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ 39 ॥
एतत् मे संशयम् कृष्ण छेत्तुम् अर्हसि अशेषतस् । त्वत् अन्यः संशयस्य अस्य छेत्ता न हि उपपद्यते ॥ ३९ ॥
etat me saṃśayam kṛṣṇa chettum arhasi aśeṣatas . tvat anyaḥ saṃśayasya asya chettā na hi upapadyate .. 39 ..
श्रीभगवानुवाच । / sribhagavanuvacha ।
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥ 40 ॥
पार्थ न एव इह न अमुत्र विनाशः तस्य विद्यते । न हि कल्याण-कृत् कश्चिद् दुर्गतिम् तात गच्छति ॥ ४० ॥
pārtha na eva iha na amutra vināśaḥ tasya vidyate . na hi kalyāṇa-kṛt kaścid durgatim tāta gacchati .. 40 ..
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ 41 ॥
प्राप्य पुण्य-कृताम् लोकान् उषित्वा शाश्वतीः समाः । शुचीनाम् श्रीमताम् गेहे योग-भ्रष्टः अभिजायते ॥ ४१ ॥
prāpya puṇya-kṛtām lokān uṣitvā śāśvatīḥ samāḥ . śucīnām śrīmatām gehe yoga-bhraṣṭaḥ abhijāyate .. 41 ..
अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ 42 ॥
अथवा योगिनाम् एव कुले भवति धीमताम् । एतत् हि दुर्लभतरम् लोके जन्म यत् ईदृशम् ॥ ४२ ॥
athavā yoginām eva kule bhavati dhīmatām . etat hi durlabhataram loke janma yat īdṛśam .. 42 ..
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ 43 ॥
तत्र तम् बुद्धि-संयोगम् लभते पौर्वदेहिकम् । यतते च ततस् भूयस् संसिद्धौ कुरु-नन्दन ॥ ४३ ॥
tatra tam buddhi-saṃyogam labhate paurvadehikam . yatate ca tatas bhūyas saṃsiddhau kuru-nandana .. 43 ..
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः । जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ 44 ॥
पूर्व-अभ्यासेन तेन एव ह्रियते हि अवशः अपि सः । जिज्ञासुः अपि योगस्य शब्दब्रह्म अतिवर्तते ॥ ४४ ॥
pūrva-abhyāsena tena eva hriyate hi avaśaḥ api saḥ . jijñāsuḥ api yogasya śabdabrahma ativartate .. 44 ..
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ 45 ॥
प्रयत्नात् यतमानः तु योगी संशुद्ध-किल्बिषः । अनेक-जन्म-संसिद्धः ततस् याति पराम् गतिम् ॥ ४५ ॥
prayatnāt yatamānaḥ tu yogī saṃśuddha-kilbiṣaḥ . aneka-janma-saṃsiddhaḥ tatas yāti parām gatim .. 45 ..
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ 46 ॥
तपस्विभ्यः अधिकः योगी ज्ञानिभ्यः अपि मतः अधिकः । कर्मिभ्यः च अधिकः योगी तस्मात् योगी भव अर्जुन ॥ ४६ ॥
tapasvibhyaḥ adhikaḥ yogī jñānibhyaḥ api mataḥ adhikaḥ . karmibhyaḥ ca adhikaḥ yogī tasmāt yogī bhava arjuna .. 46 ..
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ 47 ॥
योगिनाम् अपि सर्वेषाम् मद्-गतेन अन्तरात्मना । श्रद्धावान् भजते यः माम् स मे युक्ततमः मतः ॥ ४७ ॥
yoginām api sarveṣām mad-gatena antarātmanā . śraddhāvān bhajate yaḥ mām sa me yuktatamaḥ mataḥ .. 47 ..
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः ॥6 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे आत्मसंयमयोगः नाम षष्ठः अध्यायः ॥६ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde ātmasaṃyamayogaḥ nāma ṣaṣṭhaḥ adhyāyaḥ ..6 ..

Gyaan Vigyan Yoga

Collapse

अथ सप्तमोऽध्यायः ।
अथ सप्तमः अध्यायः ।
atha saptamaḥ adhyāyaḥ .
श्रीभगवानुवाच । / sribhagavanuvacha ।
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ 1 ॥
मयि आसक्त-मनाः पार्थ योगम् युञ्जन् मद्-आश्रयः । असंशयम् समग्रम् माम् यथा ज्ञास्यसि तत् शृणु ॥ १ ॥
mayi āsakta-manāḥ pārtha yogam yuñjan mad-āśrayaḥ . asaṃśayam samagram mām yathā jñāsyasi tat śṛṇu .. 1 ..
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ 2 ॥
ज्ञानम् ते अहम् स विज्ञानम् इदम् वक्ष्यामि अशेषतस् । यत् ज्ञात्वा न इह भूयस् अन्यत् ज्ञातव्यम् अवशिष्यते ॥ २ ॥
jñānam te aham sa vijñānam idam vakṣyāmi aśeṣatas . yat jñātvā na iha bhūyas anyat jñātavyam avaśiṣyate .. 2 ..
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ 3 ॥
मनुष्याणाम् सहस्रेषु कश्चिद् यतति सिद्धये । यतताम् अपि सिद्धानाम् कश्चिद् माम् वेत्ति तत्त्वतः ॥ ३ ॥
manuṣyāṇām sahasreṣu kaścid yatati siddhaye . yatatām api siddhānām kaścid mām vetti tattvataḥ .. 3 ..
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ 4 ॥
भूमिः आपः अनलः वायुः खम् मनः बुद्धिः एव च । अहङ्कारः इति इयम् मे भिन्ना प्रकृतिः अष्टधा ॥ ४ ॥
bhūmiḥ āpaḥ analaḥ vāyuḥ kham manaḥ buddhiḥ eva ca . ahaṅkāraḥ iti iyam me bhinnā prakṛtiḥ aṣṭadhā .. 4 ..
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ 5 ॥
अपरा इयम् इतस् तु अन्याम् प्रकृतिम् विद्धि मे पराम् । जीव-भूताम् महा-बाहो यया इदम् धार्यते जगत् ॥ ५ ॥
aparā iyam itas tu anyām prakṛtim viddhi me parām . jīva-bhūtām mahā-bāho yayā idam dhāryate jagat .. 5 ..
एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ 6 ॥
एतद्-योनीनि भूतानि सर्वाणि इति उपधारय । अहम् कृत्स्नस्य जगतः प्रभवः प्रलयः तथा ॥ ६ ॥
etad-yonīni bhūtāni sarvāṇi iti upadhāraya . aham kṛtsnasya jagataḥ prabhavaḥ pralayaḥ tathā .. 6 ..
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ 7 ॥
मत्तः परतरम् न अन्यत् किञ्चिद् अस्ति धनञ्जय । मयि सर्वम् इदम् प्रोतम् सूत्रे मणि-गणाः इव ॥ ७ ॥
mattaḥ parataram na anyat kiñcid asti dhanañjaya . mayi sarvam idam protam sūtre maṇi-gaṇāḥ iva .. 7 ..
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः । प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ 8 ॥
रसः अहम् अप्सु कौन्तेय प्रभा अस्मि शशि-सूर्ययोः । प्रणवः सर्व-वेदेषु शब्दः खे पौरुषम् नृषु ॥ ८ ॥
rasaḥ aham apsu kaunteya prabhā asmi śaśi-sūryayoḥ . praṇavaḥ sarva-vedeṣu śabdaḥ khe pauruṣam nṛṣu .. 8 ..
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ 9 ॥
पुण्यः गन्धः पृथिव्याम् च तेजः च अस्मि विभावसौ । जीवनम् सर्व-भूतेषु तपः च अस्मि तपस्विषु ॥ ९ ॥
puṇyaḥ gandhaḥ pṛthivyām ca tejaḥ ca asmi vibhāvasau . jīvanam sarva-bhūteṣu tapaḥ ca asmi tapasviṣu .. 9 ..
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ 10 ॥
बीजम् माम् सर्व-भूतानाम् विद्धि पार्थ सनातनम् । बुद्धिः बुद्धिमताम् अस्मि तेजः तेजस्विनाम् अहम् ॥ १० ॥
bījam mām sarva-bhūtānām viddhi pārtha sanātanam . buddhiḥ buddhimatām asmi tejaḥ tejasvinām aham .. 10 ..
बलं बलवतां चाहं कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ 11 ॥
बलम् बलवताम् च अहम् काम-राग-विवर्जितम् । धर्म-अविरुद्धः भूतेषु कामः अस्मि भरत-ऋषभ ॥ ११ ॥
balam balavatām ca aham kāma-rāga-vivarjitam . dharma-aviruddhaḥ bhūteṣu kāmaḥ asmi bharata-ṛṣabha .. 11 ..
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ 12 ॥
ये च एव सात्त्विकाः भावाः राजसाः तामसाः च ये । मत्तः एवा इति तान् विद्धि न तु अहम् तेषु ते मयि ॥ १२ ॥
ye ca eva sāttvikāḥ bhāvāḥ rājasāḥ tāmasāḥ ca ye . mattaḥ evā iti tān viddhi na tu aham teṣu te mayi .. 12 ..
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ 13 ॥
त्रिभिः गुण-मयैः भावैः एभिः सर्वम् इदम् जगत् । मोहितम् न अभिजानाति माम् एभ्यः परम् अव्ययम् ॥ १३ ॥
tribhiḥ guṇa-mayaiḥ bhāvaiḥ ebhiḥ sarvam idam jagat . mohitam na abhijānāti mām ebhyaḥ param avyayam .. 13 ..
दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ 14 ॥
दैवी हि एषा गुण-मयी मम माया दुरत्यया । माम् एव ये प्रपद्यन्ते मायाम् एताम् तरन्ति ते ॥ १४ ॥
daivī hi eṣā guṇa-mayī mama māyā duratyayā . mām eva ye prapadyante māyām etām taranti te .. 14 ..
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ 15 ॥
न माम् दुष्कृतिनः मूढाः प्रपद्यन्ते नर-अधमाः । मायया अपहृत-ज्ञानाः आसुरम् भावम् आश्रिताः ॥ १५ ॥
na mām duṣkṛtinaḥ mūḍhāḥ prapadyante nara-adhamāḥ . māyayā apahṛta-jñānāḥ āsuram bhāvam āśritāḥ .. 15 ..
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ 16 ॥
चतुर्विधाः भजन्ते माम् जनाः सुकृतिनः अर्जुन । आर्तः जिज्ञासुः अर्थ-अर्थी ज्ञानी च भरत-ऋषभ ॥ १६ ॥
caturvidhāḥ bhajante mām janāḥ sukṛtinaḥ arjuna . ārtaḥ jijñāsuḥ artha-arthī jñānī ca bharata-ṛṣabha .. 16 ..
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ 17 ॥
तेषाम् ज्ञानी नित्य-युक्तः एक-भक्तिः विशिष्यते । प्रियः हि ज्ञानिनः अत्यर्थम् अहम् स च मम प्रियः ॥ १७ ॥
teṣām jñānī nitya-yuktaḥ eka-bhaktiḥ viśiṣyate . priyaḥ hi jñāninaḥ atyartham aham sa ca mama priyaḥ .. 17 ..
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ 18 ॥
उदाराः सर्वे एव एते ज्ञानी तु आत्मा एव मे मतम् । आस्थितः स हि युक्त-आत्मा माम् एव अनुत्तमाम् गतिम् ॥ १८ ॥
udārāḥ sarve eva ete jñānī tu ātmā eva me matam . āsthitaḥ sa hi yukta-ātmā mām eva anuttamām gatim .. 18 ..
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ 19 ॥
बहूनाम् जन्मनाम् अन्ते ज्ञानवान् माम् प्रपद्यते । वासुदेवः सर्वम् इति स महात्मा सु दुर्लभः ॥ १९ ॥
bahūnām janmanām ante jñānavān mām prapadyate . vāsudevaḥ sarvam iti sa mahātmā su durlabhaḥ .. 19 ..
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ 20 ॥
कामैः तैः तैः हृत-ज्ञानाः प्रपद्यन्ते अन्य-देवताः । तम् तम् नियमम् आस्थाय प्रकृत्या नियताः स्वया ॥ २० ॥
kāmaiḥ taiḥ taiḥ hṛta-jñānāḥ prapadyante anya-devatāḥ . tam tam niyamam āsthāya prakṛtyā niyatāḥ svayā .. 20 ..
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ 21 ॥
यः यः याम् याम् तनुम् भक्तः श्रद्धया अर्चितुम् इच्छति । तस्य तस्य अचलाम् श्रद्धाम् ताम् एव विदधामि अहम् ॥ २१ ॥
yaḥ yaḥ yām yām tanum bhaktaḥ śraddhayā arcitum icchati . tasya tasya acalām śraddhām tām eva vidadhāmi aham .. 21 ..
स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान्मयैव विहितान्हि तान् ॥ 22 ॥
स तया श्रद्धया युक्तः तस्य आराधनम् ईहते । लभते च ततस् कामान् मया एव विहितान् हि तान् ॥ २२ ॥
sa tayā śraddhayā yuktaḥ tasya ārādhanam īhate . labhate ca tatas kāmān mayā eva vihitān hi tān .. 22 ..
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ 23 ॥
अन्तवत् तु फलम् तेषाम् तत् भवति अल्प-मेधसाम् । देवान् देव-यजः यान्ति मद्-भक्ताः यान्ति माम् अपि ॥ २३ ॥
antavat tu phalam teṣām tat bhavati alpa-medhasām . devān deva-yajaḥ yānti mad-bhaktāḥ yānti mām api .. 23 ..
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः । परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ 24 ॥
अव्यक्तम् व्यक्तिम् आपन्नम् मन्यन्ते माम् अबुद्धयः । परम् भावम् अ जानन्तः मम अव्ययम् अनुत्तमम् ॥ २४ ॥
avyaktam vyaktim āpannam manyante mām abuddhayaḥ . param bhāvam a jānantaḥ mama avyayam anuttamam .. 24 ..
नाहं प्रकाशः सर्वस्य योगमायासमावृतः । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ 25 ॥
न अहम् प्रकाशः सर्वस्य योग-माया-समावृतः । मूढः अयम् न अभिजानाति लोकः माम् अजम् अव्ययम् ॥ २५ ॥
na aham prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ . mūḍhaḥ ayam na abhijānāti lokaḥ mām ajam avyayam .. 25 ..
वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ 26 ॥
वेद अहम् समतीतानि वर्तमानानि च अर्जुन । भविष्याणि च भूतानि माम् तु वेद न कश्चन ॥ २६ ॥
veda aham samatītāni vartamānāni ca arjuna . bhaviṣyāṇi ca bhūtāni mām tu veda na kaścana .. 26 ..
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ 27 ॥
इच्छा-द्वेष-समुत्थेन द्वन्द्व-मोहेन भारत । सर्व-भूतानि सम्मोहम् सर्गे यान्ति परन्तप ॥ २७ ॥
icchā-dveṣa-samutthena dvandva-mohena bhārata . sarva-bhūtāni sammoham sarge yānti parantapa .. 27 ..
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ 28 ॥
येषाम् तु अन्त-गतम् पापम् जनानाम् पुण्य-कर्मणाम् । ते द्वन्द्व-मोह-निर्मुक्ताः भजन्ते माम् दृढ-व्रताः ॥ २८ ॥
yeṣām tu anta-gatam pāpam janānām puṇya-karmaṇām . te dvandva-moha-nirmuktāḥ bhajante mām dṛḍha-vratāḥ .. 28 ..
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ 29 ॥
जरा-मरण-मोक्षाय माम् आश्रित्य यतन्ति ये । ते ब्रह्म तत् विदुः कृत्स्नम् अध्यात्मम् कर्म च अखिलम् ॥ २९ ॥
jarā-maraṇa-mokṣāya mām āśritya yatanti ye . te brahma tat viduḥ kṛtsnam adhyātmam karma ca akhilam .. 29 ..
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ 30 ॥
स अधिभूत-अधिदैवम् माम् स अधियज्ञम् च ये विदुः । प्रयाण-काले अपि च माम् ते विदुः युक्त-चेतसः ॥ ३० ॥
sa adhibhūta-adhidaivam mām sa adhiyajñam ca ye viduḥ . prayāṇa-kāle api ca mām te viduḥ yukta-cetasaḥ .. 30 ..
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥7 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे ज्ञानविज्ञानयोगः नाम सप्तमः अध्यायः ॥७ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde jñānavijñānayogaḥ nāma saptamaḥ adhyāyaḥ ..7 ..

Akshara Brahama Yoga

Collapse

अथ अष्टमोऽध्यायः ।
अथ अष्टमः अध्यायः ।
atha aṣṭamaḥ adhyāyaḥ .
अर्जुन उवाच । / arjuna uvacha ।
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ 1 ॥
किम् तत् ब्रह्म किम् अध्यात्मम् किम् कर्म पुरुषोत्तम । अधिभूतम् च किम् प्रोक्तम् अधिदैवम् किम् उच्यते ॥ १ ॥
kim tat brahma kim adhyātmam kim karma puruṣottama . adhibhūtam ca kim proktam adhidaivam kim ucyate .. 1 ..
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन । प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ 2 ॥
अधियज्ञः कथम् कः अत्र देहे अस्मिन् मधुसूदन । प्रयाण-काले च कथम् ज्ञेयः असि नियत-आत्मभिः ॥ २ ॥
adhiyajñaḥ katham kaḥ atra dehe asmin madhusūdana . prayāṇa-kāle ca katham jñeyaḥ asi niyata-ātmabhiḥ .. 2 ..
श्रीभगवानुवाच । / sribhagavanuvacha ।
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ॥ 3 ॥
अक्षरम् ब्रह्म परमम् स्वभावः अध्यात्मम् उच्यते । भूत-भाव-उद्भव-करः विसर्गः कर्म-सञ्ज्ञितः ॥ ३ ॥
akṣaram brahma paramam svabhāvaḥ adhyātmam ucyate . bhūta-bhāva-udbhava-karaḥ visargaḥ karma-sañjñitaḥ .. 3 ..
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ 4 ॥
अधिभूतम् क्षरः भावः पुरुषः च अधिदैवतम् । अधियज्ञः अहम् एव अत्र देहे देहभृताम् वर ॥ ४ ॥
adhibhūtam kṣaraḥ bhāvaḥ puruṣaḥ ca adhidaivatam . adhiyajñaḥ aham eva atra dehe dehabhṛtām vara .. 4 ..
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ 5 ॥
अन्तकाले च माम् एव स्मरन् मुक्त्वा कलेवरम् । यः प्रयाति स मद्-भावम् याति न अस्ति अत्र संशयः ॥ ५ ॥
antakāle ca mām eva smaran muktvā kalevaram . yaḥ prayāti sa mad-bhāvam yāti na asti atra saṃśayaḥ .. 5 ..
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ 6 ॥
यम् यम् वा अपि स्मरन् भावम् त्यजति अन्ते कलेवरम् । तम् तम् एव एति कौन्तेय सदा तद्-भाव-भावितः ॥ ६ ॥
yam yam vā api smaran bhāvam tyajati ante kalevaram . tam tam eva eti kaunteya sadā tad-bhāva-bhāvitaḥ .. 6 ..
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् ॥ 7 ॥
तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च । मयि अर्पित-मनः-बुद्धिः माम् एव एष्यसि असंशयम् ॥ ७ ॥
tasmāt sarveṣu kāleṣu mām anusmara yudhya ca . mayi arpita-manaḥ-buddhiḥ mām eva eṣyasi asaṃśayam .. 7 ..
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ 8 ॥
अभ्यास-योग-युक्तेन चेतसा न अन्य-गामिना । परमम् पुरुषम् दिव्यम् याति पार्थ अनुचिन्तयन् ॥ ८ ॥
abhyāsa-yoga-yuktena cetasā na anya-gāminā . paramam puruṣam divyam yāti pārtha anucintayan .. 8 ..
कविं पुराणमनुशासितारमणोरणीयंसमनुस्मरेद्यः। सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥ 9 ॥
कविम् पुराणम् अनुशासितारमणोः अरमणोः अणीयंसम् अनुस्मरेत् यः। सर्वस्य धातारम् अचिन्त्य-रूपम् आदित्य-वर्णम् तमसः परस्तात् ॥ ९ ॥
kavim purāṇam anuśāsitāramaṇoḥ aramaṇoḥ aṇīyaṃsam anusmaret yaḥ. sarvasya dhātāram acintya-rūpam āditya-varṇam tamasaḥ parastāt .. 9 ..
प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव। भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम् ॥ 10 ॥
प्रयाण-काले मनसा अचलेन भक्त्या युक्तः योग-बलेन च एव। भ्रुवोः मध्ये प्राणम् आवेश्य सम्यक् स तम् परम् पुरुषम् उपैति दिव्यम् ॥ १० ॥
prayāṇa-kāle manasā acalena bhaktyā yuktaḥ yoga-balena ca eva. bhruvoḥ madhye prāṇam āveśya samyak sa tam param puruṣam upaiti divyam .. 10 ..
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ 11 ॥
यत् अक्षरम् वेद-विदः वदन्ति विशन्ति यत् यतयः वीत-रागाः। यत् इच्छन्तः ब्रह्मचर्यम् चरन्ति तत् ते पदम् सङ्ग्रहेण प्रवक्ष्ये ॥ ११ ॥
yat akṣaram veda-vidaḥ vadanti viśanti yat yatayaḥ vīta-rāgāḥ. yat icchantaḥ brahmacaryam caranti tat te padam saṅgraheṇa pravakṣye .. 11 ..
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ 12 ॥
सर्व-द्वाराणि संयम्य मनः हृदि निरुध्य च । मूर्ध्नि आधाय आत्मनः प्राणम् आस्थितः योग-धारणाम् ॥ १२ ॥
sarva-dvārāṇi saṃyamya manaḥ hṛdi nirudhya ca . mūrdhni ādhāya ātmanaḥ prāṇam āsthitaḥ yoga-dhāraṇām .. 12 ..
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ 13 ॥
ओम् इति एकाक्षरम् ब्रह्म व्याहरन् माम् अनुस्मरन् । यः प्रयाति त्यजन् देहम् स याति परमाम् गतिम् ॥ १३ ॥
om iti ekākṣaram brahma vyāharan mām anusmaran . yaḥ prayāti tyajan deham sa yāti paramām gatim .. 13 ..
अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ 14 ॥
अन् अन्य-चेताः सततम् यः माम् स्मरति नित्यशस् । तस्य अहम् सुलभः पार्थ नित्य-युक्तस्य योगिनः ॥ १४ ॥
an anya-cetāḥ satatam yaḥ mām smarati nityaśas . tasya aham sulabhaḥ pārtha nitya-yuktasya yoginaḥ .. 14 ..
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ 15 ॥
माम् उपेत्य पुनर्जन्म दुःख-आलयम् अशाश्वतम् । न आप्नुवन्ति महात्मानः संसिद्धिम् परमाम् गताः ॥ १५ ॥
mām upetya punarjanma duḥkha-ālayam aśāśvatam . na āpnuvanti mahātmānaḥ saṃsiddhim paramām gatāḥ .. 15 ..
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ 16 ॥
आ ब्रह्म-भुवनात् लोकाः पुनरावर्तिनः अर्जुन । माम् उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥
ā brahma-bhuvanāt lokāḥ punarāvartinaḥ arjuna . mām upetya tu kaunteya punarjanma na vidyate .. 16 ..
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः । रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ 17 ॥
सहस्र-युग-पर्यन्तम् अहर् यत् ब्रह्मणः विदुः । रात्रिम् युग-सहस्र-अन्ताम् ते अहोरात्र-विदः जनाः ॥ १७ ॥
sahasra-yuga-paryantam ahar yat brahmaṇaḥ viduḥ . rātrim yuga-sahasra-antām te ahorātra-vidaḥ janāḥ .. 17 ..
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे । रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ॥ 18 ॥
अव्यक्तात् व्यक्तयः सर्वाः प्रभवन्ति अहर्-आगमे । रात्रि-आगमे प्रलीयन्ते तत्र एव अव्यक्त-सञ्ज्ञके ॥ १८ ॥
avyaktāt vyaktayaḥ sarvāḥ prabhavanti ahar-āgame . rātri-āgame pralīyante tatra eva avyakta-sañjñake .. 18 ..
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ 19 ॥
भूत-ग्रामः सः एव अयम् भूत्वा भूत्वा प्रलीयते । रात्रि-आगमे अवशः पार्थ प्रभवति अहर्-आगमे ॥ १९ ॥
bhūta-grāmaḥ saḥ eva ayam bhūtvā bhūtvā pralīyate . rātri-āgame avaśaḥ pārtha prabhavati ahar-āgame .. 19 ..
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः । यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ 20 ॥
परः तस्मात् तु भावः अन्यः अव्यक्तः अव्यक्तात् सनातनः । यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥
paraḥ tasmāt tu bhāvaḥ anyaḥ avyaktaḥ avyaktāt sanātanaḥ . yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati .. 20 ..
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ 21 ॥
अव्यक्तः अक्षरः इति उक्तः तम् आहुः परमाम् गतिम् । यम् प्राप्य न निवर्तन्ते तत् धाम परमम् मम ॥ २१ ॥
avyaktaḥ akṣaraḥ iti uktaḥ tam āhuḥ paramām gatim . yam prāpya na nivartante tat dhāma paramam mama .. 21 ..
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ 22 ॥
पुरुषः स परः पार्थ भक्त्या लभ्यः तु अनन्यया । यस्य अन्तर् स्थानि भूतानि येन सर्वम् इदम् ततम् ॥ २२ ॥
puruṣaḥ sa paraḥ pārtha bhaktyā labhyaḥ tu ananyayā . yasya antar sthāni bhūtāni yena sarvam idam tatam .. 22 ..
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ 23 ॥
यत्र काले तु अनावृत्तिम् आवृत्तिम् च एव योगिनः । प्रयाताः यान्ति तम् कालम् वक्ष्यामि भरत-ऋषभ ॥ २३ ॥
yatra kāle tu anāvṛttim āvṛttim ca eva yoginaḥ . prayātāḥ yānti tam kālam vakṣyāmi bharata-ṛṣabha .. 23 ..
अग्निर्जोतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ 24 ॥
अग्निः जोतिः अहर् शुक्लः षष्-मासाः उत्तरायणम् । तत्र प्रयाताः गच्छन्ति ब्रह्म ब्रह्म-विदः जनाः ॥ २४ ॥
agniḥ jotiḥ ahar śuklaḥ ṣaṣ-māsāḥ uttarāyaṇam . tatra prayātāḥ gacchanti brahma brahma-vidaḥ janāḥ .. 24 ..
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ 25 ॥
धूमः रात्रिः तथा कृष्णः षष्-मासाः दक्षिणायनम् । तत्र चान्द्रमसम् ज्योतिः-योगी प्राप्य निवर्तते ॥ २५ ॥
dhūmaḥ rātriḥ tathā kṛṣṇaḥ ṣaṣ-māsāḥ dakṣiṇāyanam . tatra cāndramasam jyotiḥ-yogī prāpya nivartate .. 25 ..
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ 26 ॥
शुक्ल-कृष्णे गती हि एते जगतः शाश्वते मते । एकया याति अनावृत्तिम् अन्यया आवर्तते पुनर् ॥ २६ ॥
śukla-kṛṣṇe gatī hi ete jagataḥ śāśvate mate . ekayā yāti anāvṛttim anyayā āvartate punar .. 26 ..
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ 27 ॥
न एते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात् सर्वेषु कालेषु योग-युक्तः भव अर्जुन ॥ २७ ॥
na ete sṛtī pārtha jānan yogī muhyati kaścana . tasmāt sarveṣu kāleṣu yoga-yuktaḥ bhava arjuna .. 27 ..
वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम्। अत्येति तत्सर्वमिदं विदित्वायोगी परं स्थानमुपैति चाद्यम् ॥ 28 ॥
वेदेषु यज्ञेषु तपःसु च एव दानेषु यत् पुण्य-फलम् प्रदिष्टम्। अत्येति तत् सर्वम् इदम् विदित्वा अयोगी परम् स्थानम् उपैति च आद्यम् ॥ २८ ॥
vedeṣu yajñeṣu tapaḥsu ca eva dāneṣu yat puṇya-phalam pradiṣṭam. atyeti tat sarvam idam viditvā ayogī param sthānam upaiti ca ādyam .. 28 ..
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः ॥8 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे अक्षरब्रह्मयोगः नाम अष्टमः अध्यायः ॥८ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde akṣarabrahmayogaḥ nāma aṣṭamaḥ adhyāyaḥ ..8 ..

