सशैलवनधात्रीणां यथाधारोऽहिनायकः । सर्वेषां योगतन्त्राणां तथाधारो हि कुण्डली ॥ ३.१ ॥
PADACHEDA
यथा आधारः अहि-नायकः । सर्वेषाम् योग-तन्त्राणाम् तथा आधारः हि कुण्डली ॥ ३।१ ॥
TRANSLITERATION
yathā ādhāraḥ ahi-nāyakaḥ . sarveṣām yoga-tantrāṇām tathā ādhāraḥ hi kuṇḍalī .. 3.1 ..
सुप्ता गुरुप्रसादेन यदा जागर्ति कुण्डली । तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोऽपि च ॥ ३.२ ॥
PADACHEDA
सुप्ता गुरु-प्रसादेन यदा जागर्ति कुण्डली । तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयः अपि च ॥ ३।२ ॥
TRANSLITERATION
suptā guru-prasādena yadā jāgarti kuṇḍalī . tadā sarvāṇi padmāni bhidyante granthayaḥ api ca .. 3.2 ..
प्राणस्य शून्यपदवी तदा राजपथायते । तदा चित्तं निरालम्बं तदा कालस्य वञ्चनम् ॥ ३.३ ॥
PADACHEDA
प्राणस्य शून्यपदवी तदा राजपथायते । तदा चित्तम् निरालम्बम् तदा कालस्य वञ्चनम् ॥ ३।३ ॥
TRANSLITERATION
prāṇasya śūnyapadavī tadā rājapathāyate . tadā cittam nirālambam tadā kālasya vañcanam .. 3.3 ..
सुषुम्णा शून्यपदवी ब्रह्मरन्ध्रः महापथः । श्मशानं शाम्भवी मध्यमार्गश्चेत्येकवाचकाः ॥ ३.४ ॥
PADACHEDA
सुषुम्णा शून्यपदवी ब्रह्मरन्ध्रः महापथः । श्मशानम् शाम्भवी मध्य-मार्गः च इति एकवाचकाः ॥ ३।४ ॥
TRANSLITERATION
suṣumṇā śūnyapadavī brahmarandhraḥ mahāpathaḥ . śmaśānam śāmbhavī madhya-mārgaḥ ca iti ekavācakāḥ .. 3.4 ..
तस्मात्सर्वप्रयत्नेन प्रबोधयितुं ईश्वरीम् । ब्रह्मद्वारमुखे सुप्तां मुद्राभ्यासं समाचरेत् ॥ ३.५ ॥
PADACHEDA
तस्मात् सर्व-प्रयत्नेन प्रबोधयितुम् ईश्वरीम् । ब्रह्मद्वार-मुखे सुप्ताम् मुद्रा-अभ्यासम् समाचरेत् ॥ ३।५ ॥
TRANSLITERATION
tasmāt sarva-prayatnena prabodhayitum īśvarīm . brahmadvāra-mukhe suptām mudrā-abhyāsam samācaret .. 3.5 ..
महामुद्रा महाबन्धो महावेधश्च खेचरी । उड्डीयानं मूलबन्धश्च बन्धो जालन्धराभिधः ॥ ३.६ ॥
PADACHEDA
महामुद्रा महाबन्धः महावेधः च खेचरी । उड्डीयानम् मूलबन्धः च बन्धः जालन्धर-अभिधः ॥ ३।६ ॥
TRANSLITERATION
mahāmudrā mahābandhaḥ mahāvedhaḥ ca khecarī . uḍḍīyānam mūlabandhaḥ ca bandhaḥ jālandhara-abhidhaḥ .. 3.6 ..
करणी विपरीताख्या वज्रोली शक्तिचालनम् । इदं हि मुद्रादशकं जरामरणनाशनम् ॥ ३.७ ॥
PADACHEDA
। इदम् हि मुद्रा-दशकम् जरा-मरण-नाशनम् ॥ ३।७ ॥
TRANSLITERATION
. idam hi mudrā-daśakam jarā-maraṇa-nāśanam .. 3.7 ..
आदिनाथोदितं दिव्यं अष्टैश्वर्यप्रदायकम् । वल्लभं सर्वसिद्धानां दुर्लभं मरुतां अपि ॥ ३.८ ॥
PADACHEDA
आदिनाथ-उदितम् दिव्यम् अष्ट-ऐश्वर्य-प्रदायकम् । वल्लभम् सर्व-सिद्धानाम् दुर्लभम् मरुताम् अपि ॥ ३।८ ॥
TRANSLITERATION
ādinātha-uditam divyam aṣṭa-aiśvarya-pradāyakam . vallabham sarva-siddhānām durlabham marutām api .. 3.8 ..
गोपनीयं प्रयत्नेन यथा रत्नकरण्डकम् । कस्यचिन्नैव वक्तव्यं कुलस्त्रीसुरतं यथा ॥ ३.९ ॥
PADACHEDA
गोपनीयम् प्रयत्नेन यथा रत्न-करण्डकम् । कस्यचिद् ना एव वक्तव्यम् कुलस्त्री-सुरतम् यथा ॥ ३।९ ॥
TRANSLITERATION
gopanīyam prayatnena yathā ratna-karaṇḍakam . kasyacid nā eva vaktavyam kulastrī-suratam yathā .. 3.9 ..
अथ महामुद्रा
पादमूलेन वामेन योनिं सम्पीड्य दक्षिणाम् । प्रसारितं पदं कृत्वा कराभ्यां धारयेद्दृढम् ॥ ३.१० ॥
PADACHEDA
पाद-मूलेन वामेन योनिम् सम्पीड्य दक्षिणाम् । प्रसारितम् पदम् कृत्वा कराभ्याम् धारयेत् दृढम् ॥ ३।१० ॥
TRANSLITERATION
pāda-mūlena vāmena yonim sampīḍya dakṣiṇām . prasāritam padam kṛtvā karābhyām dhārayet dṛḍham .. 3.10 ..
कण्ठे बन्धं समारोप्य धारयेद्वायुं ऊर्ध्वतः । यथा दण्डहतः सर्पो दण्डाकारः प्रजायते ॥ ३.११ ॥
PADACHEDA
कण्ठे बन्धम् समारोप्य धारयेत् वायुम् ऊर्ध्वतस् । यथा दण्ड-हतः सर्पः दण्ड-आकारः प्रजायते ॥ ३।११ ॥
TRANSLITERATION
kaṇṭhe bandham samāropya dhārayet vāyum ūrdhvatas . yathā daṇḍa-hataḥ sarpaḥ daṇḍa-ākāraḥ prajāyate .. 3.11 ..
ऋज्वीभूता तथा शक्तिः कुण्डली सहसा भवेत् । तदा सा मरणावस्था जायते द्विपुटाश्रया ॥ ३.१२ ॥
PADACHEDA
ऋज्वीभूता तथा शक्तिः कुण्डली सहसा भवेत् । तदा सा मरण-अवस्था जायते द्वि-पुट-आश्रया ॥ ३।१२ ॥
TRANSLITERATION
ṛjvībhūtā tathā śaktiḥ kuṇḍalī sahasā bhavet . tadā sā maraṇa-avasthā jāyate dvi-puṭa-āśrayā .. 3.12 ..
ततः शनैः शनैरेव रेचयेन्नैव वेगतः । महामुद्रां च तेनैव वदन्ति विबुधोत्तमाः ॥ ३.१३ ॥
PADACHEDA
ततस् शनैस् शनैस् एव रेचयेत् न एव वेगतः । महामुद्राम् च तेन एव वदन्ति विबुध-उत्तमाः ॥ ३।१३ ॥
TRANSLITERATION
tatas śanais śanais eva recayet na eva vegataḥ . mahāmudrām ca tena eva vadanti vibudha-uttamāḥ .. 3.13 ..
इयं खलु महामुद्रा महासिद्धैः प्रदर्शिता । महाक्लेशादयो दोषाः क्षीयन्ते मरणादयः । महामुद्रां च तेनैव वदन्ति विबुधोत्तमाः ॥ ३.१४ ॥
PADACHEDA
इयम् खलु महामुद्रा महासिद्धैः प्रदर्शिता । महा-क्लेश-आदयः दोषाः क्षीयन्ते मरण-आदयः । महामुद्राम् च तेन एव वदन्ति विबुध-उत्तमाः ॥ ३।१४ ॥
TRANSLITERATION
iyam khalu mahāmudrā mahāsiddhaiḥ pradarśitā . mahā-kleśa-ādayaḥ doṣāḥ kṣīyante maraṇa-ādayaḥ . mahāmudrām ca tena eva vadanti vibudha-uttamāḥ .. 3.14 ..
चन्द्राङ्गे तु समभ्यस्य सूर्याङ्गे पुनरभ्यसेत् । यावत्तुल्या भवेत्सङ्ख्या ततो मुद्रां विसर्जयेत् ॥ ३.१५ ॥
PADACHEDA
चन्द्र-अङ्गे तु समभ्यस्य सूर्य-अङ्गे पुनर् अभ्यसेत् । यावत् तुल्या भवेत् सङ्ख्या ततस् मुद्राम् विसर्जयेत् ॥ ३।१५ ॥
TRANSLITERATION
candra-aṅge tu samabhyasya sūrya-aṅge punar abhyaset . yāvat tulyā bhavet saṅkhyā tatas mudrām visarjayet .. 3.15 ..
न हि पथ्यं अपथ्यं वा रसाः सर्वेऽपि नीरसाः । अपि भुक्तं विषं घोरं पीयूषं अपि जीर्यति ॥ ३.१६ ॥
PADACHEDA
न हि पथ्यम् अपथ्यम् वा रसाः सर्वे अपि नीरसाः । अपि भुक्तम् विषम् घोरम् पीयूषम् अपि जीर्यति ॥ ३।१६ ॥
TRANSLITERATION
na hi pathyam apathyam vā rasāḥ sarve api nīrasāḥ . api bhuktam viṣam ghoram pīyūṣam api jīryati .. 3.16 ..
क्षयकुष्ठगुदावर्तगुल्माजीर्णपुरोगमाः । तस्य दोषाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् ॥ ३.१७ ॥
PADACHEDA
क्षय-कुष्ठ-गुदावर्त-गुल्म-अजीर्ण-पुरोगमाः । तस्य दोषाः क्षयम् यान्ति महामुद्राम् तु यः अभ्यसेत् ॥ ३।१७ ॥
TRANSLITERATION
kṣaya-kuṣṭha-gudāvarta-gulma-ajīrṇa-purogamāḥ . tasya doṣāḥ kṣayam yānti mahāmudrām tu yaḥ abhyaset .. 3.17 ..
