| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥०॥
नारायणम् नमस्कृत्य नरम् च एव नरोत्तमम् । देवीम् सरस्वतीम् च एव ततस् जयम् उदीरयेत् ॥०॥
nārāyaṇam namaskṛtya naram ca eva narottamam . devīm sarasvatīm ca eva tatas jayam udīrayet ..0..
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे । ००१ ।
लोमहर्षण-पुत्रः उग्रश्रवाः सूतः पौराणिकः नैमिष-अरण्ये शौनकस्य कुल-पतेः द्वादश-वार्षिके सत्रे । ००१ ।
lomaharṣaṇa-putraḥ ugraśravāḥ sūtaḥ paurāṇikaḥ naimiṣa-araṇye śaunakasya kula-pateḥ dvādaśa-vārṣike satre . 001 .
समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् । विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥२॥
समासीनान् अभ्यगच्छत् ब्रह्मर्षीन् संशित-व्रतान् । विनय-अवनतः भूत्वा कदाचिद् सूतनन्दनः ॥२॥
samāsīnān abhyagacchat brahmarṣīn saṃśita-vratān . vinaya-avanataḥ bhūtvā kadācid sūtanandanaḥ ..2..
तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः । चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ॥३॥
तम् आश्रमम् अनुप्राप्तम् नैमिष-अरण्य-वासिनः । चित्राः श्रोतुम् कथाः तत्र परिवव्रुः तपस्विनः ॥३॥
tam āśramam anuprāptam naimiṣa-araṇya-vāsinaḥ . citrāḥ śrotum kathāḥ tatra parivavruḥ tapasvinaḥ ..3..
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः । अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ॥४॥
अभिवाद्य मुनीन् तान् तु सर्वान् एव कृताञ्जलिः । अपृच्छत् स तपः-वृद्धिम् सद्भिः च एव अभिनन्दितः ॥४॥
abhivādya munīn tān tu sarvān eva kṛtāñjaliḥ . apṛcchat sa tapaḥ-vṛddhim sadbhiḥ ca eva abhinanditaḥ ..4..
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु । निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ॥५॥
अथ तेषु उपविष्टेषु सर्वेषु एव तपस्विषु । निर्दिष्टम् आसनम् भेजे विनयात् लोमहर्षणिः ॥५॥
atha teṣu upaviṣṭeṣu sarveṣu eva tapasviṣu . nirdiṣṭam āsanam bheje vinayāt lomaharṣaṇiḥ ..5..
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च । अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥६॥
सुख-आसीनम् ततस् तम् तु विश्रान्तम् उपलक्ष्य च । अथा अपृच्छत् ऋषिः तत्र कश्चिद् प्रस्तावयन् कथाः ॥६॥
sukha-āsīnam tatas tam tu viśrāntam upalakṣya ca . athā apṛcchat ṛṣiḥ tatra kaścid prastāvayan kathāḥ ..6..
कुत आगम्यते सौते क्व चायं विहृतस्त्वया । कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥७॥
कुतस् आगम्यते सौते क्व च अयम् विहृतः त्वया । कालः कमल-पत्र-अक्ष शंस एतत् पृच्छतः मम ॥७॥
kutas āgamyate saute kva ca ayam vihṛtaḥ tvayā . kālaḥ kamala-patra-akṣa śaṃsa etat pṛcchataḥ mama ..7..
सूत उवाच॥
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः । समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ॥८॥
जनमेजयस्य राजर्षेः सर्प-सत्रे महात्मनः । समीपे पार्थिव-इन्द्रस्य सम्यक् पारिक्षितस्य च ॥८॥
janamejayasya rājarṣeḥ sarpa-satre mahātmanaḥ . samīpe pārthiva-indrasya samyak pārikṣitasya ca ..8..
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः । कथिताश्चापि विधिवद्या वैशम्पायनेन वै ॥९॥
कृष्णद्वैपायन-प्रोक्ताः सु पुण्याः विविधाः कथाः । कथिताः च अपि विधिवत् याः वैशम्पायनेन वै ॥९॥
kṛṣṇadvaipāyana-proktāḥ su puṇyāḥ vividhāḥ kathāḥ . kathitāḥ ca api vidhivat yāḥ vaiśampāyanena vai ..9..
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः । बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च ॥१०॥1.1.11
श्रुत्वा अहम् ताः विचित्र-अर्थाः महाभारत-संश्रिताः । बहूनि सम्परिक्रम्य तीर्थानि आयतनानि च ॥१०॥१।१।११
śrutvā aham tāḥ vicitra-arthāḥ mahābhārata-saṃśritāḥ . bahūni samparikramya tīrthāni āyatanāni ca ..10..1.1.11
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् । गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ॥११॥ ( पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ॥११॥ )
समन्तपञ्चकम् नाम पुण्यम् द्विज-निषेवितम् । गतवान् अस्मि तम् देशम् युद्धम् यत्र अभवत् पुरा ॥११॥ ( पाण्डवानाम् कुरूणाम् च सर्वेषाम् च महीक्षिताम् ॥११॥ )
samantapañcakam nāma puṇyam dvija-niṣevitam . gatavān asmi tam deśam yuddham yatra abhavat purā ..11.. ( pāṇḍavānām kurūṇām ca sarveṣām ca mahīkṣitām ..11.. )
दिदृक्षुरागतस्तस्मात्समीपं भवतामिह । आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ॥१२॥
दिदृक्षुः आगतः तस्मात् समीपम् भवताम् इह । आयुष्मन्तः सर्वे एव ब्रह्म-भूताः हि मे मताः ॥१२॥
didṛkṣuḥ āgataḥ tasmāt samīpam bhavatām iha . āyuṣmantaḥ sarve eva brahma-bhūtāḥ hi me matāḥ ..12..
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः । कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः ॥१३॥ ( भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ॥१३॥ )
अस्मिन् यज्ञे महाभागाः सूर्य-पावक-वर्चसः । कृत-अभिषेकाः शुचयः कृत-जप्याः हुत-अग्नयः ॥१३॥ ( भवन्तः आसते स्वस्थाः ब्रवीमि किम् अहम् द्विजाः ॥१३॥ )
asmin yajñe mahābhāgāḥ sūrya-pāvaka-varcasaḥ . kṛta-abhiṣekāḥ śucayaḥ kṛta-japyāḥ huta-agnayaḥ ..13.. ( bhavantaḥ āsate svasthāḥ bravīmi kim aham dvijāḥ ..13.. )
पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः । इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥१४॥
पुराण-संश्रिताः पुण्याः कथाः वा धर्म-संश्रिताः । इतिवृत्तम् नरेन्द्राणाम् ऋषीणाम् च महात्मनाम् ॥१४॥
purāṇa-saṃśritāḥ puṇyāḥ kathāḥ vā dharma-saṃśritāḥ . itivṛttam narendrāṇām ṛṣīṇām ca mahātmanām ..14..
ऋषय ऊचुः॥
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा । सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥१५॥
द्वैपायनेन यत् प्रोक्तम् पुराणम् परम-ऋषिणा । सुरैः ब्रह्मर्षिभिः च एव श्रुत्वा यत् अभिपूजितम् ॥१५॥
dvaipāyanena yat proktam purāṇam parama-ṛṣiṇā . suraiḥ brahmarṣibhiḥ ca eva śrutvā yat abhipūjitam ..15..
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः । सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥१६॥
तस्य आख्यान-वरिष्ठस्य विचित्र-पद-पर्वणः । सूक्ष्म-अर्थ-न्याय-युक्तस्य वेद-अर्थैः भूषितस्य च ॥१६॥
tasya ākhyāna-variṣṭhasya vicitra-pada-parvaṇaḥ . sūkṣma-artha-nyāya-yuktasya veda-arthaiḥ bhūṣitasya ca ..16..
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् । संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥१७॥
भारतस्य इतिहासस्य पुण्याम् ग्रन्थ-अर्थ-संयुताम् । संस्कार-उपगताम् ब्राह्मीम् नाना शास्त्र-उपबृंहिताम् ॥१७॥
bhāratasya itihāsasya puṇyām grantha-artha-saṃyutām . saṃskāra-upagatām brāhmīm nānā śāstra-upabṛṃhitām ..17..
जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान् । यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया ॥१८॥
जनमेजयस्य याम् राज्ञः वैशम्पायनः उक्तवान् । यथावत् सः ऋषिः तुष्ट्या सत्रे द्वैपायन-आज्ञया ॥१८॥
janamejayasya yām rājñaḥ vaiśampāyanaḥ uktavān . yathāvat saḥ ṛṣiḥ tuṣṭyā satre dvaipāyana-ājñayā ..18..
वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः । संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् ॥१९॥
वेदैः चतुर्भिः समिताम् व्यासस्य अद्भुत-कर्मणः । संहिताम् श्रोतुम् इच्छामः धर्म्याम् पाप-भय-अपहाम् ॥१९॥
vedaiḥ caturbhiḥ samitām vyāsasya adbhuta-karmaṇaḥ . saṃhitām śrotum icchāmaḥ dharmyām pāpa-bhaya-apahām ..19..
सूत उवाच॥
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् । ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥२०॥
आद्यम् पुरुषम् ईशानम् पुरु-हूतम् पुरुष्टुतम् । ऋतम् एकाक्षरम् ब्रह्म व्यक्त-अव्यक्तम् सनातनम् ॥२०॥
ādyam puruṣam īśānam puru-hūtam puruṣṭutam . ṛtam ekākṣaram brahma vyakta-avyaktam sanātanam ..20..
असच्च सच्चैव च यद्विश्वं सदसतः परम् । परावराणां स्रष्टारं पुराणं परमव्ययम् ॥२१॥
असत् च सत् च एव च यत् विश्वम् सत्-असतः परम् । परावराणाम् स्रष्टारम् पुराणम् परम् अव्ययम् ॥२१॥
asat ca sat ca eva ca yat viśvam sat-asataḥ param . parāvarāṇām sraṣṭāram purāṇam param avyayam ..21..
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् । नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥२२॥
मङ्गल्यम् मङ्गलम् विष्णुम् वरेण्यम् अनघम् शुचिम् । नमस्कृत्य हृषीकेशम् चराचर-गुरुम् हरिम् ॥२२॥
maṅgalyam maṅgalam viṣṇum vareṇyam anagham śucim . namaskṛtya hṛṣīkeśam carācara-gurum harim ..22..
महर्षेः पूजितस्येह सर्वलोके महात्मनः । प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥२३॥
महा-ऋषेः पूजितस्य इह सर्व-लोके महात्मनः । प्रवक्ष्यामि मतम् कृत्स्नम् व्यासस्य अमित-तेजसः ॥२३॥
mahā-ṛṣeḥ pūjitasya iha sarva-loke mahātmanaḥ . pravakṣyāmi matam kṛtsnam vyāsasya amita-tejasaḥ ..23..
आचख्युः कवयः केचित्सम्प्रत्याचक्षते परे । आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि ॥२४॥
आचख्युः कवयः केचिद् सम्प्रति आचक्षते परे । आख्यास्यन्ति तथा एव अन्ये इतिहासम् इमम् भुवि ॥२४॥
ācakhyuḥ kavayaḥ kecid samprati ācakṣate pare . ākhyāsyanti tathā eva anye itihāsam imam bhuvi ..24..
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् । विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ॥२५॥1.1.27
इदम् तु त्रिषु लोकेषु महत् ज्ञानम् प्रतिष्ठितम् । विस्तरैः च समासैः च धार्यते यत् द्विजातिभिः ॥२५॥१।१।२७
idam tu triṣu lokeṣu mahat jñānam pratiṣṭhitam . vistaraiḥ ca samāsaiḥ ca dhāryate yat dvijātibhiḥ ..25..1.1.27
अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः । छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् ॥२६॥
अलङ्कृतम् शुभैः शब्दैः समयैः दिव्य-मानुषैः । छन्दोवृत्तैः च विविधैः अन्वितम् विदुषाम् प्रियम् ॥२६॥
alaṅkṛtam śubhaiḥ śabdaiḥ samayaiḥ divya-mānuṣaiḥ . chandovṛttaiḥ ca vividhaiḥ anvitam viduṣām priyam ..26..
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते । बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् ॥२७॥
निष्प्रभे अस्मिन् निरालोके सर्वतस् तमसा आवृते । बृहत्-अण्डम् अभूत् एकम् प्रजानाम् बीजम् अक्षयम् ॥२७॥
niṣprabhe asmin nirāloke sarvatas tamasā āvṛte . bṛhat-aṇḍam abhūt ekam prajānām bījam akṣayam ..27..
युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते । यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ॥२८॥
युगस्य आदौ निमित्तम् तत् महत् दिव्यम् प्रचक्षते । यस्मिन् तत् श्रूयते सत्यम् ज्योतिः ब्रह्म सनातनम् ॥२८॥
yugasya ādau nimittam tat mahat divyam pracakṣate . yasmin tat śrūyate satyam jyotiḥ brahma sanātanam ..28..
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम् । अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥२९॥
अद्भुतम् च अपि अचिन्त्यम् च सर्वत्र समताम् गतम् । अव्यक्तम् कारणम् सूक्ष्मम् यत् तत् सत्-असत्-आत्मकम् ॥२९॥
adbhutam ca api acintyam ca sarvatra samatām gatam . avyaktam kāraṇam sūkṣmam yat tat sat-asat-ātmakam ..29..
यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः । ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥३०॥
यस्मात् पितामहः जज्ञे प्रभुः एकः प्रजापतिः । ब्रह्मा सुरगुरुः स्थाणुः मनुः कः परमेष्ठी अथ ॥३०॥
yasmāt pitāmahaḥ jajñe prabhuḥ ekaḥ prajāpatiḥ . brahmā suraguruḥ sthāṇuḥ manuḥ kaḥ parameṣṭhī atha ..30..
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये । ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ॥३१॥
प्राचेतसः तथा दक्षः दक्ष-पुत्राः च सप्त ये । ततस् प्रजानाम् पतयः प्राभवन् एकविंशतिः ॥३१॥
prācetasaḥ tathā dakṣaḥ dakṣa-putrāḥ ca sapta ye . tatas prajānām patayaḥ prābhavan ekaviṃśatiḥ ..31..
पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुः । विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ॥३२॥
पुरुषः च अप्रमेय-आत्मा यम् सर्वम् ऋषयः विदुः । विश्वेदेवाः तथा आदित्याः वसवः अथ अश्विनौ अपि ॥३२॥
puruṣaḥ ca aprameya-ātmā yam sarvam ṛṣayaḥ viduḥ . viśvedevāḥ tathā ādityāḥ vasavaḥ atha aśvinau api ..32..
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा । ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः ॥३३॥
यक्षाः साध्याः पिशाचाः च गुह्यकाः पितरः तथा । ततस् प्रसूताः विद्वांसः शिष्टाः ब्रह्मर्षयः अमलाः ॥३३॥
yakṣāḥ sādhyāḥ piśācāḥ ca guhyakāḥ pitaraḥ tathā . tatas prasūtāḥ vidvāṃsaḥ śiṣṭāḥ brahmarṣayaḥ amalāḥ ..33..
राजर्षयश्च बहवः सर्वैः समुदिता गुणैः । आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा ॥३४॥
राजर्षयः च बहवः सर्वैः समुदिताः गुणैः । आपः द्यौः पृथिवी वायुः अन्तरिक्षम् दिशः तथा ॥३४॥
rājarṣayaḥ ca bahavaḥ sarvaiḥ samuditāḥ guṇaiḥ . āpaḥ dyauḥ pṛthivī vāyuḥ antarikṣam diśaḥ tathā ..34..
संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् । यच्चान्यदपि तत्सर्वं सम्भूतं लोकसाक्षिकम् ॥३५॥
संवत्सर-ऋतवः मासाः पक्ष-अहर्-रात्रयः क्रमात् । यत् च अन्यत् अपि तत् सर्वम् सम्भूतम् लोक-साक्षिकम् ॥३५॥
saṃvatsara-ṛtavaḥ māsāḥ pakṣa-ahar-rātrayaḥ kramāt . yat ca anyat api tat sarvam sambhūtam loka-sākṣikam ..35..
यदिदं दृश्यते किञ्चिद्भूतं स्थावरजङ्गमम् । पुनः सङ्क्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ॥३६॥
यत् इदम् दृश्यते किञ्चिद् भूतम् स्थावर-जङ्गमम् । पुनर् सङ्क्षिप्यते सर्वम् जगत् प्राप्ते युग-क्षये ॥३६॥
yat idam dṛśyate kiñcid bhūtam sthāvara-jaṅgamam . punar saṅkṣipyate sarvam jagat prāpte yuga-kṣaye ..36..
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥३७॥
यथा ऋतौ ऋतु-लिङ्गानि नाना रूपाणि पर्यये । दृश्यन्ते तानि तानि एव तथा भावाः युग-आदिषु ॥३७॥
yathā ṛtau ṛtu-liṅgāni nānā rūpāṇi paryaye . dṛśyante tāni tāni eva tathā bhāvāḥ yuga-ādiṣu ..37..
एवमेतदनाद्यन्तं भूतसंहारकारकम् । अनादिनिधनं लोके चक्रं सम्परिवर्तते ॥३८॥
एवम् एतत् अनादि-अन्तम् भूत-संहार-कारकम् । अन् आदि-निधनम् लोके चक्रम् सम्परिवर्तते ॥३८॥
evam etat anādi-antam bhūta-saṃhāra-kārakam . an ādi-nidhanam loke cakram samparivartate ..38..
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च । त्रयस्त्रिंशच्च देवानां सृष्टिः सङ्क्षेपलक्षणा ॥३९॥
त्रयस्त्रिंशत्-सहस्राणि त्रयस्त्रिंशत्-शतानि च । त्रयस्त्रिंशत् च देवानाम् सृष्टिः सङ्क्षेप-लक्षणा ॥३९॥
trayastriṃśat-sahasrāṇi trayastriṃśat-śatāni ca . trayastriṃśat ca devānām sṛṣṭiḥ saṅkṣepa-lakṣaṇā ..39..
दिवस्पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः । सविता च ऋचीकोऽर्को भानुराशावहो रविः ॥४०॥
। सविता च ऋचीकः अर्कः भानुः आशावहः रविः ॥४०॥
. savitā ca ṛcīkaḥ arkaḥ bhānuḥ āśāvahaḥ raviḥ ..40..
पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः । देवभ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः ॥४१॥
पुत्राः विवस्वतः सर्वे मह्यः तेषाम् तथा अवरः । देवभ्राज् तनयः तस्य तस्मात् सुभ्राज् इति स्मृतः ॥४१॥
putrāḥ vivasvataḥ sarve mahyaḥ teṣām tathā avaraḥ . devabhrāj tanayaḥ tasya tasmāt subhrāj iti smṛtaḥ ..41..
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः । दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् ॥४२॥
सुभ्राजः तु त्रयः पुत्राः प्रजावन्तः बहु-श्रुताः । दशज्योतिः शतज्योतिः सहस्रज्योतिः आत्मवान् ॥४२॥
subhrājaḥ tu trayaḥ putrāḥ prajāvantaḥ bahu-śrutāḥ . daśajyotiḥ śatajyotiḥ sahasrajyotiḥ ātmavān ..42..
दश पुत्रसहस्राणि दशज्योतेर्महात्मनः । ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ॥४३॥
दश पुत्र-सहस्राणि दशज्योतेः महात्मनः । ततस् दशगुणाः च अन्ये शतज्योतेः इह आत्मजाः ॥४३॥
daśa putra-sahasrāṇi daśajyoteḥ mahātmanaḥ . tatas daśaguṇāḥ ca anye śatajyoteḥ iha ātmajāḥ ..43..
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः । तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ॥४४॥
भूयस् ततस् दशगुणाः सहस्रज्योतिषः सुताः । तेभ्यः अयम् कुरु-वंशः च यदूनाम् भरतस्य च ॥४४॥
bhūyas tatas daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ . tebhyaḥ ayam kuru-vaṃśaḥ ca yadūnām bharatasya ca ..44..
ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः । सम्भूता बहवो वंशा भूतसर्गाः सविस्तराः ॥४५॥
ययाति-इक्ष्वाकु-वंशः च राजर्षीणाम् च सर्वशस् । सम्भूताः बहवः वंशाः भूत-सर्गाः स विस्तराः ॥४५॥
yayāti-ikṣvāku-vaṃśaḥ ca rājarṣīṇām ca sarvaśas . sambhūtāḥ bahavaḥ vaṃśāḥ bhūta-sargāḥ sa vistarāḥ ..45..
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् । वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च ॥४६॥
भूत-स्थानानि सर्वाणि रहस्यम् त्रिविधम् च यत् । वेद-योगम् स विज्ञानम् धर्मः अर्थः कामः एव च ॥४६॥
bhūta-sthānāni sarvāṇi rahasyam trividham ca yat . veda-yogam sa vijñānam dharmaḥ arthaḥ kāmaḥ eva ca ..46..
धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च । लोकयात्राविधानं च सम्भूतं दृष्टवानृषिः ॥४७॥
धर्म-काम-अर्थ-शास्त्राणि शास्त्राणि विविधानि च । लोकयात्रा-विधानम् च सम्भूतम् दृष्टवान् ऋषिः ॥४७॥
dharma-kāma-artha-śāstrāṇi śāstrāṇi vividhāni ca . lokayātrā-vidhānam ca sambhūtam dṛṣṭavān ṛṣiḥ ..47..
इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च । इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ॥४८॥
इतिहासाः स वैयाख्याः विविधाः श्रुतयः अपि च । इह सर्वम् अनुक्रान्तम् उक्तम् ग्रन्थस्य लक्षणम् ॥४८॥
itihāsāḥ sa vaiyākhyāḥ vividhāḥ śrutayaḥ api ca . iha sarvam anukrāntam uktam granthasya lakṣaṇam ..48..
विस्तीर्यैतन्महज्ज्ञानमृषिः सङ्क्षेपमब्रवीत् । इष्टं हि विदुषां लोके समासव्यासधारणम् ॥४९॥
विस्तीर्य एतत् महत् ज्ञानम् ऋषिः सङ्क्षेपम् अब्रवीत् । इष्टम् हि विदुषाम् लोके समास-व्यास-धारणम् ॥४९॥
vistīrya etat mahat jñānam ṛṣiḥ saṅkṣepam abravīt . iṣṭam hi viduṣām loke samāsa-vyāsa-dhāraṇam ..49..
मन्वादि भारतं केचिदास्तीकादि तथापरे । तथोपरिचराद्यन्ये विप्राः सम्यगधीयते ॥५०॥1.1.52
मनु-आदि भारतम् केचिद् आस्तीक-आदि तथा अपरे । तथा उपरिचर-आदि अन्ये विप्राः सम्यक् अधीयते ॥५०॥१।१।५२
manu-ādi bhāratam kecid āstīka-ādi tathā apare . tathā uparicara-ādi anye viprāḥ samyak adhīyate ..50..1.1.52
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः । व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे ॥५१॥
विविधम् संहिता-ज्ञानम् दीपयन्ति मनीषिणः । व्याख्यातुम् कुशलाः केचिद् ग्रन्थम् धारयितुम् परे ॥५१॥
vividham saṃhitā-jñānam dīpayanti manīṣiṇaḥ . vyākhyātum kuśalāḥ kecid grantham dhārayitum pare ..51..
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् । इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥५२॥
तपसा ब्रह्मचर्येण व्यस्य वेदम् सनातनम् । इतिहासम् इमम् चक्रे पुण्यम् सत्यवती-सुतः ॥५२॥
tapasā brahmacaryeṇa vyasya vedam sanātanam . itihāsam imam cakre puṇyam satyavatī-sutaḥ ..52..
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः । मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥५३॥
पराशर-आत्मजः विद्वान् ब्रह्मर्षिः संशित-व्रतः । मातुः नियोगात् धर्म-आत्मा गाङ्गेयस्य च धीमतः ॥५३॥
parāśara-ātmajaḥ vidvān brahmarṣiḥ saṃśita-vrataḥ . mātuḥ niyogāt dharma-ātmā gāṅgeyasya ca dhīmataḥ ..53..
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा । त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ॥५४॥
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा । त्रीन् अग्नीन् इव कौरव्यान् जनयामास वीर्यवान् ॥५४॥
kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā . trīn agnīn iva kauravyān janayāmāsa vīryavān ..54..
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च । जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥५५॥
उत्पाद्य धृतराष्ट्रम् च पाण्डुम् विदुरम् एव च । जगाम तपसे धीमान् पुनर् एव आश्रमम् प्रति ॥५५॥
utpādya dhṛtarāṣṭram ca pāṇḍum viduram eva ca . jagāma tapase dhīmān punar eva āśramam prati ..55..
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् । अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥५६॥
तेषु जातेषु वृद्धेषु गतेषु परमाम् गतिम् । अब्रवीत् भारतम् लोके मानुषे अस्मिन् महान् ऋषिः ॥५६॥
teṣu jāteṣu vṛddheṣu gateṣu paramām gatim . abravīt bhāratam loke mānuṣe asmin mahān ṛṣiḥ ..56..
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः । शशास शिष्यमासीनं वैशम्पायनमन्तिके ॥५७॥
जनमेजयेन पृष्टः सन् ब्राह्मणैः च सहस्रशस् । शशास शिष्यम् आसीनम् वैशम्पायनम् अन्तिके ॥५७॥
janamejayena pṛṣṭaḥ san brāhmaṇaiḥ ca sahasraśas . śaśāsa śiṣyam āsīnam vaiśampāyanam antike ..57..
स सदस्यैः सहासीनः श्रावयामास भारतम् । कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥५८॥
स सदस्यैः सह आसीनः श्रावयामास भारतम् । कर्म-अन्तरेषु यज्ञस्य चोद्यमानः पुनर् पुनर् ॥५८॥
sa sadasyaiḥ saha āsīnaḥ śrāvayāmāsa bhāratam . karma-antareṣu yajñasya codyamānaḥ punar punar ..58..
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् । क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ॥५९॥
विस्तरम् कुरु-वंशस्य गान्धार्याः धर्म-शील-ताम् । क्षत्तुः प्रज्ञाम् धृतिम् कुन्त्याः सम्यक् द्वैपायनः अब्रवीत् ॥५९॥
vistaram kuru-vaṃśasya gāndhāryāḥ dharma-śīla-tām . kṣattuḥ prajñām dhṛtim kuntyāḥ samyak dvaipāyanaḥ abravīt ..59..
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् । दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥६०॥
वासुदेवस्य माहात्म्यम् पाण्डवानाम् च सत्यताम् । दुर्वृत्तम् धार्तराष्ट्राणाम् उक्तवान् भगवान् ऋषिः ॥६०॥
vāsudevasya māhātmyam pāṇḍavānām ca satyatām . durvṛttam dhārtarāṣṭrāṇām uktavān bhagavān ṛṣiḥ ..60..
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् । उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥६१॥
चतुर्विंशति-साहस्रीम् चक्रे भारत-संहिताम् । उपाख्यानैः विना तावत् भारतम् प्रोच्यते बुधैः ॥६१॥
caturviṃśati-sāhasrīm cakre bhārata-saṃhitām . upākhyānaiḥ vinā tāvat bhāratam procyate budhaiḥ ..61..
ततोऽध्यर्धशतं भूयः सङ्क्षेपं कृतवानृषिः । अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् ॥६२॥
ततस् अध्यर्ध-शतम् भूयस् सङ्क्षेपम् कृतवान् ऋषिः । अनुक्रमणिम् अध्यायम् वृत्तान्तानाम् स पर्वणाम् ॥६२॥
tatas adhyardha-śatam bhūyas saṅkṣepam kṛtavān ṛṣiḥ . anukramaṇim adhyāyam vṛttāntānām sa parvaṇām ..62..
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् । ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः ॥६३॥
इदम् द्वैपायनः पूर्वम् पुत्रम् अध्यापयत् शुकम् । ततस् अन्येभ्यः अनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः ॥६३॥
idam dvaipāyanaḥ pūrvam putram adhyāpayat śukam . tatas anyebhyaḥ anurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ ..63..