Raja Vidya Raja Guhya Yoga

Collapse

अथ नवमोऽध्यायः ।
अथ नवमः अध्यायः ।
atha navamaḥ adhyāyaḥ .
श्रीभगवानुवाच । / sribhagavanuvacha ।
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ 1 ॥
इदम् तु ते गुह्यतमम् प्रवक्ष्यामि अनसूयवे । ज्ञानम् विज्ञान-सहितम् यत् ज्ञात्वा मोक्ष्यसे अशुभात् ॥ १ ॥
idam tu te guhyatamam pravakṣyāmi anasūyave . jñānam vijñāna-sahitam yat jñātvā mokṣyase aśubhāt .. 1 ..
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ 2 ॥
राज-विद्या राज-गुह्यम् पवित्रम् इदम् उत्तमम् । प्रत्यक्ष-अवगमम् धर्म्यम् सु सुखम् कर्तुम् अव्ययम् ॥ २ ॥
rāja-vidyā rāja-guhyam pavitram idam uttamam . pratyakṣa-avagamam dharmyam su sukham kartum avyayam .. 2 ..
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ 3 ॥
अश्रद्दधानाः पुरुषाः धर्मस्य अस्य परन्तप । अ प्राप्य माम् निवर्तन्ते मृत्यु-संसार-वर्त्मनि ॥ ३ ॥
aśraddadhānāḥ puruṣāḥ dharmasya asya parantapa . a prāpya mām nivartante mṛtyu-saṃsāra-vartmani .. 3 ..
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ 4 ॥
मया ततम् इदम् सर्वम् जगत् अव्यक्त-मूर्तिना । मद्-स्थानि सर्व-भूतानि न च अहम् तेषु अवस्थितः ॥ ४ ॥
mayā tatam idam sarvam jagat avyakta-mūrtinā . mad-sthāni sarva-bhūtāni na ca aham teṣu avasthitaḥ .. 4 ..
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ 5 ॥
न च मद्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् । भूत-भृत् न च भूत-स्थः मम आत्मा भूत-भावनः ॥ ५ ॥
na ca mad-sthāni bhūtāni paśya me yogam aiśvaram . bhūta-bhṛt na ca bhūta-sthaḥ mama ātmā bhūta-bhāvanaḥ .. 5 ..
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ 6 ॥
यथा आकाश-स्थितः नित्यम् वायुः सर्वत्रगः महान् । तथा सर्वाणि भूतानि मद्-स्थानि इति उपधारय ॥ ६ ॥
yathā ākāśa-sthitaḥ nityam vāyuḥ sarvatragaḥ mahān . tathā sarvāṇi bhūtāni mad-sthāni iti upadhāraya .. 6 ..
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ 7 ॥
सर्व-भूतानि कौन्तेय प्रकृतिम् यान्ति मामिकाम् । कल्प-क्षये पुनर् तानि कल्प-आदौ विसृजामि अहम् ॥ ७ ॥
sarva-bhūtāni kaunteya prakṛtim yānti māmikām . kalpa-kṣaye punar tāni kalpa-ādau visṛjāmi aham .. 7 ..
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ 8 ॥
प्रकृतिम् स्वाम् अवष्टभ्य विसृजामि पुनर् पुनर् । भूत-ग्रामम् इमम् कृत्स्नम् अवशम् प्रकृतेः वशात् ॥ ८ ॥
prakṛtim svām avaṣṭabhya visṛjāmi punar punar . bhūta-grāmam imam kṛtsnam avaśam prakṛteḥ vaśāt .. 8 ..
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय । उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ 9 ॥
न च माम् तानि कर्माणि निबध्नन्ति धनञ्जय । उदासीन-वत् आसीनम् असक्तम् तेषु कर्मसु ॥ ९ ॥
na ca mām tāni karmāṇi nibadhnanti dhanañjaya . udāsīna-vat āsīnam asaktam teṣu karmasu .. 9 ..
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ 10 ॥
मया अध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुना अनेन कौन्तेय जगत् विपरिवर्तते ॥ १० ॥
mayā adhyakṣeṇa prakṛtiḥ sūyate sacarācaram . hetunā anena kaunteya jagat viparivartate .. 10 ..
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥ 11 ॥
अवजानन्ति माम् मूढाः मानुषीम् तनुम् आश्रितम् । परम् भावम् अ जानन्तः मम भूत-महेश्वरम् ॥ ११ ॥
avajānanti mām mūḍhāḥ mānuṣīm tanum āśritam . param bhāvam a jānantaḥ mama bhūta-maheśvaram .. 11 ..
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ 12 ॥
मोघ-आशाः मोघ-कर्माणः मोघ-ज्ञानाः विचेतसः । राक्षसीम् आसुरीम् च एव प्रकृतिम् मोहिनीम् श्रिताः ॥ १२ ॥
mogha-āśāḥ mogha-karmāṇaḥ mogha-jñānāḥ vicetasaḥ . rākṣasīm āsurīm ca eva prakṛtim mohinīm śritāḥ .. 12 ..
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ 13 ॥
महात्मानः तु माम् पार्थ दैवीम् प्रकृतिम् आश्रिताः । भजन्ति अन् अन्य-मनसः ज्ञात्वा भूतादिम् अव्ययम् ॥ १३ ॥
mahātmānaḥ tu mām pārtha daivīm prakṛtim āśritāḥ . bhajanti an anya-manasaḥ jñātvā bhūtādim avyayam .. 13 ..
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ 14 ॥
सततम् कीर्तयन्तः माम् यतन्तः च दृढ-व्रताः । नमस्यन्तः च माम् भक्त्या नित्य-युक्ताः उपासते ॥ १४ ॥
satatam kīrtayantaḥ mām yatantaḥ ca dṛḍha-vratāḥ . namasyantaḥ ca mām bhaktyā nitya-yuktāḥ upāsate .. 14 ..
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ 15 ॥
ज्ञान-यज्ञेन च अपि अन्ये यजन्तः माम् उपासते । एक-त्वेन पृथक् त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥
jñāna-yajñena ca api anye yajantaḥ mām upāsate . eka-tvena pṛthak tvena bahudhā viśvatomukham .. 15 ..
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् । मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ 16 ॥
अहम् क्रतुः अहम् यज्ञः स्वधा अहम् अहम् औषधम् । मन्त्रः अहम् अहम् एव आज्यम् अहम् अग्निः अहम् हुतम् ॥ १६ ॥
aham kratuḥ aham yajñaḥ svadhā aham aham auṣadham . mantraḥ aham aham eva ājyam aham agniḥ aham hutam .. 16 ..
पिताहमस्य जगतो माता धाता पितामहः । वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ॥ 17 ॥
पिता अहम् अस्य जगतः माता धाता पितामहः । वेद्यम् पवित्रम् ओङ्कारः ऋक्-साम यजुः एव च ॥ १७ ॥
pitā aham asya jagataḥ mātā dhātā pitāmahaḥ . vedyam pavitram oṅkāraḥ ṛk-sāma yajuḥ eva ca .. 17 ..
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ 18 ॥
गतिः भर्ता प्रभुः साक्षी निवासः शरणम् सुहृद् । प्रभवः प्रलयः स्थानम् निधानम् बीजम् अव्ययम् ॥ १८ ॥
gatiḥ bhartā prabhuḥ sākṣī nivāsaḥ śaraṇam suhṛd . prabhavaḥ pralayaḥ sthānam nidhānam bījam avyayam .. 18 ..
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ 19 ॥
तपामि अहम् अहम् वर्षम् निगृह्णामि उत्सृजामि च । अमृतम् च एव मृत्युः च सत्-असत् च अहम् अर्जुन ॥ १९ ॥
tapāmi aham aham varṣam nigṛhṇāmi utsṛjāmi ca . amṛtam ca eva mṛtyuḥ ca sat-asat ca aham arjuna .. 19 ..
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते। ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥ 20 ॥
त्रैविद्याः माम् सोमपाः पूत-पापाः यज्ञैः इष्ट्वा स्वर् गतिम् प्रार्थयन्ते। ते पुण्यम् आसाद्य सुर-इन्द्र-लोकम् अश्नन्ति दिव्यान् दिवि देव-भोगान् ॥ २० ॥
traividyāḥ mām somapāḥ pūta-pāpāḥ yajñaiḥ iṣṭvā svar gatim prārthayante. te puṇyam āsādya sura-indra-lokam aśnanti divyān divi deva-bhogān .. 20 ..
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति। एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ 21 ॥
ते तम् भुक्त्वा स्वर्ग-लोकम् विशालम् क्षीणे पुण्ये मर्त्य-लोकम् विशन्ति। एवम् त्रयी-धर्मम् अनुप्रपन्नाः गत-आगतम् काम-कामाः लभन्ते ॥ २१ ॥
te tam bhuktvā svarga-lokam viśālam kṣīṇe puṇye martya-lokam viśanti. evam trayī-dharmam anuprapannāḥ gata-āgatam kāma-kāmāḥ labhante .. 21 ..
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । एषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ 22॥
अन् अन्याः चिन्तयन्तः माम् ये जनाः पर्युपासते । एषाम् नित्य-अभियुक्तानाम् योगक्षेमम् वहामि अहम् ॥ २२॥
an anyāḥ cintayantaḥ mām ye janāḥ paryupāsate . eṣām nitya-abhiyuktānām yogakṣemam vahāmi aham .. 22..
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ 23 ॥
ये अपि अन्य-देवताः भक्ताः यजन्ते श्रद्धया अन्विताः । ते अपि माम् एव कौन्तेय यजन्ति अविधि-पूर्वकम् ॥ २३ ॥
ye api anya-devatāḥ bhaktāḥ yajante śraddhayā anvitāḥ . te api mām eva kaunteya yajanti avidhi-pūrvakam .. 23 ..
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ 24 ॥
अहम् हि सर्व-यज्ञानाम् भोक्ता च प्रभुः एव च । न तु माम् अभिजानन्ति तत्त्वेन अतस् च्यवन्ति ते ॥ २४ ॥
aham hi sarva-yajñānām bhoktā ca prabhuḥ eva ca . na tu mām abhijānanti tattvena atas cyavanti te .. 24 ..
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ 25 ॥
यान्ति देव-व्रताः देवान् पितॄन् यान्ति पितृ-व्रताः । भूतानि यान्ति भूत-इज्याः यान्ति मद्-याजिनः अपि माम् ॥ २५ ॥
yānti deva-vratāḥ devān pitṝn yānti pitṛ-vratāḥ . bhūtāni yānti bhūta-ijyāḥ yānti mad-yājinaḥ api mām .. 25 ..
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ 26 ॥
पत्रम् पुष्पम् फलम् तोयम् यः मे भक्त्या प्रयच्छति । तत् अहम् भक्ति-उपहृतम् अश्नामि प्रयत-आत्मनः ॥ २६ ॥
patram puṣpam phalam toyam yaḥ me bhaktyā prayacchati . tat aham bhakti-upahṛtam aśnāmi prayata-ātmanaḥ .. 26 ..
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ 27 ॥
यत् करोषि यत् अश्नासि यत् जुहोषि ददासि यत् । यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥ २७ ॥
yat karoṣi yat aśnāsi yat juhoṣi dadāsi yat . yat tapasyasi kaunteya tat kuruṣva mad-arpaṇam .. 27 ..
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ 28 ॥
शुभ-अशुभ-फलैः एवम् मोक्ष्यसे कर्म-बन्धनैः । सन्न्यास-योग-युक्त-आत्मा विमुक्तः माम् उपैष्यसि ॥ २८ ॥
śubha-aśubha-phalaiḥ evam mokṣyase karma-bandhanaiḥ . sannyāsa-yoga-yukta-ātmā vimuktaḥ mām upaiṣyasi .. 28 ..
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ 29 ॥
समः अहम् सर्व-भूतेषु न मे द्वेष्यः अस्ति न प्रियः । ये भजन्ति तु माम् भक्त्या मयि ते तेषु च अपि अहम् ॥ २९ ॥
samaḥ aham sarva-bhūteṣu na me dveṣyaḥ asti na priyaḥ . ye bhajanti tu mām bhaktyā mayi te teṣu ca api aham .. 29 ..
अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ 30 ॥
अपि चेद् सु दुराचारः भजते माम् अन् अन्य-भाज् । साधुः एव स मन्तव्यः सम्यक् व्यवसितः हि सः ॥ ३० ॥
api ced su durācāraḥ bhajate mām an anya-bhāj . sādhuḥ eva sa mantavyaḥ samyak vyavasitaḥ hi saḥ .. 30 ..
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ 31 ॥
क्षिप्रम् भवति धर्म-आत्मा शश्वत् शान्तिम् निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ३१ ॥
kṣipram bhavati dharma-ātmā śaśvat śāntim nigacchati . kaunteya pratijānīhi na me bhaktaḥ praṇaśyati .. 31 ..
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ 32 ॥
माम् हि पार्थ व्यपाश्रित्य ये अपि स्युः पाप-योनयः । स्त्रियः वैश्याः तथा शूद्राः ते अपि यान्ति पराम् गतिम् ॥ ३२ ॥
mām hi pārtha vyapāśritya ye api syuḥ pāpa-yonayaḥ . striyaḥ vaiśyāḥ tathā śūdrāḥ te api yānti parām gatim .. 32 ..
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा । अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ 33 ॥
किम् पुनर् ब्राह्मणाः पुण्याः भक्ताः राजर्षयः तथा । अनित्यम् असुखम् लोकम् इमम् प्राप्य भजस्व माम् ॥ ३३ ॥
kim punar brāhmaṇāḥ puṇyāḥ bhaktāḥ rājarṣayaḥ tathā . anityam asukham lokam imam prāpya bhajasva mām .. 33 ..
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ 34 ॥
मद्-मनाः भव मद्-भक्तः मद्-याजी माम् नमस्कुरु । माम् एव एष्यसि युक्त्वा एवम् आत्मानम् मद्-परायणः ॥ ३४ ॥
mad-manāḥ bhava mad-bhaktaḥ mad-yājī mām namaskuru . mām eva eṣyasi yuktvā evam ātmānam mad-parāyaṇaḥ .. 34 ..
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥9 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे राजविद्याराजगुह्ययोगः नाम नवमः अध्यायः ॥९ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde rājavidyārājaguhyayogaḥ nāma navamaḥ adhyāyaḥ ..9 ..