कथितेयं महामुद्रा महासिद्धिकरा नॄणाम् । गोपनीया प्रयत्नेन न देया यस्य कस्यचित् ॥ ३.१८ ॥
PADACHEDA
कथिता इयम् महामुद्रा महा-सिद्धि-करा नॄणाम् । गोपनीया प्रयत्नेन न देया यस्य कस्यचिद् ॥ ३।१८ ॥
TRANSLITERATION
kathitā iyam mahāmudrā mahā-siddhi-karā nṝṇām . gopanīyā prayatnena na deyā yasya kasyacid .. 3.18 ..
अथ महाबन्धः
पार्ष्णिं वामस्य पादस्य योनिस्थाने नियोजयेत् । वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा ॥ ३.१९ ॥
PADACHEDA
पार्ष्णिम् वामस्य पादस्य योनि-स्थाने नियोजयेत् । वाम-ऊरु-उपरि संस्थाप्य दक्षिणम् चरणम् तथा ॥ ३।१९ ॥
TRANSLITERATION
pārṣṇim vāmasya pādasya yoni-sthāne niyojayet . vāma-ūru-upari saṃsthāpya dakṣiṇam caraṇam tathā .. 3.19 ..
पूरयित्वा ततो वायुं हृदये चुबुकं दृढम् । निष्पीड्यं वायुं आकुञ्च्य मनोमध्ये नियोजयेत् ॥ ३.२० ॥
PADACHEDA
पूरयित्वा ततस् वायुम् हृदये चुबुकम् दृढम् । निष्पीड्यम् वायुम् आकुञ्च्य मनः-मध्ये नियोजयेत् ॥ ३।२० ॥
TRANSLITERATION
pūrayitvā tatas vāyum hṛdaye cubukam dṛḍham . niṣpīḍyam vāyum ākuñcya manaḥ-madhye niyojayet .. 3.20 ..
धारयित्वा यथाशक्ति रेचयेदनिलम् शनैः । सव्याङ्गे तु समभ्यस्य दक्षाङ्गे पुनरभ्यसेत् ॥ ३.२१ ॥
PADACHEDA
धारयित्वा यथाशक्ति रेचयेत् अनिलम् शनैस् । सव्य-अङ्गे तु समभ्यस्य दक्ष-अङ्गे पुनर् अभ्यसेत् ॥ ३।२१ ॥
TRANSLITERATION
dhārayitvā yathāśakti recayet anilam śanais . savya-aṅge tu samabhyasya dakṣa-aṅge punar abhyaset .. 3.21 ..
मतं अत्र तु केषांचित्कण्ठबन्धं विवर्जयेत् । राजदन्तस्थजिह्वाया बन्धः शस्तो भवेदिति ॥ ३.२२ ॥
PADACHEDA
मतम् अत्र तु केषांचिद् कण्ठ-बन्धम् विवर्जयेत् । राजदन्त-स्थ-जिह्वायाः बन्धः शस्तः भवेत् इति ॥ ३।२२ ॥
TRANSLITERATION
matam atra tu keṣāṃcid kaṇṭha-bandham vivarjayet . rājadanta-stha-jihvāyāḥ bandhaḥ śastaḥ bhavet iti .. 3.22 ..
अयं तु सर्वनाडीनां ऊर्ध्वं गतिनिरोधकः । अयं खलु महाबन्धो महासिद्धिप्रदायकः ॥ ३.२३ ॥
PADACHEDA
अयम् तु सर्व-नाडीनाम् ऊर्ध्वम् गति-निरोधकः । अयम् खलु महाबन्धः महा-सिद्धि-प्रदायकः ॥ ३।२३ ॥
TRANSLITERATION
ayam tu sarva-nāḍīnām ūrdhvam gati-nirodhakaḥ . ayam khalu mahābandhaḥ mahā-siddhi-pradāyakaḥ .. 3.23 ..
कालपाशमहाबन्धविमोचनविचक्षणः । त्रिवेणीसङ्गमं धत्ते केदारं प्रापयेन्मनः ॥ ३.२४ ॥
PADACHEDA
। त्रिवेणी-सङ्गमम् धत्ते केदारम् प्रापयेत् मनः ॥ ३।२४ ॥
TRANSLITERATION
. triveṇī-saṅgamam dhatte kedāram prāpayet manaḥ .. 3.24 ..
रूपलावण्यसम्पन्ना यथा स्त्री पुरुषं विना । महामुद्रामहाबन्धौ निष्फलौ वेधवर्जितौ ॥ ३.२५ ॥
PADACHEDA
रूप-लावण्य-सम्पन्ना यथा स्त्री पुरुषम् विना । महामुद्रा-महाबन्धौ निष्फलौ वेध-वर्जितौ ॥ ३।२५ ॥
TRANSLITERATION
rūpa-lāvaṇya-sampannā yathā strī puruṣam vinā . mahāmudrā-mahābandhau niṣphalau vedha-varjitau .. 3.25 ..
अथ महावेधः
महाबन्धस्थितो योगी कृत्वा पूरकं एकधीः । वायूनां गतिं आवृत्य निभृतं कण्ठमुद्रया ॥ ३.२६ ॥
PADACHEDA
महाबन्ध-स्थितः योगी कृत्वा पूरकम् एक-धीः । वायूनाम् गतिम् आवृत्य निभृतम् कण्ठ-मुद्रया ॥ ३।२६ ॥
TRANSLITERATION
mahābandha-sthitaḥ yogī kṛtvā pūrakam eka-dhīḥ . vāyūnām gatim āvṛtya nibhṛtam kaṇṭha-mudrayā .. 3.26 ..
समहस्तयुगो भूमौ स्फिचौ सनाडयेच्छनैः । पुटद्वयं अतिक्रम्य वायुः स्फुरति मध्यगः ॥ ३.२७ ॥
PADACHEDA
सम-हस्त-युगः भूमौ स्फिचौ स नाडयेत् शनैस् । पुट-द्वयम् अतिक्रम्य वायुः स्फुरति मध्य-गः ॥ ३।२७ ॥
TRANSLITERATION
sama-hasta-yugaḥ bhūmau sphicau sa nāḍayet śanais . puṭa-dvayam atikramya vāyuḥ sphurati madhya-gaḥ .. 3.27 ..
सोमसूर्याग्निसम्बन्धो जायते चामृताय वै । मृतावस्था समुत्पन्ना ततो वायुं विरेचयेत् ॥ ३.२८ ॥
PADACHEDA
सोम-सूर्य-अग्नि-सम्बन्धः जायते च अमृताय वै । मृतावस्था समुत्पन्ना ततस् वायुम् विरेचयेत् ॥ ३।२८ ॥
TRANSLITERATION
soma-sūrya-agni-sambandhaḥ jāyate ca amṛtāya vai . mṛtāvasthā samutpannā tatas vāyum virecayet .. 3.28 ..
महावेधोऽयं अभ्यासान्महासिद्धिप्रदायकः । वलीपलितवेपघ्नः सेव्यते साधकोत्तमैः ॥ ३.२९ ॥
PADACHEDA
महावेधः अयम् अभ्यासात् महा-सिद्धि-प्रदायकः । वली-पलित-वेप-घ्नः सेव्यते साधक-उत्तमैः ॥ ३।२९ ॥
TRANSLITERATION
mahāvedhaḥ ayam abhyāsāt mahā-siddhi-pradāyakaḥ . valī-palita-vepa-ghnaḥ sevyate sādhaka-uttamaiḥ .. 3.29 ..
एतत्त्रयं महागुह्यं जरामृत्युविनाशनम् । वह्निवृद्धिकरं चैव ह्यणिमादिगुणप्रदम् ॥ ३.३० ॥
PADACHEDA
एतत् त्रयम् महा-गुह्यम् जरा-मृत्यु-विनाशनम् । वह्नि-वृद्धि-करम् च एव हि अणिम-आदि-गुण-प्रदम् ॥ ३।३० ॥
TRANSLITERATION
etat trayam mahā-guhyam jarā-mṛtyu-vināśanam . vahni-vṛddhi-karam ca eva hi aṇima-ādi-guṇa-pradam .. 3.30 ..
अष्टधा क्रियते चैव यामे यामे दिने दिने । पुण्यसंभारसन्धाय पापौघभिदुरं सदा । सम्यक्शिक्षावतां एवं स्वल्पं प्रथमसाधनम् ॥ ३.३१ ॥
PADACHEDA
अष्टधा क्रियते च एव यामे यामे दिने दिने । पुण्य-संभार-सन्धाय पाप-ओघ-भिदुरम् सदा । सम्यक् शिक्षावताम् एवम् सु अल्पम् प्रथम-साधनम् ॥ ३।३१ ॥
TRANSLITERATION
aṣṭadhā kriyate ca eva yāme yāme dine dine . puṇya-saṃbhāra-sandhāya pāpa-ogha-bhiduram sadā . samyak śikṣāvatām evam su alpam prathama-sādhanam .. 3.31 ..
अथ खेचरी
कपालकुहरे जिह्वा प्रविष्टा विपरीतगा । भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥ ३.३२ ॥
PADACHEDA
कपाल-कुहरे जिह्वा प्रविष्टा विपरीत-गा । भ्रुवोः अन्तर्गता दृष्टिः मुद्रा भवति खेचरी ॥ ३।३२ ॥
TRANSLITERATION
kapāla-kuhare jihvā praviṣṭā viparīta-gā . bhruvoḥ antargatā dṛṣṭiḥ mudrā bhavati khecarī .. 3.32 ..
छेदनचालनदोहैः कलां क्रमेणाथ वर्धयेत्तावत् । सा यावद्भ्रूमध्यं स्पृशति तदा खेचरीसिद्धिः ॥ ३.३३ ॥
PADACHEDA
छेदन-चालन-दोहैः कलाम् क्रमेण अथ वर्धयेत् तावत् । सा यावत् भ्रूमध्यम् स्पृशति तदा खेचरी-सिद्धिः ॥ ३।३३ ॥
TRANSLITERATION
chedana-cālana-dohaiḥ kalām krameṇa atha vardhayet tāvat . sā yāvat bhrūmadhyam spṛśati tadā khecarī-siddhiḥ .. 3.33 ..
स्नुहीपत्रनिभं शस्त्रं सुतीक्ष्णं स्निग्धनिर्मलम् । समादाय ततस्तेन रोममात्रं समुच्छिनेत् ॥ ३.३४ ॥
PADACHEDA
स्नुही-पत्र-निभम् शस्त्रम् सु तीक्ष्णम् स्निग्ध-निर्मलम् । समादाय ततस् तेन रोम-मात्रम् समुच्छिनेत् ॥ ३।३४ ॥
TRANSLITERATION
snuhī-patra-nibham śastram su tīkṣṇam snigdha-nirmalam . samādāya tatas tena roma-mātram samucchinet .. 3.34 ..