नारदोऽश्रावयद्देवानसितो देवलः पितृन् । गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥६४॥
नारदः अश्रावयत् देवान् असितः देवलः पितृन् । गन्धर्व-यक्ष-रक्षांसि श्रावयामास वै शुकः ॥६४॥
nāradaḥ aśrāvayat devān asitaḥ devalaḥ pitṛn . gandharva-yakṣa-rakṣāṃsi śrāvayāmāsa vai śukaḥ ..64..
दुर्योधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस्तस्य शाखाः । दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रोऽमनीषी ॥६५॥
दुर्योधनः मन्यु-मयः महा-द्रुमः; स्कन्धः कर्णः शकुनिः तस्य शाखाः । दुःशासनः पुष्प-फले समृद्धे; मूलम् राजा धृतराष्ट्रः अमनीषी ॥६५॥
duryodhanaḥ manyu-mayaḥ mahā-drumaḥ; skandhaḥ karṇaḥ śakuniḥ tasya śākhāḥ . duḥśāsanaḥ puṣpa-phale samṛddhe; mūlam rājā dhṛtarāṣṭraḥ amanīṣī ..65..
युधिष्ठिरो धर्ममयो महाद्रुमः; स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः । माद्रीसुतौ पुष्पफले समृद्धे; मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥६६॥
युधिष्ठिरः धर्म-मयः महा-द्रुमः; स्कन्धः अर्जुनः भीमसेनः अस्य शाखाः । माद्री-सुतौ पुष्प-फले समृद्धे; मूलम् कृष्णः ब्रह्म च ब्राह्मणाः च ॥६६॥
yudhiṣṭhiraḥ dharma-mayaḥ mahā-drumaḥ; skandhaḥ arjunaḥ bhīmasenaḥ asya śākhāḥ . mādrī-sutau puṣpa-phale samṛddhe; mūlam kṛṣṇaḥ brahma ca brāhmaṇāḥ ca ..66..
पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च । अरण्ये मृगयाशीलो न्यवसत्सजनस्तदा ॥६७॥
पाण्डुः जित्वा बहून् देशान् युधा विक्रमणेन च । अरण्ये मृगया-शीलः न्यवसत् स जनः तदा ॥६७॥
pāṇḍuḥ jitvā bahūn deśān yudhā vikramaṇena ca . araṇye mṛgayā-śīlaḥ nyavasat sa janaḥ tadā ..67..
मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम् । जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ॥६८॥
मृग-व्यवाय-निधने कृच्छ्राम् प्राप सः आपदम् । जन्म-प्रभृति पार्थानाम् तत्र आचार-विधि-क्रमः ॥६८॥
mṛga-vyavāya-nidhane kṛcchrām prāpa saḥ āpadam . janma-prabhṛti pārthānām tatra ācāra-vidhi-kramaḥ ..68..
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति । धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः ॥६९॥
मात्रोः अभ्युपपत्तिः च धर्म-उपनिषदम् प्रति । धर्मस्य वायोः शक्रस्य देवयोः च तथा अश्विनोः ॥६९॥
mātroḥ abhyupapattiḥ ca dharma-upaniṣadam prati . dharmasya vāyoḥ śakrasya devayoḥ ca tathā aśvinoḥ ..69..
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः । मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ॥७०॥
तापसैः सह संवृद्धाः मातृभ्याम् परिरक्षिताः । मेध्य-अरण्येषु पुण्येषु महताम् आश्रमेषु च ॥७०॥
tāpasaiḥ saha saṃvṛddhāḥ mātṛbhyām parirakṣitāḥ . medhya-araṇyeṣu puṇyeṣu mahatām āśrameṣu ca ..70..
ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम् । शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥७१॥
ऋषिभिः च तदा आनीताः धार्तराष्ट्रान् प्रति स्वयम् । शिशवः च अभिरूपाः च जटिलाः ब्रह्मचारिणः ॥७१॥
ṛṣibhiḥ ca tadā ānītāḥ dhārtarāṣṭrān prati svayam . śiśavaḥ ca abhirūpāḥ ca jaṭilāḥ brahmacāriṇaḥ ..71..
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः । पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ॥७२॥
पुत्राः च भ्रातरः च इमे शिष्याः च सुहृदः च वः । पाण्डवाः एते इति उक्त्वा मुनयः अन्तर्हिताः ततस् ॥७२॥
putrāḥ ca bhrātaraḥ ca ime śiṣyāḥ ca suhṛdaḥ ca vaḥ . pāṇḍavāḥ ete iti uktvā munayaḥ antarhitāḥ tatas ..72..
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा । शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ॥७३॥
तान् तैः निवेदितान् दृष्ट्वा पाण्डवान् कौरवाः तदा । शिष्टाः च वर्णाः पौराः ये ते हर्षात् चुक्रुशुः भृशम् ॥७३॥
tān taiḥ niveditān dṛṣṭvā pāṇḍavān kauravāḥ tadā . śiṣṭāḥ ca varṇāḥ paurāḥ ye te harṣāt cukruśuḥ bhṛśam ..73..
आहुः केचिन्न तस्यैते तस्यैत इति चापरे । यदा चिरमृतः पाण्डुः कथं तस्येति चापरे ॥७४॥
आहुः केचिद् न तस्य एते तस्य एते इति च अपरे । यदा चिर-मृतः पाण्डुः कथम् तस्य इति च अपरे ॥७४॥
āhuḥ kecid na tasya ete tasya ete iti ca apare . yadā cira-mṛtaḥ pāṇḍuḥ katham tasya iti ca apare ..74..
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम् । उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ॥७५॥1.1.120
स्वागतम् सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम् । उच्यताम् स्वागतम् इति वाचः अश्रूयन्त सर्वशस् ॥७५॥१।१।१२०
svāgatam sarvathā diṣṭyā pāṇḍoḥ paśyāma santatim . ucyatām svāgatam iti vācaḥ aśrūyanta sarvaśas ..75..1.1.120
तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन् । अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् ॥७६॥
तस्मिन् उपरते शब्दे दिशः सर्वाः विनादयन् । अन्तर्हितानाम् भूतानाम् निस्वनः तुमुलः अभवत् ॥७६॥
tasmin uparate śabde diśaḥ sarvāḥ vinādayan . antarhitānām bhūtānām nisvanaḥ tumulaḥ abhavat ..76..
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः । आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ॥७७॥
पुष्प-वृष्टिः शुभाः गन्धाः शङ्ख-दुन्दुभि-निस्वनाः । आसन् प्रवेशे पार्थानाम् तत् अद्भुतम् इव अभवत् ॥७७॥
puṣpa-vṛṣṭiḥ śubhāḥ gandhāḥ śaṅkha-dundubhi-nisvanāḥ . āsan praveśe pārthānām tat adbhutam iva abhavat ..77..
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः । शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ॥७८॥
तद्-प्रीत्या च एव सर्वेषाम् पौराणाम् हर्ष-सम्भवः । शब्दः आसीत् महान् तत्र दिव-स्पृश् कीर्ति-वर्धनः ॥७८॥
tad-prītyā ca eva sarveṣām paurāṇām harṣa-sambhavaḥ . śabdaḥ āsīt mahān tatra diva-spṛś kīrti-vardhanaḥ ..78..
तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च । न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ॥७९॥
ते अपि अधीत्य अखिलान् वेदान् शास्त्राणि विविधानि च । न्यवसन् पाण्डवाः तत्र पूजिताः अकुतोभयाः ॥७९॥
te api adhītya akhilān vedān śāstrāṇi vividhāni ca . nyavasan pāṇḍavāḥ tatra pūjitāḥ akutobhayāḥ ..79..
युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् । धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥८०॥
युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयः अभवन् । धृत्या च भीमसेनस्य विक्रमेण अर्जुनस्य च ॥८०॥
yudhiṣṭhirasya śaucena prītāḥ prakṛtayaḥ abhavan . dhṛtyā ca bhīmasenasya vikrameṇa arjunasya ca ..80..
गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च । तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ॥८१॥
गुरु-शुश्रूषया कुन्त्याः यमयोः विनयेन च । तुतोष लोकः सकलः तेषाम् शौर्य-गुणेन च ॥८१॥
guru-śuśrūṣayā kuntyāḥ yamayoḥ vinayena ca . tutoṣa lokaḥ sakalaḥ teṣām śaurya-guṇena ca ..81..
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् । प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥८२॥
समवाये ततस् राज्ञाम् कन्याम् भर्तृ-स्वयंवराम् । प्राप्तवान् अर्जुनः कृष्णाम् कृत्वा कर्म सु दुष्करम् ॥८२॥
samavāye tatas rājñām kanyām bhartṛ-svayaṃvarām . prāptavān arjunaḥ kṛṣṇām kṛtvā karma su duṣkaram ..82..
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् । आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥८३॥
ततस् प्रभृति लोके अस्मिन् पूज्यः सर्व-धनुष्मताम् । आदित्यः इव दुष्प्रेक्ष्यः समरेषु अपि च अभवत् ॥८३॥
tatas prabhṛti loke asmin pūjyaḥ sarva-dhanuṣmatām . ādityaḥ iva duṣprekṣyaḥ samareṣu api ca abhavat ..83..
स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् । आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् ॥८४॥
स सर्वान् पार्थिवान् जित्वा सर्वान् च महतः गणान् । आजहार अर्जुनः राज्ञे राजसूयम् महा-क्रतुम् ॥८४॥
sa sarvān pārthivān jitvā sarvān ca mahataḥ gaṇān . ājahāra arjunaḥ rājñe rājasūyam mahā-kratum ..84..
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः । युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः ॥८५॥
अन्नवान् दक्षिणावान् च सर्वैः समुदितः गुणैः । युधिष्ठिरेण सम्प्राप्तः राजसूयः महा-क्रतुः ॥८५॥
annavān dakṣiṇāvān ca sarvaiḥ samuditaḥ guṇaiḥ . yudhiṣṭhireṇa samprāptaḥ rājasūyaḥ mahā-kratuḥ ..85..
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च । घातयित्वा जरासन्धं चैद्यं च बलगर्वितम् ॥८६॥
सुनयात् वासुदेवस्य भीम-अर्जुन-बलेन च । घातयित्वा जरासन्धम् चैद्यम् च बल-गर्वितम् ॥८६॥
sunayāt vāsudevasya bhīma-arjuna-balena ca . ghātayitvā jarāsandham caidyam ca bala-garvitam ..86..
दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः । मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ॥८७॥
दुर्योधनम् उपागच्छन् अर्हणानि ततस् ततस् । मणि-काञ्चन-रत्नानि गो-हस्ति-अश्व-धनानि च ॥८७॥
duryodhanam upāgacchan arhaṇāni tatas tatas . maṇi-kāñcana-ratnāni go-hasti-aśva-dhanāni ca ..87..
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् । ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ॥८८॥
समृद्धाम् ताम् तथा दृष्ट्वा पाण्डवानाम् तदा श्रियम् । ईर्ष्या-समुत्थः सु महान् तस्य मन्युः अजायत ॥८८॥
samṛddhām tām tathā dṛṣṭvā pāṇḍavānām tadā śriyam . īrṣyā-samutthaḥ su mahān tasya manyuḥ ajāyata ..88..
विमानप्रतिमां चापि मयेन सुकृतां सभाम् । पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ॥८९॥
विमान-प्रतिमाम् च अपि मयेन सु कृताम् सभाम् । पाण्डवानाम् उपहृताम् स दृष्ट्वा पर्यतप्यत ॥८९॥
vimāna-pratimām ca api mayena su kṛtām sabhām . pāṇḍavānām upahṛtām sa dṛṣṭvā paryatapyata ..89..
यत्रावहसितश्चासीत्प्रस्कन्दन्निव सम्भ्रमात् । प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ॥९०॥
यत्र अवहसितः च आसीत् प्रस्कन्दन् इव सम्भ्रमात् । प्रत्यक्षम् वासुदेवस्य भीमेन अन् अभिजात-वत् ॥९०॥
yatra avahasitaḥ ca āsīt praskandan iva sambhramāt . pratyakṣam vāsudevasya bhīmena an abhijāta-vat ..90..
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च । कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥९१॥
स भोगान् विविधान् भुञ्जन् रत्नानि विविधानि च । कथितः धृतराष्ट्रस्य विवर्णः हरिणः कृशः ॥९१॥
sa bhogān vividhān bhuñjan ratnāni vividhāni ca . kathitaḥ dhṛtarāṣṭrasya vivarṇaḥ hariṇaḥ kṛśaḥ ..91..
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः । तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ॥९२॥1.1.138
अन्वजानात् ततस् द्यूतम् धृतराष्ट्रः सुत-प्रियः । तत् श्रुत्वा वासुदेवस्य कोपः समभवत् महान् ॥९२॥१।१।१३८
anvajānāt tatas dyūtam dhṛtarāṣṭraḥ suta-priyaḥ . tat śrutvā vāsudevasya kopaḥ samabhavat mahān ..92..1.1.138
नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत । द्यूतादीननयान्घोरान्प्रवृद्धांश्चाप्युपैक्षत ॥९३॥
न अति प्रीत-मनाः च आसीत् विवादान् च अन्वमोदत । द्यूत-आदीन् अनयान् घोरान् प्रवृद्धान् च अपि उपैक्षत ॥९३॥
na ati prīta-manāḥ ca āsīt vivādān ca anvamodata . dyūta-ādīn anayān ghorān pravṛddhān ca api upaikṣata ..93..
निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम् । विग्रहे तुमुले तस्मिन्नहन्क्षत्रं परस्परम् ॥९४॥
निरस्य विदुरम् द्रोणम् भीष्मम् शारद्वतम् कृपम् । विग्रहे तुमुले तस्मिन् अहन् क्षत्रम् परस्परम् ॥९४॥
nirasya viduram droṇam bhīṣmam śāradvatam kṛpam . vigrahe tumule tasmin ahan kṣatram parasparam ..94..
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् । दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा ॥९५॥ (धृतराष्ट्रश्चिरं ध्यात्वा सञ्जयं वाक्यमब्रवीत् ॥९५॥)
जयत्सु पाण्डु-पुत्रेषु श्रुत्वा सु महत् अप्रियम् । दुर्योधन-मतम् ज्ञात्वा कर्णस्य शकुनेः तथा ॥९५॥ (धृतराष्ट्रः चिरम् ध्यात्वा सञ्जयम् वाक्यम् अब्रवीत् ॥९५॥)
jayatsu pāṇḍu-putreṣu śrutvā su mahat apriyam . duryodhana-matam jñātvā karṇasya śakuneḥ tathā ..95.. (dhṛtarāṣṭraḥ ciram dhyātvā sañjayam vākyam abravīt ..95..)