Vibhuti Yoga

Collapse

अथ दशमोऽध्यायः ।
अथ दशमः अध्यायः ।
atha daśamaḥ adhyāyaḥ .
श्रीभगवानुवाच । / sribhagavanuvacha ।
भूय एव महाबाहो शृणु मे परमं वचः । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ 1 ॥
भूयस् एव महा-बाहो शृणु मे परमम् वचः । यत् ते अहम् प्रीयमाणाय वक्ष्यामि हित-काम्यया ॥ १ ॥
bhūyas eva mahā-bāho śṛṇu me paramam vacaḥ . yat te aham prīyamāṇāya vakṣyāmi hita-kāmyayā .. 1 ..
न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ 2 ॥
न मे विदुः सुर-गणाः प्रभवम् न महा-ऋषयः । अहम् आदिः हि देवानाम् महा-ऋषीणाम् च सर्वशस् ॥ २ ॥
na me viduḥ sura-gaṇāḥ prabhavam na mahā-ṛṣayaḥ . aham ādiḥ hi devānām mahā-ṛṣīṇām ca sarvaśas .. 2 ..
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ 3 ॥
यः माम् अजम् अनादिम् च वेत्ति लोक-महा-ईश्वरम् । असम्मूढः स मर्त्येषु सर्व-पापैः प्रमुच्यते ॥ ३ ॥
yaḥ mām ajam anādim ca vetti loka-mahā-īśvaram . asammūḍhaḥ sa martyeṣu sarva-pāpaiḥ pramucyate .. 3 ..
बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ 4 ॥
बुद्धिः ज्ञानम् असम्मोहः क्षमा सत्यम् दमः शमः । सुखम् दुःखम् भवः अभावः भयम् च अभयम् एव च ॥ ४ ॥
buddhiḥ jñānam asammohaḥ kṣamā satyam damaḥ śamaḥ . sukham duḥkham bhavaḥ abhāvaḥ bhayam ca abhayam eva ca .. 4 ..
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ 5 ॥
अहिंसा सम-ता तुष्टिः तपः दानम् यशः अयशः । भवन्ति भावाः भूतानाम् मत्तः एव पृथग्विधाः ॥ ५ ॥
ahiṃsā sama-tā tuṣṭiḥ tapaḥ dānam yaśaḥ ayaśaḥ . bhavanti bhāvāḥ bhūtānām mattaḥ eva pṛthagvidhāḥ .. 5 ..
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ 6 ॥
महा-ऋषयः सप्त पूर्वे चत्वारः मनवः तथा । मद्-भावाः मानसाः जाताः येषाम् लोके इमाः प्रजाः ॥ ६ ॥
mahā-ṛṣayaḥ sapta pūrve catvāraḥ manavaḥ tathā . mad-bhāvāḥ mānasāḥ jātāḥ yeṣām loke imāḥ prajāḥ .. 6 ..
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ 7 ॥
एताम् विभूतिम् योगम् च मम यः वेत्ति तत्त्वतः । सः अविकम्पेन योगेन युज्यते न अत्र संशयः ॥ ७ ॥
etām vibhūtim yogam ca mama yaḥ vetti tattvataḥ . saḥ avikampena yogena yujyate na atra saṃśayaḥ .. 7 ..
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ 8 ॥
अहम् सर्वस्य प्रभवः मत्तः सर्वम् प्रवर्तते । इति मत्वा भजन्ते माम् बुधाः भाव-समन्विताः ॥ ८ ॥
aham sarvasya prabhavaḥ mattaḥ sarvam pravartate . iti matvā bhajante mām budhāḥ bhāva-samanvitāḥ .. 8 ..
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ 9 ॥
मद्-चित्ताः मद्-गत-प्राणाः बोधयन्तः परस्परम् । कथयन्तः च माम् नित्यम् तुष्यन्ति च रमन्ति च ॥ ९ ॥
mad-cittāḥ mad-gata-prāṇāḥ bodhayantaḥ parasparam . kathayantaḥ ca mām nityam tuṣyanti ca ramanti ca .. 9 ..
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ 10 ॥
तेषाम् सतत-युक्तानाम् भजताम् प्रीति-पूर्वकम् । ददामि बुद्धि-योगम् तम् येन माम् उपयान्ति ते ॥ १० ॥
teṣām satata-yuktānām bhajatām prīti-pūrvakam . dadāmi buddhi-yogam tam yena mām upayānti te .. 10 ..
तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ 11 ॥
तेषाम् एव अनुकम्पा-अर्थम् अहम् अज्ञान-जम् तमः । नाशयामि आत्म-भाव-स्थः ज्ञान-दीपेन भास्वता ॥ ११ ॥
teṣām eva anukampā-artham aham ajñāna-jam tamaḥ . nāśayāmi ātma-bhāva-sthaḥ jñāna-dīpena bhāsvatā .. 11 ..
अर्जुन उवाच । / arjuna uvacha ।
परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ 12 ॥
परम् ब्रह्म परम् धाम पवित्रम् परमम् भवान् । पुरुषम् शाश्वतम् दिव्यम् आदिदेवम् अजम् विभुम् ॥ १२ ॥
param brahma param dhāma pavitram paramam bhavān . puruṣam śāśvatam divyam ādidevam ajam vibhum .. 12 ..
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ 13 ॥
आहुः त्वाम् ऋषयः सर्वे देवर्षिः नारदः तथा । असितः देवलः व्यासः स्वयम् च एव ब्रवीषि मे ॥ १३ ॥
āhuḥ tvām ṛṣayaḥ sarve devarṣiḥ nāradaḥ tathā . asitaḥ devalaḥ vyāsaḥ svayam ca eva bravīṣi me .. 13 ..
सर्वमेतदृतं मन्ये यन्मां वदसि केशव । न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ 14 ॥
सर्वम् एतत् ऋतम् मन्ये यत् माम् वदसि केशव । न हि ते भगवन् व्यक्तिम् विदुः देवाः न दानवाः ॥ १४ ॥
sarvam etat ṛtam manye yat mām vadasi keśava . na hi te bhagavan vyaktim viduḥ devāḥ na dānavāḥ .. 14 ..
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । भूतभावन भूतेश देवदेव जगत्पते ॥ 15 ॥
स्वयम् एव आत्मना आत्मानम् वेत्थ त्वम् पुरुषोत्तम । भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥
svayam eva ātmanā ātmānam vettha tvam puruṣottama . bhūtabhāvana bhūteśa devadeva jagatpate .. 15 ..
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ 16 ॥
वक्तुम् अर्हसि अशेषेण दिव्याः हि आत्म-विभूतयः । याभिः विभूतिभिः लोकान् इमान् त्वम् व्याप्य तिष्ठसि ॥ १६ ॥
vaktum arhasi aśeṣeṇa divyāḥ hi ātma-vibhūtayaḥ . yābhiḥ vibhūtibhiḥ lokān imān tvam vyāpya tiṣṭhasi .. 16 ..
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ 17 ॥
कथम् विद्याम् अहम् योगिन् त्वाम् सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्यः असि भगवत् मया ॥ १७ ॥
katham vidyām aham yogin tvām sadā paricintayan . keṣu keṣu ca bhāveṣu cintyaḥ asi bhagavat mayā .. 17 ..
विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ 18 ॥
विस्तरेण आत्मनः योगम् विभूतिम् च जनार्दन । भूयस् कथय तृप्तिः हि शृण्वतः ना अस्ति मे अमृतम् ॥ १८ ॥
vistareṇa ātmanaḥ yogam vibhūtim ca janārdana . bhūyas kathaya tṛptiḥ hi śṛṇvataḥ nā asti me amṛtam .. 18 ..
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः । प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ 19 ॥
हन्त ते कथयिष्यामि दिव्याः हि आत्म-विभूतयः । प्राधान्यतः कुरुश्रेष्ठ न अस्ति अन्तः विस्तरस्य मे ॥ १९ ॥
hanta te kathayiṣyāmi divyāḥ hi ātma-vibhūtayaḥ . prādhānyataḥ kuruśreṣṭha na asti antaḥ vistarasya me .. 19 ..
श्रीभगवानुवाच । / sribhagavanuvacha ।
अहमात्मा गुडाकेश सर्वभूताशयस्थितः । अहमादिश्च मध्यं च भूतानामन्त एव च ॥ 20 ॥
अहम् आत्मा गुडाकेश सर्व-भूत-आशय-स्थितः । अहम् आदिः च मध्यम् च भूतानाम् अन्तः एव च ॥ २० ॥
aham ātmā guḍākeśa sarva-bhūta-āśaya-sthitaḥ . aham ādiḥ ca madhyam ca bhūtānām antaḥ eva ca .. 20 ..
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् । मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ 21 ॥
आदित्यानाम् अहम् विष्णुः ज्योतिषाम् रविः अंशुमान् । मरीचिः मरुताम् अस्मि नक्षत्राणाम् अहम् शशी ॥ २१ ॥
ādityānām aham viṣṇuḥ jyotiṣām raviḥ aṃśumān . marīciḥ marutām asmi nakṣatrāṇām aham śaśī .. 21 ..
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ 22 ॥
वेदानाम् सामवेदः अस्मि देवानाम् अस्मि वासवः । इन्द्रियाणाम् मनः च अस्मि भूतानाम् अस्मि चेतना ॥ २२ ॥
vedānām sāmavedaḥ asmi devānām asmi vāsavaḥ . indriyāṇām manaḥ ca asmi bhūtānām asmi cetanā .. 22 ..
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् । वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ 23 ॥
रुद्राणाम् शङ्करः च अस्मि वित्तेशः यक्ष-रक्षसाम् । वसूनाम् पावकः च अस्मि मेरुः शिखरिणाम् अहम् ॥ २३ ॥
rudrāṇām śaṅkaraḥ ca asmi vitteśaḥ yakṣa-rakṣasām . vasūnām pāvakaḥ ca asmi meruḥ śikhariṇām aham .. 23 ..
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ 24 ॥
पुरोधसाम् च मुख्यम् माम् विद्धि पार्थ बृहस्पतिम् । सेना-नीनाम् अहम् स्कन्दः सरसाम् अस्मि सागरः ॥ २४ ॥
purodhasām ca mukhyam mām viddhi pārtha bṛhaspatim . senā-nīnām aham skandaḥ sarasām asmi sāgaraḥ .. 24 ..
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् । यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ 25 ॥
महा-ऋषीणाम् भृगुः अहम् गिराम् अस्मि एकम् अक्षरम् । यज्ञानाम् जप-यज्ञः अस्मि स्थावराणाम् हिमालयः ॥ २५ ॥
mahā-ṛṣīṇām bhṛguḥ aham girām asmi ekam akṣaram . yajñānām japa-yajñaḥ asmi sthāvarāṇām himālayaḥ .. 25 ..
श्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः । गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ 26 ॥
श्वत्थः सर्व-वृक्षाणाम् देव-ऋषीणाम् च नारदः । गन्धर्वाणाम् चित्ररथः सिद्धानाम् कपिलः मुनिः ॥ २६ ॥
śvatthaḥ sarva-vṛkṣāṇām deva-ṛṣīṇām ca nāradaḥ . gandharvāṇām citrarathaḥ siddhānām kapilaḥ muniḥ .. 26 ..
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ 27 ॥
उच्चैःश्रवसम् अश्वानाम् विद्धि माम् अमृत-उद्भवम् । ऐरावतम् गज-इन्द्राणाम् नराणाम् च नराधिपम् ॥ २७ ॥
uccaiḥśravasam aśvānām viddhi mām amṛta-udbhavam . airāvatam gaja-indrāṇām narāṇām ca narādhipam .. 27 ..
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् । प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ 28 ॥
आयुधानाम् अहम् वज्रम् धेनूनाम् अस्मि कामधुक् । प्रजनः च अस्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः ॥ २८ ॥
āyudhānām aham vajram dhenūnām asmi kāmadhuk . prajanaḥ ca asmi kandarpaḥ sarpāṇām asmi vāsukiḥ .. 28 ..
अनन्तश्चास्मि नागानां वरुणो यादसामहम् । पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ 29 ॥
अनन्तः च अस्मि नागानाम् वरुणः यादसाम् अहम् । पितॄणाम् अर्यमा च अस्मि यमः संयमताम् अहम् ॥ २९ ॥
anantaḥ ca asmi nāgānām varuṇaḥ yādasām aham . pitṝṇām aryamā ca asmi yamaḥ saṃyamatām aham .. 29 ..
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् । मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ 30 ॥
प्रह्लादः च अस्मि दैत्यानाम् कालः कलयताम् अहम् । मृगाणाम् च मृगेन्द्रः अहम् वैनतेयः च पक्षिणाम् ॥ ३० ॥
prahlādaḥ ca asmi daityānām kālaḥ kalayatām aham . mṛgāṇām ca mṛgendraḥ aham vainateyaḥ ca pakṣiṇām .. 30 ..
पवनः पवतामस्मि रामः शस्त्रभृतामहम् । झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ 31 ॥
पवनः पवताम् अस्मि रामः शस्त्रभृताम् अहम् । झषाणाम् मकरः च अस्मि स्रोतसाम् अस्मि जाह्नवी ॥ ३१ ॥
pavanaḥ pavatām asmi rāmaḥ śastrabhṛtām aham . jhaṣāṇām makaraḥ ca asmi srotasām asmi jāhnavī .. 31 ..
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ 32 ॥
सर्गाणाम् आदिः अन्तः च मध्यम् च एव अहम् अर्जुन । अध्यात्म-विद्या विद्यानाम् वादः प्रवदताम् अहम् ॥ ३२ ॥
sargāṇām ādiḥ antaḥ ca madhyam ca eva aham arjuna . adhyātma-vidyā vidyānām vādaḥ pravadatām aham .. 32 ..
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च । अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ 33 ॥
अक्षराणाम् अकारः अस्मि द्वन्द्वः सामासिकस्य च । अहम् एव अक्षयः कालः धाता अहम् विश्वतोमुखः ॥ ३३ ॥
akṣarāṇām akāraḥ asmi dvandvaḥ sāmāsikasya ca . aham eva akṣayaḥ kālaḥ dhātā aham viśvatomukhaḥ .. 33 ..
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् । कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ 34 ॥
मृत्युः सर्व-हरः च अहम् उद्भवः च भविष्यताम् । कीर्तिः श्रीः वाच् च नारीणाम् स्मृतिः मेधा धृतिः क्षमा ॥ ३४ ॥
mṛtyuḥ sarva-haraḥ ca aham udbhavaḥ ca bhaviṣyatām . kīrtiḥ śrīḥ vāc ca nārīṇām smṛtiḥ medhā dhṛtiḥ kṣamā .. 34 ..
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ 35 ॥
बृहत्साम तथा साम्नाम् गायत्री छन्दसाम् अहम् । मासानाम् मार्गशीर्षः अहम् ऋतूनाम् कुसुमाकरः ॥ ३५ ॥
bṛhatsāma tathā sāmnām gāyatrī chandasām aham . māsānām mārgaśīrṣaḥ aham ṛtūnām kusumākaraḥ .. 35 ..
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ 36 ॥
द्यूतम् छलयताम् अस्मि तेजः तेजस्विनाम् अहम् । जयः अस्मि व्यवसायः अस्मि सत्त्वम् सत्त्ववताम् अहम् ॥ ३६ ॥
dyūtam chalayatām asmi tejaḥ tejasvinām aham . jayaḥ asmi vyavasāyaḥ asmi sattvam sattvavatām aham .. 36 ..
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः । मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ 37 ॥
वृष्णीनाम् वासुदेवः अस्मि पाण्डवानाम् धनञ्जयः । मुनीनाम् अपि अहम् व्यासः कवीनाम् उशना कविः ॥ ३७ ॥
vṛṣṇīnām vāsudevaḥ asmi pāṇḍavānām dhanañjayaḥ . munīnām api aham vyāsaḥ kavīnām uśanā kaviḥ .. 37 ..
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ 38 ॥
दण्डः दमयताम् अस्मि नीतिः अस्मि जिगीषताम् । मौनम् च एव अस्मि गुह्यानाम् ज्ञानम् ज्ञानवताम् अहम् ॥ ३८ ॥
daṇḍaḥ damayatām asmi nītiḥ asmi jigīṣatām . maunam ca eva asmi guhyānām jñānam jñānavatām aham .. 38 ..
यच्चापि सर्वभूतानां बीजं तदहमर्जुन । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ 39 ॥
यत् च अपि सर्व-भूतानाम् बीजम् तत् अहम् अर्जुन । न तत् अस्ति विना यत् स्यात् मया भूतम् चराचरम् ॥ ३९ ॥
yat ca api sarva-bhūtānām bījam tat aham arjuna . na tat asti vinā yat syāt mayā bhūtam carācaram .. 39 ..
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप । एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ 40 ॥
न अन्तः अस्ति मम दिव्यानाम् विभूतीनाम् परन्तप । एष तु उद्देशतः प्रोक्तः विभूतेः विस्तरः मया ॥ ४० ॥
na antaḥ asti mama divyānām vibhūtīnām parantapa . eṣa tu uddeśataḥ proktaḥ vibhūteḥ vistaraḥ mayā .. 40 ..
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ 41 ॥
यत् यत् विभूतिमत् सत्त्वम् श्रीमत् ऊर्जितम् एव वा । तत् तत् एव अवगच्छ त्वम् मम तेजः-ओंश-सम्भवम् ॥ ४१ ॥
yat yat vibhūtimat sattvam śrīmat ūrjitam eva vā . tat tat eva avagaccha tvam mama tejaḥ-oṃśa-sambhavam .. 41 ..
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ 42 ॥
अथवा बहुना एतेन किम् ज्ञातेन तव अर्जुन । विष्टभ्य अहम् इदम् कृत्स्नम् एक-अंशेन स्थितः जगत् ॥ ४२ ॥
athavā bahunā etena kim jñātena tava arjuna . viṣṭabhya aham idam kṛtsnam eka-aṃśena sthitaḥ jagat .. 42 ..
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः ॥10 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे विभूतियोगः नाम दशमः अध्यायः ॥१० ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde vibhūtiyogaḥ nāma daśamaḥ adhyāyaḥ ..10 ..