ततः सैन्धवपथ्याभ्यां चूर्णिताभ्यां प्रघर्षयेत् । पुनः सप्तदिने प्राप्ते रोममात्रं समुच्छिनेत् ॥ ३.३५ ॥
PADACHEDA
ततस् सैन्धव-पथ्याभ्याम् चूर्णिताभ्याम् प्रघर्षयेत् । पुनर् सप्तदिने प्राप्ते रोम-मात्रम् समुच्छिनेत् ॥ ३।३५ ॥
TRANSLITERATION
tatas saindhava-pathyābhyām cūrṇitābhyām pragharṣayet . punar saptadine prāpte roma-mātram samucchinet .. 3.35 ..
एवं क्रमेण षण्मासं नित्यं युक्तः समाचरेत् । षण्मासाद्रसनामूलशिराबन्धः प्रणश्यति ॥ ३.३६ ॥
PADACHEDA
एवम् क्रमेण षष्-मासम् नित्यम् युक्तः समाचरेत् । षष्-मासात् रसना-मूल-सिरा-बन्धः प्रणश्यति ॥ ३।३६ ॥
TRANSLITERATION
evam krameṇa ṣaṣ-māsam nityam yuktaḥ samācaret . ṣaṣ-māsāt rasanā-mūla-sirā-bandhaḥ praṇaśyati .. 3.36 ..
कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत् । सा भवेत्खेचरी मुद्रा व्योमचक्रं तदुच्यते ॥ ३.३७ ॥
PADACHEDA
कलाम् पराङ्मुखीम् कृत्वा त्रिपथे परियोजयेत् । सा भवेत् खेचरी मुद्रा व्योमचक्रम् तत् उच्यते ॥ ३।३७ ॥
TRANSLITERATION
kalām parāṅmukhīm kṛtvā tripathe pariyojayet . sā bhavet khecarī mudrā vyomacakram tat ucyate .. 3.37 ..
रसनां ऊर्ध्वगां कृत्वा क्षणार्धं अपि तिष्ठति । विषैर्विमुच्यते योगी व्याधिमृत्युजरादिभिः ॥ ३.३८ ॥
PADACHEDA
रसनाम् ऊर्ध्व-गाम् कृत्वा क्षणार्धम् अपि तिष्ठति । विषैः विमुच्यते योगी व्याधि-मृत्यु-जरा-आदिभिः ॥ ३।३८ ॥
TRANSLITERATION
rasanām ūrdhva-gām kṛtvā kṣaṇārdham api tiṣṭhati . viṣaiḥ vimucyate yogī vyādhi-mṛtyu-jarā-ādibhiḥ .. 3.38 ..
न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ॥ ३.३९ ॥
PADACHEDA
न रोगः मरणम् तन्द्रा न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत् तस्य यः मुद्राम् वेत्ति खेचरीम् ॥ ३।३९ ॥
TRANSLITERATION
na rogaḥ maraṇam tandrā na nidrā na kṣudhā tṛṣā . na ca mūrcchā bhavet tasya yaḥ mudrām vetti khecarīm .. 3.39 ..
पीड्यते न स रोगेण लिप्यते न च कर्मणा । बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् ॥ ३.४० ॥
PADACHEDA
पीड्यते न स रोगेण लिप्यते न च कर्मणा । बाध्यते न स कालेन यः मुद्राम् वेत्ति खेचरीम् ॥ ३।४० ॥
TRANSLITERATION
pīḍyate na sa rogeṇa lipyate na ca karmaṇā . bādhyate na sa kālena yaḥ mudrām vetti khecarīm .. 3.40 ..
चित्तं चरति खे यस्माज्जिह्वा चरति खे गता । तेनैषा खेचरी नाम मुद्रा सिद्धैर्निरूपिता ॥ ३.४१ ॥
PADACHEDA
चित्तम् चरति खे यस्मात् जिह्वा चरति खे गता । तेन एषा खेचरी नाम मुद्रा सिद्धैः निरूपिता ॥ ३।४१ ॥
TRANSLITERATION
cittam carati khe yasmāt jihvā carati khe gatā . tena eṣā khecarī nāma mudrā siddhaiḥ nirūpitā .. 3.41 ..
खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः । न तस्य क्षरते बिन्दुः कामिन्याः श्लेषितस्य च ॥ ३.४२ ॥
PADACHEDA
खेचर्या मुद्रितम् येन विवरम् लम्बिका-ऊर्ध्वतस् । न तस्य क्षरते बिन्दुः कामिन्याः श्लेषितस्य च ॥ ३।४२ ॥
TRANSLITERATION
khecaryā mudritam yena vivaram lambikā-ūrdhvatas . na tasya kṣarate binduḥ kāminyāḥ śleṣitasya ca .. 3.42 ..
चलितोऽपि यदा बिन्दुः सम्प्राप्तो योनिमण्डलम् । व्रजत्यूर्ध्वं हृतः शक्त्या निबद्धो योनिमुद्रया ॥ ३.४३ ॥
PADACHEDA
चलितः अपि यदा बिन्दुः सम्प्राप्तः योनि-मण्डलम् । व्रजति ऊर्ध्वम् हृतः शक्त्या निबद्धः योनिमुद्रया ॥ ३।४३ ॥
TRANSLITERATION
calitaḥ api yadā binduḥ samprāptaḥ yoni-maṇḍalam . vrajati ūrdhvam hṛtaḥ śaktyā nibaddhaḥ yonimudrayā .. 3.43 ..
ऊर्ध्वजिह्वः स्थिरो भूत्वा सोमपानं करोति यः । मासार्धेन न सन्देहो मृत्युं जयति योगवित् ॥ ३.४४ ॥
PADACHEDA
ऊर्ध्वजिह्वः स्थिरः भूत्वा सोम-पानम् करोति यः । मास-अर्धेन न सन्देहः मृत्युम् जयति योग-विद् ॥ ३।४४ ॥
TRANSLITERATION
ūrdhvajihvaḥ sthiraḥ bhūtvā soma-pānam karoti yaḥ . māsa-ardhena na sandehaḥ mṛtyum jayati yoga-vid .. 3.44 ..
नित्यं सोमकलापूर्णं शरीरं यस्य योगिनः । तक्षकेणापि दष्टस्य विषं तस्य न सर्पति ॥ ३.४५ ॥
PADACHEDA
नित्यम् सोम-कला-पूर्णम् शरीरम् यस्य योगिनः । तक्षकेण अपि दष्टस्य विषम् तस्य न सर्पति ॥ ३।४५ ॥
TRANSLITERATION
nityam soma-kalā-pūrṇam śarīram yasya yoginaḥ . takṣakeṇa api daṣṭasya viṣam tasya na sarpati .. 3.45 ..
इन्धनानि यथा वह्निस्तैलवर्ति च दीपकः । तथा सोमकलापूर्णं देही देहं न मुञ्चति ॥ ३.४६ ॥
PADACHEDA
इन्धनानि यथा वह्निः तैल-वर्ति च दीपकः । तथा सोम-कला-पूर्णम् देही देहम् न मुञ्चति ॥ ३।४६ ॥
TRANSLITERATION
indhanāni yathā vahniḥ taila-varti ca dīpakaḥ . tathā soma-kalā-pūrṇam dehī deham na muñcati .. 3.46 ..
गोमांसं भक्षयेन्नित्यं पिबेदमरवारुणीम् । कुलीनं तं अहं मन्ये चेतरे कुलघातकाः ॥ ३.४७ ॥
PADACHEDA
गो-मांसम् भक्षयेत् नित्यम् पिबेत् अमरवारुणीम् । कुलीनम् तम् अहम् मन्ये च इतरे कुल-घातकाः ॥ ३।४७ ॥
TRANSLITERATION
go-māṃsam bhakṣayet nityam pibet amaravāruṇīm . kulīnam tam aham manye ca itare kula-ghātakāḥ .. 3.47 ..
गोशब्देनोदिता जिह्वा तत्प्रवेशो हि तालुनि । गोमांसभक्षणं तत्तु महापातकनाशनम् ॥ ३.४८ ॥
PADACHEDA
गो-शब्देन उदिता जिह्वा तद्-प्रवेशः हि तालुनि । गो-मांस-भक्षणम् तत् तु महापातक-नाशनम् ॥ ३।४८ ॥
TRANSLITERATION
go-śabdena uditā jihvā tad-praveśaḥ hi tāluni . go-māṃsa-bhakṣaṇam tat tu mahāpātaka-nāśanam .. 3.48 ..
जिह्वाप्रवेशसम्भूतवह्निनोत्पादितः खलु । चन्द्रात्स्रवति यः सारः सा स्यादमरवारुणी ॥ ३.४९ ॥
PADACHEDA
जिह्वा-प्रवेश-सम्भूत-वह्निना उत्पादितः खलु । चन्द्रात् स्रवति यः सारः सा स्यात् अमरवारुणी ॥ ३।४९ ॥
TRANSLITERATION
jihvā-praveśa-sambhūta-vahninā utpāditaḥ khalu . candrāt sravati yaḥ sāraḥ sā syāt amaravāruṇī .. 3.49 ..
चुम्बन्ती यदि लम्बिकाग्रं अनिशं जिह्वारसस्यन्दिनीसक्षारा कटुकाम्लदुग्धसदृशी मध्वाज्यतुल्या तथा । व्याधीनां हरणं जरान्तकरणं शस्त्रागमोदीरणंतस्य स्यादमरत्वं अष्टगुणितं सिद्धाङ्गनाकर्षणम् ॥ ३.५० ॥
PADACHEDA
चुम्बन्ती यदि लम्बिका-अग्रम् अनिशम् जिह्वा-रस-स्यन्दिनी सक्षारा कटुक-अम्ल-दुग्ध-सदृशी मधु-आज्य-तुल्या तथा । व्याधीनाम् हरणम् जरा-अन्त-करणम् शस्त्र-आगम-उदीरणम् तस्य स्यात् अमर-त्वम् अष्ट-गुणितम् सिद्ध-अङ्गना-आकर्षणम् ॥ ३।५० ॥
TRANSLITERATION
cumbantī yadi lambikā-agram aniśam jihvā-rasa-syandinī sakṣārā kaṭuka-amla-dugdha-sadṛśī madhu-ājya-tulyā tathā . vyādhīnām haraṇam jarā-anta-karaṇam śastra-āgama-udīraṇam tasya syāt amara-tvam aṣṭa-guṇitam siddha-aṅganā-ākarṣaṇam .. 3.50 ..