शृणु सञ्जय मे सर्वं न मेऽसूयितुमर्हसि । श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ॥९६॥
शृणु सञ्जय मे सर्वम् न मे असूयितुम् अर्हसि । श्रुतवान् असि मेधावी बुद्धिमान् प्राज्ञ-संमतः ॥९६॥
śṛṇu sañjaya me sarvam na me asūyitum arhasi . śrutavān asi medhāvī buddhimān prājña-saṃmataḥ ..96..
न विग्रहे मम मतिर्न च प्रीये कुरुक्षये । न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च ॥९७॥
न विग्रहे मम मतिः न च प्रीये कुरु-क्षये । न मे विशेषः पुत्रेषु स्वेषु पाण्डु-सुतेषु च ॥९७॥
na vigrahe mama matiḥ na ca prīye kuru-kṣaye . na me viśeṣaḥ putreṣu sveṣu pāṇḍu-suteṣu ca ..97..
वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः । अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् ॥९८॥ (मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् ॥९८॥)
वृद्धम् माम् अभ्यसूयन्ति पुत्राः मन्यु-परायणाः । अहम् तु अचक्षुः कार्पण्यात् पुत्र-प्रीत्या सहामि तत् ॥९८॥ (मुह्यन्तम् च अनुमुह्यामि दुर्योधनम् अचेतनम् ॥९८॥)
vṛddham mām abhyasūyanti putrāḥ manyu-parāyaṇāḥ . aham tu acakṣuḥ kārpaṇyāt putra-prītyā sahāmi tat ..98.. (muhyantam ca anumuhyāmi duryodhanam acetanam ..98..)
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः । तच्चावहसनं प्राप्य सभारोहणदर्शने ॥९९॥
राजसूये श्रियम् दृष्ट्वा पाण्डवस्य महा-ओजसः । तत् च अवहसनम् प्राप्य सभा-रोहण-दर्शने ॥९९॥
rājasūye śriyam dṛṣṭvā pāṇḍavasya mahā-ojasaḥ . tat ca avahasanam prāpya sabhā-rohaṇa-darśane ..99..
अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे । निरुत्साहश्च सम्प्राप्तुं श्रियमक्षत्रियो यथा ॥१००॥ (गान्धारराजसहितश्छद्मद्यूतममन्त्रयत् ॥१००॥)
अमर्षितः स्वयम् जेतुम् अशक्तः पाण्डवान् रणे । निरुत्साहः च सम्प्राप्तुम् श्रियम् अ क्षत्रियः यथा ॥१००॥ (गान्धार-राज-सहितः छद्म-द्यूतम् अमन्त्रयत् ॥१००॥)
amarṣitaḥ svayam jetum aśaktaḥ pāṇḍavān raṇe . nirutsāhaḥ ca samprāptum śriyam a kṣatriyaḥ yathā ..100.. (gāndhāra-rāja-sahitaḥ chadma-dyūtam amantrayat ..100..)
तत्र यद्यद्यथा ज्ञातं मया सञ्जय तच्छृणु । श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः ॥१०१॥ (ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत ॥१०१॥)
तत्र यत् यत् यथा ज्ञातम् मया सञ्जय तत् शृणु । श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः ॥१०१॥ (ततस् ज्ञास्यसि माम् सौते प्रज्ञा-चक्षुषम् इति उत ॥१०१॥)
tatra yat yat yathā jñātam mayā sañjaya tat śṛṇu . śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ ..101.. (tatas jñāsyasi mām saute prajñā-cakṣuṣam iti uta ..101..)
यदाश्रौषं धनुरायम्य चित्रं; विद्धं लक्ष्यं पातितं वै पृथिव्याम् । कृष्णां हृतां पश्यतां सर्वराज्ञां; तदा नाशंसे विजयाय सञ्जय ॥१०२॥
यदा अश्रौषम् धनुः आयम्य चित्रम्; विद्धम् लक्ष्यम् पातितम् वै पृथिव्याम् । कृष्णाम् हृताम् पश्यताम् सर्व-राज्ञाम्; तदा न आशंसे विजयाय सञ्जय ॥१०२॥
yadā aśrauṣam dhanuḥ āyamya citram; viddham lakṣyam pātitam vai pṛthivyām . kṛṣṇām hṛtām paśyatām sarva-rājñām; tadā na āśaṃse vijayāya sañjaya ..102..
यदाश्रौषं द्वारकायां सुभद्रां; प्रसह्योढां माधवीमर्जुनेन । इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय सञ्जय ॥१०३॥
यदा अश्रौषम् द्वारकायाम् सुभद्राम्; प्रसह्य ऊढाम् माधवीम् अर्जुनेन । इन्द्रप्रस्थम् वृष्णि-वीरौ च यातौ; तदा न आशंसे विजयाय सञ्जय ॥१०३॥
yadā aśrauṣam dvārakāyām subhadrām; prasahya ūḍhām mādhavīm arjunena . indraprastham vṛṣṇi-vīrau ca yātau; tadā na āśaṃse vijayāya sañjaya ..103..
यदाश्रौषं देवराजं प्रवृष्टं; शरैर्दिव्यैर्वारितं चार्जुनेन । अग्निं तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय सञ्जय ॥१०४॥
यदा अश्रौषम् देवराजम् प्रवृष्टम्; शरैः दिव्यैः वारितम् च अर्जुनेन । अग्निम् तथा तर्पितम् खाण्डवे च; तदा न आशंसे विजयाय सञ्जय ॥१०४॥
yadā aśrauṣam devarājam pravṛṣṭam; śaraiḥ divyaiḥ vāritam ca arjunena . agnim tathā tarpitam khāṇḍave ca; tadā na āśaṃse vijayāya sañjaya ..104..
यदाश्रौषं हृतराज्यं युधिष्ठिरं; पराजितं सौबलेनाक्षवत्याम् । अन्वागतं भ्रातृभिरप्रमेयै; स्तदा नाशंसे विजयाय सञ्जय ॥१०५॥
यदा अश्रौषम् हृत-राज्यम् युधिष्ठिरम्; पराजितम् सौबलेन अक्षवत्याम् । अन्वागतम् भ्रातृभिः अप्रमेयैः; स्तदा न आशंसे विजयाय सञ्जय ॥१०५॥
yadā aśrauṣam hṛta-rājyam yudhiṣṭhiram; parājitam saubalena akṣavatyām . anvāgatam bhrātṛbhiḥ aprameyaiḥ; stadā na āśaṃse vijayāya sañjaya ..105..
यदाश्रौषं द्रौपदीमश्रुकण्ठीं; सभां नीतां दुःखितामेकवस्त्राम् । रजस्वलां नाथवतीमनाथव; त्तदा नाशंसे विजयाय सञ्जय ॥१०६॥
यदा अश्रौषम् द्रौपदीम् अश्रु-कण्ठीम्; सभाम् नीताम् दुःखिताम् एक-वस्त्राम् । रजस्वलाम् नाथवतीम् अनाथव; त्तदा ना आशंसे विजयाय सञ्जय ॥१०६॥
yadā aśrauṣam draupadīm aśru-kaṇṭhīm; sabhām nītām duḥkhitām eka-vastrām . rajasvalām nāthavatīm anāthava; ttadā nā āśaṃse vijayāya sañjaya ..106..
यदाश्रौषं विविधास्तात चेष्टा; धर्मात्मनां प्रस्थितानां वनाय । ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां; तदा नाशंसे विजयाय सञ्जय ॥१०७॥
यदा अश्रौषम् विविधाः तात चेष्टाः; धर्म-आत्मनाम् प्रस्थितानाम् वनाय । ज्येष्ठ-प्रीत्या क्लिश्यताम् पाण्डवानाम्; तदा न आशंसे विजयाय सञ्जय ॥१०७॥
yadā aśrauṣam vividhāḥ tāta ceṣṭāḥ; dharma-ātmanām prasthitānām vanāya . jyeṣṭha-prītyā kliśyatām pāṇḍavānām; tadā na āśaṃse vijayāya sañjaya ..107..
यदाश्रौषं स्नातकानां सहस्रै; रन्वागतं धर्मराजं वनस्थम् । भिक्षाभुजां ब्राह्मणानां महात्मनां; तदा नाशंसे विजयाय सञ्जय ॥१०८॥1.1.161
यदा अश्रौषम् स्नातकानाम्; रन्वागतम् धर्मराजम् वन-स्थम् । भिक्षा-भुजाम् ब्राह्मणानाम् महात्मनाम्; तदा न आशंसे विजयाय सञ्जय ॥१०८॥१।१।१६१
yadā aśrauṣam snātakānām; ranvāgatam dharmarājam vana-stham . bhikṣā-bhujām brāhmaṇānām mahātmanām; tadā na āśaṃse vijayāya sañjaya ..108..1.1.161
यदाश्रौषमर्जुनो देवदेवं; किरातरूपं त्र्यम्बकं तोष्य युद्धे । अवाप तत्पाशुपतं महास्त्रं; तदा नाशंसे विजयाय सञ्जय ॥१०९॥
यदा अश्रौषम् अर्जुनः देवदेवम्; किरात-रूपम् त्र्यम्बकम् तोष्य युद्धे । अवाप तत् पाशुपतम् महा-अस्त्रम्; तदा न आशंसे विजयाय सञ्जय ॥१०९॥
yadā aśrauṣam arjunaḥ devadevam; kirāta-rūpam tryambakam toṣya yuddhe . avāpa tat pāśupatam mahā-astram; tadā na āśaṃse vijayāya sañjaya ..109..
यदाश्रौषं त्रिदिवस्थं धनञ्जयं; शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् । अधीयानं शंसितं सत्यसन्धं; तदा नाशंसे विजयाय सञ्जय ॥११०॥
यदा अश्रौषम् त्रिदिव-स्थम् धनञ्जयम्; शक्रात् साक्षात् दिव्यम् अस्त्रम् यथावत् । अधीयानम् शंसितम् सत्य-सन्धम्; तदा न आशंसे विजयाय सञ्जय ॥११०॥
yadā aśrauṣam tridiva-stham dhanañjayam; śakrāt sākṣāt divyam astram yathāvat . adhīyānam śaṃsitam satya-sandham; tadā na āśaṃse vijayāya sañjaya ..110..
यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीममन्यांश्च पार्थान् । तस्मिन्देशे मानुषाणामगम्ये; तदा नाशंसे विजयाय सञ्जय ॥१११॥
यदा अश्रौषम् वैश्रवणेन सार्धम्; समागतम् भीमम् अन्यान् च पार्थान् । तस्मिन् देशे मानुषाणाम् अगम्ये; तदा न आशंसे विजयाय सञ्जय ॥१११॥
yadā aśrauṣam vaiśravaṇena sārdham; samāgatam bhīmam anyān ca pārthān . tasmin deśe mānuṣāṇām agamye; tadā na āśaṃse vijayāya sañjaya ..111..
यदाश्रौषं घोषयात्रागतानां; बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन । स्वेषां सुतानां कर्णबुद्धौ रतानां; तदा नाशंसे विजयाय सञ्जय ॥११२॥
यदा अश्रौषम् घोष-यात्रा-गतानाम्; बन्धम् गन्धर्वैः मोक्षणम् च अर्जुनेन । स्वेषाम् सुतानाम् कर्ण-बुद्धौ रतानाम्; तदा न आशंसे विजयाय सञ्जय ॥११२॥
yadā aśrauṣam ghoṣa-yātrā-gatānām; bandham gandharvaiḥ mokṣaṇam ca arjunena . sveṣām sutānām karṇa-buddhau ratānām; tadā na āśaṃse vijayāya sañjaya ..112..
यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत । प्रश्नानुक्तान्विब्रुवन्तं च सम्य; क्तदा नाशंसे विजयाय सञ्जय ॥११३॥
यदा अश्रौषम् यक्ष-रूपेण धर्मम्; समागतम् धर्मराजेन सूत । प्रश्न-अन् उक्तान् विब्रुवन्तम् च सम्यक्; क्तदा न आशंसे विजयाय सञ्जय ॥११३॥
yadā aśrauṣam yakṣa-rūpeṇa dharmam; samāgatam dharmarājena sūta . praśna-an uktān vibruvantam ca samyak; ktadā na āśaṃse vijayāya sañjaya ..113..
यदाश्रौषं मामकानां वरिष्ठा; न्धनञ्जयेनैकरथेन भग्नान् । विराटराष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय सञ्जय ॥११४॥
यदा अश्रौषम् मामकानाम् वरिष्ठा; न्धनञ्जयेन एक-रथेन भग्नान् । विराट-राष्ट्रे वसता महात्मना; तदा न आशंसे विजयाय सञ्जय ॥११४॥
yadā aśrauṣam māmakānām variṣṭhā; ndhanañjayena eka-rathena bhagnān . virāṭa-rāṣṭre vasatā mahātmanā; tadā na āśaṃse vijayāya sañjaya ..114..
यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्तामुत्तरामर्जुनाय । तां चार्जुनः प्रत्यगृह्णात्सुतार्थे; तदा नाशंसे विजयाय सञ्जय ॥११५॥
यदा अश्रौषम् सत्कृताम् मत्स्य-राज्ञा; सुताम् दत्ताम् उत्तराम् अर्जुनाय । ताम् च अर्जुनः प्रत्यगृह्णात् सुत-अर्थे; तदा न आशंसे विजयाय सञ्जय ॥११५॥
yadā aśrauṣam satkṛtām matsya-rājñā; sutām dattām uttarām arjunāya . tām ca arjunaḥ pratyagṛhṇāt suta-arthe; tadā na āśaṃse vijayāya sañjaya ..115..