Vishwa Rupa Darshana Yoga

Collapse

अथ एकादशोऽध्यायः ।
अथ एकादशः अध्यायः ।
atha ekādaśaḥ adhyāyaḥ .
अर्जुन उवाच । / arjuna uvacha ।
मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ 1 ॥
मद्-अनुग्रहाय परमम् गुह्यम् अध्यात्म-सञ्ज्ञितम् । यत् त्वया उक्तम् वचः तेन मोहः अयम् विगतः मम ॥ १ ॥
mad-anugrahāya paramam guhyam adhyātma-sañjñitam . yat tvayā uktam vacaḥ tena mohaḥ ayam vigataḥ mama .. 1 ..
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ 2 ॥
भव-अप्ययौ हि भूतानाम् श्रुतौ विस्तरशः मया । त्वत्तः कमल-पत्र-अक्ष माहात्म्यम् अपि च अव्ययम् ॥ २ ॥
bhava-apyayau hi bhūtānām śrutau vistaraśaḥ mayā . tvattaḥ kamala-patra-akṣa māhātmyam api ca avyayam .. 2 ..
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर । द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ 3 ॥
एवम् एतत् यथा आत्थ त्वम् आत्मानम् परमेश्वर । द्रष्टुम् इच्छामि ते रूपम् ऐश्वरम् पुरुषोत्तम ॥ ३ ॥
evam etat yathā āttha tvam ātmānam parameśvara . draṣṭum icchāmi te rūpam aiśvaram puruṣottama .. 3 ..
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ 4 ॥
मन्यसे यदि तत् शक्यम् मया द्रष्टुम् इति प्रभो । योगेश्वर ततस् मे त्वम् दर्शय आत्मानम् अव्ययम् ॥ ४ ॥
manyase yadi tat śakyam mayā draṣṭum iti prabho . yogeśvara tatas me tvam darśaya ātmānam avyayam .. 4 ..
श्रीभगवानुवाच । / sribhagavanuvacha ।
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः । नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ 5 ॥
पश्य मे पार्थ रूपाणि शतशस् अथ सहस्रशस् । नानाविधानि दिव्यानि नाना वर्ण-आकृतीनि च ॥ ५ ॥
paśya me pārtha rūpāṇi śataśas atha sahasraśas . nānāvidhāni divyāni nānā varṇa-ākṛtīni ca .. 5 ..
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा । बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ 6 ॥
पश्य आदित्यान् वसून् रुद्रान् अश्विनौ मरुतः तथा । बहूनि अदृष्ट-पूर्वाणि पश्य आश्चर्याणि भारत ॥ ६ ॥
paśya ādityān vasūn rudrān aśvinau marutaḥ tathā . bahūni adṛṣṭa-pūrvāṇi paśya āścaryāṇi bhārata .. 6 ..
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥ 7 ॥
इह एकस्थम् जगत् कृत्स्नम् पश्य अद्य सचराचरम् । मम देहे गुडाकेश यत् च अन्यत् द्रष्टुम् इच्छसि ॥ ७ ॥
iha ekastham jagat kṛtsnam paśya adya sacarācaram . mama dehe guḍākeśa yat ca anyat draṣṭum icchasi .. 7 ..
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ 8
न तु माम् शक्यसे द्रष्टुम् अनेन एव स्व-चक्षुषा । दिव्यम् ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥ ८
na tu mām śakyase draṣṭum anena eva sva-cakṣuṣā . divyam dadāmi te cakṣuḥ paśya me yogam aiśvaram .. 8
सञ्जय उवाच । / sanjaya uvacha
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः । दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ 9 ॥
एवम् उक्त्वा ततस् राजन् महा-योग-ईश्वरः हरिः । दर्शयामास पार्थाय परमम् रूपम् ऐश्वरम् ॥ ९ ॥
evam uktvā tatas rājan mahā-yoga-īśvaraḥ hariḥ . darśayāmāsa pārthāya paramam rūpam aiśvaram .. 9 ..
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् । अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ 10 ॥
अनेक-वक्त्र-नयनम् अनेक-अद्भुत-दर्शनम् । अनेक-दिव्य-आभरणम् दिव्य-अनेक-उद्यत-आयुधम् ॥ १० ॥
aneka-vaktra-nayanam aneka-adbhuta-darśanam . aneka-divya-ābharaṇam divya-aneka-udyata-āyudham .. 10 ..
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ 11 ॥
दिव्य-माल्य-अम्बर-धरम् दिव्य-गन्ध-अनुलेपनम् । सर्व-आश्चर्य-मयम् देवम् अनन्तम् विश्वतोमुखम् ॥ ११ ॥
divya-mālya-ambara-dharam divya-gandha-anulepanam . sarva-āścarya-mayam devam anantam viśvatomukham .. 11 ..
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ 12 ॥
दिवि सूर्य-सहस्रस्य भवेत् युगपद् उत्थिता । यदि भास् सदृशी सा स्यात् भासः तस्य महात्मनः ॥ १२ ॥
divi sūrya-sahasrasya bhavet yugapad utthitā . yadi bhās sadṛśī sā syāt bhāsaḥ tasya mahātmanaḥ .. 12 ..
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ 13 ॥
तत्र एकस्थम् जगत् कृत्स्नम् प्रविभक्तम् अनेकधा । अपश्यत् देवदेवस्य शरीरे पाण्डवः तदा ॥ १३ ॥
tatra ekastham jagat kṛtsnam pravibhaktam anekadhā . apaśyat devadevasya śarīre pāṇḍavaḥ tadā .. 13 ..
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः । प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ 14 ॥
ततस् स विस्मय-आविष्टः हृष्ट-रोमा धनञ्जयः । प्रणम्य शिरसा देवम् कृताञ्जलिः अभाषत ॥ १४ ॥
tatas sa vismaya-āviṣṭaḥ hṛṣṭa-romā dhanañjayaḥ . praṇamya śirasā devam kṛtāñjaliḥ abhāṣata .. 14 ..
अर्जुन उवाच । / arjuna uvacha ।
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान्। ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥ 15 ॥
पश्यामि देवान् तव देव देहे सर्वान् तथा भूत-विशेष-सङ्घान्। ब्रह्माणम् ईशम् कमलासन-स्थम् ऋषीन् च सर्वान् उरगान् च दिव्यान् ॥ १५ ॥
paśyāmi devān tava deva dehe sarvān tathā bhūta-viśeṣa-saṅghān. brahmāṇam īśam kamalāsana-stham ṛṣīn ca sarvān uragān ca divyān .. 15 ..
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम्। नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥ 16 ॥
अनेक-बाहु-उदर-वक्त्र-नेत्रम् पश्यामि त्वाम् सर्वतस् अनन्त-रूपम्। न अन्तम् न मध्यम् न पुनर् तव आदिम् पश्यामि विश्वेश्वर विश्वरूप ॥ १६ ॥
aneka-bāhu-udara-vaktra-netram paśyāmi tvām sarvatas ananta-rūpam. na antam na madhyam na punar tava ādim paśyāmi viśveśvara viśvarūpa .. 16 ..
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम्। पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् ॥ 17 ॥
किरीटिनम् गदिनम् चक्रिणम् च तेजः-राशिम् सर्वतस् दीप्तिमन्तम्। पश्यामि त्वाम् दुर्निरीक्ष्यम् समन्तात् दीप्त-अनल-अर्क-द्युतिम् अप्रमेयम् ॥ १७ ॥
kirīṭinam gadinam cakriṇam ca tejaḥ-rāśim sarvatas dīptimantam. paśyāmi tvām durnirīkṣyam samantāt dīpta-anala-arka-dyutim aprameyam .. 17 ..
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम्। त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥ 18 ॥
त्वम् अक्षरम् परमम् वेदितव्यम् त्वम् अस्य विश्वस्य परम् निधानम्। त्वम् अव्ययः शाश्वत-धर्म-गोप्ता सनातनः त्वम् पुरुषः मतः मे ॥ १८ ॥
tvam akṣaram paramam veditavyam tvam asya viśvasya param nidhānam. tvam avyayaḥ śāśvata-dharma-goptā sanātanaḥ tvam puruṣaḥ mataḥ me .. 18 ..
अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम्। पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ 19 ॥
अनादि-मध्य-अन्तम् अनन्त-वीर्यम् अनन्त-बाहुम् शशि-सूर्य-नेत्रम्। पश्यामि त्वाम् दीप्त-हुताश-वक्त्रम् स्व-तेजसा विश्वम् इदम् तपन्तम् ॥ १९ ॥
anādi-madhya-antam ananta-vīryam ananta-bāhum śaśi-sūrya-netram. paśyāmi tvām dīpta-hutāśa-vaktram sva-tejasā viśvam idam tapantam .. 19 ..
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः। दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥ 20 ॥
द्यावापृथिव्योः इदम् अन्तरम् हि व्याप्तम् त्वया एकेन दिशः च सर्वाः। दृष्ट्वा अद्भुतम् रूपम् उग्रम् तव इदम् लोकत्रयम् प्रव्यथितम् महात्मन् ॥ २० ॥
dyāvāpṛthivyoḥ idam antaram hi vyāptam tvayā ekena diśaḥ ca sarvāḥ. dṛṣṭvā adbhutam rūpam ugram tava idam lokatrayam pravyathitam mahātman .. 20 ..
अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति। स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ 21 ॥
अमी हि त्वाम् सुर-सङ्घाः विशन्ति केचिद् भीताः प्राञ्जलयः गृणन्ति। स्वस्ति इति उक्त्वा महा-ऋषि-सिद्ध-सङ्घाः स्तुवन्ति त्वाम् स्तुतिभिः पुष्कलाभिः ॥ २१ ॥
amī hi tvām sura-saṅghāḥ viśanti kecid bhītāḥ prāñjalayaḥ gṛṇanti. svasti iti uktvā mahā-ṛṣi-siddha-saṅghāḥ stuvanti tvām stutibhiḥ puṣkalābhiḥ .. 21 ..
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च। गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ 22 ॥
रुद्र-आदित्याः वसवः ये च साध्याः विश्वे अश्विनौ मरुतः च ऊष्मपाः च। गन्धर्व-यक्ष-असुर-सिद्ध-सङ्घाः वीक्षन्ते त्वाम् विस्मिताः च एव सर्वे ॥ २२ ॥
rudra-ādityāḥ vasavaḥ ye ca sādhyāḥ viśve aśvinau marutaḥ ca ūṣmapāḥ ca. gandharva-yakṣa-asura-siddha-saṅghāḥ vīkṣante tvām vismitāḥ ca eva sarve .. 22 ..
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम्। बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ 23 ॥
रूपम् महत् ते बहु-वक्त्र-नेत्रम् महा-बाहो बहु-बाहु-ऊरु-पादम्। बहु-उदरम् बहु-दंष्ट्रा-करालम् दृष्ट्वा लोकाः प्रव्यथिताः तथा अहम् ॥ २३ ॥
rūpam mahat te bahu-vaktra-netram mahā-bāho bahu-bāhu-ūru-pādam. bahu-udaram bahu-daṃṣṭrā-karālam dṛṣṭvā lokāḥ pravyathitāḥ tathā aham .. 23 ..
नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम्। दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ 24 ॥
नभः-स्पृशम् दीप्तम् अनेक-वर्णम् व्यात्त-आननम् दीप्त-विशाल-नेत्रम्। दृष्ट्वा हि त्वाम् प्रव्यथित-अन्तरात्मा धृतिम् न विन्दामि शमम् च विष्णो ॥ २४ ॥
nabhaḥ-spṛśam dīptam aneka-varṇam vyātta-ānanam dīpta-viśāla-netram. dṛṣṭvā hi tvām pravyathita-antarātmā dhṛtim na vindāmi śamam ca viṣṇo .. 24 ..
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि। दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ 25 ॥
दंष्ट्रा-करालानि च ते मुखानि दृष्ट्वा एव काल-अनल-सन्निभानि। दिशः न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ २५ ॥
daṃṣṭrā-karālāni ca te mukhāni dṛṣṭvā eva kāla-anala-sannibhāni. diśaḥ na jāne na labhe ca śarma prasīda deveśa jagannivāsa .. 25 ..
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः। भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥ 26 ॥ वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि। केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ 27 ॥
अमी च त्वाम् धृतराष्ट्रस्य पुत्राः सर्वे सह एव अवनिपाल-सङ्घैः। भीष्मः द्रोणः सूतपुत्रः तथा असौ सह अस्मदीयैः अपि योध-मुख्यैः ॥ २६ ॥ वक्त्राणि ते त्वरमाणाः विशन्ति दंष्ट्रा-करालानि भयानकानि। केचिद् विलग्नाः दशन-अन्तरेषु सन्दृश्यन्ते चूर्णितैः उत्तमाङ्गैः ॥ २७ ॥
amī ca tvām dhṛtarāṣṭrasya putrāḥ sarve saha eva avanipāla-saṅghaiḥ. bhīṣmaḥ droṇaḥ sūtaputraḥ tathā asau saha asmadīyaiḥ api yodha-mukhyaiḥ .. 26 .. vaktrāṇi te tvaramāṇāḥ viśanti daṃṣṭrā-karālāni bhayānakāni. kecid vilagnāḥ daśana-antareṣu sandṛśyante cūrṇitaiḥ uttamāṅgaiḥ .. 27 ..
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति। तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ 28 ॥
यथा नदीनाम् बहवः अम्बु-वेगाः समुद्रम् एव अभिमुखाः द्रवन्ति। तथा तव अमी नर-लोक-वीराः विशन्ति वक्त्राणि अभिविज्वलन्ति ॥ २८ ॥
yathā nadīnām bahavaḥ ambu-vegāḥ samudram eva abhimukhāḥ dravanti. tathā tava amī nara-loka-vīrāḥ viśanti vaktrāṇi abhivijvalanti .. 28 ..
यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः। तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥ 29 ॥
यथा प्रदीप्तम् ज्वलनम् पतङ्गाः विशन्ति नाशाय समृद्ध-वेगाः। तथा एव नाशाय विशन्ति लोकाः तव अपि वक्त्राणि समृद्ध-वेगाः ॥ २९ ॥
yathā pradīptam jvalanam pataṅgāḥ viśanti nāśāya samṛddha-vegāḥ. tathā eva nāśāya viśanti lokāḥ tava api vaktrāṇi samṛddha-vegāḥ .. 29 ..
लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः। तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ 30 ॥
लेलिह्यसे ग्रसमानः समन्तात् लोकान् समग्रान् वदनैः ज्वलद्भिः। तेजोभिः आपूर्य जगत् समग्रम् भासः तव उग्राः प्रतपन्ति विष्णो ॥ ३० ॥
lelihyase grasamānaḥ samantāt lokān samagrān vadanaiḥ jvaladbhiḥ. tejobhiḥ āpūrya jagat samagram bhāsaḥ tava ugrāḥ pratapanti viṣṇo .. 30 ..
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद। विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ 31 ॥
आख्याहि मे कः भवान् उग्र-रूपः नमः अस्तु ते देव-वर प्रसीद। विज्ञातुम् इच्छामि भवन्तम् आद्यम् न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥
ākhyāhi me kaḥ bhavān ugra-rūpaḥ namaḥ astu te deva-vara prasīda. vijñātum icchāmi bhavantam ādyam na hi prajānāmi tava pravṛttim .. 31 ..
श्रीभगवानुवाच । / sribhagavanuvacha ।
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः। ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ 32 ॥
कालः अस्मि लोक-क्षय-कृत् प्रवृद्धः लोकान् समाहर्तुम् इह प्रवृत्तः। ऋते अपि त्वाम् न भविष्यन्ति सर्वे ये अवस्थिताः प्रत्यनीकेषु योधाः ॥ ३२ ॥
kālaḥ asmi loka-kṣaya-kṛt pravṛddhaḥ lokān samāhartum iha pravṛttaḥ. ṛte api tvām na bhaviṣyanti sarve ye avasthitāḥ pratyanīkeṣu yodhāḥ .. 32 ..
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम्। मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥ 33 ॥
तस्मात् त्वम् उत्तिष्ठ यशः लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यम् समृद्धम्। मया एव एते निहताः पूर्वम् एव निमित्त-मात्रम् भव सव्यसाचिन् ॥ ३३ ॥
tasmāt tvam uttiṣṭha yaśaḥ labhasva jitvā śatrūn bhuṅkṣva rājyam samṛddham. mayā eva ete nihatāḥ pūrvam eva nimitta-mātram bhava savyasācin .. 33 ..
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान्। मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥ 34 ॥
द्रोणम् च भीष्मम् च जयद्रथम् च कर्णम् तथा अन्यान् अपि योध-वीरान्। मया हतान् त्वम् जहि मा व्यथिष्ठाः युध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥
droṇam ca bhīṣmam ca jayadratham ca karṇam tathā anyān api yodha-vīrān. mayā hatān tvam jahi mā vyathiṣṭhāḥ yudhyasva jetāsi raṇe sapatnān .. 34 ..
सञ्जय उवाच । / sanjaya uvacha
एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी। नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ 35 ॥
एतत् श्रुत्वा वचनम् केशवस्य कृताञ्जलिः वेपमानः किरीटी। नमस्कृत्वा भूयस् एव आह कृष्णम् स गद्गदम् भीत-भीतः प्रणम्य ॥ ३५ ॥
etat śrutvā vacanam keśavasya kṛtāñjaliḥ vepamānaḥ kirīṭī. namaskṛtvā bhūyas eva āha kṛṣṇam sa gadgadam bhīta-bhītaḥ praṇamya .. 35 ..
अर्जुन उवाच । / arjuna uvacha ।
स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च। रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ 36 ॥
स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यति अनुरज्यते च। रक्षांसि भीतानि दिशः द्रवन्ति सर्वे नमस्यन्ति च सिद्ध-सङ्घाः ॥ ३६ ॥
sthāne hṛṣīkeśa tava prakīrtyā jagat prahṛṣyati anurajyate ca. rakṣāṃsi bhītāni diśaḥ dravanti sarve namasyanti ca siddha-saṅghāḥ .. 36 ..
कस्माच्च ते न नमेरन्महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे। अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ 37 ॥
कस्मात् च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणः अपि आदिकर्त्रे। अनन्त देवेश जगन्निवास त्वम् अक्षरम् सत्-असत् तत्परम् यत् ॥ ३७ ॥
kasmāt ca te na nameran mahātman garīyase brahmaṇaḥ api ādikartre. ananta deveśa jagannivāsa tvam akṣaram sat-asat tatparam yat .. 37 ..
त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम्। वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥ 38 ॥
त्वम् आदिदेवः पुरुषः पुराणः त्वम् अस्य विश्वस्य परम् निधानम्। वेत्तासि वेद्यम् च परम् च धाम त्वया ततम् विश्वम् अनन्त-रूप ॥ ३८ ॥
tvam ādidevaḥ puruṣaḥ purāṇaḥ tvam asya viśvasya param nidhānam. vettāsi vedyam ca param ca dhāma tvayā tatam viśvam ananta-rūpa .. 38 ..
वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च। नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥ 39 ॥
वायुः यमः अग्निः वरुणः शशाङ्कः प्रजापतिः त्वम् प्रपितामहः च। नमः नमः ते अस्तु सहस्र-कृत्वस् पुनर् च भूयस् अपि नमः नमः ते ॥ ३९ ॥
vāyuḥ yamaḥ agniḥ varuṇaḥ śaśāṅkaḥ prajāpatiḥ tvam prapitāmahaḥ ca. namaḥ namaḥ te astu sahasra-kṛtvas punar ca bhūyas api namaḥ namaḥ te .. 39 ..
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व। अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ॥ 40 ॥
नमः पुरस्तात् अथ पृष्ठतस् ते नमः अस्तु ते सर्वतस् एव सर्व। अनन्त-वीर्य-अमित-विक्रमः त्वम् सर्वम् समाप्नोषि ततस् असि सर्वः ॥ ४० ॥
namaḥ purastāt atha pṛṣṭhatas te namaḥ astu te sarvatas eva sarva. ananta-vīrya-amita-vikramaḥ tvam sarvam samāpnoṣi tatas asi sarvaḥ .. 40 ..
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति। अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ॥ 41 ॥
सखा इति मत्वा प्रसभम् यत् उक्तम् हे कृष्ण हे यादव हे सखा इति। अ जानता महिमानम् तव इदम् मया प्रमादात् प्रणयेन वा अपि ॥ ४१ ॥
sakhā iti matvā prasabham yat uktam he kṛṣṇa he yādava he sakhā iti. a jānatā mahimānam tava idam mayā pramādāt praṇayena vā api .. 41 ..
यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु। एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥ 42 ॥
यत् च अवहास-अर्थम् असत्कृतः असि विहार-शय्या-आसन-भोजनेषु। एकः अथवा अपि अच्युत तद्-समक्षम् तत् क्षामये त्वाम् अहम् अप्रमेयम् ॥ ४२ ॥
yat ca avahāsa-artham asatkṛtaḥ asi vihāra-śayyā-āsana-bhojaneṣu. ekaḥ athavā api acyuta tad-samakṣam tat kṣāmaye tvām aham aprameyam .. 42 ..
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्। न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥ 43 ॥
पिता असि लोकस्य चराचरस्य त्वम् अस्य पूज्यः च गुरुः गरीयान्। न त्वद्-समः अस्ति अभ्यधिकः कुतस् अन्यः लोकत्रये अपि अप्रतिम-प्रभाव ॥ ४३ ॥
pitā asi lokasya carācarasya tvam asya pūjyaḥ ca guruḥ garīyān. na tvad-samaḥ asti abhyadhikaḥ kutas anyaḥ lokatraye api apratima-prabhāva .. 43 ..
तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम्। पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥ 44 ॥
तस्मात् प्रणम्य प्रणिधाय कायम् प्रसादये त्वाम् अहम् ईशम् ईड्यम्। पिता इव पुत्रस्य सखा इव सख्युः प्रियः प्रियाय अर्हसि देव सोढुम् ॥ ४४ ॥
tasmāt praṇamya praṇidhāya kāyam prasādaye tvām aham īśam īḍyam. pitā iva putrasya sakhā iva sakhyuḥ priyaḥ priyāya arhasi deva soḍhum .. 44 ..
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे। तदेव मे दर्शय देवरूपं प्रसीद देवेश जगन्निवास ॥ 45 ॥
अदृष्ट-पूर्वम् हृषितः अस्मि दृष्ट्वा भयेन च प्रव्यथितम् मनः मे। तत् एव मे दर्शय देव-रूपम् प्रसीद देवेश जगन्निवास ॥ ४५ ॥
adṛṣṭa-pūrvam hṛṣitaḥ asmi dṛṣṭvā bhayena ca pravyathitam manaḥ me. tat eva me darśaya deva-rūpam prasīda deveśa jagannivāsa .. 45 ..
किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव। तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ 46 ॥
किरीटिनम् गदिनम् चक्र-हस्तम् इच्छामि त्वाम् द्रष्टुम् अहम् तथा एव। तेन एव रूपेण चतुर्-भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥
kirīṭinam gadinam cakra-hastam icchāmi tvām draṣṭum aham tathā eva. tena eva rūpeṇa catur-bhujena sahasrabāho bhava viśvamūrte .. 46 ..
श्रीभगवानुवाच । / sribhagavanuvacha ।
मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात्। तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ 47 ॥
मया प्रसन्नेन तव अर्जुन इदम् रूपम् परम् दर्शितम् आत्म-योगात्। तेजः-मयम् विश्वम् अनन्तम् आद्यम् यत् मे त्वद्-अन्येन न दृष्ट-पूर्वम् ॥ ४७ ॥
mayā prasannena tava arjuna idam rūpam param darśitam ātma-yogāt. tejaḥ-mayam viśvam anantam ādyam yat me tvad-anyena na dṛṣṭa-pūrvam .. 47 ..
न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः। एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ 48 ॥
न वेद-यज्ञ-अध्ययनैः न दानैः न च क्रियाभिः न तपोभिः उग्रैः। एवंरूपः शक्यः अहम् नृ-लोके द्रष्टुम् त्वद्-अन्येन कुरु-प्रवीर ॥ ४८ ॥
na veda-yajña-adhyayanaiḥ na dānaiḥ na ca kriyābhiḥ na tapobhiḥ ugraiḥ. evaṃrūpaḥ śakyaḥ aham nṛ-loke draṣṭum tvad-anyena kuru-pravīra .. 48 ..
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम्। व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥ 49 ॥
मा ते व्यथा मा च विमूढ-भावः दृष्ट्वा रूपम् घोरम् ईदृश् मम इदम्। व्यपेत-भीः प्रीत-मनाः पुनर् त्वम् तत् एव मे रूपम् इदम् प्रपश्य ॥ ४९ ॥
mā te vyathā mā ca vimūḍha-bhāvaḥ dṛṣṭvā rūpam ghoram īdṛś mama idam. vyapeta-bhīḥ prīta-manāḥ punar tvam tat eva me rūpam idam prapaśya .. 49 ..
सञ्जय उवाच । / sanjaya uvacha
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः। आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥ 50 ॥
इति अर्जुनम् वासुदेवः तथा उक्त्वा स्वकम् रूपम् दर्शयामास भूयस्। आश्वासयामास च भीतम् एनम् भूत्वा पुनर् सौम्य-वपुः महात्मा ॥ ५० ॥
iti arjunam vāsudevaḥ tathā uktvā svakam rūpam darśayāmāsa bhūyas. āśvāsayāmāsa ca bhītam enam bhūtvā punar saumya-vapuḥ mahātmā .. 50 ..
अर्जुन उवाच । / arjuna uvacha ।
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ 51 ॥
दृष्ट्वा इदम् मानुषम् रूपम् तव सौम्यम् जनार्दन । इदानीम् अस्मि संवृत्तः स चेताः प्रकृतिम् गतः ॥ ५१ ॥
dṛṣṭvā idam mānuṣam rūpam tava saumyam janārdana . idānīm asmi saṃvṛttaḥ sa cetāḥ prakṛtim gataḥ .. 51 ..
श्रीभगवानुवाच । / sribhagavanuvacha ।
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ 52 ॥
सु दुर्दर्शम् इदम् रूपम् दृष्टवान् असि यत् मम । देवाः अपि अस्य रूपस्य नित्यम् दर्शन-काङ्क्षिणः ॥ ५२ ॥
su durdarśam idam rūpam dṛṣṭavān asi yat mama . devāḥ api asya rūpasya nityam darśana-kāṅkṣiṇaḥ .. 52 ..
नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ 53 ॥
न अहम् वेदैः न तपसा न दानेन न च इज्यया । शक्यः एवंविधः द्रष्टुम् दृष्टवान् असि माम् यथा ॥ ५३ ॥
na aham vedaiḥ na tapasā na dānena na ca ijyayā . śakyaḥ evaṃvidhaḥ draṣṭum dṛṣṭavān asi mām yathā .. 53 ..
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ 54 ॥
भक्त्या तु अन् अन्यया शक्य अहम् एवंविधः अर्जुन । ज्ञातुम् द्रष्टुम् च तत्त्वेन प्रवेष्टुम् च परन्तप ॥ ५४ ॥
bhaktyā tu an anyayā śakya aham evaṃvidhaḥ arjuna . jñātum draṣṭum ca tattvena praveṣṭum ca parantapa .. 54 ..
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ 55 ॥
मद्-कर्म-कृत् मद्-परमः मद्-भक्तः सङ्ग-वर्जितः । निर्वैरः सर्व-भूतेषु यः स माम् एति पाण्डव ॥ ५५ ॥
mad-karma-kṛt mad-paramaḥ mad-bhaktaḥ saṅga-varjitaḥ . nirvairaḥ sarva-bhūteṣu yaḥ sa mām eti pāṇḍava .. 55 ..
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः ॥11 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे विश्वरूपदर्शनयोगः नाम एकादशः अध्यायः ॥११ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde viśvarūpadarśanayogaḥ nāma ekādaśaḥ adhyāyaḥ ..11 ..

Bhakti Yoga

Collapse

अथ द्वादशोऽध्यायः ।
अथ द्वादशः अध्यायः ।
atha dvādaśaḥ adhyāyaḥ .
अर्जुन उवाच । / arjuna uvacha ।
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ 1 ॥
एवम् सतत-युक्ताः ये भक्ताः त्वाम् पर्युपासते । ये च अपि अक्षरम् अव्यक्तम् तेषाम् के योग-वित्तमाः ॥ १ ॥
evam satata-yuktāḥ ye bhaktāḥ tvām paryupāsate . ye ca api akṣaram avyaktam teṣām ke yoga-vittamāḥ .. 1 ..
श्रीभगवानुवाच । / sribhagavanuvacha ।
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ 2 ॥
मयि आवेश्य मनः ये माम् नित्य-युक्ताः उपासते । श्रद्धया परया उपेताः ते मे युक्ततमाः मताः ॥ २ ॥
mayi āveśya manaḥ ye mām nitya-yuktāḥ upāsate . śraddhayā parayā upetāḥ te me yuktatamāḥ matāḥ .. 2 ..
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ 3 ॥ सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ 4 ॥
ये तु अक्षरम् अनिर्देश्यम् अव्यक्तम् पर्युपासते । सर्वत्रगम् अचिन्त्यम् च कूटस्थम् अचलम् ध्रुवम् ॥ ३ ॥ सन् नियम्य इन्द्रिय-ग्रामम् सर्वत्र सम-बुद्धयः । ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः ॥ ४ ॥
ye tu akṣaram anirdeśyam avyaktam paryupāsate . sarvatragam acintyam ca kūṭastham acalam dhruvam .. 3 .. san niyamya indriya-grāmam sarvatra sama-buddhayaḥ . te prāpnuvanti mām eva sarva-bhūta-hite ratāḥ .. 4 ..
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ 5 ॥
क्लेशः अधिकतरः तेषाम् अव्यक्त-आसक्त-चेतसाम् । अव्यक्ता हि गतिः दुःखम् देहवद्भिः अवाप्यते ॥ ५ ॥
kleśaḥ adhikataraḥ teṣām avyakta-āsakta-cetasām . avyaktā hi gatiḥ duḥkham dehavadbhiḥ avāpyate .. 5 ..
ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ 6 ॥ तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामिन चिरात्पार्थ मय्यावेशितचेतसाम् ॥ 7 ॥
ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मद्-पराः । अन् अन्येन एव योगेन माम् ध्यायन्तः उपासते ॥ ६ ॥ तेषाम् अहम् समुद्धर्ता मृत्यु-संसार-सागरात् । चिरात् पार्थ मयि आवेशित-चेतसाम् ॥ ७ ॥
ye tu sarvāṇi karmāṇi mayi sannyasya mad-parāḥ . an anyena eva yogena mām dhyāyantaḥ upāsate .. 6 .. teṣām aham samuddhartā mṛtyu-saṃsāra-sāgarāt . cirāt pārtha mayi āveśita-cetasām .. 7 ..
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ 8 ॥
मयि एव मनः आधत्स्व मयि बुद्धिम् निवेशय । निवसिष्यसि मयि एव अतस् ऊर्ध्वम् न संशयः ॥ ८ ॥
mayi eva manaḥ ādhatsva mayi buddhim niveśaya . nivasiṣyasi mayi eva atas ūrdhvam na saṃśayaḥ .. 8 ..
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ 9 ॥
अथ चित्तम् समाधातुम् न शक्नोषि मयि स्थिरम् । अभ्यास-योगेन ततस् माम् इच्छ आप्तुम् धनञ्जय ॥ ९ ॥
atha cittam samādhātum na śaknoṣi mayi sthiram . abhyāsa-yogena tatas mām iccha āptum dhanañjaya .. 9 ..
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ 10 ॥
अभ्यासे अपि असमर्थः असि मद्-कर्म-परमः भव । मद्-अर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥ १० ॥
abhyāse api asamarthaḥ asi mad-karma-paramaḥ bhava . mad-artham api karmāṇi kurvan siddhim avāpsyasi .. 10 ..
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ 11 ॥
अथा एतत् अपि अशक्तः असि कर्तुम् मद्-योगम् आश्रितः । सर्व-कर्म-फल-त्यागम् ततस् कुरु यत-आत्मवान् ॥ ११ ॥
athā etat api aśaktaḥ asi kartum mad-yogam āśritaḥ . sarva-karma-phala-tyāgam tatas kuru yata-ātmavān .. 11 ..
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते । ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ 12 ॥
श्रेयः हि ज्ञानम् अभ्यासात् ज्ञानात् ध्यानम् विशिष्यते । ध्यानात् कर्म-फल-त्यागः त्यागात् शान्तिः अनन्तरम् ॥ १२ ॥
śreyaḥ hi jñānam abhyāsāt jñānāt dhyānam viśiṣyate . dhyānāt karma-phala-tyāgaḥ tyāgāt śāntiḥ anantaram .. 12 ..
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ 13 ॥ सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ 14 ॥
अ द्वेष्टा सर्व-भूतानाम् मैत्रः करुणः एव च । निर्ममः निरहङ्कारः सम-दुःख-सुखः क्षमी ॥ १३ ॥ सन्तुष्टः सततम् योगी यत-आत्मा दृढ-निश्चयः । मयि अर्पित-मनः-बुद्धिः यः मद्-भक्तः स मे प्रियः ॥ १४ ॥
a dveṣṭā sarva-bhūtānām maitraḥ karuṇaḥ eva ca . nirmamaḥ nirahaṅkāraḥ sama-duḥkha-sukhaḥ kṣamī .. 13 .. santuṣṭaḥ satatam yogī yata-ātmā dṛḍha-niścayaḥ . mayi arpita-manaḥ-buddhiḥ yaḥ mad-bhaktaḥ sa me priyaḥ .. 14 ..
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ 15 ॥
यस्मात् न उद्विजते लोकः लोकात् न उद्विजते च यः । हर्ष-अमर्ष-भय-उद्वेगैः मुक्तः यः स च मे प्रियः ॥ १५ ॥
yasmāt na udvijate lokaḥ lokāt na udvijate ca yaḥ . harṣa-amarṣa-bhaya-udvegaiḥ muktaḥ yaḥ sa ca me priyaḥ .. 15 ..
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ 16 ॥
अनपेक्षः शुचिः दक्षः उदासीनः गत-व्यथः । सर्व-आरम्भ-परित्यागी यः मद्-भक्तः स मे प्रियः ॥ १६ ॥
anapekṣaḥ śuciḥ dakṣaḥ udāsīnaḥ gata-vyathaḥ . sarva-ārambha-parityāgī yaḥ mad-bhaktaḥ sa me priyaḥ .. 16 ..
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ 17 ॥
यः न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभ-अशुभ-परित्यागी भक्तिमान् यः स मे प्रियः ॥ १७ ॥
yaḥ na hṛṣyati na dveṣṭi na śocati na kāṅkṣati . śubha-aśubha-parityāgī bhaktimān yaḥ sa me priyaḥ .. 17 ..
समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ 18 ॥ तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ 19 ॥
समः शत्रौ च मित्रे च तथा मान-अपमानयोः । शीत-उष्ण-सुख-दुःखेषु समः सङ्ग-विवर्जितः ॥ १८ ॥ तुल्य-निन्दा-स्तुतिः मौनी सन्तुष्टः येन केनचिद् । अनिकेतः स्थिर-मतिः भक्तिमान् मे प्रियः नरः ॥ १९ ॥
samaḥ śatrau ca mitre ca tathā māna-apamānayoḥ . śīta-uṣṇa-sukha-duḥkheṣu samaḥ saṅga-vivarjitaḥ .. 18 .. tulya-nindā-stutiḥ maunī santuṣṭaḥ yena kenacid . aniketaḥ sthira-matiḥ bhaktimān me priyaḥ naraḥ .. 19 ..
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ 20 ॥
ये तु धर्म्य-अमृतम् इदम् यथा उक्तम् पर्युपासते । श्रद्दधानाः मद्-परमाः भक्ताः ते अतीव मे प्रियाः ॥ २० ॥
ye tu dharmya-amṛtam idam yathā uktam paryupāsate . śraddadhānāḥ mad-paramāḥ bhaktāḥ te atīva me priyāḥ .. 20 ..
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः ॥12 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे भक्तियोगः नाम द्वादशः अध्यायः ॥१२ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde bhaktiyogaḥ nāma dvādaśaḥ adhyāyaḥ ..12 ..