मूर्ध्नः षोडशपत्रपद्मगलितं प्राणादवाप्तं हठाद्ऊर्द्व्हास्यो रसनां नियम्य विवरे शक्तिं परां चिन्तयन् । उत्कल्लोलकलाजलं च विमलं धारामयं यः पिबेन्निर्व्याधिः स मृणालकोमलवपुर्योगी चिरं जीवति ॥ ३.५१ ॥
PADACHEDA
मूर्ध्नः षोडश-पत्र-पद्म-गलितम् प्राणात् अवाप्तम् हठात् ऊर्द्व्ह-आस्यः रसनाम् नियम्य विवरे शक्तिम् पराम् चिन्तयन् । च विमलम् धारा-मयम् यः पिबेत् निर्व्याधिः स मृणाल-कोमल-वपुः-योगी चिरम् जीवति ॥ ३।५१ ॥
TRANSLITERATION
mūrdhnaḥ ṣoḍaśa-patra-padma-galitam prāṇāt avāptam haṭhāt ūrdvha-āsyaḥ rasanām niyamya vivare śaktim parām cintayan . ca vimalam dhārā-mayam yaḥ pibet nirvyādhiḥ sa mṛṇāla-komala-vapuḥ-yogī ciram jīvati .. 3.51 ..
यत्प्रालेयं प्रहितसुषिरं मेरुमूर्धान्तरस्थंतस्मिंस्तत्त्वं प्रवदति सुधीस्तन्मुखं निम्नगानाम् । चन्द्रात्सारः स्रवति वपुषस्तेन मृत्युर्नराणांतद्बध्नीयात्सुकरणं अधो नान्यथा कायसिद्धिः ॥ ३.५२ ॥
PADACHEDA
यत् प्रालेयम् प्रहित-सुषिरम् मेरु-मूर्ध-अन्तर-स्थम् तस्मिन् तत्त्वम् प्रवदति सुधीः तत् मुखम् निम्नगानाम् । चन्द्रात् सारः स्रवति वपुषः तेन मृत्युः नराणाम् तत् बध्नीयात् अधस् न अन्यथा काय-सिद्धिः ॥ ३।५२ ॥
TRANSLITERATION
yat prāleyam prahita-suṣiram meru-mūrdha-antara-stham tasmin tattvam pravadati sudhīḥ tat mukham nimnagānām . candrāt sāraḥ sravati vapuṣaḥ tena mṛtyuḥ narāṇām tat badhnīyāt adhas na anyathā kāya-siddhiḥ .. 3.52 ..
सुषिरं ज्ञानजनकं पञ्चस्रोतःसमन्वितम् । तिष्ठते खेचरी मुद्रा तस्मिन्शून्ये निरञ्जने ॥ ३.५३ ॥
PADACHEDA
सुषिरम् ज्ञान-जनकम् पञ्च-स्रोतः-समन्वितम् । तिष्ठते खेचरी मुद्रा तस्मिन् शून्ये निरञ्जने ॥ ३।५३ ॥
TRANSLITERATION
suṣiram jñāna-janakam pañca-srotaḥ-samanvitam . tiṣṭhate khecarī mudrā tasmin śūnye nirañjane .. 3.53 ..
एकं सृष्टिमयं बीजं एका मुद्रा च खेचरी । एको देवो निरालम्ब एकावस्था मनोन्मनी ॥ ३.५४ ॥
PADACHEDA
एकम् सृष्टि-मयम् बीजम् एका मुद्रा च खेचरी । एकः देवः निरालम्बः एका अवस्था मनोन्मनी ॥ ३।५४ ॥
TRANSLITERATION
ekam sṛṣṭi-mayam bījam ekā mudrā ca khecarī . ekaḥ devaḥ nirālambaḥ ekā avasthā manonmanī .. 3.54 ..
अथ उड्डीयानबन्धः
बद्धो येन सुषुम्णायां प्राणस्तूड्डीयते यतः । तस्मादुड्डीयनाख्योऽयं योगिभिः समुदाहृतः ॥ ३.५५ ॥
PADACHEDA
बद्धः येन सुषुम्णायाम् प्राणः तु उड्डीयते यतस् । तस्मात् उड्डीयन-आख्यः अयम् योगिभिः समुदाहृतः ॥ ३।५५ ॥
TRANSLITERATION
baddhaḥ yena suṣumṇāyām prāṇaḥ tu uḍḍīyate yatas . tasmāt uḍḍīyana-ākhyaḥ ayam yogibhiḥ samudāhṛtaḥ .. 3.55 ..
उड्डीनं कुरुते यस्मादविश्रान्तं महाखगः । उड्डीयानं तदेव स्यात्तव बन्धोऽभिधीयते ॥ ३.५६ ॥
PADACHEDA
उड्डीनम् कुरुते यस्मात् अविश्रान्तम् महाखगः । उड्डीयानम् तत् एव स्यात् तव बन्धः अभिधीयते ॥ ३।५६ ॥
TRANSLITERATION
uḍḍīnam kurute yasmāt aviśrāntam mahākhagaḥ . uḍḍīyānam tat eva syāt tava bandhaḥ abhidhīyate .. 3.56 ..
उदरे पश्चिमं तानं नाभेरूर्ध्वं च कारयेत् । उड्डीयानो ह्यसौ बन्धो मृत्युमातङ्गकेसरी ॥ ३.५७ ॥
PADACHEDA
उदरे पश्चिमम् तानम् नाभेः ऊर्ध्वम् च कारयेत् । उड्डीयानः हि असौ बन्धः मृत्यु-मातङ्ग-केसरी ॥ ३।५७ ॥
TRANSLITERATION
udare paścimam tānam nābheḥ ūrdhvam ca kārayet . uḍḍīyānaḥ hi asau bandhaḥ mṛtyu-mātaṅga-kesarī .. 3.57 ..
उड्डीयानं तु सहजं गुरुणा कथितं सदा । अभ्यसेत्सततं यस्तु वृद्धोऽपि तरुणायते ॥ ३.५८ ॥
PADACHEDA
उड्डीयानम् तु सहजम् गुरुणा कथितम् सदा । अभ्यसेत् सततम् यः तु वृद्धः अपि तरुणायते ॥ ३।५८ ॥
TRANSLITERATION
uḍḍīyānam tu sahajam guruṇā kathitam sadā . abhyaset satatam yaḥ tu vṛddhaḥ api taruṇāyate .. 3.58 ..
नाभेरूर्ध्वं अधश्चापि तानं कुर्यात्प्रयत्नतः । षण्मासं अभ्यसेन्मृत्युं जयत्येव न संशयः ॥ ३.५९ ॥
PADACHEDA
नाभेः ऊर्ध्वम् अधस् च अपि तानम् कुर्यात् प्रयत्नतः । षष्-मासम् अभ्यसेत् मृत्युम् जयति एव न संशयः ॥ ३।५९ ॥
TRANSLITERATION
nābheḥ ūrdhvam adhas ca api tānam kuryāt prayatnataḥ . ṣaṣ-māsam abhyaset mṛtyum jayati eva na saṃśayaḥ .. 3.59 ..
सर्वेषां एव बन्धानां उत्तमो ह्युड्डीयानकः । उड्डियाने दृढे बन्धे मुक्तिः स्वाभाविकी भवेत् ॥ ३.६० ॥
PADACHEDA
सर्वेषाम् एव बन्धानाम् उत्तमः हि उड्डीयानकः । उड्डियाने दृढे बन्धे मुक्तिः स्वाभाविकी भवेत् ॥ ३।६० ॥
TRANSLITERATION
sarveṣām eva bandhānām uttamaḥ hi uḍḍīyānakaḥ . uḍḍiyāne dṛḍhe bandhe muktiḥ svābhāvikī bhavet .. 3.60 ..
अथ मूलबन्धः
पार्ष्णिभागेन सम्पीड्य योनिं आकुञ्चयेद्गुदम् । अपानं ऊर्ध्वं आकृष्य मूलबन्धोऽभिधीयते ॥ ३.६१ ॥
PADACHEDA
पार्ष्णि-भागेन सम्पीड्य योनिम् आकुञ्चयेत् गुदम् । अपानम् ऊर्ध्वम् आकृष्य मूलबन्धः अभिधीयते ॥ ३।६१ ॥
TRANSLITERATION
pārṣṇi-bhāgena sampīḍya yonim ākuñcayet gudam . apānam ūrdhvam ākṛṣya mūlabandhaḥ abhidhīyate .. 3.61 ..
अधोगतिं अपानं वा ऊर्ध्वगं कुरुते बलात् । आकुञ्चनेन तं प्राहुर्मूलबन्धं हि योगिनः ॥ ३.६२ ॥
PADACHEDA
अधोगतिम् अपानम् वै ऊर्ध्व-गम् कुरुते बलात् । आकुञ्चनेन तम् प्राहुः मूलबन्धम् हि योगिनः ॥ ३।६२ ॥
TRANSLITERATION
adhogatim apānam vai ūrdhva-gam kurute balāt . ākuñcanena tam prāhuḥ mūlabandham hi yoginaḥ .. 3.62 ..
गुदं पार्ष्ण्या तु सम्पीड्य वायुं आकुञ्चयेद्बलात् । वारं वारं यथा चोर्ध्वं समायाति समीरणः ॥ ३.६३ ॥
PADACHEDA
गुदम् पार्ष्ण्या तु सम्पीड्य वायुम् आकुञ्चयेत् बलात् । वारम् वारम् यथा च ऊर्ध्वम् समायाति समीरणः ॥ ३।६३ ॥
TRANSLITERATION
gudam pārṣṇyā tu sampīḍya vāyum ākuñcayet balāt . vāram vāram yathā ca ūrdhvam samāyāti samīraṇaḥ .. 3.63 ..
प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् । गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः ॥ ३.६४ ॥
PADACHEDA
प्राण-अपानौ नाद-बिन्दू मूलबन्धेन च एकताम् । गत्वा योगस्य संसिद्धिम् यच्छतः न अत्र संशयः ॥ ३।६४ ॥
TRANSLITERATION
prāṇa-apānau nāda-bindū mūlabandhena ca ekatām . gatvā yogasya saṃsiddhim yacchataḥ na atra saṃśayaḥ .. 3.64 ..
अपानप्राणयोरैक्यं क्षयो मूत्रपुरीषयोः । युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ॥ ३.६५ ॥
PADACHEDA
अपान-प्राणयोः ऐक्यम् क्षयः मूत्र-पुरीषयोः । युवा भवति वृद्धः अपि सततम् मूलबन्धनात् ॥ ३।६५ ॥
TRANSLITERATION
apāna-prāṇayoḥ aikyam kṣayaḥ mūtra-purīṣayoḥ . yuvā bhavati vṛddhaḥ api satatam mūlabandhanāt .. 3.65 ..