यदाश्रौषं निर्जितस्याधनस्य; प्रव्राजितस्य स्वजनात्प्रच्युतस्य । अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय सञ्जय ॥११६॥
यदा अश्रौषम् निर्जितस्य अधनस्य; प्रव्राजितस्य स्व-जनात् प्रच्युतस्य । अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा न आशंसे विजयाय सञ्जय ॥११६॥
yadā aśrauṣam nirjitasya adhanasya; pravrājitasya sva-janāt pracyutasya . akṣauhiṇīḥ sapta yudhiṣṭhirasya; tadā na āśaṃse vijayāya sañjaya ..116..
यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतो नारदस्य । अहं द्रष्टा ब्रह्मलोके सदेति; तदा नाशंसे विजयाय सञ्जय ॥११७॥
यदा अश्रौषम् नर-नारायणौ तौ; कृष्ण-अर्जुनौ वदतः नारदस्य । अहम् द्रष्टा ब्रह्म-लोके सदा इति; तदा न आशंसे विजयाय सञ्जय ॥११७॥
yadā aśrauṣam nara-nārāyaṇau tau; kṛṣṇa-arjunau vadataḥ nāradasya . aham draṣṭā brahma-loke sadā iti; tadā na āśaṃse vijayāya sañjaya ..117..
यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम् । यस्येमां गां विक्रममेकमाहु; स्तदा नाशंसे विजयाय सञ्जय ॥११८॥
यदा अश्रौषम् माधवम् वासुदेवम्; सर्व-आत्मना पाण्डव-अर्थे निविष्टम् । यस्य इमाम् गाम् विक्रमम् एकम् आहु; स्तदा न आशंसे विजयाय सञ्जय ॥११८॥
yadā aśrauṣam mādhavam vāsudevam; sarva-ātmanā pāṇḍava-arthe niviṣṭam . yasya imām gām vikramam ekam āhu; stadā na āśaṃse vijayāya sañjaya ..118..
यदाश्रौषं कर्णदुर्योधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य । तं चात्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय सञ्जय ॥११९॥
यदा अश्रौषम् कर्ण-दुर्योधनाभ्याम्; बुद्धिम् कृताम् निग्रहे केशवस्य । तम् च आत्मानम् बहुधा दर्शयानम्; तदा न आशंसे विजयाय सञ्जय ॥११९॥
yadā aśrauṣam karṇa-duryodhanābhyām; buddhim kṛtām nigrahe keśavasya . tam ca ātmānam bahudhā darśayānam; tadā na āśaṃse vijayāya sañjaya ..119..
यदाश्रौषं वासुदेवे प्रयाते; रथस्यैकामग्रतस्तिष्ठमानाम् । आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय सञ्जय ॥१२०॥ 1.1.177
यदा अश्रौषम् वासुदेवे प्रयाते; रथस्य एकाम् अग्रतः तिष्ठमानाम् । आर्ताम् पृथाम् सान्त्विताम् केशवेन; तदा न आशंसे विजयाय सञ्जय ॥१२०॥ १।१।१७७
yadā aśrauṣam vāsudeve prayāte; rathasya ekām agrataḥ tiṣṭhamānām . ārtām pṛthām sāntvitām keśavena; tadā na āśaṃse vijayāya sañjaya ..120.. 1.1.177
यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शान्तनवं च तेषाम् । भारद्वाजं चाशिषोऽनुब्रुवाणं; तदा नाशंसे विजयाय सञ्जय ॥१२१॥
यदा अश्रौषम् मन्त्रिणम् वासुदेवम्; तथा भीष्मम् शान्तनवम् च तेषाम् । भारद्वाजम् च आशिषः अनुब्रुवाणम्; तदा न आशंसे विजयाय सञ्जय ॥१२१॥
yadā aśrauṣam mantriṇam vāsudevam; tathā bhīṣmam śāntanavam ca teṣām . bhāradvājam ca āśiṣaḥ anubruvāṇam; tadā na āśaṃse vijayāya sañjaya ..121..
यदाश्रौषं कर्ण उवाच भीष्मं; नाहं योत्स्ये युध्यमाने त्वयीति । हित्वा सेनामपचक्राम चैव; तदा नाशंसे विजयाय सञ्जय ॥१२२॥
यदा अश्रौषम् कर्णः उवाच भीष्मम्; न अहम् योत्स्ये युध्यमाने त्वयि इति । हित्वा सेनाम् अपचक्राम च एव; तदा न आशंसे विजयाय सञ्जय ॥१२२॥
yadā aśrauṣam karṇaḥ uvāca bhīṣmam; na aham yotsye yudhyamāne tvayi iti . hitvā senām apacakrāma ca eva; tadā na āśaṃse vijayāya sañjaya ..122..
यदाश्रौषं वासुदेवार्जुनौ तौ; तथा धनुर्गाण्डिवमप्रमेयम् । त्रीण्युग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय सञ्जय ॥१२३॥
यदा अश्रौषम् वासुदेव-अर्जुनौ तौ; तथा धनुः गाण्डिवम् अप्रमेयम् । त्रीणि उग्र-वीर्याणि समागतानि; तदा न आशंसे विजयाय सञ्जय ॥१२३॥
yadā aśrauṣam vāsudeva-arjunau tau; tathā dhanuḥ gāṇḍivam aprameyam . trīṇi ugra-vīryāṇi samāgatāni; tadā na āśaṃse vijayāya sañjaya ..123..
यदाश्रौषं कश्मलेनाभिपन्ने; रथोपस्थे सीदमानेऽर्जुने वै । कृष्णं लोकान्दर्शयानं शरीरे; तदा नाशंसे विजयाय सञ्जय ॥१२४॥
यदा अश्रौषम् कश्मलेन अभिपन्ने; रथोपस्थे सीदमाने अर्जुने वै । कृष्णम् लोकान् दर्शयानम् शरीरे; तदा न आशंसे विजयाय सञ्जय ॥१२४॥
yadā aśrauṣam kaśmalena abhipanne; rathopasthe sīdamāne arjune vai . kṛṣṇam lokān darśayānam śarīre; tadā na āśaṃse vijayāya sañjaya ..124..
यदाश्रौषं भीष्मममित्रकर्शनं; निघ्नन्तमाजावयुतं रथानाम् । नैषां कश्चिद्वध्यते दृश्यरूप; स्तदा नाशंसे विजयाय सञ्जय ॥१२५॥
यदा अश्रौषम् भीष्मम् अमित्र-कर्शनम्; निघ्नन्तम् आजौ अयुतम् रथानाम् । न एषाम् कश्चिद् वध्यते दृश्य-रूप; स्तदा न आशंसे विजयाय सञ्जय ॥१२५॥
yadā aśrauṣam bhīṣmam amitra-karśanam; nighnantam ājau ayutam rathānām . na eṣām kaścid vadhyate dṛśya-rūpa; stadā na āśaṃse vijayāya sañjaya ..125..
यदाश्रौषं भीष्ममत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम् । शिखण्डिनं पुरतः स्थापयित्वा; तदा नाशंसे विजयाय सञ्जय ॥१२६॥ 1.1.182
यदा अश्रौषम् भीष्मम् अत्यन्त-शूरम्; हतम् पार्थेन आहवेषु अप्रधृष्यम् । शिखण्डिनम् पुरतस् स्थापयित्वा; तदा न आशंसे विजयाय सञ्जय ॥१२६॥ १।१।१८२
yadā aśrauṣam bhīṣmam atyanta-śūram; hatam pārthena āhaveṣu apradhṛṣyam . śikhaṇḍinam puratas sthāpayitvā; tadā na āśaṃse vijayāya sañjaya ..126.. 1.1.182
यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः । भीष्मं कृत्वा सोमकानल्पशेषां; स्तदा नाशंसे विजयाय सञ्जय ॥१२७॥
यदा अश्रौषम् शर-तल्पे शयानम्; वृद्धम् वीरम् सादितम् चित्र-पुङ्खैः । भीष्मम् कृत्वा सोमक-अनल्प-शेषाम्; स्तदा न आशंसे विजयाय सञ्जय ॥१२७॥
yadā aśrauṣam śara-talpe śayānam; vṛddham vīram sāditam citra-puṅkhaiḥ . bhīṣmam kṛtvā somaka-analpa-śeṣām; stadā na āśaṃse vijayāya sañjaya ..127..
यदाश्रौषं शान्तनवे शयाने; पानीयार्थे चोदितेनार्जुनेन । भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय सञ्जय ॥१२८॥
यदा अश्रौषम् शान्तनवे शयाने; पानीय-अर्थे च उदितेन अर्जुनेन । भूमिम् भित्त्वा तर्पितम् तत्र भीष्मम्; तदा न आशंसे विजयाय सञ्जय ॥१२८॥
yadā aśrauṣam śāntanave śayāne; pānīya-arthe ca uditena arjunena . bhūmim bhittvā tarpitam tatra bhīṣmam; tadā na āśaṃse vijayāya sañjaya ..128..
यदाश्रौषं शुक्रसूर्यौ च युक्तौ; कौन्तेयानामनुलोमौ जयाय । नित्यं चास्माञ्श्वापदा व्याभषन्त; स्तदा नाशंसे विजयाय सञ्जय ॥१२९॥
यदा अश्रौषम् शुक्र-सूर्यौ च युक्तौ; कौन्तेयानाम् अनुलोमौ जयाय । नित्यम् च अस्मान् श्वापदाः व्याभषन्त; स्तदा न आशंसे विजयाय सञ्जय ॥१२९॥
yadā aśrauṣam śukra-sūryau ca yuktau; kaunteyānām anulomau jayāya . nityam ca asmān śvāpadāḥ vyābhaṣanta; stadā na āśaṃse vijayāya sañjaya ..129..
यदा द्रोणो विविधानस्त्रमार्गा; न्विदर्शयन्समरे चित्रयोधी । न पाण्डवाञ्श्रेष्ठतमान्निहन्ति; तदा नाशंसे विजयाय सञ्जय ॥१३०॥
यदा द्रोणः; नु इदर्शयन् समरे चित्र-योधी । न पाण्डवान् श्रेष्ठतमान् निहन्ति; तदा न आशंसे विजयाय सञ्जय ॥१३०॥
yadā droṇaḥ; nu idarśayan samare citra-yodhī . na pāṇḍavān śreṣṭhatamān nihanti; tadā na āśaṃse vijayāya sañjaya ..130..
यदाश्रौषं चास्मदीयान्महारथा; न्व्यवस्थितानर्जुनस्यान्तकाय । संशप्तकान्निहतानर्जुनेन; तदा नाशंसे विजयाय सञ्जय ॥१३१॥
यदा अश्रौषम् च अस्मदीयान् महा-रथाः; न्व्यवस्थितान् अर्जुनस्य अन्तकाय । संशप्तकान् निहतान् अर्जुनेन; तदा न आशंसे विजयाय सञ्जय ॥१३१॥
yadā aśrauṣam ca asmadīyān mahā-rathāḥ; nvyavasthitān arjunasya antakāya . saṃśaptakān nihatān arjunena; tadā na āśaṃse vijayāya sañjaya ..131..
यदाश्रौषं व्यूहमभेद्यमन्यै; र्भारद्वाजेनात्तशस्त्रेण गुप्तम् । भित्त्वा सौभद्रं वीरमेकं प्रविष्टं; तदा नाशंसे विजयाय सञ्जय ॥१३२॥
यदा अश्रौषम् व्यूहम् अभेद्यम् अन्यै; र्भारद्वाजेन आत्त-शस्त्रेण गुप्तम् । भित्त्वा सौभद्रम् वीरम् एकम् प्रविष्टम्; तदा न आशंसे विजयाय सञ्जय ॥१३२॥
yadā aśrauṣam vyūham abhedyam anyai; rbhāradvājena ātta-śastreṇa guptam . bhittvā saubhadram vīram ekam praviṣṭam; tadā na āśaṃse vijayāya sañjaya ..132..
यदाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुः । महारथाः पार्थमशक्नुवन्त; स्तदा नाशंसे विजयाय सञ्जय ॥१३३॥
यदा अभिमन्युम् परिवार्य बालम्; सर्वे हत्वा हृष्ट-रूपाः बभूवुः । महा-रथाः पार्थम् अशक्नुवन्त; स्तदा न आशंसे विजयाय सञ्जय ॥१३३॥
yadā abhimanyum parivārya bālam; sarve hatvā hṛṣṭa-rūpāḥ babhūvuḥ . mahā-rathāḥ pārtham aśaknuvanta; stadā na āśaṃse vijayāya sañjaya ..133..
यदाश्रौषमभिमन्युं निहत्य; हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् । क्रोधं मुक्तं सैन्धवे चार्जुनेन; तदा नाशंसे विजयाय सञ्जय ॥१३४॥
यदा अश्रौषम् अभिमन्युम् निहत्य; हर्षात् मूढान् क्रोशतः धार्तराष्ट्रान् । क्रोधम् मुक्तम् सैन्धवे च अर्जुनेन; तदा न आशंसे विजयाय सञ्जय ॥१३४॥
yadā aśrauṣam abhimanyum nihatya; harṣāt mūḍhān krośataḥ dhārtarāṣṭrān . krodham muktam saindhave ca arjunena; tadā na āśaṃse vijayāya sañjaya ..134..
यदाश्रौषं सैन्धवार्थे प्रतिज्ञां; प्रतिज्ञातां तद्वधायार्जुनेन । सत्यां निस्तीर्णां शत्रुमध्ये च तेन; तदा नाशंसे विजयाय सञ्जय ॥१३५॥
यदा अश्रौषम् सैन्धव-अर्थे प्रतिज्ञाम्; प्रतिज्ञाताम् तद्-वधाय अर्जुनेन । सत्याम् निस्तीर्णाम् शत्रु-मध्ये च तेन; तदा न आशंसे विजयाय सञ्जय ॥१३५॥
yadā aśrauṣam saindhava-arthe pratijñām; pratijñātām tad-vadhāya arjunena . satyām nistīrṇām śatru-madhye ca tena; tadā na āśaṃse vijayāya sañjaya ..135..
यदाश्रौषं श्रान्तहये धनञ्जये; मुक्त्वा हयान्पाययित्वोपवृत्तान् । पुनर्युक्त्वा वासुदेवं प्रयातं; तदा नाशंसे विजयाय सञ्जय ॥१३६॥
यदा अश्रौषम् श्रान्त-हये धनञ्जये; मुक्त्वा हयान् पाययित्वा उपवृत्तान् । पुनर् युक्त्वा वासुदेवम् प्रयातम्; तदा न आशंसे विजयाय सञ्जय ॥१३६॥
yadā aśrauṣam śrānta-haye dhanañjaye; muktvā hayān pāyayitvā upavṛttān . punar yuktvā vāsudevam prayātam; tadā na āśaṃse vijayāya sañjaya ..136..