Ksetra Kshetragya Vibhaga Yoga

Collapse

अथ त्रयोदशोऽध्यायः ।
अथ त्रयोदशः अध्यायः ।
atha trayodaśaḥ adhyāyaḥ .
अर्जुन उवाच / arjuna uvacha
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च । एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ 1 ॥
प्रकृतिम् पुरुषम् च एव क्षेत्रम् क्षेत्रज्ञम् एव च । एतत् वेदितुम् इच्छामि ज्ञानम् ज्ञेयम् च केशव ॥ १ ॥
prakṛtim puruṣam ca eva kṣetram kṣetrajñam eva ca . etat veditum icchāmi jñānam jñeyam ca keśava .. 1 ..
श्रीभगवानुवाच । / sribhagavanuvacha ।
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ 2 ॥
इदम् शरीरम् कौन्तेय क्षेत्रम् इति अभिधीयते । एतत् यः वेत्ति तम् प्राहुः क्षेत्रज्ञः इति तद्-विदः ॥ २ ॥
idam śarīram kaunteya kṣetram iti abhidhīyate . etat yaḥ vetti tam prāhuḥ kṣetrajñaḥ iti tad-vidaḥ .. 2 ..
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ 3 ॥
क्षेत्रज्ञम् च अपि माम् विद्धि सर्व-क्षेत्रेषु भारत । क्षेत्र-क्षेत्रज्ञयोः ज्ञानम् यत् तत् ज्ञानम् मतम् मम ॥ ३ ॥
kṣetrajñam ca api mām viddhi sarva-kṣetreṣu bhārata . kṣetra-kṣetrajñayoḥ jñānam yat tat jñānam matam mama .. 3 ..
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् । स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ 4 ॥
तत् क्षेत्रम् यत् च यादृश् च यत् विकारि यतस् च यत् । स च यः यद्-प्रभावः च तत् समासेन मे शृणु ॥ ४ ॥
tat kṣetram yat ca yādṛś ca yat vikāri yatas ca yat . sa ca yaḥ yad-prabhāvaḥ ca tat samāsena me śṛṇu .. 4 ..
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ 5 ॥
ऋषिभिः बहुधा गीतम् छन्दोभिः विविधैः पृथक् । ब्रह्मसूत्र-पदैः च एव हेतुमद्भिः विनिश्चितैः ॥ ५ ॥
ṛṣibhiḥ bahudhā gītam chandobhiḥ vividhaiḥ pṛthak . brahmasūtra-padaiḥ ca eva hetumadbhiḥ viniścitaiḥ .. 5 ..
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ 6 ॥ इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ 7 ॥
महाभूतानि अहङ्कारः बुद्धिः अव्यक्तम् एव च । इन्द्रियाणि दश एकम् च पञ्च च इन्द्रिय-गोचराः ॥ ६ ॥ इच्छा द्वेषः सुखम् दुःखम् सङ्घातः चेतना धृतिः । एतत् क्षेत्रम् समासेन स विकारम् उदाहृतम् ॥ ७ ॥
mahābhūtāni ahaṅkāraḥ buddhiḥ avyaktam eva ca . indriyāṇi daśa ekam ca pañca ca indriya-gocarāḥ .. 6 .. icchā dveṣaḥ sukham duḥkham saṅghātaḥ cetanā dhṛtiḥ . etat kṣetram samāsena sa vikāram udāhṛtam .. 7 ..
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ 8 ॥ इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ 9 ॥ असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ 10 ॥ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ 11 ॥ अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ 12 ॥
अमानि-त्वम् अदम्भि-त्वम् अहिंसा क्षान्तिः आर्जवम् । आचार्य-उपासनम् शौचम् स्थैर्यम् आत्म-विनिग्रहः ॥ ८ ॥ इन्द्रिय-अर्थेषु वैराग्यम् अनहङ्कारः एव च । जन्म-मृत्यु-जरा-व्याधि-दुःख-दोष-अनुदर्शनम् ॥ ९ ॥ असक्तिः अनभिष्वङ्गः पुत्र-दार-गृह-आदिषु । नित्यम् च सम-चित्त-त्वम् इष्ट-अनिष्ट-उपपत्तिषु ॥ १० ॥ मयि च अन् अन्य-योगेन भक्तिः अव्यभिचारिणी । विविक्त-देश-सेवि-त्वम् अरतिः जन-संसदि ॥ ११ ॥ अध्यात्म-ज्ञान-नित्य-त्वम् तत्त्व-ज्ञान-अर्थ-दर्शनम् । एतत् ज्ञानम् इति प्रोक्तम् अज्ञानम् यत् अतस् अन्यथा ॥ १२ ॥
amāni-tvam adambhi-tvam ahiṃsā kṣāntiḥ ārjavam . ācārya-upāsanam śaucam sthairyam ātma-vinigrahaḥ .. 8 .. indriya-artheṣu vairāgyam anahaṅkāraḥ eva ca . janma-mṛtyu-jarā-vyādhi-duḥkha-doṣa-anudarśanam .. 9 .. asaktiḥ anabhiṣvaṅgaḥ putra-dāra-gṛha-ādiṣu . nityam ca sama-citta-tvam iṣṭa-aniṣṭa-upapattiṣu .. 10 .. mayi ca an anya-yogena bhaktiḥ avyabhicāriṇī . vivikta-deśa-sevi-tvam aratiḥ jana-saṃsadi .. 11 .. adhyātma-jñāna-nitya-tvam tattva-jñāna-artha-darśanam . etat jñānam iti proktam ajñānam yat atas anyathā .. 12 ..
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ 13 ॥
ज्ञेयम् यत् तत् प्रवक्ष्यामि यत् ज्ञात्वा अमृतम् अश्नुते । अनादिमत् परम् ब्रह्म न सत् तत् न असत् उच्यते ॥ १३ ॥
jñeyam yat tat pravakṣyāmi yat jñātvā amṛtam aśnute . anādimat param brahma na sat tat na asat ucyate .. 13 ..
सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ 14 ॥
सर्वतस् पाणि-पादम् तत् सर्वतस् अक्षि-शिरः-मुखम् । सर्वतस् श्रुतिमत् लोके सर्वम् आवृत्य तिष्ठति ॥ १४ ॥
sarvatas pāṇi-pādam tat sarvatas akṣi-śiraḥ-mukham . sarvatas śrutimat loke sarvam āvṛtya tiṣṭhati .. 14 ..
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ 15 ॥
सर्व-इन्द्रिय-गुण-आभासम् सर्व-इन्द्रिय-विवर्जितम् । असक्तम् सर्व-भृत् च एव निर्गुणम् गुण-भोक्तृ च ॥ १५ ॥
sarva-indriya-guṇa-ābhāsam sarva-indriya-vivarjitam . asaktam sarva-bhṛt ca eva nirguṇam guṇa-bhoktṛ ca .. 15 ..
बहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ 16 ॥
बहिस् अन्तर् च भूतानाम् अचरम् चरम् एव च । सूक्ष्म-त्वात् तत् अविज्ञेयम् दूर-स्थम् च अन्तिके च तत् ॥ १६ ॥
bahis antar ca bhūtānām acaram caram eva ca . sūkṣma-tvāt tat avijñeyam dūra-stham ca antike ca tat .. 16 ..
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ 17 ॥
अविभक्तम् च भूतेषु विभक्तम् इव च स्थितम् । भूत-भर्तृ च तत् ज्ञेयम् ग्रसिष्णु प्रभविष्णु च ॥ १७ ॥
avibhaktam ca bhūteṣu vibhaktam iva ca sthitam . bhūta-bhartṛ ca tat jñeyam grasiṣṇu prabhaviṣṇu ca .. 17 ..
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ 18 ॥
ज्योतिषाम् अपि तत् ज्योतिः तमसः परम् उच्यते । ज्ञानम् ज्ञेयम् ज्ञान-गम्यम् हृदि सर्वस्य विष्ठितम् ॥ १८ ॥
jyotiṣām api tat jyotiḥ tamasaḥ param ucyate . jñānam jñeyam jñāna-gamyam hṛdi sarvasya viṣṭhitam .. 18 ..
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ 19 ॥
इति क्षेत्रम् तथा ज्ञानम् ज्ञेयम् च उक्तम् समासतस् । मद्-भक्तः एतत् विज्ञाय मद्-भावाय उपपद्यते ॥ १९ ॥
iti kṣetram tathā jñānam jñeyam ca uktam samāsatas . mad-bhaktaḥ etat vijñāya mad-bhāvāya upapadyate .. 19 ..
प्रकृतिं पुरुषं चैव विद्ध्यनादि उभावपि । विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ 20 ॥
प्रकृतिम् पुरुषम् च एव विद्धि अनादि उभौ अपि । विकारान् च गुणान् च एव विद्धि प्रकृति-सम्भवान् ॥ २० ॥
prakṛtim puruṣam ca eva viddhi anādi ubhau api . vikārān ca guṇān ca eva viddhi prakṛti-sambhavān .. 20 ..
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ 21 ॥
कार्य-कारण-कर्तृ-त्वे हेतुः प्रकृतिः उच्यते । पुरुषः सुख-दुःखानाम् भोक्तृ-त्वे हेतुः उच्यते ॥ २१ ॥
kārya-kāraṇa-kartṛ-tve hetuḥ prakṛtiḥ ucyate . puruṣaḥ sukha-duḥkhānām bhoktṛ-tve hetuḥ ucyate .. 21 ..
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ 22 ॥
पुरुषः प्रकृति-स्थः हि भुङ्क्ते प्रकृति-जान् गुणान् । कारणम् गुण-सङ्गः अस्य सत्-असत्-योनि-जन्मसु ॥ २२ ॥
puruṣaḥ prakṛti-sthaḥ hi bhuṅkte prakṛti-jān guṇān . kāraṇam guṇa-saṅgaḥ asya sat-asat-yoni-janmasu .. 22 ..
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ 23 ॥
उपद्रष्टा अनुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मा इति च अपि उक्तः देहे अस्मिन् पुरुषः परः ॥ २३ ॥
upadraṣṭā anumantā ca bhartā bhoktā maheśvaraḥ . paramātmā iti ca api uktaḥ dehe asmin puruṣaḥ paraḥ .. 23 ..
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ 24 ॥
यः एवम् वेत्ति पुरुषम् प्रकृतिम् च गुणैः सह । सर्वथा वर्तमानः अपि न स भूयस् अभिजायते ॥ २४ ॥
yaḥ evam vetti puruṣam prakṛtim ca guṇaiḥ saha . sarvathā vartamānaḥ api na sa bhūyas abhijāyate .. 24 ..
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ 25 ॥
ध्यानेन आत्मनि पश्यन्ति केचिद् आत्मानम् आत्मना । अन्ये साङ्ख्येन योगेन कर्म-योगेन च अपरे ॥ २५ ॥
dhyānena ātmani paśyanti kecid ātmānam ātmanā . anye sāṅkhyena yogena karma-yogena ca apare .. 25 ..
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ 26 ॥
अन्ये तु एवम् अ जानन्तः श्रुत्वा अन्येभ्यः उपासते । ते अपि च अतितरन्ति एव मृत्युम् श्रुति-परायणाः ॥ २६ ॥
anye tu evam a jānantaḥ śrutvā anyebhyaḥ upāsate . te api ca atitaranti eva mṛtyum śruti-parāyaṇāḥ .. 26 ..
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् । क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ 27 ॥
यावत् सञ्जायते किञ्चिद् सत्त्वम् स्थावर-जङ्गमम् । क्षेत्र-क्षेत्रज्ञ-संयोगात् तत् विद्धि भरत-ऋषभ ॥ २७ ॥
yāvat sañjāyate kiñcid sattvam sthāvara-jaṅgamam . kṣetra-kṣetrajña-saṃyogāt tat viddhi bharata-ṛṣabha .. 27 ..
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ 28 ॥
समम् सर्वेषु भूतेषु तिष्ठन्तम् परमेश्वरम् । विनश्यत्-स्व-विनश्यन्तम् यः पश्यति स पश्यति ॥ २८ ॥
samam sarveṣu bhūteṣu tiṣṭhantam parameśvaram . vinaśyat-sva-vinaśyantam yaḥ paśyati sa paśyati .. 28 ..
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ 29 ॥
समम् पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् । न हिनस्ति आत्मना आत्मानम् ततस् याति पराम् गतिम् ॥ २९ ॥
samam paśyan hi sarvatra samavasthitam īśvaram . na hinasti ātmanā ātmānam tatas yāti parām gatim .. 29 ..
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ 30 ॥
प्रकृत्या एव च कर्माणि क्रियमाणानि सर्वशस् । यः पश्यति तथा आत्मानम् अकर्तारम् स पश्यति ॥ ३० ॥
prakṛtyā eva ca karmāṇi kriyamāṇāni sarvaśas . yaḥ paśyati tathā ātmānam akartāram sa paśyati .. 30 ..
यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ 31 ॥
यदा भूत-पृथग्भावम् एकस्थम् अनुपश्यति । ततस् एव च विस्तारम् ब्रह्म सम्पद्यते तदा ॥ ३१ ॥
yadā bhūta-pṛthagbhāvam ekastham anupaśyati . tatas eva ca vistāram brahma sampadyate tadā .. 31 ..
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ 32 ॥
अनादि-त्वात् निर्गुण-त्वात् परमात्मा अयम् अव्ययः । शरीर-स्थः अपि कौन्तेय न करोति न लिप्यते ॥ ३२ ॥
anādi-tvāt nirguṇa-tvāt paramātmā ayam avyayaḥ . śarīra-sthaḥ api kaunteya na karoti na lipyate .. 32 ..
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ 33 ॥
यथा सर्व-गतम् सौक्ष्म्यात् आकाशम् न उपलिप्यते । सर्वत्र अवस्थितः देहे तथा आत्मा न उपलिप्यते ॥ ३३ ॥
yathā sarva-gatam saukṣmyāt ākāśam na upalipyate . sarvatra avasthitaḥ dehe tathā ātmā na upalipyate .. 33 ..
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ 34 ॥
यथा प्रकाशयति एकः कृत्स्नम् लोकम् इमम् रविः । क्षेत्रम् क्षेत्री तथा कृत्स्नम् प्रकाशयति भारत ॥ ३४ ॥
yathā prakāśayati ekaḥ kṛtsnam lokam imam raviḥ . kṣetram kṣetrī tathā kṛtsnam prakāśayati bhārata .. 34 ..
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ 35 ॥
क्षेत्र-क्षेत्रज्ञयोः एवम् अन्तरम् ज्ञानचक्षुषा । भूत-प्रकृति-मोक्षम् च ये विदुः यान्ति ते परम् ॥ ३५ ॥
kṣetra-kṣetrajñayoḥ evam antaram jñānacakṣuṣā . bhūta-prakṛti-mokṣam ca ye viduḥ yānti te param .. 35 ..
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ॥13 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे क्षेत्रक्षेत्रज्ञविभागयोगः नाम त्रयोदशः अध्यायः ॥१३ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde kṣetrakṣetrajñavibhāgayogaḥ nāma trayodaśaḥ adhyāyaḥ ..13 ..