अपान ऊर्ध्वगे जाते प्रयाते वह्निमण्डलम् । तदानलशिखा दीर्घा जायते वायुनाहता ॥ ३.६६ ॥
PADACHEDA
अपाने ऊर्ध्व-गे जाते प्रयाते वह्नि-मण्डलम् । तदा अनल-शिखा दीर्घा जायते वायुना आहता ॥ ३।६६ ॥
TRANSLITERATION
apāne ūrdhva-ge jāte prayāte vahni-maṇḍalam . tadā anala-śikhā dīrghā jāyate vāyunā āhatā .. 3.66 ..
ततो यातो वह्न्यपानौ प्राणं उष्णस्वरूपकम् । तेनात्यन्तप्रदीप्तस्तु ज्वलनो देहजस्तथा ॥ ३.६७ ॥
PADACHEDA
ततस् यातः वह्नि-अपानौ प्राणम् उष्ण-स्वरूपकम् । तेन अत्यन्त-प्रदीप्तः तु ज्वलनः देह-जः तथा ॥ ३।६७ ॥
TRANSLITERATION
tatas yātaḥ vahni-apānau prāṇam uṣṇa-svarūpakam . tena atyanta-pradīptaḥ tu jvalanaḥ deha-jaḥ tathā .. 3.67 ..
तेन कुण्डलिनी सुप्ता सन्तप्ता सम्प्रबुध्यते । दण्डाहता भुजङ्गीव निश्वस्य ऋजुतां व्रजेत् ॥ ३.६८ ॥
PADACHEDA
तेन कुण्डलिनी सुप्ता सन्तप्ता सम्प्रबुध्यते । दण्ड-आहता भुजङ्गी इव निश्वस्य ऋजु-ताम् व्रजेत् ॥ ३।६८ ॥
TRANSLITERATION
tena kuṇḍalinī suptā santaptā samprabudhyate . daṇḍa-āhatā bhujaṅgī iva niśvasya ṛju-tām vrajet .. 3.68 ..
बिलं प्रविष्टेव ततो ब्रह्मनाड्यं तरं व्रजेत् । तस्मान्नित्यं मूलबन्धः कर्तव्यो योगिभिः सदा ॥ ३.६९ ॥
PADACHEDA
बिलम् प्रविष्टा इव ततस् ब्रह्मनाड्यम् तरम् व्रजेत् । तस्मात् नित्यम् मूलबन्धः कर्तव्यः योगिभिः सदा ॥ ३।६९ ॥
TRANSLITERATION
bilam praviṣṭā iva tatas brahmanāḍyam taram vrajet . tasmāt nityam mūlabandhaḥ kartavyaḥ yogibhiḥ sadā .. 3.69 ..
अथ जलन्धरबन्धः
कण्ठं आकुञ्च्य हृदये स्थापयेच्चिबुकं दृढम् । बन्धो जालन्धराख्योऽयं जरामृत्युविनाशकः ॥ ३.७० ॥
PADACHEDA
कण्ठम् आकुञ्च्य हृदये स्थापयेत् चिबुकम् दृढम् । बन्धः जालन्धर-आख्यः अयम् जरा-मृत्यु-विनाशकः ॥ ३।७० ॥
TRANSLITERATION
kaṇṭham ākuñcya hṛdaye sthāpayet cibukam dṛḍham . bandhaḥ jālandhara-ākhyaḥ ayam jarā-mṛtyu-vināśakaḥ .. 3.70 ..
बध्नाति हि सिराजालं अधोगामि नभोजलम् । ततो जालन्धरो बन्धः कण्ठदुःखौघनाशनः ॥ ३.७१ ॥
PADACHEDA
बध्नाति हि सिरा-जालम् अधोगामि नभः-जलम् । ततस् जालन्धरः बन्धः कण्ठ-दुःख-ओघ-नाशनः ॥ ३।७१ ॥
TRANSLITERATION
badhnāti hi sirā-jālam adhogāmi nabhaḥ-jalam . tatas jālandharaḥ bandhaḥ kaṇṭha-duḥkha-ogha-nāśanaḥ .. 3.71 ..
जालन्धरे कृते बन्धे कण्ठसंकोचलक्षणे । न पीयूषं पतत्यग्नौ न च वायुः प्रकुप्यति ॥ ३.७२ ॥
PADACHEDA
जालन्धरे कृते बन्धे कण्ठ-संकोच-लक्षणे । न पीयूषम् पतति अग्नौ न च वायुः प्रकुप्यति ॥ ३।७२ ॥
TRANSLITERATION
jālandhare kṛte bandhe kaṇṭha-saṃkoca-lakṣaṇe . na pīyūṣam patati agnau na ca vāyuḥ prakupyati .. 3.72 ..
कण्ठसंकोचनेनैव द्वे नाड्यौ स्तम्भयेद्दृढम् । मध्यचक्रं इदं ज्ञेयं षोडशाधारबन्धनम् ॥ ३.७३ ॥
PADACHEDA
कण्ठ-संकोचनेन एव द्वे नाड्यौ स्तम्भयेत् दृढम् । मध्य-चक्रम् इदम् ज्ञेयम् षोडश-आधार-बन्धनम् ॥ ३।७३ ॥
TRANSLITERATION
kaṇṭha-saṃkocanena eva dve nāḍyau stambhayet dṛḍham . madhya-cakram idam jñeyam ṣoḍaśa-ādhāra-bandhanam .. 3.73 ..
मूलस्थानं समाकुञ्च्य उड्डियानं तु कारयेत् । इडां च पिङ्गलां बद्ध्वा वाहयेत्पश्चिमे पथि ॥ ३.७४ ॥
PADACHEDA
मूलस्थानम् समाकुञ्च्य उड्डियानम् तु कारयेत् । इडाम् च पिङ्गलाम् बद्ध्वा वाहयेत् पश्चिमे पथि ॥ ३।७४ ॥
TRANSLITERATION
mūlasthānam samākuñcya uḍḍiyānam tu kārayet . iḍām ca piṅgalām baddhvā vāhayet paścime pathi .. 3.74 ..
अनेनैव विधानेन प्रयाति पवनो लयम् । ततो न जायते मृत्युर्जरारोगादिकं तथा ॥ ३.७५ ॥
PADACHEDA
अनेन एव विधानेन प्रयाति पवनः लयम् । ततस् न जायते मृत्युः जरा-रोग-आदिकम् तथा ॥ ३।७५ ॥
TRANSLITERATION
anena eva vidhānena prayāti pavanaḥ layam . tatas na jāyate mṛtyuḥ jarā-roga-ādikam tathā .. 3.75 ..
बन्धत्रयं इदं श्रेष्ठं महासिद्धैश्च सेवितम् । सर्वेषां हठतन्त्राणां साधनं योगिनो विदुः ॥ ३.७६ ॥
PADACHEDA
बन्ध-त्रयम् इदम् श्रेष्ठम् महासिद्धैः च सेवितम् । सर्वेषाम् हठ-तन्त्राणाम् साधनम् योगिनः विदुः ॥ ३।७६ ॥
TRANSLITERATION
bandha-trayam idam śreṣṭham mahāsiddhaiḥ ca sevitam . sarveṣām haṭha-tantrāṇām sādhanam yoginaḥ viduḥ .. 3.76 ..
यत्किंचित्स्रवते चन्द्रादमृतं दिव्यरूपिणः । तत्सर्वं ग्रसते सूर्यस्तेन पिण्डो जरायुतः ॥ ३.७७ ॥
PADACHEDA
यत् किंचिद् स्रवते चन्द्रात् अमृतम् दिव्य-रूपिणः । तत् सर्वम् ग्रसते सूर्यः तेन पिण्डः जरा-युतः ॥ ३।७७ ॥
TRANSLITERATION
yat kiṃcid sravate candrāt amṛtam divya-rūpiṇaḥ . tat sarvam grasate sūryaḥ tena piṇḍaḥ jarā-yutaḥ .. 3.77 ..
अथ विपरीतकरणी मुद्रा
तत्रास्ति करणं दिव्यं सूर्यस्य मुखवञ्चनम् । गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थकोटिभिः ॥ ३.७८ ॥
PADACHEDA
तत्र अस्ति करणम् दिव्यम् सूर्यस्य मुख-वञ्चनम् । गुरु-उपदेशतः ज्ञेयम् न तु शास्त्र-अर्थ-कोटिभिः ॥ ३।७८ ॥
TRANSLITERATION
tatra asti karaṇam divyam sūryasya mukha-vañcanam . guru-upadeśataḥ jñeyam na tu śāstra-artha-koṭibhiḥ .. 3.78 ..
ऊर्ध्वनाभेरधस्तालोरूर्ध्वं भानुरधः शशी । करणी विपरीताखा गुरुवाक्येन लभ्यते ॥ ३.७९ ॥
PADACHEDA
ऊर्ध्व-नाभेः अधस् तालोः ऊर्ध्वम् भानुः अधस् शशी । करणी विपरीत-आखा गुरु-वाक्येन लभ्यते ॥ ३।७९ ॥
TRANSLITERATION
ūrdhva-nābheḥ adhas tāloḥ ūrdhvam bhānuḥ adhas śaśī . karaṇī viparīta-ākhā guru-vākyena labhyate .. 3.79 ..
नित्यं अभ्यासयुक्तस्य जठराग्निविवर्धनी । आहारो बहुलस्तस्य सम्पाद्यः साधकस्य च ॥ ३.८० ॥
PADACHEDA
नित्यम् अभ्यास-युक्तस्य जठर-अग्नि-विवर्धनी । आहारः बहुलः तस्य सम्पाद्यः साधकस्य च ॥ ३।८० ॥
TRANSLITERATION
nityam abhyāsa-yuktasya jaṭhara-agni-vivardhanī . āhāraḥ bahulaḥ tasya sampādyaḥ sādhakasya ca .. 3.80 ..
अल्पाहारो यदि भवेदग्निर्दहति तत्क्षणात् । अधःशिराश्चोर्ध्वपादः क्षणं स्यात्प्रथमे दिने ॥ ३.८१ ॥
PADACHEDA
अल्प-आहारः यदि भवेत् अग्निः दहति तद्-क्षणात् । अधःशिराः च ऊर्ध्व-पादः क्षणम् स्यात् प्रथमे दिने ॥ ३।८१ ॥
TRANSLITERATION
alpa-āhāraḥ yadi bhavet agniḥ dahati tad-kṣaṇāt . adhaḥśirāḥ ca ūrdhva-pādaḥ kṣaṇam syāt prathame dine .. 3.81 ..