यदाश्रौषं वाहनेष्वाश्वसत्सु; रथोपस्थे तिष्ठता गाण्डिवेन । सर्वान्योधान्वारितानर्जुनेन; तदा नाशंसे विजयाय सञ्जय ॥१३७॥
यदा अश्रौषम् वाहनेषु आश्वसत्सु; रथोपस्थे तिष्ठता गाण्डिवेन । सर्वान् योधान् वारितान् अर्जुनेन; तदा न आशंसे विजयाय सञ्जय ॥१३७॥
yadā aśrauṣam vāhaneṣu āśvasatsu; rathopasthe tiṣṭhatā gāṇḍivena . sarvān yodhān vāritān arjunena; tadā na āśaṃse vijayāya sañjaya ..137..
यदाश्रौषं नागबलैर्दुरुत्सहं; द्रोणानीकं युयुधानं प्रमथ्य । यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ; तदा नाशंसे विजयाय सञ्जय ॥१३८॥1.1.196
यदा अश्रौषम् नाग-बलैः दुरुत्सहम्; द्रोण-अनीकम् युयुधानम् प्रमथ्य । यातम् वार्ष्णेयम् यत्र तौ कृष्ण-पार्थौ; तदा न आशंसे विजयाय सञ्जय ॥१३८॥१।१।१९६
yadā aśrauṣam nāga-balaiḥ durutsaham; droṇa-anīkam yuyudhānam pramathya . yātam vārṣṇeyam yatra tau kṛṣṇa-pārthau; tadā na āśaṃse vijayāya sañjaya ..138..1.1.196
यदाश्रौषं कर्णमासाद्य मुक्तं; वधाद्भीमं कुत्सयित्वा वचोभिः । धनुष्कोट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय सञ्जय ॥१३९॥
यदा अश्रौषम् कर्णम् आसाद्य मुक्तम्; वधात् भीमम् कुत्सयित्वा वचोभिः । धनुष्कोट्या तुद्य कर्णेन वीरम्; तदा न आशंसे विजयाय सञ्जय ॥१३९॥
yadā aśrauṣam karṇam āsādya muktam; vadhāt bhīmam kutsayitvā vacobhiḥ . dhanuṣkoṭyā tudya karṇena vīram; tadā na āśaṃse vijayāya sañjaya ..139..
यदा द्रोणः कृतवर्मा कृपश्च; कर्णो द्रौणिर्मद्रराजश्च शूरः । अमर्षयन्सैन्धवं वध्यमानं; तदा नाशंसे विजयाय सञ्जय ॥१४०॥
यदा द्रोणः कृतवर्मा कृपः च; कर्णः द्रौणिः मद्र-राजः च शूरः । अमर्षयन् सैन्धवम् वध्यमानम्; तदा न आशंसे विजयाय सञ्जय ॥१४०॥
yadā droṇaḥ kṛtavarmā kṛpaḥ ca; karṇaḥ drauṇiḥ madra-rājaḥ ca śūraḥ . amarṣayan saindhavam vadhyamānam; tadā na āśaṃse vijayāya sañjaya ..140..
यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं व्यंसितां माधवेन । घटोत्कचे राक्षसे घोररूपे; तदा नाशंसे विजयाय सञ्जय ॥१४१॥
यदा अश्रौषम् देवराजेन दत्ताम्; दिव्याम् शक्तिम् व्यंसिताम् माधवेन । घटोत्कचे राक्षसे घोर-रूपे; तदा न आशंसे विजयाय सञ्जय ॥१४१॥
yadā aśrauṣam devarājena dattām; divyām śaktim vyaṃsitām mādhavena . ghaṭotkace rākṣase ghora-rūpe; tadā na āśaṃse vijayāya sañjaya ..141..
यदाश्रौषं कर्णघटोत्कचाभ्यां; युद्धे मुक्तां सूतपुत्रेण शक्तिम् । यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय सञ्जय ॥१४२॥
यदा अश्रौषम् कर्ण-घटोत्कचाभ्याम्; युद्धे मुक्ताम् सूतपुत्रेण शक्तिम् । यया वध्यः समरे सव्यसाची; तदा न आशंसे विजयाय सञ्जय ॥१४२॥
yadā aśrauṣam karṇa-ghaṭotkacābhyām; yuddhe muktām sūtaputreṇa śaktim . yayā vadhyaḥ samare savyasācī; tadā na āśaṃse vijayāya sañjaya ..142..
यदाश्रौषं द्रोणमाचार्यमेकं; धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् । रथोपस्थे प्रायगतं विशस्तं; तदा नाशंसे विजयाय सञ्जय ॥१४३॥
यदा अश्रौषम् द्रोणम् आचार्यम् एकम्; धृष्टद्युम्नेन अभ्यतिक्रम्य धर्मम् । रथोपस्थे प्राय-गतम् विशस्तम्; तदा न आशंसे विजयाय सञ्जय ॥१४३॥
yadā aśrauṣam droṇam ācāryam ekam; dhṛṣṭadyumnena abhyatikramya dharmam . rathopasthe prāya-gatam viśastam; tadā na āśaṃse vijayāya sañjaya ..143..
यदाश्रौषं द्रौणिना द्वैरथस्थं; माद्रीपुत्रं नकुलं लोकमध्ये । समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय सञ्जय ॥१४४॥
यदा अश्रौषम् द्रौणिना द्वैरथ-स्थम्; माद्री-पुत्रम् नकुलम् लोक-मध्ये । समम् युद्धे पाण्डवम् युध्यमानम्; तदा न आशंसे विजयाय सञ्जय ॥१४४॥
yadā aśrauṣam drauṇinā dvairatha-stham; mādrī-putram nakulam loka-madhye . samam yuddhe pāṇḍavam yudhyamānam; tadā na āśaṃse vijayāya sañjaya ..144..
यदा द्रोणे निहते द्रोणपुत्रो; नारायणं दिव्यमस्त्रं विकुर्वन् । नैषामन्तं गतवान्पाण्डवानां; तदा नाशंसे विजयाय सञ्जय ॥१४५॥
यदा द्रोणे निहते द्रोणपुत्रो; नारायणम् दिव्यम् अस्त्रम् विकुर्वन् । न एषाम् अन्तम् गतवान् पाण्डवानाम्; तदा न आशंसे विजयाय सञ्जय ॥१४५॥
yadā droṇe nihate droṇaputro; nārāyaṇam divyam astram vikurvan . na eṣām antam gatavān pāṇḍavānām; tadā na āśaṃse vijayāya sañjaya ..145..
यदाश्रौषं कर्णमत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम् । तस्मिन्भ्रातृणां विग्रहे देवगुह्ये; तदा नाशंसे विजयाय सञ्जय ॥१४६॥
यदा अश्रौषम् कर्णम् अत्यन्त-शूरम्; हतम् पार्थेन आहवेषु अप्रधृष्यम् । तस्मिन् भ्रातृणाम् विग्रहे देव-गुह्ये; तदा न आशंसे विजयाय सञ्जय ॥१४६॥
yadā aśrauṣam karṇam atyanta-śūram; hatam pārthena āhaveṣu apradhṛṣyam . tasmin bhrātṛṇām vigrahe deva-guhye; tadā na āśaṃse vijayāya sañjaya ..146..
यदाश्रौषं द्रोणपुत्रं कृपं च; दुःशासनं कृतवर्माणमुग्रम् । युधिष्ठिरं शून्यमधर्षयन्तं; तदा नाशंसे विजयाय सञ्जय ॥१४७॥
यदा अश्रौषम् द्रोणपुत्रम् कृपम् च; दुःशासनम् कृतवर्माणम् उग्रम् । युधिष्ठिरम् शून्यम् अ धर्षयन्तम्; तदा न आशंसे विजयाय सञ्जय ॥१४७॥
yadā aśrauṣam droṇaputram kṛpam ca; duḥśāsanam kṛtavarmāṇam ugram . yudhiṣṭhiram śūnyam a dharṣayantam; tadā na āśaṃse vijayāya sañjaya ..147..
यदाश्रौषं निहतं मद्रराजं; रणे शूरं धर्मराजेन सूत । सदा सङ्ग्रामे स्पर्धते यः स कृष्णं; तदा नाशंसे विजयाय सञ्जय ॥१४८॥
यदा अश्रौषम् निहतम् मद्र-राजम्; रणे शूरम् धर्मराजेन सूत । सदा सङ्ग्रामे स्पर्धते यः स कृष्णम्; तदा न आशंसे विजयाय सञ्जय ॥१४८॥
yadā aśrauṣam nihatam madra-rājam; raṇe śūram dharmarājena sūta . sadā saṅgrāme spardhate yaḥ sa kṛṣṇam; tadā na āśaṃse vijayāya sañjaya ..148..
यदाश्रौषं कलहद्यूतमूलं; मायाबलं सौबलं पाण्डवेन । हतं सङ्ग्रामे सहदेवेन पापं; तदा नाशंसे विजयाय सञ्जय ॥१४९॥
यदा अश्रौषम् कलह-द्यूत-मूलम्; माया-बलम् सौबलम् पाण्डवेन । हतम् सङ्ग्रामे सहदेवेन पापम्; तदा न आशंसे विजयाय सञ्जय ॥१४९॥
yadā aśrauṣam kalaha-dyūta-mūlam; māyā-balam saubalam pāṇḍavena . hatam saṅgrāme sahadevena pāpam; tadā na āśaṃse vijayāya sañjaya ..149..
यदाश्रौषं श्रान्तमेकं शयानं; ह्रदं गत्वा स्तम्भयित्वा तदम्भः । दुर्योधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय सञ्जय ॥१५०॥ 1.1.209
यदा अश्रौषम् श्रान्तम् एकम् शयानम्; ह्रदम् गत्वा स्तम्भयित्वा तद्-अम्भः । दुर्योधनम् विरथम् भग्न-दर्पम्; तदा न आशंसे विजयाय सञ्जय ॥१५०॥ १।१।२०९
yadā aśrauṣam śrāntam ekam śayānam; hradam gatvā stambhayitvā tad-ambhaḥ . duryodhanam viratham bhagna-darpam; tadā na āśaṃse vijayāya sañjaya ..150.. 1.1.209
यदाश्रौषं पाण्डवांस्तिष्ठमाना; न्गङ्गाह्रदे वासुदेवेन सार्धम् । अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय सञ्जय ॥१५१॥
यदा अश्रौषम् पाण्डवान् तिष्ठमाना; न् गङ्गाह्रदे वासुदेवेन सार्धम् । अमर्षणम् धर्षयतः सुतम् मे; तदा न आशंसे विजयाय सञ्जय ॥१५१॥
yadā aśrauṣam pāṇḍavān tiṣṭhamānā; n gaṅgāhrade vāsudevena sārdham . amarṣaṇam dharṣayataḥ sutam me; tadā na āśaṃse vijayāya sañjaya ..151..
यदाश्रौषं विविधांस्तात मार्गा; न्गदायुद्धे मण्डलं सञ्चरन्तम् । मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय सञ्जय ॥१५२॥
यदा अश्रौषम् विविधान् तात मार्गा; न्गदा-युद्धे मण्डलम् सञ्चरन्तम् । मिथ्या हतम् वासुदेवस्य बुद्ध्या; तदा न आशंसे विजयाय सञ्जय ॥१५२॥
yadā aśrauṣam vividhān tāta mārgā; ngadā-yuddhe maṇḍalam sañcarantam . mithyā hatam vāsudevasya buddhyā; tadā na āśaṃse vijayāya sañjaya ..152..
यदाश्रौषं द्रोणपुत्रादिभिस्तै; र्हतान्पाञ्चालान्द्रौपदेयांश्च सुप्तान् । कृतं बीभत्समयशस्यं च कर्म; तदा नाशंसे विजयाय सञ्जय ॥१५३॥
यदा अश्रौषम् द्रोणपुत्र-आदिभिः तैः; र्हतान् पाञ्चालान् द्रौपदेयान् च सुप्तान् । कृतम् बीभत्सम् अयशस्यम् च कर्म; तदा न आशंसे विजयाय सञ्जय ॥१५३॥
yadā aśrauṣam droṇaputra-ādibhiḥ taiḥ; rhatān pāñcālān draupadeyān ca suptān . kṛtam bībhatsam ayaśasyam ca karma; tadā na āśaṃse vijayāya sañjaya ..153..
यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं प्रयुक्तम् । क्रुद्धेनैषीकमवधीद्येन गर्भं; तदा नाशंसे विजयाय सञ्जय ॥१५४॥
यदा अश्रौषम् भीमसेन-अनुयातेन; अश्वत्थाम्ना परम-अस्त्रम् प्रयुक्तम् । क्रुद्धेन ऐषीकम् अवधीत् येन गर्भम्; तदा न आशंसे विजयाय सञ्जय ॥१५४॥
yadā aśrauṣam bhīmasena-anuyātena; aśvatthāmnā parama-astram prayuktam . kruddhena aiṣīkam avadhīt yena garbham; tadā na āśaṃse vijayāya sañjaya ..154..
यदाश्रौषं ब्रह्मशिरोऽर्जुनेन; मुक्तं स्वस्तीत्यस्त्रमस्त्रेण शान्तम् । अश्वत्थाम्ना मणिरत्नं च दत्तं; तदा नाशंसे विजयाय सञ्जय ॥१५५॥
यदा अश्रौषम् ब्रह्मशिरः अर्जुनेन; मुक्तम् स्वस्ति इति अस्त्रम् अस्त्रेण शान्तम् । अश्वत्थाम्ना मणि-रत्नम् च दत्तम्; तदा न आशंसे विजयाय सञ्जय ॥१५५॥
yadā aśrauṣam brahmaśiraḥ arjunena; muktam svasti iti astram astreṇa śāntam . aśvatthāmnā maṇi-ratnam ca dattam; tadā na āśaṃse vijayāya sañjaya ..155..