Guntraya Vibhaga Yoga

Collapse

अथ चतुर्दशोऽध्यायः ।
अथ चतुर्दशः अध्यायः ।
atha caturdaśaḥ adhyāyaḥ .
श्रीभगवानुवाच । / sribhagavanuvacha ।
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । ॥ यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ 1 ॥
परम् भूयस् प्रवक्ष्यामि ज्ञानानाम् ज्ञानम् उत्तमम् । ॥ यत् ज्ञात्वा मुनयः सर्वे पराम् सिद्धिम् इतस् गताः ॥ १ ॥
param bhūyas pravakṣyāmi jñānānām jñānam uttamam . .. yat jñātvā munayaḥ sarve parām siddhim itas gatāḥ .. 1 ..
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ 2 ॥
इदम् ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः । सर्गे अपि ना उपजायन्ते प्रलये न व्यथन्ति च ॥ २ ॥
idam jñānam upāśritya mama sādharmyam āgatāḥ . sarge api nā upajāyante pralaye na vyathanti ca .. 2 ..
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारत ॥ 3 ॥
मम योनिः महत् ब्रह्म तस्मिन् गर्भम् दधामि अहम् । सम्भवः सर्व-भूतानाम् ततस् भवति भारत ॥ ३ ॥
mama yoniḥ mahat brahma tasmin garbham dadhāmi aham . sambhavaḥ sarva-bhūtānām tatas bhavati bhārata .. 3 ..
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ 4 ॥
सर्व-योनिषु कौन्तेय मूर्तयः सम्भवन्ति याः । तासाम् ब्रह्म महत् योनिः अहम् बीज-प्रदः पिता ॥ ४ ॥
sarva-yoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ . tāsām brahma mahat yoniḥ aham bīja-pradaḥ pitā .. 4 ..
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ 5 ॥
सत्त्वम् रजः तमः इति गुणाः प्रकृति-सम्भवाः । निबध्नन्ति महा-बाहो देहे देहिनम् अव्ययम् ॥ ५ ॥
sattvam rajaḥ tamaḥ iti guṇāḥ prakṛti-sambhavāḥ . nibadhnanti mahā-bāho dehe dehinam avyayam .. 5 ..
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ 6 ॥
तत्र सत्त्वम् निर्मल-त्वात् प्रकाशकम् अनामयम् । सुख-सङ्गेन बध्नाति ज्ञान-सङ्गेन च अनघ ॥ ६ ॥
tatra sattvam nirmala-tvāt prakāśakam anāmayam . sukha-saṅgena badhnāti jñāna-saṅgena ca anagha .. 6 ..
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ 7 ॥
रजः राग-आत्मकम् विद्धि तृष्णा-सङ्ग-समुद्भवम् । तत् निबध्नाति कौन्तेय कर्म-सङ्गेन देहिनम् ॥ ७ ॥
rajaḥ rāga-ātmakam viddhi tṛṣṇā-saṅga-samudbhavam . tat nibadhnāti kaunteya karma-saṅgena dehinam .. 7 ..
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ 8 ॥
तमः तु अज्ञान-जम् विद्धि मोहनम् सर्व-देहिनाम् । प्रमाद-आलस्य-निद्राभिः तत् निबध्नाति भारत ॥ ८ ॥
tamaḥ tu ajñāna-jam viddhi mohanam sarva-dehinām . pramāda-ālasya-nidrābhiḥ tat nibadhnāti bhārata .. 8 ..
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ 9 ॥
सत्त्वम् सुखे सञ्जयति रजः कर्मणि भारत । ज्ञानम् आवृत्य तु तमः प्रमादे सञ्जयति उत ॥ ९ ॥
sattvam sukhe sañjayati rajaḥ karmaṇi bhārata . jñānam āvṛtya tu tamaḥ pramāde sañjayati uta .. 9 ..
रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ 10 ॥
रजः तमः च अभिभूय सत्त्वम् भवति भारत । रजः सत्त्वम् तमः च एव तमः सत्त्वम् रजः तथा ॥ १० ॥
rajaḥ tamaḥ ca abhibhūya sattvam bhavati bhārata . rajaḥ sattvam tamaḥ ca eva tamaḥ sattvam rajaḥ tathā .. 10 ..
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ 11 ॥
सर्व-द्वारेषु देहे अस्मिन् प्रकाशः उपजायते । ज्ञानम् यदा तदा विद्यात् विवृद्धम् सत्त्वम् इति उत ॥ ११ ॥
sarva-dvāreṣu dehe asmin prakāśaḥ upajāyate . jñānam yadā tadā vidyāt vivṛddham sattvam iti uta .. 11 ..
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ 12 ॥
लोभः प्रवृत्तिः आरम्भः कर्मणाम् अशमः स्पृहा । रजसि एतानि जायन्ते विवृद्धे भरत-ऋषभ ॥ १२ ॥
lobhaḥ pravṛttiḥ ārambhaḥ karmaṇām aśamaḥ spṛhā . rajasi etāni jāyante vivṛddhe bharata-ṛṣabha .. 12 ..
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ 13 ॥
अप्रकाशः अप्रवृत्तिः च प्रमादः मोहः एव च । तमसि एतानि जायन्ते विवृद्धे कुरु-नन्दन ॥ १३ ॥
aprakāśaḥ apravṛttiḥ ca pramādaḥ mohaḥ eva ca . tamasi etāni jāyante vivṛddhe kuru-nandana .. 13 ..
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ 14 ॥
यदा सत्त्वे प्रवृद्धे तु प्रलयम् याति देहभृत् । तदा उत्तम-विदाम् लोकान् अमलान् प्रतिपद्यते ॥ १४ ॥
yadā sattve pravṛddhe tu pralayam yāti dehabhṛt . tadā uttama-vidām lokān amalān pratipadyate .. 14 ..
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ 15 ॥
रजसि प्रलयम् गत्वा कर्म-सङ्गिषु जायते । तथा प्रलीनः तमसि मूढ-योनिषु जायते ॥ १५ ॥
rajasi pralayam gatvā karma-saṅgiṣu jāyate . tathā pralīnaḥ tamasi mūḍha-yoniṣu jāyate .. 15 ..
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ 16 ॥
कर्मणः सु कृतस्य आहुः सात्त्विकम् निर्मलम् फलम् । रजसः तु फलम् दुःखम् अज्ञानम् तमसः फलम् ॥ १६ ॥
karmaṇaḥ su kṛtasya āhuḥ sāttvikam nirmalam phalam . rajasaḥ tu phalam duḥkham ajñānam tamasaḥ phalam .. 16 ..
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ 17 ॥
सत्त्वात् सञ्जायते ज्ञानम् रजसः लोभः एव च । प्रमाद-मोहौ तमसः भवतः अज्ञानम् एव च ॥ १७ ॥
sattvāt sañjāyate jñānam rajasaḥ lobhaḥ eva ca . pramāda-mohau tamasaḥ bhavataḥ ajñānam eva ca .. 17 ..
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ 18 ॥
ऊर्ध्वम् गच्छन्ति सत्त्व-स्थाः मध्ये तिष्ठन्ति राजसाः । जघन्य-गुण-वृत्ति-स्थाः अधस् गच्छन्ति तामसाः ॥ १८ ॥
ūrdhvam gacchanti sattva-sthāḥ madhye tiṣṭhanti rājasāḥ . jaghanya-guṇa-vṛtti-sthāḥ adhas gacchanti tāmasāḥ .. 18 ..
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भआवं सोऽधिगच्छति ॥ 19 ॥
न अन्यम् गुणेभ्यः कर्तारम् यदा द्रष्टा अनुपश्यति । गुणेभ्यः च परम् वेत्ति मद्-भआवम् सः अधिगच्छति ॥ १९ ॥
na anyam guṇebhyaḥ kartāram yadā draṣṭā anupaśyati . guṇebhyaḥ ca param vetti mad-bhaāvam saḥ adhigacchati .. 19 ..
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् । जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नउते ॥ 20 ॥
गुणान् एतान् अतीत्य त्रीन् देही देह-समुद्भवान् । जन्म-मृत्यु-जरा-दुःखैः विमुक्तः अमृतम् अश्नौते ॥ २० ॥
guṇān etān atītya trīn dehī deha-samudbhavān . janma-mṛtyu-jarā-duḥkhaiḥ vimuktaḥ amṛtam aśnaute .. 20 ..
अर्जुन उवाच / arjuna uvacha
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो । किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥ 21 ॥
कैः लिङ्गैः त्रीन् गुणान् एतान् अतीतः भवति प्रभो । किमाचारः कथम् च एतान् त्रीन् गुणान् अतिवर्तते ॥ २१ ॥
kaiḥ liṅgaiḥ trīn guṇān etān atītaḥ bhavati prabho . kimācāraḥ katham ca etān trīn guṇān ativartate .. 21 ..
श्रीभगवानुवाच । / sribhagavanuvacha ।
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ 22 ॥ उदासीनवदासीनो गुणैर्यो न विचाल्यते । गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ॥ 23 ॥ समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः । तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ 24 ॥ मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ 25 ॥
प्रकाशम् च प्रवृत्तिम् च मोहम् एव च पाण्डव । न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ २२ ॥ उदासीन-वत् आसीनः गुणैः यः न विचाल्यते । गुणाः वर्तन्ते इति एवम् यः अवतिष्ठति न इङ्गते ॥ २३ ॥ सम-दुःख-सुखः स्वस्थः सम-लोष्ट-अश्म-काञ्चनः । तुल्य-प्रिय-अप्रियः धीरः तुल्य-निन्दा-आत्म-संस्तुतिः ॥ २४ ॥ मान-अपमानयोः तुल्यः तुल्यः मित्र-अरि-पक्षयोः । सर्व-आरम्भ-परित्यागी गुण-अतीतः सः उच्यते ॥ २५ ॥
prakāśam ca pravṛttim ca moham eva ca pāṇḍava . na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati .. 22 .. udāsīna-vat āsīnaḥ guṇaiḥ yaḥ na vicālyate . guṇāḥ vartante iti evam yaḥ avatiṣṭhati na iṅgate .. 23 .. sama-duḥkha-sukhaḥ svasthaḥ sama-loṣṭa-aśma-kāñcanaḥ . tulya-priya-apriyaḥ dhīraḥ tulya-nindā-ātma-saṃstutiḥ .. 24 .. māna-apamānayoḥ tulyaḥ tulyaḥ mitra-ari-pakṣayoḥ . sarva-ārambha-parityāgī guṇa-atītaḥ saḥ ucyate .. 25 ..
मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ 26 ॥
माम् च यः अव्यभिचारेण भक्ति-योगेन सेवते । स गुणान् समतीत्य एतान् ब्रह्म-भूयाय कल्पते ॥ २६ ॥
mām ca yaḥ avyabhicāreṇa bhakti-yogena sevate . sa guṇān samatītya etān brahma-bhūyāya kalpate .. 26 ..
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ 27 ॥
ब्रह्मणः हि प्रतिष्ठा अहम् अमृतस्य अव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्य ऐकान्तिकस्य च ॥ २७ ॥
brahmaṇaḥ hi pratiṣṭhā aham amṛtasya avyayasya ca . śāśvatasya ca dharmasya sukhasya aikāntikasya ca .. 27 ..
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ॥14 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे गुणत्रयविभागयोगः नाम चतुर्दशः अध्यायः ॥१४ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde guṇatrayavibhāgayogaḥ nāma caturdaśaḥ adhyāyaḥ ..14 ..

Purusha Uttama Yoga

Collapse

अथ पञ्चदशोऽध्यायः ।
अथ पञ्चदशः अध्यायः ।
atha pañcadaśaḥ adhyāyaḥ .
श्रीभगवानुवाच । / sribhagavanuvacha ।
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ 1 ॥
ऊर्ध्व-मूलम् अधस् शाखम् अश्वत्थम् प्राहुः अव्ययम् । छन्दांसि यस्य पर्णानि यः तम् वेद स वेद-विद् ॥ १ ॥
ūrdhva-mūlam adhas śākham aśvattham prāhuḥ avyayam . chandāṃsi yasya parṇāni yaḥ tam veda sa veda-vid .. 1 ..
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः। अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ 2 ॥
अधस् च ऊर्ध्वम् प्रसृताः तस्य शाखाः गुण-प्रवृद्धाः विषय-प्रवालाः। अधस् च मूलानि अनुसन्ततानि कर्म-अनुबन्धीनि मनुष्य-लोके ॥ २ ॥
adhas ca ūrdhvam prasṛtāḥ tasya śākhāḥ guṇa-pravṛddhāḥ viṣaya-pravālāḥ. adhas ca mūlāni anusantatāni karma-anubandhīni manuṣya-loke .. 2 ..
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा। अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ॥ 3 ॥
न रूपम् अस्य इह तथा उपलभ्यते न अन्तः न च आदिः न च सम्प्रतिष्ठा। अश्वत्थम् एनम् सु विरूढ-मूलम् असङ्ग-शस्त्रेण दृढेन छित्त्वा ॥ ३ ॥
na rūpam asya iha tathā upalabhyate na antaḥ na ca ādiḥ na ca sampratiṣṭhā. aśvattham enam su virūḍha-mūlam asaṅga-śastreṇa dṛḍhena chittvā .. 3 ..
ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः। तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥ 4 ॥
ततस् पदम् तत् परिमार्गितव्यम् यस्मिन् गताः न निवर्तन्ति भूयस्। तम् एव च आद्यम् पुरुषम् प्रपद्ये यतस् प्रवृत्तिः प्रसृता पुराणी ॥ ४ ॥
tatas padam tat parimārgitavyam yasmin gatāḥ na nivartanti bhūyas. tam eva ca ādyam puruṣam prapadye yatas pravṛttiḥ prasṛtā purāṇī .. 4 ..
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः। द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ 5 ॥
निर्मान-मोहाः जित-सङ्ग-दोषाः अध्यात्म-नित्याः विनिवृत्त-कामाः। द्वन्द्वैः विमुक्ताः सुख-दुःख-सञ्ज्ञैः गच्छन्ति अमूढाः पदम् अव्ययम् तत् ॥ ५ ॥
nirmāna-mohāḥ jita-saṅga-doṣāḥ adhyātma-nityāḥ vinivṛtta-kāmāḥ. dvandvaiḥ vimuktāḥ sukha-duḥkha-sañjñaiḥ gacchanti amūḍhāḥ padam avyayam tat .. 5 ..
न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ 6 ॥
न तत् भासयते सूर्यः न शशाङ्कः न पावकः । यत् गत्वा न निवर्तन्ते तत् धाम परमम् मम ॥ ६ ॥
na tat bhāsayate sūryaḥ na śaśāṅkaḥ na pāvakaḥ . yat gatvā na nivartante tat dhāma paramam mama .. 6 ..
ममैवांशो जीवलोके जीवभूतः सनातनः । मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ 7 ॥
मम एव अंशः जीव-लोके जीव-भूतः सनातनः । मनः-षष्ठानि इन्द्रियाणि प्रकृति-स्थानि कर्षति ॥ ७ ॥
mama eva aṃśaḥ jīva-loke jīva-bhūtaḥ sanātanaḥ . manaḥ-ṣaṣṭhāni indriyāṇi prakṛti-sthāni karṣati .. 7 ..
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ 8 ॥
शरीरम् यत् अवाप्नोति यत् च अपि उत्क्रामति ईश्वरः । गृहीत्वा एतानि संयाति वायुः गन्धान् इव आशयात् ॥ ८ ॥
śarīram yat avāpnoti yat ca api utkrāmati īśvaraḥ . gṛhītvā etāni saṃyāti vāyuḥ gandhān iva āśayāt .. 8 ..
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ 9 ॥
श्रोत्रम् चक्षुः स्पर्शनम् च रसनम् घ्राणम् एव च । अधिष्ठाय मनः च अयम् विषयान् उपसेवते ॥ ९ ॥
śrotram cakṣuḥ sparśanam ca rasanam ghrāṇam eva ca . adhiṣṭhāya manaḥ ca ayam viṣayān upasevate .. 9 ..
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ 10 ॥
उत्क्रामन्तम् स्थितम् वा अपि भुञ्जानम् वा गुण-अन्वितम् । विमूढाः न अनुपश्यन्ति पश्यन्ति ज्ञान-चक्षुषः ॥ १० ॥
utkrāmantam sthitam vā api bhuñjānam vā guṇa-anvitam . vimūḍhāḥ na anupaśyanti paśyanti jñāna-cakṣuṣaḥ .. 10 ..
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ 11 ॥
यतन्तः योगिनः च एनम् पश्यन्ति आत्मनि अवस्थितम् । यतन्तः अपि अकृतात्मानः न एनम् पश्यन्ति अचेतसः ॥ ११ ॥
yatantaḥ yoginaḥ ca enam paśyanti ātmani avasthitam . yatantaḥ api akṛtātmānaḥ na enam paśyanti acetasaḥ .. 11 ..
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ 12 ॥
यत् आदित्य-गतम् तेजः जगत् भासयते अखिलम् । यत् चन्द्रमसि यत् च अग्नौ तत् तेजः विद्धि मामकम् ॥ १२ ॥
yat āditya-gatam tejaḥ jagat bhāsayate akhilam . yat candramasi yat ca agnau tat tejaḥ viddhi māmakam .. 12 ..
गामाविश्य च भूतानि धारयाम्यहमोजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ 13 ॥
गाम् आविश्य च भूतानि धारयामि अहम् ओजसा । पुष्णामि च ओषधीः सर्वाः सोमः भूत्वा रस-आत्मकः ॥ १३ ॥
gām āviśya ca bhūtāni dhārayāmi aham ojasā . puṣṇāmi ca oṣadhīḥ sarvāḥ somaḥ bhūtvā rasa-ātmakaḥ .. 13 ..
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ 14 ॥
अहम् वैश्वानरः भूत्वा प्राणिनाम् देहम् आश्रितः । प्राण-अपान-समायुक्तः पचामि अन्नम् चतुर्विधम् ॥ १४ ॥
aham vaiśvānaraḥ bhūtvā prāṇinām deham āśritaḥ . prāṇa-apāna-samāyuktaḥ pacāmi annam caturvidham .. 14 ..
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च। वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ 15 ॥
सर्वस्य च अहम् हृदि सन्निविष्टः मत्तः स्मृतिः ज्ञानम् अपोहनम् च। वेदैः च सर्वैः अहम् एव वेद्यः वेदान्त-कृत् वेद-विद् एव च अहम् ॥ १५ ॥
sarvasya ca aham hṛdi sanniviṣṭaḥ mattaḥ smṛtiḥ jñānam apohanam ca. vedaiḥ ca sarvaiḥ aham eva vedyaḥ vedānta-kṛt veda-vid eva ca aham .. 15 ..
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ 16 ॥
द्वौ इमौ पुरुषौ लोके क्षरः च अक्षरः एव च । क्षरः सर्वाणि भूतानि कूटस्थः अक्षरः उच्यते ॥ १६ ॥
dvau imau puruṣau loke kṣaraḥ ca akṣaraḥ eva ca . kṣaraḥ sarvāṇi bhūtāni kūṭasthaḥ akṣaraḥ ucyate .. 16 ..
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युधाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ 17 ॥
उत्तमः पुरुषः तु अन्यः परमात्मा इति उधा आहृतः । यः लोकत्रयम् आविश्य बिभर्ति अव्ययः ईश्वरः ॥ १७ ॥
uttamaḥ puruṣaḥ tu anyaḥ paramātmā iti udhā āhṛtaḥ . yaḥ lokatrayam āviśya bibharti avyayaḥ īśvaraḥ .. 17 ..
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ 18 ॥
यस्मात् क्षरम् अतीतः अहम् अक्षरात् अपि च उत्तमः । अतस् अस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १८ ॥
yasmāt kṣaram atītaḥ aham akṣarāt api ca uttamaḥ . atas asmi loke vede ca prathitaḥ puruṣottamaḥ .. 18 ..
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥ 19 ॥
यः माम् एवम् असम्मूढः जानाति पुरुषोत्तमम् । स सर्व-विद् भजति माम् सर्व-भावेन भारत ॥ १९ ॥
yaḥ mām evam asammūḍhaḥ jānāti puruṣottamam . sa sarva-vid bhajati mām sarva-bhāvena bhārata .. 19 ..
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ 20 ॥
इति गुह्यतमम् शास्त्रम् इदम् उक्तम् मया अनघ । एतत् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यः च भारत ॥ २० ॥
iti guhyatamam śāstram idam uktam mayā anagha . etat buddhvā buddhimān syāt kṛtakṛtyaḥ ca bhārata .. 20 ..
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥15 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे पुरुषोत्तमयोगः नाम पञ्चदशः अध्यायः ॥१५ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde puruṣottamayogaḥ nāma pañcadaśaḥ adhyāyaḥ ..15 ..

Deva Asura Sampad Vibhaaga Yoga

Collapse

अथ षोडशोऽध्यायः ।
अथ षोडशः अध्यायः ।
atha ṣoḍaśaḥ adhyāyaḥ .
श्रीभगवानुवाच । / sribhagavanuvacha ।
अभयं सत्त्वसंशउद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ 1 ॥ अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशउनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ 2 ॥ तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ 3 ॥
अभयम् । दानम् दमः च यज्ञः च स्वाध्यायः तपः आर्जवम् ॥ १ ॥ अहिंसा सत्यम् अक्रोधः त्यागः शान्तिः अपैशौनम् । दया भूतेषु अ लोलुप्त्वम् मार्दवम् ह्रीः अचापलम् ॥ २ ॥ तेजः क्षमा धृतिः शौचम् अद्रोहः न अतिमानि-ता । भवन्ति सम्पदम् दैवीम् अभिजातस्य भारत ॥ ३ ॥
abhayam . dānam damaḥ ca yajñaḥ ca svādhyāyaḥ tapaḥ ārjavam .. 1 .. ahiṃsā satyam akrodhaḥ tyāgaḥ śāntiḥ apaiśaunam . dayā bhūteṣu a loluptvam mārdavam hrīḥ acāpalam .. 2 .. tejaḥ kṣamā dhṛtiḥ śaucam adrohaḥ na atimāni-tā . bhavanti sampadam daivīm abhijātasya bhārata .. 3 ..
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ 4 ॥
दम्भः दर्पः अभिमानः च क्रोधः पारुष्यम् एव च । अज्ञानम् च अभिजातस्य पार्थ सम्पदम् आसुरीम् ॥ ४ ॥
dambhaḥ darpaḥ abhimānaḥ ca krodhaḥ pāruṣyam eva ca . ajñānam ca abhijātasya pārtha sampadam āsurīm .. 4 ..
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता । मा शउचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ 5 ॥
दैवी सम्पद् विमोक्षाय निबन्धाय आसुरी मता । मा शौचः सम्पदम् दैवीम् अभिजातः असि पाण्डव ॥ ५ ॥
daivī sampad vimokṣāya nibandhāya āsurī matā . mā śaucaḥ sampadam daivīm abhijātaḥ asi pāṇḍava .. 5 ..
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शऋणु ॥ 6 ॥
द्वौ भूत-सर्गौ लोके अस्मिन् दैवः आसुरः एव च । दैवः विस्तरशः प्रोक्तः आसुरम् पार्थ मे शऋणु ॥ ६ ॥
dvau bhūta-sargau loke asmin daivaḥ āsuraḥ eva ca . daivaḥ vistaraśaḥ proktaḥ āsuram pārtha me śaṛṇu .. 6 ..
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ 7 ॥
प्रवृत्तिम् च निवृत्तिम् च जनाः न विदुः आसुराः । न शौचम् ना अपि च आचारः न सत्यम् तेषु विद्यते ॥ ७ ॥
pravṛttim ca nivṛttim ca janāḥ na viduḥ āsurāḥ . na śaucam nā api ca ācāraḥ na satyam teṣu vidyate .. 7 ..
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ 8 ॥
असत्यम् अप्रतिष्ठम् ते जगत् आहुः अनीश्वरम् । अ परस्पर-सम्भूतम् किम् अन्यत् काम-हैतुकम् ॥ ८ ॥
asatyam apratiṣṭham te jagat āhuḥ anīśvaram . a paraspara-sambhūtam kim anyat kāma-haitukam .. 8 ..
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ 9 ॥
एताम् दृष्टिम् अवष्टभ्य नष्ट-आत्मानः अल्पबुद्धयः । प्रभवन्ति उग्र-कर्माणः क्षयाय जगतः अहिताः ॥ ९ ॥
etām dṛṣṭim avaṣṭabhya naṣṭa-ātmānaḥ alpabuddhayaḥ . prabhavanti ugra-karmāṇaḥ kṣayāya jagataḥ ahitāḥ .. 9 ..
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशउचिव्रताः ॥ 10 ॥
कामम् आश्रित्य दुष्पूरम् दम्भ-मान-मद-अन्विताः । मोहात् गृहीत्वा असत्-ग्राहान् प्रवर्तन्ते अशौचि-व्रताः ॥ १० ॥
kāmam āśritya duṣpūram dambha-māna-mada-anvitāḥ . mohāt gṛhītvā asat-grāhān pravartante aśauci-vratāḥ .. 10 ..
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः । कामोपभोगपरमा एतावदिति निश्चिताः ॥ 11 ॥ आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ 12 ॥
चिन्ताम् अपरिमेयाम् च प्रलय-अन्ताम् उपाश्रिताः । काम-उपभोग-परमाः एतावत् इति निश्चिताः ॥ ११ ॥ आशा-पाश-शतैः बद्धाः काम-क्रोध-परायणाः । ईहन्ते काम-भोग-अर्थम् अन्यायेन अर्थ-सञ्चयान् ॥ १२ ॥
cintām aparimeyām ca pralaya-antām upāśritāḥ . kāma-upabhoga-paramāḥ etāvat iti niścitāḥ .. 11 .. āśā-pāśa-śataiḥ baddhāḥ kāma-krodha-parāyaṇāḥ . īhante kāma-bhoga-artham anyāyena artha-sañcayān .. 12 ..
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ 13 ॥ असौ मया हतः शत्रुर्हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ 14 ॥ आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ 15 ॥
इदम् अद्य मया लब्धम् इमम् प्राप्स्ये मनोरथम् । इदम् अस्ति इदम् अपि मे भविष्यति पुनर् धनम् ॥ १३ ॥ असौ मया हतः शत्रुः हनिष्ये च अपरान् अपि । ईश्वरः अहम् अहम् भोगी सिद्धः अहम् बलवान् सुखी ॥ १४ ॥ आढ्यः अभिजनवान् अस्मि कः अन्यः अस्ति सदृशः मया । यक्ष्ये दास्यामि मोदिष्ये इति अज्ञान-विमोहिताः ॥ १५ ॥
idam adya mayā labdham imam prāpsye manoratham . idam asti idam api me bhaviṣyati punar dhanam .. 13 .. asau mayā hataḥ śatruḥ haniṣye ca aparān api . īśvaraḥ aham aham bhogī siddhaḥ aham balavān sukhī .. 14 .. āḍhyaḥ abhijanavān asmi kaḥ anyaḥ asti sadṛśaḥ mayā . yakṣye dāsyāmi modiṣye iti ajñāna-vimohitāḥ .. 15 ..
अनेकचित्तविभ्रान्ता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशउचौ ॥ 16 ॥
अनेक-चित्त-विभ्रान्ताः मोह-जाल-समावृताः । प्रसक्ताः काम-भोगेषु पतन्ति नरके अशौचौ ॥ १६ ॥
aneka-citta-vibhrāntāḥ moha-jāla-samāvṛtāḥ . prasaktāḥ kāma-bhogeṣu patanti narake aśaucau .. 16 ..
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः । यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ 17 ॥
आत्म-सम्भाविताः स्तब्धाः धन-मान-मद-अन्विताः । यजन्ते नाम-यज्ञैः ते दम्भेन अ विधि-पूर्वकम् ॥ १७ ॥
ātma-sambhāvitāḥ stabdhāḥ dhana-māna-mada-anvitāḥ . yajante nāma-yajñaiḥ te dambhena a vidhi-pūrvakam .. 17 ..
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ 18 ॥
अहङ्कारम् बलम् दर्पम् कामम् क्रोधम् च संश्रिताः । माम् आत्म-पर-देहेषु प्रद्विषन्तः अभ्यसूयकाः ॥ १८ ॥
ahaṅkāram balam darpam kāmam krodham ca saṃśritāḥ . mām ātma-para-deheṣu pradviṣantaḥ abhyasūyakāḥ .. 18 ..
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्यजस्रमशउभानासुरीष्वेव योनिषु ॥ 19 ॥
तान् अहम् द्विषतः क्रूरान् संसारेषु नर-अधमान् । क्षिपामि अजस्रम् अशौभान् आसुरीषु एव योनिषु ॥ १९ ॥
tān aham dviṣataḥ krūrān saṃsāreṣu nara-adhamān . kṣipāmi ajasram aśaubhān āsurīṣu eva yoniṣu .. 19 ..
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ 20 ॥
आसुरीम् योनिम् आपन्नाः मूढाः जन्मनि जन्मनि । माम् अ प्राप्य एव कौन्तेय ततस् यान्ति अधमाम् गतिम् ॥ २० ॥
āsurīm yonim āpannāḥ mūḍhāḥ janmani janmani . mām a prāpya eva kaunteya tatas yānti adhamām gatim .. 20 ..
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ 21 ॥
त्रिविधम् नरकस्य इदम् द्वारम् नाशनम् आत्मनः । कामः क्रोधः तथा लोभः तस्मात् एतत् त्रयम् त्यजेत् ॥ २१ ॥
trividham narakasya idam dvāram nāśanam ātmanaḥ . kāmaḥ krodhaḥ tathā lobhaḥ tasmāt etat trayam tyajet .. 21 ..
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ 22 ॥
एतैः विमुक्तः कौन्तेय तमः-द्वारैः त्रिभिः नरः । आचरति आत्मनः श्रेयः ततस् याति पराम् गतिम् ॥ २२ ॥
etaiḥ vimuktaḥ kaunteya tamaḥ-dvāraiḥ tribhiḥ naraḥ . ācarati ātmanaḥ śreyaḥ tatas yāti parām gatim .. 22 ..
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ 23 ॥
यः शास्त्र-विधिम् उत्सृज्य वर्तते कामकारतः । न स सिद्धिम् अवाप्नोति न सुखम् न पराम् गतिम् ॥ २३ ॥
yaḥ śāstra-vidhim utsṛjya vartate kāmakārataḥ . na sa siddhim avāpnoti na sukham na parām gatim .. 23 ..
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ 24 ॥
तस्मात् शास्त्रम् प्रमाणम् ते कार्य-अकार्य-व्यवस्थितौ । ज्ञात्वा शास्त्र-विधान-उक्तम् कर्म कर्तुम् इह अर्हसि ॥ २४ ॥
tasmāt śāstram pramāṇam te kārya-akārya-vyavasthitau . jñātvā śāstra-vidhāna-uktam karma kartum iha arhasi .. 24 ..
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः ॥16 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे दैवासुरसम्पद्विभागयोगः नाम षोडशः अध्यायः ॥१६ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde daivāsurasampadvibhāgayogaḥ nāma ṣoḍaśaḥ adhyāyaḥ ..16 ..