क्षणाच्च किंचिदधिकं अभ्यसेच्च दिने दिने । वलितं पलितं चैव षण्मासोर्ध्वं न दृश्यते । याममात्रं तु यो नित्यं अभ्यसेत्स तु कालजित् ॥ ३.८२ ॥
PADACHEDA
क्षणात् च किंचिद् अधिकम् अभ्यसेत् च दिने दिने । वलितम् पलितम् च एव षष्-मास-ऊर्ध्वम् न दृश्यते । याम-मात्रम् तु यः नित्यम् अभ्यसेत् स तु काल-जित् ॥ ३।८२ ॥
TRANSLITERATION
kṣaṇāt ca kiṃcid adhikam abhyaset ca dine dine . valitam palitam ca eva ṣaṣ-māsa-ūrdhvam na dṛśyate . yāma-mātram tu yaḥ nityam abhyaset sa tu kāla-jit .. 3.82 ..
अथ वज्रोली
स्वेच्छया वर्तमानोऽपि योगोक्तैर्नियमैर्विना । वज्रोलीं यो विजानाति स योगी सिद्धिभाजनम् ॥ ३.८३ ॥
PADACHEDA
स्व-इच्छया वर्तमानः अपि योग-उक्तैः नियमैः विना । वज्रोलीम् यः विजानाति स योगी सिद्धि-भाजनम् ॥ ३।८३ ॥
TRANSLITERATION
sva-icchayā vartamānaḥ api yoga-uktaiḥ niyamaiḥ vinā . vajrolīm yaḥ vijānāti sa yogī siddhi-bhājanam .. 3.83 ..
तत्र वस्तुद्वयं वक्ष्ये दुर्लभं यस्य कस्यचित् । क्षीरं चैकं द्वितीयं तु नारी च वशवर्तिनी ॥ ३.८४ ॥
PADACHEDA
तत्र वस्तु-द्वयम् वक्ष्ये दुर्लभम् यस्य कस्यचिद् । क्षीरम् च एकम् द्वितीयम् तु नारी च वश-वर्तिनी ॥ ३।८४ ॥
TRANSLITERATION
tatra vastu-dvayam vakṣye durlabham yasya kasyacid . kṣīram ca ekam dvitīyam tu nārī ca vaśa-vartinī .. 3.84 ..
मेहनेन शनैः सम्यगूर्ध्वाकुञ्चनं अभ्यसेत् । पुरुषोऽप्यथवा नारी वज्रोलीसिद्धिं आप्नुयात् ॥ ३.८५ ॥
PADACHEDA
मेहनेन शनैस् सम्यक् ऊर्ध्व-आकुञ्चनम् अभ्यसेत् । पुरुषः अपि अथवा नारी वज्रोली-सिद्धिम् आप्नुयात् ॥ ३।८५ ॥
TRANSLITERATION
mehanena śanais samyak ūrdhva-ākuñcanam abhyaset . puruṣaḥ api athavā nārī vajrolī-siddhim āpnuyāt .. 3.85 ..
यत्नतः शस्तनालेन फूत्कारं वज्रकन्दरे । शनैः शनैः प्रकुर्वीत वायुसंचारकारणात् ॥ ३.८६ ॥
PADACHEDA
यत्नतः शस्त-नालेन फूत्कारम् वज्रकन्दरे । शनैस् शनैस् प्रकुर्वीत वायु-संचार-कारणात् ॥ ३।८६ ॥
TRANSLITERATION
yatnataḥ śasta-nālena phūtkāram vajrakandare . śanais śanais prakurvīta vāyu-saṃcāra-kāraṇāt .. 3.86 ..
नारीभगे पदद्बिन्दुं अभ्यासेनोर्ध्वं आहरेत् । चलितं च निजं बिन्दुं ऊर्ध्वं आकृष्य रक्षयेत् ॥ ३.८७ ॥
PADACHEDA
नारी-भगे अभ्यासेन ऊर्ध्वम् आहरेत् । चलितम् च निजम् बिन्दुम् ऊर्ध्वम् आकृष्य रक्षयेत् ॥ ३।८७ ॥
TRANSLITERATION
nārī-bhage abhyāsena ūrdhvam āharet . calitam ca nijam bindum ūrdhvam ākṛṣya rakṣayet .. 3.87 ..
एवं संरक्षयेद्बिन्दुं जयति योगवित् । मरणं बिन्दुपातेन जीवनं बिन्दुधारणात् ॥ ३.८८ ॥
PADACHEDA
एवम् संरक्षयेत् बिन्दुम् जयति योग-विद् । मरणम् बिन्दु-पातेन जीवनम् बिन्दु-धारणात् ॥ ३।८८ ॥
TRANSLITERATION
evam saṃrakṣayet bindum jayati yoga-vid . maraṇam bindu-pātena jīvanam bindu-dhāraṇāt .. 3.88 ..
सुगन्धो योगिनो देहे जायते बिन्दुधारणात् । यावद्बिन्दुः स्थिरो देहे तावत्कालभयं कुतः ॥ ३.८९ ॥
PADACHEDA
सुगन्धः योगिनः देहे जायते बिन्दु-धारणात् । यावत् बिन्दुः स्थिरः देहे तावत् काल-भयम् कुतस् ॥ ३।८९ ॥
TRANSLITERATION
sugandhaḥ yoginaḥ dehe jāyate bindu-dhāraṇāt . yāvat binduḥ sthiraḥ dehe tāvat kāla-bhayam kutas .. 3.89 ..
चित्तायत्तं नॄणां शुक्रं शुक्रायत्तं च जीवितम् । तस्माच्छुक्रं मनश्चैव रक्षणीयं प्रयत्नतः ॥ ३.९० ॥
PADACHEDA
चित्त-आयत्तम् नॄणाम् शुक्रम् शुक्र-आयत्तम् च जीवितम् । तस्मात् शुक्रम् मनः च एव रक्षणीयम् प्रयत्नतः ॥ ३।९० ॥
TRANSLITERATION
citta-āyattam nṝṇām śukram śukra-āyattam ca jīvitam . tasmāt śukram manaḥ ca eva rakṣaṇīyam prayatnataḥ .. 3.90 ..
ऋतुमत्या रजोऽप्येवं निजं बिन्दुं च रक्षयेत् । मेढ्रेणाकर्षयेदूर्ध्वं सम्यगभ्यासयोगवित् ॥ ३.९१ ॥
PADACHEDA
ऋतुमत्याः रजः अपि एवम् निजम् बिन्दुम् च रक्षयेत् । मेढ्रेण आकर्षयेत् ऊर्ध्वम् सम्यक् अभ्यास-योग-विद् ॥ ३।९१ ॥
TRANSLITERATION
ṛtumatyāḥ rajaḥ api evam nijam bindum ca rakṣayet . meḍhreṇa ākarṣayet ūrdhvam samyak abhyāsa-yoga-vid .. 3.91 ..
अथ सहजोलिः
सहजोलिश्चामरोलिर्वज्रोल्या भेद एकतः । जले सुभस्म निक्षिप्य दग्धगोमयसम्भवम् ॥ ३.९२ ॥
PADACHEDA
सहजोलिः च अमरोलिः वज्रोल्याः भेदः एकतस् । जले सुभस्म निक्षिप्य दग्ध-गोमय-सम्भवम् ॥ ३।९२ ॥
TRANSLITERATION
sahajoliḥ ca amaroliḥ vajrolyāḥ bhedaḥ ekatas . jale subhasma nikṣipya dagdha-gomaya-sambhavam .. 3.92 ..
वज्रोलीमैथुनादूर्ध्वं स्त्रीपुंसोः स्वाङ्गलेपनम् । आसीनयोः सुखेनैव मुक्तव्यापारयोः क्षणात् ॥ ३.९३ ॥
PADACHEDA
वज्रोली-मैथुनात् ऊर्ध्वम् स्त्री-पुंसोः स्व-अङ्ग-लेपनम् । आसीनयोः सुखेन एव मुक्त-व्यापारयोः क्षणात् ॥ ३।९३ ॥
TRANSLITERATION
vajrolī-maithunāt ūrdhvam strī-puṃsoḥ sva-aṅga-lepanam . āsīnayoḥ sukhena eva mukta-vyāpārayoḥ kṣaṇāt .. 3.93 ..
सहजोलिरियं प्रोक्ता श्रद्धेया योगिभिः सदा । अयं शुभकरो योगो भोगयुक्तोऽपि मुक्तिदः ॥ ३.९४ ॥
PADACHEDA
सहजोलिः इयम् प्रोक्ता श्रद्धेया योगिभिः सदा । अयम् शुभ-करः योगः भोग-युक्तः अपि मुक्ति-दः ॥ ३।९४ ॥
TRANSLITERATION
sahajoliḥ iyam proktā śraddheyā yogibhiḥ sadā . ayam śubha-karaḥ yogaḥ bhoga-yuktaḥ api mukti-daḥ .. 3.94 ..
अयं योगः पुण्यवतां धीराणां तत्त्वदर्शिनाम् । निर्मत्सराणां वै सिध्येन्न तु मत्सरशालिनाम् ॥ ३.९५ ॥
PADACHEDA
अयम् योगः पुण्यवताम् धीराणाम् तत्त्व-दर्शिनाम् । निर्मत्सराणाम् वै सिध्येत् न तु मत्सर-शालिनाम् ॥ ३।९५ ॥
TRANSLITERATION
ayam yogaḥ puṇyavatām dhīrāṇām tattva-darśinām . nirmatsarāṇām vai sidhyet na tu matsara-śālinām .. 3.95 ..
अथ अमरोली
पित्तोल्बणत्वात्प्रथमाम्बुधारांविहाय निःसारतयान्त्यधाराम् । निषेव्यते शीतलमध्यधाराकापालिके खण्डमतेऽमरोली ॥ ३.९६ ॥
PADACHEDA
पित्त-उल्बण-त्वात् प्रथम-अम्बु-धाराम् विहाय निःसार-तया आन्त्य-धाराम् । निषेव्यते शीतल-मध्य-धारा-कापालिके खण्ड-मते अमरोली ॥ ३।९६ ॥
TRANSLITERATION
pitta-ulbaṇa-tvāt prathama-ambu-dhārām vihāya niḥsāra-tayā āntya-dhārām . niṣevyate śītala-madhya-dhārā-kāpālike khaṇḍa-mate amarolī .. 3.96 ..
अमरीं यः पिबेन्नित्यं नस्यं कुर्वन्दिने दिने । वज्रोलीं अभ्यसेत्सम्यक्सामरोलीति कथ्यते ॥ ३.९७ ॥
PADACHEDA
अमरीम् यः पिबेत् नित्यम् नस्यम् कुर्वन् दिने दिने । वज्रोलीम् अभ्यसेत् सम्यक् सा अमरोली इति कथ्यते ॥ ३।९७ ॥
TRANSLITERATION
amarīm yaḥ pibet nityam nasyam kurvan dine dine . vajrolīm abhyaset samyak sā amarolī iti kathyate .. 3.97 ..
