| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

रुरुरुवाच॥
किमर्थं शप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम । कियन्तं चैव कालं ते वपुरेतद्भविष्यति ॥८॥1.10.8
किमर्थम् शप्तवान् क्रुद्धः द्विजः त्वाम् भुजग-उत्तम । कियन्तम् च एव कालम् ते वपुः एतत् भविष्यति ॥८॥१।१०।८
kimartham śaptavān kruddhaḥ dvijaḥ tvām bhujaga-uttama . kiyantam ca eva kālam te vapuḥ etat bhaviṣyati ..8..1.10.8
डुण्डुभ उवाच॥
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः । भृशं संशितवाक्तात तपोबलसमन्वितः ॥१॥
सखा बभूव मे पूर्वम् खगमः नाम वै द्विजः । भृशम् संशित-वाच् तात तपः-बल-समन्वितः ॥१॥
sakhā babhūva me pūrvam khagamaḥ nāma vai dvijaḥ . bhṛśam saṃśita-vāc tāta tapaḥ-bala-samanvitaḥ ..1..
स मया क्रीडता बाल्ये कृत्वा तार्णमथोरगम् । अग्निहोत्रे प्रसक्तः सन्भीषितः प्रमुमोह वै ॥२॥
स मया क्रीडता बाल्ये कृत्वा तार्णम् अथ उरगम् । अग्निहोत्रे प्रसक्तः सन् भीषितः प्रमुमोह वै ॥२॥
sa mayā krīḍatā bālye kṛtvā tārṇam atha uragam . agnihotre prasaktaḥ san bhīṣitaḥ pramumoha vai ..2..
लब्ध्वा च स पुनः सञ्ज्ञां मामुवाच तपोधनः । निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः ॥३॥
लब्ध्वा च स पुनर् सञ्ज्ञाम् माम् उवाच तपोधनः । निर्दहन् इव कोपेन सत्य-वाच् संशित-व्रतः ॥३॥
labdhvā ca sa punar sañjñām mām uvāca tapodhanaḥ . nirdahan iva kopena satya-vāc saṃśita-vrataḥ ..3..
यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया । तथावीर्यो भुजङ्गस्त्वं मम कोपाद्भविष्यसि ॥४॥
यथावीर्यः त्वया सर्पः कृतः अयम् मद्-बिभीषया । तथावीर्यः भुजङ्गः त्वम् मम कोपात् भविष्यसि ॥४॥
yathāvīryaḥ tvayā sarpaḥ kṛtaḥ ayam mad-bibhīṣayā . tathāvīryaḥ bhujaṅgaḥ tvam mama kopāt bhaviṣyasi ..4..
तस्याहं तपसो वीर्यं जानमानस्तपोधन । भृशमुद्विग्नहृदयस्तमवोचं वनौकसम् ॥५॥
तस्य अहम् तपसः वीर्यम् जानमानः तपोधन । भृशम् उद्विग्न-हृदयः तम् अवोचम् वनौकसम् ॥५॥
tasya aham tapasaḥ vīryam jānamānaḥ tapodhana . bhṛśam udvigna-hṛdayaḥ tam avocam vanaukasam ..5..
प्रयतः सम्भ्रमाच्चैव प्राञ्जलिः प्रणतः स्थितः । सखेति हसतेदं ते नर्मार्थं वै कृतं मया ॥६॥
प्रयतः सम्भ्रमात् च एव प्राञ्जलिः प्रणतः स्थितः । सखा इति हसता इदम् ते नर्म-अर्थम् वै कृतम् मया ॥६॥
prayataḥ sambhramāt ca eva prāñjaliḥ praṇataḥ sthitaḥ . sakhā iti hasatā idam te narma-artham vai kṛtam mayā ..6..
क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम् । सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम् ॥७॥
क्षन्तुम् अर्हसि मे ब्रह्मन् शापः अयम् विनिवर्त्यताम् । सः अथ माम् अब्रवीत् दृष्ट्वा भृशम् उद्विग्न-चेतसम् ॥७॥
kṣantum arhasi me brahman śāpaḥ ayam vinivartyatām . saḥ atha mām abravīt dṛṣṭvā bhṛśam udvigna-cetasam ..7..
मुहुरुष्णं विनिःश्वस्य सुसम्भ्रान्तस्तपोधनः । नानृतं वै मया प्रोक्तं भवितेदं कथञ्चन ॥८॥
मुहुर् उष्णम् विनिःश्वस्य सु सम्भ्रान्तः तपोधनः । न अनृतम् वै मया प्रोक्तम् भविता इदम् कथञ्चन ॥८॥
muhur uṣṇam viniḥśvasya su sambhrāntaḥ tapodhanaḥ . na anṛtam vai mayā proktam bhavitā idam kathañcana ..8..
यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे धृतव्रत । श्रुत्वा च हृदि ते वाक्यमिदमस्तु तपोधन ॥९॥
यत् तु वक्ष्यामि ते वाक्यम् शृणु तत् मे धृत-व्रत । श्रुत्वा च हृदि ते वाक्यम् इदम् अस्तु तपोधन ॥९॥
yat tu vakṣyāmi te vākyam śṛṇu tat me dhṛta-vrata . śrutvā ca hṛdi te vākyam idam astu tapodhana ..9..
उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः । तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव ॥१०॥
उत्पत्स्यति रुरुः नाम प्रमतेः आत्मजः शुचिः । तम् दृष्ट्वा शाप-मोक्षः ते भविता नचिरात् इव ॥१०॥
utpatsyati ruruḥ nāma pramateḥ ātmajaḥ śuciḥ . tam dṛṣṭvā śāpa-mokṣaḥ te bhavitā nacirāt iva ..10..
स त्वं रुरुरिति ख्यातः प्रमतेरात्मजः शुचिः । स्वरूपं प्रतिलभ्याहमद्य वक्ष्यामि ते हितम् ॥११॥
स त्वम् रुरुः इति ख्यातः प्रमतेः आत्मजः शुचिः । स्व-रूपम् प्रतिलभ्य अहम् अद्य वक्ष्यामि ते हितम् ॥११॥
sa tvam ruruḥ iti khyātaḥ pramateḥ ātmajaḥ śuciḥ . sva-rūpam pratilabhya aham adya vakṣyāmi te hitam ..11..
अहिंसा परमो धर्मः सर्वप्राणभृतां स्मृतः । तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित् ॥१२॥
अहिंसा परमः धर्मः सर्व-प्राणभृताम् स्मृतः । तस्मात् प्राणभृतः सर्वान् न हिंस्यात् ब्राह्मणः क्वचिद् ॥१२॥
ahiṃsā paramaḥ dharmaḥ sarva-prāṇabhṛtām smṛtaḥ . tasmāt prāṇabhṛtaḥ sarvān na hiṃsyāt brāhmaṇaḥ kvacid ..12..
ब्राह्मणः सौम्य एवेह जायतेति परा श्रुतिः । वेदवेदाङ्गवित्तात सर्वभूताभयप्रदः ॥१३॥
ब्राह्मणः सौम्यः एव इह जायत इति परा श्रुतिः । वेद-वेदाङ्ग-विद् तात सर्व-भूत-अभय-प्रदः ॥१३॥
brāhmaṇaḥ saumyaḥ eva iha jāyata iti parā śrutiḥ . veda-vedāṅga-vid tāta sarva-bhūta-abhaya-pradaḥ ..13..
अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम् । ब्राह्मणस्य परो धर्मो वेदानां धरणादपि ॥१४॥
अहिंसा सत्य-वचनम् क्षमा च इति विनिश्चितम् । ब्राह्मणस्य परः धर्मः वेदानाम् धरणात् अपि ॥१४॥
ahiṃsā satya-vacanam kṣamā ca iti viniścitam . brāhmaṇasya paraḥ dharmaḥ vedānām dharaṇāt api ..14..
क्षत्रियस्य तु यो धर्मः स नेहेष्यति वै तव । दण्डधारणमुग्रत्वं प्रजानां परिपालनम् ॥१५॥
क्षत्रियस्य तु यः धर्मः स न इह इष्यति वै तव । दण्ड-धारणम् उग्र-त्वम् प्रजानाम् परिपालनम् ॥१५॥
kṣatriyasya tu yaḥ dharmaḥ sa na iha iṣyati vai tava . daṇḍa-dhāraṇam ugra-tvam prajānām paripālanam ..15..
तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो । जनमेजयस्य धर्मात्मन्सर्पाणां हिंसनं पुरा ॥१६॥
तत् इदम् क्षत्रियस्य आसीत् कर्म वै शृणु मे रुरो । जनमेजयस्य धर्म-आत्मन् सर्पाणाम् हिंसनम् पुरा ॥१६॥
tat idam kṣatriyasya āsīt karma vai śṛṇu me ruro . janamejayasya dharma-ātman sarpāṇām hiṃsanam purā ..16..
परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि । तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात् ॥१७॥
परित्राणम् च भीतानाम् सर्पाणाम् ब्राह्मणात् अपि । तपः-वीर्य-बल-उपेतात् वेद-वेदाङ्ग-पारगात् ॥१७॥
paritrāṇam ca bhītānām sarpāṇām brāhmaṇāt api . tapaḥ-vīrya-bala-upetāt veda-vedāṅga-pāragāt ..17..
आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम ॥१७॥1.11.19
आस्तीकात् द्विजमुख्यात् वै सर्प-सत्रे द्विजोत्तम ॥१७॥१।११।१९
āstīkāt dvijamukhyāt vai sarpa-satre dvijottama ..17..1.11.19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In