Shraddha Vibhaga Yoga

Collapse

अथ सप्तदशोऽध्यायः ।
अथ सप्तदशः अध्यायः ।
atha saptadaśaḥ adhyāyaḥ .
अर्जुन उवाच / arjuna uvacha
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ 1 ॥
ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धया अन्विताः । तेषाम् निष्ठा तु का कृष्ण सत्त्वम् आहो रजः तमः ॥ १ ॥
ye śāstra-vidhim utsṛjya yajante śraddhayā anvitāḥ . teṣām niṣṭhā tu kā kṛṣṇa sattvam āho rajaḥ tamaḥ .. 1 ..
श्रीभगवानुवाच / shri bhagavan uvacha
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शऋणु ॥ 2 ॥
त्रिविधा भवति श्रद्धा देहिनाम् सा स्वभाव-जा । सात्त्विकी राजसी च एव तामसी च इति ताम् शऋणु ॥ २ ॥
trividhā bhavati śraddhā dehinām sā svabhāva-jā . sāttvikī rājasī ca eva tāmasī ca iti tām śaṛṇu .. 2 ..
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ 3 ॥
सत्त्व-अनुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धा-मयः अयम् पुरुषः यः यद्-श्रद्धः सः एव सः ॥ ३ ॥
sattva-anurūpā sarvasya śraddhā bhavati bhārata . śraddhā-mayaḥ ayam puruṣaḥ yaḥ yad-śraddhaḥ saḥ eva saḥ .. 3 ..
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ 4 ॥
यजन्ते सात्त्विकाः देवान् यक्ष-रक्षांसि राजसाः । प्रेतान् भूत-गणान् च अन्ये यजन्ते तामसाः जनाः ॥ ४ ॥
yajante sāttvikāḥ devān yakṣa-rakṣāṃsi rājasāḥ . pretān bhūta-gaṇān ca anye yajante tāmasāḥ janāḥ .. 4 ..
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ 5 ॥ कर्षयन्तः शरीरस्थं भूतग्राममचेतसः । मां चैवान्तः शरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥ 6 ॥
अ शास्त्र-विहितम् घोरम् तप्यन्ते ये तपः जनाः । दम्भ-अहङ्कार-संयुक्ताः काम-राग-बल-अन्विताः ॥ ५ ॥ कर्षयन्तः शरीर-स्थम् भूत-ग्रामम् अचेतसः । माम् च एव अन्तर् शरीर-स्थम् तान् विद्धि आसुर-निश्चयान् ॥ ६ ॥
a śāstra-vihitam ghoram tapyante ye tapaḥ janāḥ . dambha-ahaṅkāra-saṃyuktāḥ kāma-rāga-bala-anvitāḥ .. 5 .. karṣayantaḥ śarīra-stham bhūta-grāmam acetasaḥ . mām ca eva antar śarīra-stham tān viddhi āsura-niścayān .. 6 ..
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस्तपस्तथा दानं तेषां भेदमिमं शऋणु ॥ 7 ॥
आहारः तु अपि सर्वस्य त्रिविधः भवति प्रियः । यज्ञः तपः तथा दानम् तेषाम् भेदम् इमम् शऋणु ॥ ७ ॥
āhāraḥ tu api sarvasya trividhaḥ bhavati priyaḥ . yajñaḥ tapaḥ tathā dānam teṣām bhedam imam śaṛṇu .. 7 ..
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ 8 ॥
आयुः-सत्त्व-बल-आरोग्य-सुख-प्रीति-विवर्धनाः । रस्याः स्निग्धाः स्थिराः हृद्याः आहाराः सात्त्विक-प्रियाः ॥ ८ ॥
āyuḥ-sattva-bala-ārogya-sukha-prīti-vivardhanāḥ . rasyāḥ snigdhāḥ sthirāḥ hṛdyāḥ āhārāḥ sāttvika-priyāḥ .. 8 ..
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ 9 ॥
। आहाराः राजसस्य इष्टाः दुःख-शोक-आमय-प्रदाः ॥ ९ ॥
. āhārāḥ rājasasya iṣṭāḥ duḥkha-śoka-āmaya-pradāḥ .. 9 ..
यातयामं गतरसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ 10 ॥
यातयामम् गत-रसम् पूति पर्युषितम् च यत् । उच्छिष्टम् अपि च अमेध्यम् भोजनम् तामस-प्रियम् ॥ १० ॥
yātayāmam gata-rasam pūti paryuṣitam ca yat . ucchiṣṭam api ca amedhyam bhojanam tāmasa-priyam .. 10 ..
अफलाकाङ्क्षिभिर्यज्ञो विधिदिष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ 11 ॥
अ फल-आकाङ्क्षिभिः यज्ञः विधि-दिष्टः यः इज्यते । यष्टव्यम् एव इति मनः समाधाय स सात्त्विकः ॥ ११ ॥
a phala-ākāṅkṣibhiḥ yajñaḥ vidhi-diṣṭaḥ yaḥ ijyate . yaṣṭavyam eva iti manaḥ samādhāya sa sāttvikaḥ .. 11 ..
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ 12 ॥
अभिसन्धाय तु फलम् दम्भ-अर्थम् अपि च एव यत् । इज्यते भरत-श्रेष्ठ तम् यज्ञम् विद्धि राजसम् ॥ १२ ॥
abhisandhāya tu phalam dambha-artham api ca eva yat . ijyate bharata-śreṣṭha tam yajñam viddhi rājasam .. 12 ..
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ 13 ॥
विधि-हीनम् अ सृष्ट-अन्नम् मन्त्र-हीनम् अदक्षिणम् । श्रद्धा-विरहितम् यज्ञम् तामसम् परिचक्षते ॥ १३ ॥
vidhi-hīnam a sṛṣṭa-annam mantra-hīnam adakṣiṇam . śraddhā-virahitam yajñam tāmasam paricakṣate .. 13 ..
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ 14 ॥
देव-द्विज-गुरु-प्राज्ञ-पूजनम् शौचम् आर्जवम् । ब्रह्मचर्यम् अहिंसा च शारीरम् तपः उच्यते ॥ १४ ॥
deva-dvija-guru-prājña-pūjanam śaucam ārjavam . brahmacaryam ahiṃsā ca śārīram tapaḥ ucyate .. 14 ..
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ 15 ॥
अन् उद्वेग-करम् वाक्यम् सत्यम् प्रिय-हितम् च यत् । स्वाध्याय-अभ्यसनम् च एव वाच्-मयम् तपः उच्यते ॥ १५ ॥
an udvega-karam vākyam satyam priya-hitam ca yat . svādhyāya-abhyasanam ca eva vāc-mayam tapaḥ ucyate .. 15 ..
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशउद्धिरित्येतत्तपो मानसमुच्यते ॥ 16 ॥
मनः-प्रसादः सौम्य-त्वम् मौनम् आत्म-विनिग्रहः । भाव-संशौद्धिः इति एतत् तपः मानसम् उच्यते ॥ १६ ॥
manaḥ-prasādaḥ saumya-tvam maunam ātma-vinigrahaḥ . bhāva-saṃśauddhiḥ iti etat tapaḥ mānasam ucyate .. 16 ..
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ 17 ॥
श्रद्धया परया तप्तम् तपः तत् त्रिविधम् नरैः । अ फल-आकाङ्क्षिभिः युक्तैः सात्त्विकम् परिचक्षते ॥ १७ ॥
śraddhayā parayā taptam tapaḥ tat trividham naraiḥ . a phala-ākāṅkṣibhiḥ yuktaiḥ sāttvikam paricakṣate .. 17 ..
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ 18 ॥
सत्कार-मान-पूजा-अर्थम् तपः दम्भेन च एव यत् । क्रियते तत् इह प्रोक्तम् राजसम् चलम् अध्रुवम् ॥ १८ ॥
satkāra-māna-pūjā-artham tapaḥ dambhena ca eva yat . kriyate tat iha proktam rājasam calam adhruvam .. 18 ..
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ 19 ॥
मूढ-ग्राहेण आत्मनः यत् पीडया क्रियते तपः । परस्य उत्सादन-अर्थम् वा तत् तामसम् उदाहृतम् ॥ १९ ॥
mūḍha-grāheṇa ātmanaḥ yat pīḍayā kriyate tapaḥ . parasya utsādana-artham vā tat tāmasam udāhṛtam .. 19 ..
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥ 20 ॥
दातव्यम् इति यत् दानम् दीयते अनुपकारिणे । देशे काले च पात्रे च तत् दानम् सात्त्विकम् स्मृतम् ॥ २० ॥
dātavyam iti yat dānam dīyate anupakāriṇe . deśe kāle ca pātre ca tat dānam sāttvikam smṛtam .. 20 ..
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लइष्टं तद्दानं राजसं स्मृतम् ॥ 21 ॥
यत् तु प्रत्युपकार-अर्थम् फलम् उद्दिश्य वा पुनर् । दीयते च परिक्लैष्टम् तत् दानम् राजसम् स्मृतम् ॥ २१ ॥
yat tu pratyupakāra-artham phalam uddiśya vā punar . dīyate ca pariklaiṣṭam tat dānam rājasam smṛtam .. 21 ..
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ 22 ॥
अ देश-काले यत् दानम् अपात्रेभ्यः च दीयते । असत्कृतम् अवज्ञातम् तत् तामसम् उदाहृतम् ॥ २२ ॥
a deśa-kāle yat dānam apātrebhyaḥ ca dīyate . asatkṛtam avajñātam tat tāmasam udāhṛtam .. 22 ..
ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ 23 ॥
ओम् तत् सत् इति निर्देशः ब्रह्मणः त्रिविधः स्मृतः । ब्राह्मणाः तेन वेदाः च यज्ञाः च विहिताः पुरा ॥ २३ ॥
om tat sat iti nirdeśaḥ brahmaṇaḥ trividhaḥ smṛtaḥ . brāhmaṇāḥ tena vedāḥ ca yajñāḥ ca vihitāḥ purā .. 23 ..
तस्माद् ॐ इत्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ 24 ॥
तस्मात् ओम् इति उदाहृत्य यज्ञ-दान-तपः-क्रियाः । प्रवर्तन्ते विधान-उक्ताः सततम् ब्रह्म-वादिनाम् ॥ २४ ॥
tasmāt om iti udāhṛtya yajña-dāna-tapaḥ-kriyāḥ . pravartante vidhāna-uktāḥ satatam brahma-vādinām .. 24 ..
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः । दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ 25 ॥
तत् इति अन् अभिसन्धाय फलम् यज्ञ-तपः-क्रियाः । दान-क्रियाः च विविधाः क्रियन्ते मोक्ष-काङ्क्षिभिः ॥ २५ ॥
tat iti an abhisandhāya phalam yajña-tapaḥ-kriyāḥ . dāna-kriyāḥ ca vividhāḥ kriyante mokṣa-kāṅkṣibhiḥ .. 25 ..
सद्भआवे साधुभावे च सदित्येतत्प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ 26 ॥ यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ 27 ॥
सद्भआवे साधु-भावे च सत् इति एतत् प्रयुज्यते । प्रशस्ते कर्मणि तथा सत्-शब्दः पार्थ युज्यते ॥ २६ ॥ यज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते । कर्म च एव तद्-अर्थीयम् सत् इति एव अभिधीयते ॥ २७ ॥
sadbhaāve sādhu-bhāve ca sat iti etat prayujyate . praśaste karmaṇi tathā sat-śabdaḥ pārtha yujyate .. 26 .. yajñe tapasi dāne ca sthitiḥ sat iti ca ucyate . karma ca eva tad-arthīyam sat iti eva abhidhīyate .. 27 ..
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ 28 ॥
अश्रद्धया हुतम् दत्तम् तपः तप्तम् कृतम् च यत् । असत् इति उच्यते पार्थ न च तत् प्रेत्य नो इह ॥ २८ ॥
aśraddhayā hutam dattam tapaḥ taptam kṛtam ca yat . asat iti ucyate pārtha na ca tat pretya no iha .. 28 ..
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥17 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे श्रद्धात्रयविभागयोगः नाम सप्तदशः अध्यायः ॥१७ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde śraddhātrayavibhāgayogaḥ nāma saptadaśaḥ adhyāyaḥ ..17 ..