अभ्यासान्निःसृतां चान्द्रीं विभूत्या सह मिश्रयेत् । धारयेदुत्तमाङ्गेषु दिव्यदृष्टिः प्रजायते ॥ ३.९८ ॥
PADACHEDA
अभ्यासात् निःसृताम् चान्द्रीम् विभूत्या सह मिश्रयेत् । धारयेत् उत्तमाङ्गेषु दिव्य-दृष्टिः प्रजायते ॥ ३।९८ ॥
TRANSLITERATION
abhyāsāt niḥsṛtām cāndrīm vibhūtyā saha miśrayet . dhārayet uttamāṅgeṣu divya-dṛṣṭiḥ prajāyate .. 3.98 ..
पुंसो बिन्दुं समाकुञ्च्य सम्यगभ्यासपाटवात् । यदि नारी रजो रक्षेद्वज्रोल्या सापि योगिनी ॥ ३.९९ ॥
PADACHEDA
पुंसः बिन्दुम् समाकुञ्च्य सम्यक् अभ्यास-पाटवात् । यदि नारी रजः रक्षेत् वज्रोल्या सा अपि योगिनी ॥ ३।९९ ॥
TRANSLITERATION
puṃsaḥ bindum samākuñcya samyak abhyāsa-pāṭavāt . yadi nārī rajaḥ rakṣet vajrolyā sā api yoginī .. 3.99 ..
तस्याः किंचिद्रजो नाशं न गच्छति न संशयः । तस्याः शरीरे नादश्च बिन्दुतां एव गच्छति ॥ ३.१०० ॥
PADACHEDA
तस्याः किंचिद् रजः नाशम् न गच्छति न संशयः । तस्याः शरीरे नादः च बिन्दु-ताम् एव गच्छति ॥ ३।१०० ॥
TRANSLITERATION
tasyāḥ kiṃcid rajaḥ nāśam na gacchati na saṃśayaḥ . tasyāḥ śarīre nādaḥ ca bindu-tām eva gacchati .. 3.100 ..
स बिन्दुस्तद्रजश्चैव एकीभूय स्वदेहगौ । वज्रोल्यभ्यासयोगेन सर्वसिद्धिं प्रयच्छतः ॥ ३.१०१ ॥
PADACHEDA
स बिन्दुः तद्-रजः च एव एकीभूय स्व-देह-गौ । प्रयच्छतः ॥ ३।१०१ ॥
TRANSLITERATION
sa binduḥ tad-rajaḥ ca eva ekībhūya sva-deha-gau . prayacchataḥ .. 3.101 ..
रक्षेदाकुञ्चनादूर्ध्वं या रजः सा हि योगिनी । अतीतानागतं वेत्ति खेचरी च भवेद्ध्रुवम् ॥ ३.१०२ ॥
PADACHEDA
रक्षेत् आकुञ्चनात् ऊर्ध्वम् या रजः सा हि योगिनी । अतीत-अनागतम् वेत्ति खेचरी च भवेत् ध्रुवम् ॥ ३।१०२ ॥
TRANSLITERATION
rakṣet ākuñcanāt ūrdhvam yā rajaḥ sā hi yoginī . atīta-anāgatam vetti khecarī ca bhavet dhruvam .. 3.102 ..
देहसिद्धिं च लभते वज्रोल्यभ्यासयोगतः । अयं पुण्यकरो योगो भोगे भुक्तेऽपि मुक्तिदः ॥ ३.१०३ ॥
PADACHEDA
देह-सिद्धिम् च लभते वज्रोली-अभ्यास-योगतः । अयम् पुण्य-करः योगः भोगे भुक्ते अपि मुक्ति-दः ॥ ३।१०३ ॥
TRANSLITERATION
deha-siddhim ca labhate vajrolī-abhyāsa-yogataḥ . ayam puṇya-karaḥ yogaḥ bhoge bhukte api mukti-daḥ .. 3.103 ..
अथ शक्तिचालनम्
कुटिलाङ्गी कुण्डलिनी भुजङ्गी शक्तिरीश्वरी । कुण्डल्यरुन्धती चैते शब्दाः पर्यायवाचकाः ॥ ३.१०४ ॥
PADACHEDA
। कुण्डली-अरुन्धती च एते शब्दाः पर्याय-वाचकाः ॥ ३।१०४ ॥
TRANSLITERATION
. kuṇḍalī-arundhatī ca ete śabdāḥ paryāya-vācakāḥ .. 3.104 ..
उद्घाटयेत्कपाटं तु यथा कुंचिकया हठात् । कुण्डलिन्या तथा योगी मोक्षद्वारं विभेदयेत् ॥ ३.१०५ ॥
PADACHEDA
उद्घाटयेत् कपाटम् तु यथा कुंचिकया हठात् । कुण्डलिन्या तथा योगी मोक्ष-द्वारम् विभेदयेत् ॥ ३।१०५ ॥
TRANSLITERATION
udghāṭayet kapāṭam tu yathā kuṃcikayā haṭhāt . kuṇḍalinyā tathā yogī mokṣa-dvāram vibhedayet .. 3.105 ..
येन मार्गेण गन्तव्यं ब्रह्मस्थानं निरामयम् । मुखेनाच्छाद्य तद्वारं प्रसुप्ता परमेश्वरी ॥ ३.१०६ ॥
PADACHEDA
येन मार्गेण गन्तव्यम् ब्रह्म-स्थानम् निरामयम् । मुखेन आच्छाद्य तद्-वारम् प्रसुप्ता परमेश्वरी ॥ ३।१०६ ॥
TRANSLITERATION
yena mārgeṇa gantavyam brahma-sthānam nirāmayam . mukhena ācchādya tad-vāram prasuptā parameśvarī .. 3.106 ..
कन्दोर्ध्वे कुण्डली शक्तिः सुप्ता मोक्षाय योगिनाम् । बन्धनाय च मूढानां यस्तां वेत्ति स योगवित् ॥ ३.१०७ ॥
PADACHEDA
कन्द-ऊर्ध्वे कुण्डली शक्तिः सुप्ता मोक्षाय योगिनाम् । बन्धनाय च मूढानाम् यः ताम् वेत्ति स योग-विद् ॥ ३।१०७ ॥
TRANSLITERATION
kanda-ūrdhve kuṇḍalī śaktiḥ suptā mokṣāya yoginām . bandhanāya ca mūḍhānām yaḥ tām vetti sa yoga-vid .. 3.107 ..
कुण्डली कुटिलाकारा सर्पवत्परिकीर्तिता । सा शक्तिश्चालिता येन स मुक्तो नात्र संशयः ॥ ३.१०८ ॥
PADACHEDA
कुण्डली कुटिल-आकारा सर्प-वत् परिकीर्तिता । सा शक्तिः चालिता येन स मुक्तः न अत्र संशयः ॥ ३।१०८ ॥
TRANSLITERATION
kuṇḍalī kuṭila-ākārā sarpa-vat parikīrtitā . sā śaktiḥ cālitā yena sa muktaḥ na atra saṃśayaḥ .. 3.108 ..
गङ्गायमुनयोर्मध्ये बालरण्डां तपस्विनीम् । बलात्कारेण गृह्णीयात्तद्विष्णोः परमं पदम् ॥ ३.१०९ ॥
PADACHEDA
गङ्गा-यमुनयोः मध्ये बाल-रण्डाम् तपस्विनीम् । बलात्कारेण गृह्णीयात् तत् विष्णोः परमम् पदम् ॥ ३।१०९ ॥
TRANSLITERATION
gaṅgā-yamunayoḥ madhye bāla-raṇḍām tapasvinīm . balātkāreṇa gṛhṇīyāt tat viṣṇoḥ paramam padam .. 3.109 ..
इडा भगवती गङ्गा पिङ्गला यमुना नदी । इडापिङ्गलयोर्मध्ये बालरण्डा च कुण्डली ॥ ३.११० ॥
PADACHEDA
इडा भगवती गङ्गा पिङ्गला यमुना नदी । इडा-पिङ्गलयोः मध्ये बाल-रण्डा च कुण्डली ॥ ३।११० ॥
TRANSLITERATION
iḍā bhagavatī gaṅgā piṅgalā yamunā nadī . iḍā-piṅgalayoḥ madhye bāla-raṇḍā ca kuṇḍalī .. 3.110 ..
पुच्छे प्रगृह्य भुजङ्गीं सुप्तां उद्बोधयेच्च ताम् । निद्रां विहाय सा शक्तिरूर्ध्वं उत्तिष्ठते हठात् ॥ ३.१११ ॥
PADACHEDA
पुच्छे प्रगृह्य भुजङ्गीम् सुप्ताम् उद्बोधयेत् च ताम् । निद्राम् विहाय सा शक्तिः ऊर्ध्वम् उत्तिष्ठते हठात् ॥ ३।१११ ॥
TRANSLITERATION
pucche pragṛhya bhujaṅgīm suptām udbodhayet ca tām . nidrām vihāya sā śaktiḥ ūrdhvam uttiṣṭhate haṭhāt .. 3.111 ..
अवस्थिता चैव फणावती साप्रातश्च सायं प्रहरार्धमात्रम् । प्रपूर्य सूर्यात्परिधानयुक्त्याप्रगृह्य नित्यं परिचालनीया ॥ ३.११२ ॥
PADACHEDA
अवस्थिता च एव फणावती सा अ प्रातर् च सायम् प्रहर-अर्ध-मात्रम् । प्रपूर्य सूर्यात् परिधान-युक्त्या प्रगृह्य नित्यम् परिचालनीया ॥ ३।११२ ॥
TRANSLITERATION
avasthitā ca eva phaṇāvatī sā a prātar ca sāyam prahara-ardha-mātram . prapūrya sūryāt paridhāna-yuktyā pragṛhya nityam paricālanīyā .. 3.112 ..
ऊर्ध्वं वितस्तिमात्रं तु विस्तारं चतुरङ्गुलम् । मृदुलं धवलं प्रोक्तं वेष्टिताम्बरलक्षणम् ॥ ३.११३ ॥
PADACHEDA
ऊर्ध्वम् वितस्ति-मात्रम् तु विस्तारम् चतुर्-अङ्गुलम् । मृदुलम् धवलम् प्रोक्तम् वेष्टित-अम्बर-लक्षणम् ॥ ३।११३ ॥
TRANSLITERATION
ūrdhvam vitasti-mātram tu vistāram catur-aṅgulam . mṛdulam dhavalam proktam veṣṭita-ambara-lakṣaṇam .. 3.113 ..
सति वज्रासने पादौ कराभ्यां धारयेद्दृढम् । गुल्फदेशसमीपे च कन्दं तत्र प्रपीडयेत् ॥ ३.११४ ॥
PADACHEDA
सति वज्रासने पादौ कराभ्याम् धारयेत् दृढम् । गुल्फ-देश-समीपे च कन्दम् तत्र प्रपीडयेत् ॥ ३।११४ ॥
TRANSLITERATION
sati vajrāsane pādau karābhyām dhārayet dṛḍham . gulpha-deśa-samīpe ca kandam tatra prapīḍayet .. 3.114 ..