यदाश्रौषं द्रोणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रे । द्वैपायनः केशवो द्रोणपुत्रं; परस्परेणाभिशापैः शशाप ॥१५६॥1.1.215
यदा अश्रौषम् द्रोणपुत्रेण गर्भे; वैराट्याः वै पात्यमाने महा-अस्त्रे । द्वैपायनः केशवः द्रोणपुत्रम्; परस्परेण अभिशापैः शशाप ॥१५६॥१।१।२१५
yadā aśrauṣam droṇaputreṇa garbhe; vairāṭyāḥ vai pātyamāne mahā-astre . dvaipāyanaḥ keśavaḥ droṇaputram; paraspareṇa abhiśāpaiḥ śaśāpa ..156..1.1.215
शोच्या गान्धारी पुत्रपौत्रैर्विहीना; तथा वध्वः पितृभिर्भ्रातृभिश्च । कृतं कार्यं दुष्करं पाण्डवेयैः; प्राप्तं राज्यमसपत्नं पुनस्तैः ॥१५७॥
शोच्या गान्धारी पुत्र-पौत्रैः विहीना; तथा वध्वः पितृभिः भ्रातृभिः च । कृतम् कार्यम् दुष्करम् पाण्डवेयैः; प्राप्तम् राज्यम् असपत्नम् पुनर् तैः ॥१५७॥
śocyā gāndhārī putra-pautraiḥ vihīnā; tathā vadhvaḥ pitṛbhiḥ bhrātṛbhiḥ ca . kṛtam kāryam duṣkaram pāṇḍaveyaiḥ; prāptam rājyam asapatnam punar taiḥ ..157..
कष्टं युद्धे दश शेषाः श्रुता मे; त्रयोऽस्माकं पाण्डवानां च सप्त । द्व्यूना विंशतिराहताक्षौहिणीनां; तस्मिन्सङ्ग्रामे विग्रहे क्षत्रियाणाम् ॥१५८॥
कष्टम् युद्धे दश शेषाः श्रुताः मे; त्रयः अस्माकम् पाण्डवानाम् च सप्त । द्वि-ऊनाः विंशतिः आहत-अक्षौहिणीनाम्; तस्मिन् सङ्ग्रामे विग्रहे क्षत्रियाणाम् ॥१५८॥
kaṣṭam yuddhe daśa śeṣāḥ śrutāḥ me; trayaḥ asmākam pāṇḍavānām ca sapta . dvi-ūnāḥ viṃśatiḥ āhata-akṣauhiṇīnām; tasmin saṅgrāme vigrahe kṣatriyāṇām ..158..
तमसा त्वभ्यवस्तीर्णो मोह आविशतीव माम् । सञ्ज्ञां नोपलभे सूत मनो विह्वलतीव मे ॥१५९॥
तमसा तु अभ्यवस्तीर्णः मोहः आविशति इव माम् । सञ्ज्ञाम् ना उपलभे सूत मनः विह्वलति इव मे ॥१५९॥
tamasā tu abhyavastīrṇaḥ mohaḥ āviśati iva mām . sañjñām nā upalabhe sūta manaḥ vihvalati iva me ..159..
इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः । मूर्च्छितः पुनराश्वस्तः सञ्जयं वाक्यमब्रवीत् ॥१६०॥
इति उक्त्वा धृतराष्ट्रः अथ विलप्य बहु-दुःखितः । मूर्च्छितः पुनर् आश्वस्तः सञ्जयम् वाक्यम् अब्रवीत् ॥१६०॥
iti uktvā dhṛtarāṣṭraḥ atha vilapya bahu-duḥkhitaḥ . mūrcchitaḥ punar āśvastaḥ sañjayam vākyam abravīt ..160..
सञ्जयैवङ्गते प्राणांस्त्यक्तुमिच्छामि माचिरम् । स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे ॥१६१॥
सञ्जय-एवङ्गते प्राणान् त्यक्तुम् इच्छामि माचिरम् । स्तोकम् हि अपि न पश्यामि फलम् जीवित-धारणे ॥१६१॥
sañjaya-evaṅgate prāṇān tyaktum icchāmi māciram . stokam hi api na paśyāmi phalam jīvita-dhāraṇe ..161..
तं तथावादिनं दीनं विलपन्तं महीपतिम् । गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् ॥१६२॥
तम् तथावादिनम् दीनम् विलपन्तम् महीपतिम् । गावल्गणिः इदम् धीमान् महा-अर्थम् वाक्यम् अब्रवीत् ॥१६२॥
tam tathāvādinam dīnam vilapantam mahīpatim . gāvalgaṇiḥ idam dhīmān mahā-artham vākyam abravīt ..162..
श्रुतवानसि वै राज्ञो महोत्साहान्महाबलान् । द्वैपायनस्य वदतो नारदस्य च धीमतः ॥१६३॥
श्रुतवान् असि वै राज्ञः महा-उत्साहान् महा-बलान् । द्वैपायनस्य वदतः नारदस्य च धीमतः ॥१६३॥
śrutavān asi vai rājñaḥ mahā-utsāhān mahā-balān . dvaipāyanasya vadataḥ nāradasya ca dhīmataḥ ..163..
महत्सु राजवंशेषु गुणैः समुदितेषु च । जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः ॥१६४॥
महत्सु राज-वंशेषु गुणैः समुदितेषु च । जातान् दिव्य-अस्त्र-विदुषः शक्र-प्रतिम-तेजसः ॥१६४॥
mahatsu rāja-vaṃśeṣu guṇaiḥ samuditeṣu ca . jātān divya-astra-viduṣaḥ śakra-pratima-tejasaḥ ..164..
धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः । अस्मिँल्लोके यशः प्राप्य ततः कालवशं गताः ॥१६५॥
धर्मेण पृथिवीम् जित्वा यज्ञैः इष्ट्वा आप्त-दक्षिणैः । अस्मिन् लोके यशः प्राप्य ततस् काल-वशम् गताः ॥१६५॥
dharmeṇa pṛthivīm jitvā yajñaiḥ iṣṭvā āpta-dakṣiṇaiḥ . asmin loke yaśaḥ prāpya tatas kāla-vaśam gatāḥ ..165..
वैन्यं महारथं वीरं सृञ्जयं जयतां वरम् । सुहोत्रं रन्तिदेवं च कक्षीवन्तं तथौशिजम् ॥१६६॥
वैन्यम् महा-रथम् वीरम् सृञ्जयम् जयताम् वरम् । सुहोत्रम् रन्तिदेवम् च कक्षीवन्तम् तथा औशिजम् ॥१६६॥
vainyam mahā-ratham vīram sṛñjayam jayatām varam . suhotram rantidevam ca kakṣīvantam tathā auśijam ..166..
बाह्लीकं दमनं शैब्यं शर्यातिमजितं जितम् । विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् ॥१६७॥
वाह्लीकम् दमनम् शैब्यम् शर्यातिम् अजितम् जितम् । विश्वामित्रम् अमित्र-घ्नम् अम्बरीषम् महा-बलम् ॥१६७॥
vāhlīkam damanam śaibyam śaryātim ajitam jitam . viśvāmitram amitra-ghnam ambarīṣam mahā-balam ..167..
मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च । रामं दाशरथिं चैव शशबिन्दुं भगीरथम् ॥१६८॥
मरुत्तम् मनुम् इक्ष्वाकुम् गयम् भरतम् एव च । रामम् दाशरथिम् च एव शशबिन्दुम् भगीरथम् ॥१६८॥
maruttam manum ikṣvākum gayam bharatam eva ca . rāmam dāśarathim ca eva śaśabindum bhagīratham ..168..
ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् । चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा ॥१६९॥
ययातिम् शुभ-कर्माणम् देवैः यः याजितः स्वयम् । चैत्य-यूप-अङ्किता भूमिः यस्य इयम् सवन-आकरा ॥१६९॥
yayātim śubha-karmāṇam devaiḥ yaḥ yājitaḥ svayam . caitya-yūpa-aṅkitā bhūmiḥ yasya iyam savana-ākarā ..169..
इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा । पुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः ॥१७०॥
इति राज्ञाम् चतुर्विंशत् नारदेन सुर-ऋषिणा । पुत्र-शोक-अभितप्ताय पुरा शैब्याय कीर्तिताः ॥१७०॥
iti rājñām caturviṃśat nāradena sura-ṛṣiṇā . putra-śoka-abhitaptāya purā śaibyāya kīrtitāḥ ..170..
तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः । महारथा महात्मानः सर्वैः समुदिता गुणैः ॥१७१॥
तेभ्यः च अन्ये गताः पूर्वम् राजानः बलवत्तराः । महा-रथाः महात्मानः सर्वैः समुदिताः गुणैः ॥१७१॥
tebhyaḥ ca anye gatāḥ pūrvam rājānaḥ balavattarāḥ . mahā-rathāḥ mahātmānaḥ sarvaiḥ samuditāḥ guṇaiḥ ..171..
पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाधृतिः । अनेना युवनाश्वश्च ककुत्स्थो विक्रमी रघुः ॥१७२॥
पूरुः कुरुः यदुः शूरः विष्वगश्वः महाधृतिः । अनेनाः युवनाश्वः च ककुत्स्थः विक्रमी रघुः ॥१७२॥
pūruḥ kuruḥ yaduḥ śūraḥ viṣvagaśvaḥ mahādhṛtiḥ . anenāḥ yuvanāśvaḥ ca kakutsthaḥ vikramī raghuḥ ..172..
विजिती वीतिहोत्रश्च भवः श्वेतो बृहद्गुरुः । उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः ॥१७३॥
विजिती वीतिहोत्रः च भवः श्वेतः बृहद्गुरुः । उशीनरः शतरथः कङ्कः दुलिदुहः द्रुमः ॥१७३॥
vijitī vītihotraḥ ca bhavaḥ śvetaḥ bṛhadguruḥ . uśīnaraḥ śatarathaḥ kaṅkaḥ duliduhaḥ drumaḥ ..173..
दम्भोद्भवः परो वेनः सगरः सङ्कृतिर्निमिः । अजेयः परशुः पुण्ड्रः शम्भुर्देवावृधोऽनघः ॥१७४॥1.1.234
दम्भोद्भवः परः वेनः सगरः सङ्कृतिः निमिः । अजेयः परशुः पुण्ड्रः शम्भुः देवावृधः अनघः ॥१७४॥१।१।२३४
dambhodbhavaḥ paraḥ venaḥ sagaraḥ saṅkṛtiḥ nimiḥ . ajeyaḥ paraśuḥ puṇḍraḥ śambhuḥ devāvṛdhaḥ anaghaḥ ..174..1.1.234
देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः । महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः ॥१७५॥
देवाह्वयः सुप्रतिमः सुप्रतीकः बृहत्-रथः । महा-उत्साहः विनीत-आत्मा सुक्रतुः नैषधः नलः ॥१७५॥
devāhvayaḥ supratimaḥ supratīkaḥ bṛhat-rathaḥ . mahā-utsāhaḥ vinīta-ātmā sukratuḥ naiṣadhaḥ nalaḥ ..175..
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः । जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुभव्रतः ॥१७६॥
। जानुजङ्घः अनरण्यः अर्कः प्रिय-भृत्यः शुभ-व्रतः ॥१७६॥
. jānujaṅghaḥ anaraṇyaḥ arkaḥ priya-bhṛtyaḥ śubha-vrataḥ ..176..
बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः । धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः ॥१७७॥
। धृष्टकेतुः बृहत्केतुः दीप्तकेतुः निरामयः ॥१७७॥
. dhṛṣṭaketuḥ bṛhatketuḥ dīptaketuḥ nirāmayaḥ ..177..
अविक्षित्प्रबलो धूर्तः कृतबन्धुर्दृढेषुधिः । महापुराणः सम्भाव्यः प्रत्यङ्गः परहा श्रुतिः ॥१७८॥
अविक्षित् प्रबलः धूर्तः कृतबन्धुः दृढेषुधिः । ॥१७८॥
avikṣit prabalaḥ dhūrtaḥ kṛtabandhuḥ dṛḍheṣudhiḥ . ..178..
एते चान्ये च बहवः शतशोऽथ सहस्रशः । श्रूयन्तेऽयुतशश्चान्ये सङ्ख्याताश्चापि पद्मशः ॥१७९॥
एते च अन्ये च बहवः शतशस् अथ सहस्रशस् । श्रूयन्ते अयुतशस् च अन्ये सङ्ख्याताः च अपि पद्मशस् ॥१७९॥
ete ca anye ca bahavaḥ śataśas atha sahasraśas . śrūyante ayutaśas ca anye saṅkhyātāḥ ca api padmaśas ..179..
हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः । राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तमाः ॥१८०॥
हित्वा सु विपुलान् भोगान् बुद्धिमन्तः महा-बलाः । राजानः निधनम् प्राप्ताः तव पुत्रैः महत्तमाः ॥१८०॥
hitvā su vipulān bhogān buddhimantaḥ mahā-balāḥ . rājānaḥ nidhanam prāptāḥ tava putraiḥ mahattamāḥ ..180..
येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च । माहात्म्यमपि चास्तिक्यं सत्यता शौचमार्जवम् ॥१८१॥
येषाम् दिव्यानि कर्माणि विक्रमः त्यागः एव च । माहात्म्यम् अपि च आस्तिक्यम् सत्यता शौचम् आर्जवम् ॥१८१॥
yeṣām divyāni karmāṇi vikramaḥ tyāgaḥ eva ca . māhātmyam api ca āstikyam satyatā śaucam ārjavam ..181..
विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः । सर्वर्द्धिगुणसम्पन्नास्ते चापि निधनं गताः ॥१८२॥
विद्वद्भिः कथ्यते लोके पुराणैः कवि-सत्तमैः । सर्व-ऋद्धि-गुण-सम्पन्नाः ते च अपि निधनम् गताः ॥१८२॥
vidvadbhiḥ kathyate loke purāṇaiḥ kavi-sattamaiḥ . sarva-ṛddhi-guṇa-sampannāḥ te ca api nidhanam gatāḥ ..182..
तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना । लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्शोचितुमर्हसि ॥१८३॥1.1.243
तव पुत्राः दुरात्मानः प्रतप्ताः च एव मन्युना । लुब्धाः दुर्वृत्त-भूयिष्ठाः न तान् शोचितुम् अर्हसि ॥१८३॥१।१।२४३
tava putrāḥ durātmānaḥ prataptāḥ ca eva manyunā . lubdhāḥ durvṛtta-bhūyiṣṭhāḥ na tān śocitum arhasi ..183..1.1.243
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः । येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत ॥१८४॥
श्रुतवान् असि मेधावी बुद्धिमान् प्राज्ञ-संमतः । येषाम् शास्त्र-अनुगा बुद्धिः न ते मुह्यन्ति भारत ॥१८४॥
śrutavān asi medhāvī buddhimān prājña-saṃmataḥ . yeṣām śāstra-anugā buddhiḥ na te muhyanti bhārata ..184..
निग्रहानुग्रहौ चापि विदितौ ते नराधिप । नात्यन्तमेवानुवृत्तिः श्रूयते पुत्ररक्षणे ॥१८५॥
निग्रह-अनुग्रहौ च अपि विदितौ ते नराधिप । न अत्यन्तम् एव अनुवृत्तिः श्रूयते पुत्र-रक्षणे ॥१८५॥
nigraha-anugrahau ca api viditau te narādhipa . na atyantam eva anuvṛttiḥ śrūyate putra-rakṣaṇe ..185..
भवितव्यं तथा तच्च नातः शोचितुमर्हसि । दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति ॥१८६॥
भवितव्यम् तथा तत् च न अतस् शोचितुम् अर्हसि । दैवम् प्रज्ञा-विशेषेण कः निवर्तितुम् अर्हति ॥१८६॥
bhavitavyam tathā tat ca na atas śocitum arhasi . daivam prajñā-viśeṣeṇa kaḥ nivartitum arhati ..186..
विधातृविहितं मार्गं न कश्चिदतिवर्तते । कालमूलमिदं सर्वं भावाभावौ सुखासुखे ॥१८७॥
विधातृ-विहितम् मार्गम् न कश्चिद् अतिवर्तते । काल-मूलम् इदम् सर्वम् भाव-अभावौ सुख-असुखे ॥१८७॥
vidhātṛ-vihitam mārgam na kaścid ativartate . kāla-mūlam idam sarvam bhāva-abhāvau sukha-asukhe ..187..
कालः पचति भूतानि कालः संहरति प्रजाः । निर्दहन्तं प्रजाः कालं कालः शमयते पुनः ॥१८८॥
कालः पचति भूतानि कालः संहरति प्रजाः । निर्दहन्तम् प्रजाः कालम् कालः शमयते पुनर् ॥१८८॥
kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ . nirdahantam prajāḥ kālam kālaḥ śamayate punar ..188..
कालो विकुरुते भावान्सर्वाँल्लोके शुभाशुभान् । कालः सङ्क्षिपते सर्वाः प्रजा विसृजते पुनः ॥१८९॥ ( कालः सर्वेषु भूतेषु चरत्यविधृतः समः ॥१८९॥ )
कालः विकुरुते भावान् सर्वान् लोके शुभ-अशुभान् । कालः सङ्क्षिपते सर्वाः प्रजाः विसृजते पुनर् ॥१८९॥ ( कालः सर्वेषु भूतेषु चरति अविधृतः समः ॥१८९॥ )
kālaḥ vikurute bhāvān sarvān loke śubha-aśubhān . kālaḥ saṅkṣipate sarvāḥ prajāḥ visṛjate punar ..189.. ( kālaḥ sarveṣu bhūteṣu carati avidhṛtaḥ samaḥ ..189.. )
अतीतानागता भावा ये च वर्तन्ति साम्प्रतम् । तान्कालनिर्मितान्बुद्ध्वा न सञ्ज्ञां हातुमर्हसि ॥१९०॥
अतीत-अनागताः भावाः ये च वर्तन्ति साम्प्रतम् । तान् काल-निर्मितान् बुद्ध्वा न सञ्ज्ञाम् हातुम् अर्हसि ॥१९०॥
atīta-anāgatāḥ bhāvāḥ ye ca vartanti sāmpratam . tān kāla-nirmitān buddhvā na sañjñām hātum arhasi ..190..
सूत उवाच॥
अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् । भारताध्ययनात्पुण्यादपि पादमधीयतः ॥१९१॥ (श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥१९१॥ )
अत्र उपनिषदम् पुण्याम् कृष्णद्वैपायनः अब्रवीत् । भारत-अध्ययनात् पुण्यात् अपि पादम् अधीयतः ॥१९१॥ (श्रद्दधानस्य पूयन्ते सर्व-पापानि अशेषतस् ॥१९१॥ )
atra upaniṣadam puṇyām kṛṣṇadvaipāyanaḥ abravīt . bhārata-adhyayanāt puṇyāt api pādam adhīyataḥ ..191.. (śraddadhānasya pūyante sarva-pāpāni aśeṣatas ..191.. )
देवर्षयो ह्यत्र पुण्या ब्रह्मराजर्षयस्तथा । कीर्त्यन्ते शुभकर्माणस्तथा यक्षमहोरगाः ॥१९२॥
देव-ऋषयः हि अत्र पुण्याः ब्रह्म-राज-ऋषयः तथा । कीर्त्यन्ते शुभ-कर्माणः तथा यक्ष-महा-उरगाः ॥१९२॥
deva-ṛṣayaḥ hi atra puṇyāḥ brahma-rāja-ṛṣayaḥ tathā . kīrtyante śubha-karmāṇaḥ tathā yakṣa-mahā-uragāḥ ..192..
भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः । स हि सत्यमृतं चैव पवित्रं पुण्यमेव च ॥१९३॥
भगवान् वासुदेवः च कीर्त्यते अत्र सनातनः । स हि सत्यम् ऋतम् च एव पवित्रम् पुण्यम् एव च ॥१९३॥
bhagavān vāsudevaḥ ca kīrtyate atra sanātanaḥ . sa hi satyam ṛtam ca eva pavitram puṇyam eva ca ..193..
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् । यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः ॥१९४॥
शाश्वतम् ब्रह्म परमम् ध्रुवम् ज्योतिः सनातनम् । यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः ॥१९४॥
śāśvatam brahma paramam dhruvam jyotiḥ sanātanam . yasya divyāni karmāṇi kathayanti manīṣiṇaḥ ..194..
असत्सत्सदसच्चैव यस्माद्देवात्प्रवर्तते । सन्ततिश्च प्रवृत्तिश्च जन्म मृत्युः पुनर्भवः ॥१९५॥1.1.258
असत् सत् सत् असत् च एव यस्मात् देवात् प्रवर्तते । सन्ततिः च प्रवृत्तिः च जन्म मृत्युः पुनर्भवः ॥१९५॥१।१।२५८
asat sat sat asat ca eva yasmāt devāt pravartate . santatiḥ ca pravṛttiḥ ca janma mṛtyuḥ punarbhavaḥ ..195..1.1.258
अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम् । अव्यक्तादि परं यच्च स एव परिगीयते ॥१९६॥
अध्यात्मम् श्रूयते यत् च पञ्च-भूत-गुण-आत्मकम् । अव्यक्त-आदि परम् यत् च सः एव परिगीयते ॥१९६॥
adhyātmam śrūyate yat ca pañca-bhūta-guṇa-ātmakam . avyakta-ādi param yat ca saḥ eva parigīyate ..196..
यत्तद्यतिवरा युक्ता ध्यानयोगबलान्विताः । प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् ॥१९७॥
यत् तत् यति-वराः युक्ताः ध्यान-योग-बल-अन्विताः । प्रतिबिम्बम् इव आदर्शे पश्यन्ति आत्मनि अवस्थितम् ॥१९७॥
yat tat yati-varāḥ yuktāḥ dhyāna-yoga-bala-anvitāḥ . pratibimbam iva ādarśe paśyanti ātmani avasthitam ..197..
श्रद्दधानः सदोद्युक्तः सत्यधर्मपरायणः । आसेवन्निममध्यायं नरः पापात्प्रमुच्यते ॥१९८॥
श्रद्दधानः सदा उद्युक्तः सत्य-धर्म-परायणः । आसेवन् इमम् अध्यायम् नरः पापात् प्रमुच्यते ॥१९८॥
śraddadhānaḥ sadā udyuktaḥ satya-dharma-parāyaṇaḥ . āsevan imam adhyāyam naraḥ pāpāt pramucyate ..198..
अनुक्रमणिमध्यायं भारतस्येममादितः । आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति ॥१९९॥
अनुक्रमणिम् अध्यायम् भारतस्य इमम् आदितस् । आस्तिकः सततम् शृण्वन् न कृच्छ्रेषु अवसीदति ॥१९९॥
anukramaṇim adhyāyam bhāratasya imam āditas . āstikaḥ satatam śṛṇvan na kṛcchreṣu avasīdati ..199..
उभे सन्ध्ये जपन्किञ्चित्सद्यो मुच्येत किल्बिषात् । अनुक्रमण्या यावत्स्यादह्ना रात्र्या च सञ्चितम् ॥२००॥1.1.263
उभे सन्ध्ये जपन् किञ्चिद् सद्यस् मुच्येत किल्बिषात् । अनुक्रमण्या यावत् स्यात् अह्ना रात्र्या च सञ्चितम् ॥२००॥१।१।२६३
ubhe sandhye japan kiñcid sadyas mucyeta kilbiṣāt . anukramaṇyā yāvat syāt ahnā rātryā ca sañcitam ..200..1.1.263
भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च । नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ॥२०१॥
भारतस्य वपुः हि एतत् सत्यम् च अमृतम् एव च । नवनीतम् यथा दध्नः द्विपदाम् ब्राह्मणः यथा ॥२०१॥
bhāratasya vapuḥ hi etat satyam ca amṛtam eva ca . navanītam yathā dadhnaḥ dvipadām brāhmaṇaḥ yathā ..201..
ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् । यथैतानि वरिष्ठानि तथा भारतमुच्यते ॥२०२॥
ह्रदानाम् उदधिः श्रेष्ठः गौः वरिष्ठा चतुष्पदाम् । यथा एतानि वरिष्ठानि तथा भारतम् उच्यते ॥२०२॥
hradānām udadhiḥ śreṣṭhaḥ gauḥ variṣṭhā catuṣpadām . yathā etāni variṣṭhāni tathā bhāratam ucyate ..202..
यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः । अक्षय्यमन्नपानं तत्पितृंस्तस्योपतिष्ठति ॥२०३॥
यः च एनम् श्रावयेत् श्राद्धे ब्राह्मणान् पादम् अन्ततस् । अक्षय्यम् अन्न-पानम् तत् पितृन् तस्य उपतिष्ठति ॥२०३॥
yaḥ ca enam śrāvayet śrāddhe brāhmaṇān pādam antatas . akṣayyam anna-pānam tat pitṛn tasya upatiṣṭhati ..203..
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥२०४॥1.1.267
इतिहास-पुराणाभ्याम् वेदम् समुपबृंहयेत् । बिभेति अल्प-श्रुतात् वेदः माम् अयम् प्रतरिष्यति ॥२०४॥१।१।२६७
itihāsa-purāṇābhyām vedam samupabṛṃhayet . bibheti alpa-śrutāt vedaḥ mām ayam pratariṣyati ..204..1.1.267
कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते । भ्रूणहत्याकृतं चापि पापं जह्यान्न संशयः ॥२०५॥
कार्ष्णम् वेदम् इमम् विद्वान् श्रावयित्वा अर्थम् अश्नुते । भ्रूणहत्या-कृतम् च अपि पापम् जह्यात् न संशयः ॥२०५॥
kārṣṇam vedam imam vidvān śrāvayitvā artham aśnute . bhrūṇahatyā-kṛtam ca api pāpam jahyāt na saṃśayaḥ ..205..
य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि । अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः ॥२०६॥
यः इमम् शुचिः अध्यायम् पठेत् पर्वणि पर्वणि । अधीतम् भारतम् तेन कृत्स्नम् स्यात् इति मे मतिः ॥२०६॥
yaḥ imam śuciḥ adhyāyam paṭhet parvaṇi parvaṇi . adhītam bhāratam tena kṛtsnam syāt iti me matiḥ ..206..
यश्चेमं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः । स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः ॥२०७॥
यः च इमम् शृणुयात् नित्यम् आर्षम् श्रद्धा-समन्वितः । स दीर्घम् आयुः कीर्तिम् च स्वर्गतिम् च आप्नुयात् नरः ॥२०७॥
yaḥ ca imam śṛṇuyāt nityam ārṣam śraddhā-samanvitaḥ . sa dīrgham āyuḥ kīrtim ca svargatim ca āpnuyāt naraḥ ..207..
चत्वार एकतो वेदा भारतं चैकमेकतः । समागतैः सुरर्षिभिस्तुलामारोपितं पुरा ॥२०८॥
चत्वारः एकतस् वेदाः भारतम् च एकम् एकतस् । समागतैः सुर-ऋषिभिः तुलाम् आरोपितम् पुरा ॥२०८॥
catvāraḥ ekatas vedāḥ bhāratam ca ekam ekatas . samāgataiḥ sura-ṛṣibhiḥ tulām āropitam purā ..208..
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते । निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥२०९॥
महत्त्वात् भारवत्-त्वात् च महाभारतम् उच्यते । निरुक्तम् अस्य यः वेद सर्व-पापैः प्रमुच्यते ॥२०९॥
mahattvāt bhāravat-tvāt ca mahābhāratam ucyate . niruktam asya yaḥ veda sarva-pāpaiḥ pramucyate ..209..
तपो न कल्कोऽध्ययनं न कल्कः; स्वाभाविको वेदविधिर्न कल्कः । प्रसह्य वित्ताहरणं न कल्क; स्तान्येव भावोपहतानि कल्कः ॥२१०॥
तपः न कल्कः अध्ययनम् न कल्कः; स्वाभाविकः वेद-विधिः न कल्कः । प्रसह्य वित्त-आहरणम् न; स्तानि एव भाव-उपहतानि कल्कः ॥२१०॥
tapaḥ na kalkaḥ adhyayanam na kalkaḥ; svābhāvikaḥ veda-vidhiḥ na kalkaḥ . prasahya vitta-āharaṇam na; stāni eva bhāva-upahatāni kalkaḥ ..210..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In