Moksha Sanyasa Yoga

Collapse

अथ अष्टादशोऽध्यायः ।
अथ अष्टादशः अध्यायः ।
atha aṣṭādaśaḥ adhyāyaḥ .
अर्जुन उवाच । / arjuna uvacha ।
सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ 1 ॥
सन्न्यासस्य महा-बाहो तत्त्वम् इच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ॥ १ ॥
sannyāsasya mahā-bāho tattvam icchāmi veditum . tyāgasya ca hṛṣīkeśa pṛthak keśiniṣūdana .. 1 ..
श्रीभगवानुवाच । / sribhagavanuvacha ।
काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ 2 ॥
काम्यानाम् कर्मणाम् न्यासम् सत्-न्यासम् कवयः विदुः । सर्व-कर्म-फल-त्यागम् प्राहुः त्यागम् विचक्षणाः ॥ २ ॥
kāmyānām karmaṇām nyāsam sat-nyāsam kavayaḥ viduḥ . sarva-karma-phala-tyāgam prāhuḥ tyāgam vicakṣaṇāḥ .. 2 ..
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ 3 ॥
त्याज्यम् दोषवत् इति एके कर्म प्राहुः मनीषिणः । यज्ञ-दान-तपः-कर्म न त्याज्यम् इति च अपरे ॥ ३ ॥
tyājyam doṣavat iti eke karma prāhuḥ manīṣiṇaḥ . yajña-dāna-tapaḥ-karma na tyājyam iti ca apare .. 3 ..
निश्चयं शऋणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ 4 ॥
निश्चयम् शऋणु मे तत्र त्यागे भरत-सत्तम । त्यागः हि पुरुष-व्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ ४ ॥
niścayam śaṛṇu me tatra tyāge bharata-sattama . tyāgaḥ hi puruṣa-vyāghra trividhaḥ samprakīrtitaḥ .. 4 ..
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ 5 ॥
यज्ञ-दान-तपः-कर्म न त्याज्यम् कार्यम् एव तत् । यज्ञः दानम् तपः च एव पावनानि मनीषिणाम् ॥ ५ ॥
yajña-dāna-tapaḥ-karma na tyājyam kāryam eva tat . yajñaḥ dānam tapaḥ ca eva pāvanāni manīṣiṇām .. 5 ..
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ 6 ॥
एतानि अपि तु कर्माणि सङ्गम् त्यक्त्वा फलानि च । कर्तव्यानि इति मे पार्थ निश्चितम् मतम् उत्तमम् ॥ ६ ॥
etāni api tu karmāṇi saṅgam tyaktvā phalāni ca . kartavyāni iti me pārtha niścitam matam uttamam .. 6 ..
नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ 7 ॥
नियतस्य तु सन्न्यासः कर्मणः न उपपद्यते । मोहात् तस्य परित्यागः तामसः परिकीर्तितः ॥ ७ ॥
niyatasya tu sannyāsaḥ karmaṇaḥ na upapadyate . mohāt tasya parityāgaḥ tāmasaḥ parikīrtitaḥ .. 7 ..
दुःखमित्येव यत्कर्म कायक्लएशभयात्त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ 8 ॥
दुःखम् इति एव यत् कर्म त्यजेत् । स कृत्वा राजसम् त्यागम् न एव त्याग-फलम् लभेत् ॥ ८ ॥
duḥkham iti eva yat karma tyajet . sa kṛtvā rājasam tyāgam na eva tyāga-phalam labhet .. 8 ..
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ 9 ॥
कार्यम् इति एव यत् कर्म नियतम् क्रियते अर्जुन । सङ्गम् त्यक्त्वा फलम् च एव स त्यागः सात्त्विकः मतः ॥ ९ ॥
kāryam iti eva yat karma niyatam kriyate arjuna . saṅgam tyaktvā phalam ca eva sa tyāgaḥ sāttvikaḥ mataḥ .. 9 ..
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ 10 ॥
न द्वेष्टि अकुशलम् कर्म कुशले न अनुषज्जते । त्यागी सत्त्व-समाविष्टः मेधावी छिन्न-संशयः ॥ १० ॥
na dveṣṭi akuśalam karma kuśale na anuṣajjate . tyāgī sattva-samāviṣṭaḥ medhāvī chinna-saṃśayaḥ .. 10 ..
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ 11 ॥
न हि देहभृता शक्यम् त्यक्तुम् कर्माणि अशेषतस् । यः तु कर्म-फल-त्यागी स त्यागी इति अभिधीयते ॥ ११ ॥
na hi dehabhṛtā śakyam tyaktum karmāṇi aśeṣatas . yaḥ tu karma-phala-tyāgī sa tyāgī iti abhidhīyate .. 11 ..
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥ 12 ॥
अनिष्टम् इष्टम् मिश्रम् च त्रिविधम् कर्मणः फलम् । भवति अत्यागिनाम् प्रेत्य न तु सन्न्यासिनाम् क्वचिद् ॥ १२ ॥
aniṣṭam iṣṭam miśram ca trividham karmaṇaḥ phalam . bhavati atyāginām pretya na tu sannyāsinām kvacid .. 12 ..
पञ्चैतानि महाबाहो कारणानि निबोध मे । साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ 13 ॥
पञ्च एतानि महा-बाहो कारणानि निबोध मे । साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्व-कर्मणाम् ॥ १३ ॥
pañca etāni mahā-bāho kāraṇāni nibodha me . sāṅkhye kṛtānte proktāni siddhaye sarva-karmaṇām .. 13 ..
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ 14 ॥
अधिष्ठानम् तथा कर्ता करणम् च पृथग्विधम् । विविधाः च पृथक् चेष्टाः दैवम् च एव अत्र पञ्चमम् ॥ १४ ॥
adhiṣṭhānam tathā kartā karaṇam ca pṛthagvidham . vividhāḥ ca pṛthak ceṣṭāḥ daivam ca eva atra pañcamam .. 14 ..
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ 15 ॥
शरीर-वाच्-मनोभिः यत् कर्म प्रारभते नरः । न्याय्यम् वा विपरीतम् वा पञ्च एते तस्य हेतवः ॥ १५ ॥
śarīra-vāc-manobhiḥ yat karma prārabhate naraḥ . nyāyyam vā viparītam vā pañca ete tasya hetavaḥ .. 15 ..
तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ 16 ॥
तत्र एवम् सति कर्तारम् आत्मानम् केवलम् तु यः । पश्यति अकृतबुद्धि-त्वात् न स पश्यति दुर्मतिः ॥ १६ ॥
tatra evam sati kartāram ātmānam kevalam tu yaḥ . paśyati akṛtabuddhi-tvāt na sa paśyati durmatiḥ .. 16 ..
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमाँल्लओकान्न हन्ति न निबध्यते ॥ 17 ॥
यस्य न अहङ्कृतः भावः बुद्धिः यस्य न लिप्यते । हत्वा अपि सः इमान् लओकान् न हन्ति न निबध्यते ॥ १७ ॥
yasya na ahaṅkṛtaḥ bhāvaḥ buddhiḥ yasya na lipyate . hatvā api saḥ imān laokān na hanti na nibadhyate .. 17 ..
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥ 18 ॥
ज्ञानम् ज्ञेयम् परिज्ञाता त्रिविधा कर्म-चोदना । करणम् कर्म कर्ता इति त्रिविधः कर्म-सङ्ग्रहः ॥ १८ ॥
jñānam jñeyam parijñātā trividhā karma-codanā . karaṇam karma kartā iti trividhaḥ karma-saṅgrahaḥ .. 18 ..
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः । प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥ 19 ॥
ज्ञानम् कर्म च कर्ता च त्रिधा एव गुण-भेदतः । प्रोच्यते गुण-सङ्ख्याने यथावत् शृणु तानि अपि ॥ १९ ॥
jñānam karma ca kartā ca tridhā eva guṇa-bhedataḥ . procyate guṇa-saṅkhyāne yathāvat śṛṇu tāni api .. 19 ..
सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ 20 ॥
सर्व-भूतेषु येन एकम् भावम् अव्ययम् ईक्षते । अविभक्तम् विभक्तेषु तत् ज्ञानम् विद्धि सात्त्विकम् ॥ २० ॥
sarva-bhūteṣu yena ekam bhāvam avyayam īkṣate . avibhaktam vibhakteṣu tat jñānam viddhi sāttvikam .. 20 ..
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ 21 ॥
पृथक्त्वेन तु यत् ज्ञानम् नाना भावान् पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तत् ज्ञानम् विद्धि राजसम् ॥ २१ ॥
pṛthaktvena tu yat jñānam nānā bhāvān pṛthagvidhān . vetti sarveṣu bhūteṣu tat jñānam viddhi rājasam .. 21 ..
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् । अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ 22 ॥
यत् तु कृत्स्न-वत् एकस्मिन् कार्ये सक्तम् अहैतुकम् । अतत्त्व-अर्थवत् अल्पम् च तत् तामसम् उदाहृतम् ॥ २२ ॥
yat tu kṛtsna-vat ekasmin kārye saktam ahaitukam . atattva-arthavat alpam ca tat tāmasam udāhṛtam .. 22 ..
नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ 23 ॥
नियतम् सङ्ग-रहितम् अ राग-द्वेषतः कृतम् । अ फल-प्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते ॥ २३ ॥
niyatam saṅga-rahitam a rāga-dveṣataḥ kṛtam . a phala-prepsunā karma yat tat sāttvikam ucyate .. 23 ..
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ 24 ॥
यत् तु काम-ईप्सुना कर्म स अहङ्कारेण वा पुनर् । क्रियते बहुल-आयासम् तत् राजसम् उदाहृतम् ॥ २४ ॥
yat tu kāma-īpsunā karma sa ahaṅkāreṇa vā punar . kriyate bahula-āyāsam tat rājasam udāhṛtam .. 24 ..
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ 25 ॥
अनुबन्धम् क्षयम् हिंसाम् अन् अपेक्ष्य च पौरुषम् । मोहात् आरभ्यते कर्म यत् तत् तामसम् उच्यते ॥ २५ ॥
anubandham kṣayam hiṃsām an apekṣya ca pauruṣam . mohāt ārabhyate karma yat tat tāmasam ucyate .. 25 ..
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥ 26 ॥
मुक्त-सङ्गः अन् अहंवादी धृति-उत्साह-समन्वितः । सिद्धि-असिद्ध्योः निर्विकारः कर्ता सात्त्विकः उच्यते ॥ २६ ॥
mukta-saṅgaḥ an ahaṃvādī dhṛti-utsāha-samanvitaḥ . siddhi-asiddhyoḥ nirvikāraḥ kartā sāttvikaḥ ucyate .. 26 ..
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशउचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ 27 ॥
रागी कर्म-फल-प्रेप्सुः लुब्धः हिंसा-आत्मकः अशौचिः । हर्ष-शोक-अन्वितः कर्ता राजसः परिकीर्तितः ॥ २७ ॥
rāgī karma-phala-prepsuḥ lubdhaḥ hiṃsā-ātmakaḥ aśauciḥ . harṣa-śoka-anvitaḥ kartā rājasaḥ parikīrtitaḥ .. 27 ..
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः । विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ 28 ॥
अयुक्तः प्राकृतः स्तब्धः शठः नैष्कृतिकः अलसः । विषादी दीर्घसूत्री च कर्ता तामसः उच्यते ॥ २८ ॥
ayuktaḥ prākṛtaḥ stabdhaḥ śaṭhaḥ naiṣkṛtikaḥ alasaḥ . viṣādī dīrghasūtrī ca kartā tāmasaḥ ucyate .. 28 ..
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शऋणु । प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ 29 ॥
बुद्धेः भेदम् धृतेः च एव गुणतः त्रिविधम् शऋणु । प्रोच्यमानम् अशेषेण पृथक्त्वेन धनञ्जय ॥ २९ ॥
buddheḥ bhedam dhṛteḥ ca eva guṇataḥ trividham śaṛṇu . procyamānam aśeṣeṇa pṛthaktvena dhanañjaya .. 29 ..
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ 30 ॥
प्रवृत्तिम् च निवृत्तिम् च कार्य-अकार्ये भय-अभये । बन्धम् मोक्षम् च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ ३० ॥
pravṛttim ca nivṛttim ca kārya-akārye bhaya-abhaye . bandham mokṣam ca yā vetti buddhiḥ sā pārtha sāttvikī .. 30 ..
यया धर्ममधर्मं च कार्यं चाकार्यमेव च । अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ 31 ॥
यया धर्मम् अधर्मम् च कार्यम् च अकार्यम् एव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥ ३१ ॥
yayā dharmam adharmam ca kāryam ca akāryam eva ca . ayathāvat prajānāti buddhiḥ sā pārtha rājasī .. 31 ..
अधर्मं धर्ममिति या मन्यते तमसावृता । सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ 32 ॥
अधर्मम् धर्मम् इति या मन्यते तमसा आवृता । सर्व-अर्थान् विपरीतान् च बुद्धिः सा पार्थ तामसी ॥ ३२ ॥
adharmam dharmam iti yā manyate tamasā āvṛtā . sarva-arthān viparītān ca buddhiḥ sā pārtha tāmasī .. 32 ..
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ 33 ॥
धृत्या यया धारयते मनः-प्राण-इन्द्रिय-क्रियाः । योगेन अव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ ३३ ॥
dhṛtyā yayā dhārayate manaḥ-prāṇa-indriya-kriyāḥ . yogena avyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī .. 33 ..
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन । प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ 34 ॥
यया तु धर्म-काम-अर्थान् धृत्या धारयते अर्जुन । प्रसङ्गेन फल-आकाङ्क्षी धृतिः सा पार्थ राजसी ॥ ३४ ॥
yayā tu dharma-kāma-arthān dhṛtyā dhārayate arjuna . prasaṅgena phala-ākāṅkṣī dhṛtiḥ sā pārtha rājasī .. 34 ..
यया स्वप्नं भयं शोकं विषादं मदमेव च । न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ 35 ॥
यया स्वप्नम् भयम् शोकम् विषादम् मदम् एव च । न विमुञ्चति दुर्मेधाः धृतिः सा पार्थ तामसी ॥ ३५ ॥
yayā svapnam bhayam śokam viṣādam madam eva ca . na vimuñcati durmedhāḥ dhṛtiḥ sā pārtha tāmasī .. 35 ..
सुखं त्विदानीं त्रिविधं शऋणु मे भरतर्षभ । अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ 36 ॥
सुखम् तु इदानीम् त्रिविधम् शऋणु मे भरत-ऋषभ । अभ्यासात् रमते यत्र दुःख-अन्तम् च निगच्छति ॥ ३६ ॥
sukham tu idānīm trividham śaṛṇu me bharata-ṛṣabha . abhyāsāt ramate yatra duḥkha-antam ca nigacchati .. 36 ..
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् । तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ 37 ॥
यत् तत् अग्रे विषम् इव परिणामे अमृत-उपमम् । तत् सुखम् सात्त्विकम् प्रोक्तम् आत्म-बुद्धि-प्रसाद-जम् ॥ ३७ ॥
yat tat agre viṣam iva pariṇāme amṛta-upamam . tat sukham sāttvikam proktam ātma-buddhi-prasāda-jam .. 37 ..
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् । परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ 38 ॥
विषय-इन्द्रिय-संयोगात् यत् तत् अग्रे अमृत-उपमम् । परिणामे विषम् इव तत् सुखम् राजसम् स्मृतम् ॥ ३८ ॥
viṣaya-indriya-saṃyogāt yat tat agre amṛta-upamam . pariṇāme viṣam iva tat sukham rājasam smṛtam .. 38 ..
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः । निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ 39 ॥
यत् अग्रे च अनुबन्धे च सुखम् मोहनम् आत्मनः । निद्रा-आलस्य-प्रमाद-उत्थम् तत् तामसम् उदाहृतम् ॥ ३९ ॥
yat agre ca anubandhe ca sukham mohanam ātmanaḥ . nidrā-ālasya-pramāda-uttham tat tāmasam udāhṛtam .. 39 ..
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥ 40 ॥
न तत् अस्ति पृथिव्याम् वा दिवि देवेषु वा पुनर् । सत्त्वम् प्रकृति-जैः मुक्तम् यत् एभिः स्यात् त्रिभिः गुणैः ॥ ४० ॥
na tat asti pṛthivyām vā divi deveṣu vā punar . sattvam prakṛti-jaiḥ muktam yat ebhiḥ syāt tribhiḥ guṇaiḥ .. 40 ..
ब्राह्मणक्षत्रियविशां शऊद्राणां च परन्तप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ 41 ॥
ब्राह्मण-क्षत्रिय-विशाम् शऊद्राणाम् च परन्तप । कर्माणि प्रविभक्तानि स्वभाव-प्रभवैः गुणैः ॥ ४१ ॥
brāhmaṇa-kṣatriya-viśām śaūdrāṇām ca parantapa . karmāṇi pravibhaktāni svabhāva-prabhavaiḥ guṇaiḥ .. 41 ..
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ 42 ॥
शमः दमः तपः शौचम् क्षान्तिः आर्जवम् एव च । ज्ञानम् विज्ञानम् आस्तिक्यम् ब्रह्म-कर्म स्वभाव-जम् ॥ ४२ ॥
śamaḥ damaḥ tapaḥ śaucam kṣāntiḥ ārjavam eva ca . jñānam vijñānam āstikyam brahma-karma svabhāva-jam .. 42 ..
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ 43 ॥
शौर्यम् तेजः धृतिः दाक्ष्यम् युद्धे च अपि अपलायनम् । दानम् ईश्वर-भावः च क्षात्रम् कर्म स्वभाव-जम् ॥ ४३ ॥
śauryam tejaḥ dhṛtiḥ dākṣyam yuddhe ca api apalāyanam . dānam īśvara-bhāvaḥ ca kṣātram karma svabhāva-jam .. 43 ..
कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् । परिचर्यात्मकं कर्म शऊद्रस्यापि स्वभावजम् ॥ 44 ॥
कृषि-गोरक्ष्य-वाणिज्यम् वैश्य-कर्म स्वभाव-जम् । परिचर्या-आत्मकम् कर्म शऊद्रस्य अपि स्वभाव-जम् ॥ ४४ ॥
kṛṣi-gorakṣya-vāṇijyam vaiśya-karma svabhāva-jam . paricaryā-ātmakam karma śaūdrasya api svabhāva-jam .. 44 ..
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नर स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥ 45 ॥
स्वे स्वे कर्मणि अभिरतः संसिद्धिम् लभते नर स्व-कर्म-निरतः सिद्धिम् यथा विन्दति तत् शृणु ॥ ४५ ॥
sve sve karmaṇi abhirataḥ saṃsiddhim labhate nara sva-karma-nirataḥ siddhim yathā vindati tat śṛṇu .. 45 ..
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥ 46 ॥
यतस् प्रवृत्तिः भूतानाम् येन सर्वम् इदम् ततम् । स्व-कर्मणा तम् अभ्यर्च्य सिद्धिम् विन्दति मानवः ॥ ४६ ॥
yatas pravṛttiḥ bhūtānām yena sarvam idam tatam . sva-karmaṇā tam abhyarcya siddhim vindati mānavaḥ .. 46 ..
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ 47 ॥
श्रेयान् स्वधर्मः विगुणः पर-धर्मात् सु अनुष्ठितात् । स्वभाव-नियतम् कर्म कुर्वन् न आप्नोति किल्बिषम् ॥ ४७ ॥
śreyān svadharmaḥ viguṇaḥ para-dharmāt su anuṣṭhitāt . svabhāva-niyatam karma kurvan na āpnoti kilbiṣam .. 47 ..
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् । सर्वारम्भा हि दोषेण धूमेनाग्नइरिवावृताः ॥ 48 ॥
सहजम् कर्म कौन्तेय स दोषम् अपि न त्यजेत् । सर्व-आरम्भाः हि दोषेण धूमेन अग्नैः इव आवृताः ॥ ४८ ॥
sahajam karma kaunteya sa doṣam api na tyajet . sarva-ārambhāḥ hi doṣeṇa dhūmena agnaiḥ iva āvṛtāḥ .. 48 ..
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ॥ 49 ॥
असक्त-बुद्धिः सर्वत्र जित-आत्मा विगत-स्पृहः । नैष्कर्म्य-सिद्धिम् परमाम् सन्न्यासेन अधिगच्छति ॥ ४९ ॥
asakta-buddhiḥ sarvatra jita-ātmā vigata-spṛhaḥ . naiṣkarmya-siddhim paramām sannyāsena adhigacchati .. 49 ..
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे । समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ 50 ॥
सिद्धिम् प्राप्तः यथा ब्रह्म तथा आप्नोति निबोध मे । समासेन एव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥
siddhim prāptaḥ yathā brahma tathā āpnoti nibodha me . samāsena eva kaunteya niṣṭhā jñānasya yā parā .. 50 ..
बुद्ध्या विशउद्धया युक्तो धृत्यात्मानं नियम्य च । शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ 51 ॥ विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ 52 ॥ अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ 53 ॥
बुद्ध्या विशौद्धया युक्तः धृत्य आत्मानम् नियम्य च । शब्द-आदीन् विषयान् त्यक्त्वा राग-द्वेषौ व्युदस्य च ॥ ५१ ॥ । ध्यान-योग-परः नित्यम् वैराग्यम् समुपाश्रितः ॥ ५२ ॥ अहङ्कारम् बलम् दर्पम् कामम् क्रोधम् परिग्रहम् । विमुच्य निर्ममः शान्तः ब्रह्म-भूयाय कल्पते ॥ ५३ ॥
buddhyā viśauddhayā yuktaḥ dhṛtya ātmānam niyamya ca . śabda-ādīn viṣayān tyaktvā rāga-dveṣau vyudasya ca .. 51 .. . dhyāna-yoga-paraḥ nityam vairāgyam samupāśritaḥ .. 52 .. ahaṅkāram balam darpam kāmam krodham parigraham . vimucya nirmamaḥ śāntaḥ brahma-bhūyāya kalpate .. 53 ..
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ 54 ॥
ब्रह्म-भूतः प्रसन्न-आत्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्-भक्तिम् लभते पराम् ॥ ५४ ॥
brahma-bhūtaḥ prasanna-ātmā na śocati na kāṅkṣati . samaḥ sarveṣu bhūteṣu mad-bhaktim labhate parām .. 54 ..
भक्त्यआ मामभिजानाति यावान्यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ 55 ॥
भक्त्यआ माम् अभिजानाति यावान् यः च अस्मि तत्त्वतः । ततस् माम् तत्त्वतः ज्ञात्वा विशते तद्-अनन्तरम् ॥ ५५ ॥
bhaktyaā mām abhijānāti yāvān yaḥ ca asmi tattvataḥ . tatas mām tattvataḥ jñātvā viśate tad-anantaram .. 55 ..
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ 56 ॥
सर्व-कर्माणि अपि सदा कुर्वाणः मद्-व्यपाश्रयः । मद्-प्रसादात् अवाप्नोति शाश्वतम् पदम् अव्ययम् ॥ ५६ ॥
sarva-karmāṇi api sadā kurvāṇaḥ mad-vyapāśrayaḥ . mad-prasādāt avāpnoti śāśvatam padam avyayam .. 56 ..
चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः । बुद्धियोगमुपाश्रित्य मच्चइत्तः सततं भव ॥ 57 ॥
चेतसा सर्व-कर्माणि मयि सन्न्यस्य मद्-परः । बुद्धि-योगम् उपाश्रित्य मद्-चैत्तः सततम् भव ॥ ५७ ॥
cetasā sarva-karmāṇi mayi sannyasya mad-paraḥ . buddhi-yogam upāśritya mad-caittaḥ satatam bhava .. 57 ..
मच्चइत्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ 58 ॥
मद्-चैत्तः सर्व-दुर्गाणि मद्-प्रसादात् तरिष्यसि । अथ चेद् त्वम् अहङ्कारात् न श्रोष्यसि विनङ्क्ष्यसि ॥ ५८ ॥
mad-caittaḥ sarva-durgāṇi mad-prasādāt tariṣyasi . atha ced tvam ahaṅkārāt na śroṣyasi vinaṅkṣyasi .. 58 ..
यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ 59 ॥
यत् अहङ्कारम् आश्रित्य न योत्स्ये इति मन्यसे । मिथ्या एष व्यवसायः ते प्रकृतिः त्वाम् नियोक्ष्यति ॥ ५९ ॥
yat ahaṅkāram āśritya na yotsye iti manyase . mithyā eṣa vyavasāyaḥ te prakṛtiḥ tvām niyokṣyati .. 59 ..
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ 60 ॥
स्वभाव-जेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुम् ना इच्छसि यत् मोहात् करिष्यसि अवशः अपि तत् ॥ ६० ॥
svabhāva-jena kaunteya nibaddhaḥ svena karmaṇā . kartum nā icchasi yat mohāt kariṣyasi avaśaḥ api tat .. 60 ..
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ 61 ॥
ईश्वरः सर्व-भूतानाम् हृद्-देशे अर्जुन तिष्ठति । भ्रामयन् सर्व-भूतानि यन्त्र-आरूढानि मायया ॥ ६१ ॥
īśvaraḥ sarva-bhūtānām hṛd-deśe arjuna tiṣṭhati . bhrāmayan sarva-bhūtāni yantra-ārūḍhāni māyayā .. 61 ..
तमेव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ 62 ॥
तम् एव शरणम् गच्छ सर्व-भावेन भारत । तद्-प्रसादात् पराम् शान्तिम् स्थानम् प्राप्स्यसि शाश्वतम् ॥ ६२ ॥
tam eva śaraṇam gaccha sarva-bhāvena bhārata . tad-prasādāt parām śāntim sthānam prāpsyasi śāśvatam .. 62 ..
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ 63 ॥
इति ते ज्ञानम् आख्यातम् गुह्यात् गुह्यतरम् मया । विमृश्य एतत् अशेषेण यथा इच्छसि तथा कुरु ॥ ६३ ॥
iti te jñānam ākhyātam guhyāt guhyataram mayā . vimṛśya etat aśeṣeṇa yathā icchasi tathā kuru .. 63 ..
सर्वगुह्यतमं भूयः शऋणु मे परमं वचः । इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ 64 ॥
सर्व-गुह्यतमम् भूयस् शऋणु मे परमम् वचः । इष्टः असि मे दृढम् इति ततस् वक्ष्यामि ते हितम् ॥ ६४ ॥
sarva-guhyatamam bhūyas śaṛṇu me paramam vacaḥ . iṣṭaḥ asi me dṛḍham iti tatas vakṣyāmi te hitam .. 64 ..
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ 65 ॥
मद्-मनाः भव मद्-भक्तः मद्-याजी माम् नमस्कुरु । माम् एव एष्यसि सत्यम् ते प्रतिजाने प्रियः असि मे ॥ ६५ ॥
mad-manāḥ bhava mad-bhaktaḥ mad-yājī mām namaskuru . mām eva eṣyasi satyam te pratijāne priyaḥ asi me .. 65 ..
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शउचः ॥ 66 ॥
सर्व-धर्मान् परित्यज्य माम् एकम् शरणम् व्रज । अहम् त्वाम् सर्व-पापेभ्यः मोक्षयिष्यामि मा शौचः ॥ ६६ ॥
sarva-dharmān parityajya mām ekam śaraṇam vraja . aham tvām sarva-pāpebhyaḥ mokṣayiṣyāmi mā śaucaḥ .. 66 ..
इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशउश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ 67 ॥
इदम् ते न अतपस्काय न अभक्ताय कदाचन । न च अ शौश्रूषवे वाच्यम् न च माम् यः अभ्यसूयति ॥ ६७ ॥
idam te na atapaskāya na abhaktāya kadācana . na ca a śauśrūṣave vācyam na ca mām yaḥ abhyasūyati .. 67 ..
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ 68 ॥
यः इदम् परमम् गुह्यम् मद्-भक्तेषु अभिधास्यति । भक्तिम् मयि पराम् कृत्वा माम् एव एष्यति असंशयः ॥ ६८ ॥
yaḥ idam paramam guhyam mad-bhakteṣu abhidhāsyati . bhaktim mayi parām kṛtvā mām eva eṣyati asaṃśayaḥ .. 68 ..
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ 69 ॥
न च तस्मात् मनुष्येषु कश्चिद् मे प्रिय-कृत्तमः । भविता न च मे तस्मात् अन्यः प्रियतरः भुवि ॥ ६९ ॥
na ca tasmāt manuṣyeṣu kaścid me priya-kṛttamaḥ . bhavitā na ca me tasmāt anyaḥ priyataraḥ bhuvi .. 69 ..
अध्येष्यते च य इमं धर्म्यं संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ 70 ॥
अध्येष्यते च यः इमम् धर्म्यम् संवादम् आवयोः । ज्ञान-यज्ञेन तेन अहम् इष्टः स्याम् इति मे मतिः ॥ ७० ॥
adhyeṣyate ca yaḥ imam dharmyam saṃvādam āvayoḥ . jñāna-yajñena tena aham iṣṭaḥ syām iti me matiḥ .. 70 ..
श्रद्धावाननसूयश्च शऋणुयादपि यो नरः । सोऽपि मुक्तः शुभाँल्लओकान्प्राप्नुयात्पुण्यकर्मणाम् ॥ 71 ॥
श्रद्धावान् अनसूयः च शऋणुयात् अपि यः नरः । सः अपि मुक्तः शुभान् लओकान् प्राप्नुयात् पुण्य-कर्मणाम् ॥ ७१ ॥
śraddhāvān anasūyaḥ ca śaṛṇuyāt api yaḥ naraḥ . saḥ api muktaḥ śubhān laokān prāpnuyāt puṇya-karmaṇām .. 71 ..
कच्चइदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । कच्चइदज्ञानसम्मोहः प्रणष्टस्ते धनञ्जय ॥ 72 ॥
कच्च एद् एतत् श्रुतम् पार्थ त्वया एकाग्रेण चेतसा । कच्च एद् अज्ञान-सम्मोहः प्रणष्टः ते धनञ्जय ॥ ७२ ॥
kacca ed etat śrutam pārtha tvayā ekāgreṇa cetasā . kacca ed ajñāna-sammohaḥ praṇaṣṭaḥ te dhanañjaya .. 72 ..
अर्जुन उवाच । / arjuna uvacha ।
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ 73 ॥
नष्टः मोहः स्मृतिः लब्धा त्वद्-प्रसादात् मया अच्युत । स्थितः अस्मि गत-सन्देहः करिष्ये वचनम् तव ॥ ७३ ॥
naṣṭaḥ mohaḥ smṛtiḥ labdhā tvad-prasādāt mayā acyuta . sthitaḥ asmi gata-sandehaḥ kariṣye vacanam tava .. 73 ..
सञ्जय उवाच । / sanjaya uvacha
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः । संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ 74 ॥
इति अहम् वासुदेवस्य पार्थस्य च महात्मनः । संवादम् इमम् अश्रौषम् अद्भुतम् रोम-हर्षणम् ॥ ७४ ॥
iti aham vāsudevasya pārthasya ca mahātmanaḥ . saṃvādam imam aśrauṣam adbhutam roma-harṣaṇam .. 74 ..
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् । योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ 75 ॥
व्यास-प्रसादात् श्रुतवान् एतत् गुह्यम् अहम् परम् । योगम् योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥ ७५ ॥
vyāsa-prasādāt śrutavān etat guhyam aham param . yogam yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam .. 75 ..
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ 76 ॥
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् । केशव-अर्जुनयोः पुण्यम् हृष्यामि च मुहुर् मुहुर् ॥ ७६ ॥
rājan saṃsmṛtya saṃsmṛtya saṃvādam imam adbhutam . keśava-arjunayoḥ puṇyam hṛṣyāmi ca muhur muhur .. 76 ..
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः । विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः ॥ 77 ॥
तत् च संस्मृत्य संस्मृत्य रूपम् अति अद्भुतम् हरेः । विस्मयः मे महान् राजन् हृष्यामि च पुनर् पुनर् ॥ ७७ ॥
tat ca saṃsmṛtya saṃsmṛtya rūpam ati adbhutam hareḥ . vismayaḥ me mahān rājan hṛṣyāmi ca punar punar .. 77 ..
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ 78 ॥
यत्र योगेश्वरः कृष्णः यत्र पार्थः धनुः-धरः । तत्र श्रीः विजयः भूतिः ध्रुवा नीतिः मतिः मम ॥ ७८ ॥
yatra yogeśvaraḥ kṛṣṇaḥ yatra pārthaḥ dhanuḥ-dharaḥ . tatra śrīḥ vijayaḥ bhūtiḥ dhruvā nītiḥ matiḥ mama .. 78 ..
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसन्न्यासयोगो नामाष्टादशोऽध्यायः ॥ 18 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे मोक्षसन्न्यासयोगः नाम अष्टादशः अध्यायः ॥ १८ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde mokṣasannyāsayogaḥ nāma aṣṭādaśaḥ adhyāyaḥ .. 18 ..

Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In