वज्रासने स्थितो योगी चालयित्वा च कुण्डलीम् । कुर्यादनन्तरं भस्त्रां कुण्डलीं आशु बोधयेत् ॥ ३.११५ ॥
PADACHEDA
वज्रासने स्थितः योगी चालयित्वा च कुण्डलीम् । कुर्यात् अनन्तरम् भस्त्राम् कुण्डलीम् आशु बोधयेत् ॥ ३।११५ ॥
TRANSLITERATION
vajrāsane sthitaḥ yogī cālayitvā ca kuṇḍalīm . kuryāt anantaram bhastrām kuṇḍalīm āśu bodhayet .. 3.115 ..
भानोराकुञ्चनं कुर्यात्कुण्डलीं चालयेत्ततः । मृत्युवक्त्रगतस्यापि तस्य मृत्युभयं कुतः ॥ ३.११६ ॥
PADACHEDA
भानोः आकुञ्चनम् कुर्यात् कुण्डलीम् चालयेत् ततस् । मृत्यु-वक्त्र-गतस्य अपि तस्य मृत्यु-भयम् कुतस् ॥ ३।११६ ॥
TRANSLITERATION
bhānoḥ ākuñcanam kuryāt kuṇḍalīm cālayet tatas . mṛtyu-vaktra-gatasya api tasya mṛtyu-bhayam kutas .. 3.116 ..
मुहूर्तद्वयपर्यन्तं निर्भयं चालनादसौ । ऊर्ध्वं आकृष्यते किंचित्सुषुम्णायां समुद्गता ॥ ३.११७ ॥
PADACHEDA
मुहूर्त-द्वय-पर्यन्तम् निर्भयम् चालनात् असौ । ऊर्ध्वम् आकृष्यते किंचिद् सुषुम्णायाम् समुद्गता ॥ ३।११७ ॥
TRANSLITERATION
muhūrta-dvaya-paryantam nirbhayam cālanāt asau . ūrdhvam ākṛṣyate kiṃcid suṣumṇāyām samudgatā .. 3.117 ..
तेन कुण्डलिनी तस्याः सुषुम्णाया मुखं ध्रुवम् । जहाति तस्मात्प्राणोऽयं सुषुम्णां व्रजति स्वतः ॥ ३.११८ ॥
PADACHEDA
तेन कुण्डलिनी तस्याः सुषुम्णायाः मुखम् ध्रुवम् । जहाति तस्मात् प्राणः अयम् सुषुम्णाम् व्रजति स्वतस् ॥ ३।११८ ॥
TRANSLITERATION
tena kuṇḍalinī tasyāḥ suṣumṇāyāḥ mukham dhruvam . jahāti tasmāt prāṇaḥ ayam suṣumṇām vrajati svatas .. 3.118 ..
तस्मात्संचालयेन्नित्यं सुखसुप्तां अरुन्धतीम् । तस्याः संचालनेनैव योगी रोगैः प्रमुच्यते ॥ ३.११९ ॥
PADACHEDA
तस्मात् संचालयेत् नित्यम् सुख-सुप्ताम् अरुन्धतीम् । तस्याः संचालनेन एव योगी रोगैः प्रमुच्यते ॥ ३।११९ ॥
TRANSLITERATION
tasmāt saṃcālayet nityam sukha-suptām arundhatīm . tasyāḥ saṃcālanena eva yogī rogaiḥ pramucyate .. 3.119 ..
येन संचालिता शक्तिः स योगी सिद्धिभाजनम् । किं अत्र बहुनोक्तेन कालं जयति लीलया ॥ ३.१२० ॥
PADACHEDA
येन संचालिता शक्तिः स योगी सिद्धि-भाजनम् । किम् अत्र बहुना उक्तेन कालम् जयति लीलया ॥ ३।१२० ॥
TRANSLITERATION
yena saṃcālitā śaktiḥ sa yogī siddhi-bhājanam . kim atra bahunā uktena kālam jayati līlayā .. 3.120 ..
ब्रह्मचर्यरतस्यैव नित्यं हितमिताशिनः । मण्डलाद्दृश्यते सिद्धिः कुण्डल्यभ्यासयोगिनः ॥ ३.१२१ ॥
PADACHEDA
ब्रह्मचर्य-रतस्य एव नित्यम् हित-मित-आशिनः । मण्डलात् दृश्यते सिद्धिः कुण्डली-अभ्यास-योगिनः ॥ ३।१२१ ॥
TRANSLITERATION
brahmacarya-ratasya eva nityam hita-mita-āśinaḥ . maṇḍalāt dṛśyate siddhiḥ kuṇḍalī-abhyāsa-yoginaḥ .. 3.121 ..
कुण्डलीं चालयित्वा तु भस्त्रां कुर्याद्विशेषतः । एवं अभ्यस्यतो नित्यं यमिनो यमभीः कुतः ॥ ३.१२२ ॥
PADACHEDA
कुण्डलीम् चालयित्वा तु भस्त्राम् कुर्यात् विशेषतः । एवम् अभ्यस्यतः नित्यम् यमिनः यम-भीः कुतस् ॥ ३।१२२ ॥
TRANSLITERATION
kuṇḍalīm cālayitvā tu bhastrām kuryāt viśeṣataḥ . evam abhyasyataḥ nityam yaminaḥ yama-bhīḥ kutas .. 3.122 ..
द्वासप्ततिसहस्राणां नाडीनां मलशोधने । कुतः प्रक्षालनोपायः कुण्डल्यभ्यसनादृते ॥ ३.१२३ ॥
PADACHEDA
द्वासप्तति-सहस्राणाम् नाडीनाम् मल-शोधने । कुतस् प्रक्षालन-उपायः कुण्डली-अभ्यसनात् ऋते ॥ ३।१२३ ॥
TRANSLITERATION
dvāsaptati-sahasrāṇām nāḍīnām mala-śodhane . kutas prakṣālana-upāyaḥ kuṇḍalī-abhyasanāt ṛte .. 3.123 ..
इयं तु मध्यमा नाडी दृढाभ्यासेन योगिनाम् । आसनप्राणसंयाममुद्राभिः सरला भवेत् ॥ ३.१२४ ॥
PADACHEDA
इयम् तु मध्यमा नाडी दृढ-अभ्यासेन योगिनाम् । आसन-प्राणसंयाम-मुद्राभिः सरला भवेत् ॥ ३।१२४ ॥
TRANSLITERATION
iyam tu madhyamā nāḍī dṛḍha-abhyāsena yoginām . āsana-prāṇasaṃyāma-mudrābhiḥ saralā bhavet .. 3.124 ..
अभ्यासे तु विनिद्राणां मनो धृत्वा समाधिना । रुद्राणी वा परा मुद्रा भद्रां सिद्धिं प्रयच्छति ॥ ३.१२५ ॥
PADACHEDA
अभ्यासे तु विनिद्राणाम् मनः धृत्वा समाधिना । रुद्राणी वा परा मुद्रा भद्राम् सिद्धिम् प्रयच्छति ॥ ३।१२५ ॥
TRANSLITERATION
abhyāse tu vinidrāṇām manaḥ dhṛtvā samādhinā . rudrāṇī vā parā mudrā bhadrām siddhim prayacchati .. 3.125 ..
राजयोगं विना पृथ्वी राजयोगं विना निशा । राजयोगं विना मुद्रा विचित्रापि न शोभते ॥ ३.१२६ ॥
PADACHEDA
राजयोगम् विना पृथ्वी राजयोगम् विना निशा । राजयोगम् विना मुद्रा विचित्रा अपि न शोभते ॥ ३।१२६ ॥
TRANSLITERATION
rājayogam vinā pṛthvī rājayogam vinā niśā . rājayogam vinā mudrā vicitrā api na śobhate .. 3.126 ..
मारुतस्य विधिं सर्वं मनोयुक्तं समभ्यसेत् । इतरत्र न कर्तव्या मनोवृत्तिर्मनीषिणा ॥ ३.१२७ ॥
PADACHEDA
मारुतस्य विधिम् सर्वम् मनः-युक्तम् समभ्यसेत् । इतरत्र न कर्तव्या मनः-वृत्तिः मनीषिणा ॥ ३।१२७ ॥
TRANSLITERATION
mārutasya vidhim sarvam manaḥ-yuktam samabhyaset . itaratra na kartavyā manaḥ-vṛttiḥ manīṣiṇā .. 3.127 ..
इति मुद्रा दश प्रोक्ता आदिनाथेन शम्भुना । एकैका तासु यमिनां महासिद्धिप्रदायिनी ॥ ३.१२८ ॥
PADACHEDA
इति मुद्राः दश प्रोक्ताः आदिनाथेन शम्भुना । एकैका तासु यमिनाम् महा-सिद्धि-प्रदायिनी ॥ ३।१२८ ॥
TRANSLITERATION
iti mudrāḥ daśa proktāḥ ādināthena śambhunā . ekaikā tāsu yaminām mahā-siddhi-pradāyinī .. 3.128 ..
उपदेशं हि मुद्राणां यो दत्ते साम्प्रदायिकम् । स एव श्रीगुरुः स्वामी साक्षादीश्वर एव सः ॥ ३.१२९ ॥
PADACHEDA
उपदेशम् हि मुद्राणाम् यः दत्ते साम्प्रदायिकम् । सः एव श्री-गुरुः स्वामी साक्षात् ईश्वरः एव सः ॥ ३।१२९ ॥
TRANSLITERATION
upadeśam hi mudrāṇām yaḥ datte sāmpradāyikam . saḥ eva śrī-guruḥ svāmī sākṣāt īśvaraḥ eva saḥ .. 3.129 ..
तस्य वाक्यपरो भूत्वा मुद्राभ्यासे समाहितः । अणिमादिगुणैः सार्धं लभते कालवञ्चनम् ॥ ३.१३० ॥
PADACHEDA
तस्य वाक्य-परः भूत्वा मुद्रा-अभ्यासे समाहितः । अणिम-आदि-गुणैः सार्धम् लभते काल-वञ्चनम् ॥ ३।१३० ॥
TRANSLITERATION
tasya vākya-paraḥ bhūtvā mudrā-abhyāse samāhitaḥ . aṇima-ādi-guṇaiḥ sārdham labhate kāla-vañcanam .. 3.130 ..
इति हठप्रदीपिकायां तृतीयोपदेशः ।
PADACHEDA
इति हठप्रदीपिकायाम् तृतीय-उपदेशः ।
TRANSLITERATION
iti haṭhapradīpikāyām tṛtīya-upadeśaḥ .