| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततः सत्यवती काले वधूं स्नातामृतौ तदा । संवेशयन्ती शयने शनकैर्वाक्यमब्रवीत् ॥१॥
ततस् सत्यवती काले वधूम् स्नाताम् ऋतौ तदा । संवेशयन्ती शयने शनकैस् वाक्यम् अब्रवीत् ॥१॥
tatas satyavatī kāle vadhūm snātām ṛtau tadā . saṃveśayantī śayane śanakais vākyam abravīt ..1..
कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वानुप्रवेक्ष्यति । अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति ॥२॥
कौसल्ये देवरः ते अस्ति सः अद्य त्वा अनुप्रवेक्ष्यति । अप्रमत्ता प्रतीक्ष एनम् निशीथे आगमिष्यति ॥२॥
kausalye devaraḥ te asti saḥ adya tvā anupravekṣyati . apramattā pratīkṣa enam niśīthe āgamiṣyati ..2..
श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे । साचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुङ्गवान् ॥३॥
श्वश्र्वाः तत् वचनम् श्रुत्वा शयाना शयने शुभे । सा अचिन्तयत् तदा भीष्मम् अन्यान् च कुरु-पुङ्गवान् ॥३॥
śvaśrvāḥ tat vacanam śrutvā śayānā śayane śubhe . sā acintayat tadā bhīṣmam anyān ca kuru-puṅgavān ..3..
ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः । दीप्यमानेषु दीपेषु शयनं प्रविवेश ह ॥४॥
ततस् अम्बिकायाम् प्रथमम् नियुक्तः सत्य-वाच् ऋषिः । दीप्यमानेषु दीपेषु शयनम् प्रविवेश ह ॥४॥
tatas ambikāyām prathamam niyuktaḥ satya-vāc ṛṣiḥ . dīpyamāneṣu dīpeṣu śayanam praviveśa ha ..4..
तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने । बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् ॥५॥
तस्य कृष्णस्य कपिलाः जटाः दीप्ते च लोचने । बभ्रूणि च एव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् ॥५॥
tasya kṛṣṇasya kapilāḥ jaṭāḥ dīpte ca locane . babhrūṇi ca eva śmaśrūṇi dṛṣṭvā devī nyamīlayat ..5..
सम्बभूव तया रात्रौ मातुः प्रियचिकीर्षया । भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम् ॥६॥
सम्बभूव तया रात्रौ मातुः प्रिय-चिकीर्षया । भयात् काशि-सुता तम् तु ना अशक्नोत् अभिवीक्षितुम् ॥६॥
sambabhūva tayā rātrau mātuḥ priya-cikīrṣayā . bhayāt kāśi-sutā tam tu nā aśaknot abhivīkṣitum ..6..
ततो निष्क्रान्तमासाद्य माता पुत्रमथाब्रवीत् । अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति ॥७॥
ततस् निष्क्रान्तम् आसाद्य माता पुत्रम् अथ अब्रवीत् । अपि अस्याम् गुणवान् पुत्र राज-पुत्रः भविष्यति ॥७॥
tatas niṣkrāntam āsādya mātā putram atha abravīt . api asyām guṇavān putra rāja-putraḥ bhaviṣyati ..7..
निशम्य तद्वचो मातुर्व्यासः परमबुद्धिमान् । प्रोवाचातीन्द्रियज्ञानो विधिना सम्प्रचोदितः ॥८॥
निशम्य तत् वचः मातुः व्यासः परम-बुद्धिमान् । प्रोवाच अतीन्द्रिय-ज्ञानः विधिना सम्प्रचोदितः ॥८॥
niśamya tat vacaḥ mātuḥ vyāsaḥ parama-buddhimān . provāca atīndriya-jñānaḥ vidhinā sampracoditaḥ ..8..
नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः । महाभागो महावीर्यो महाबुद्धिर्भविष्यति ॥९॥
नाग-अयुत-सम-प्राणः विद्वान् राजर्षि-सत्तमः । महाभागः महा-वीर्यः महा-बुद्धिः भविष्यति ॥९॥
nāga-ayuta-sama-prāṇaḥ vidvān rājarṣi-sattamaḥ . mahābhāgaḥ mahā-vīryaḥ mahā-buddhiḥ bhaviṣyati ..9..
तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः । किं तु मातुः स वैगुण्यादन्ध एव भविष्यति ॥१०॥
तस्य च अपि शतम् पुत्राः भविष्यन्ति महा-बलाः । किम् तु मातुः स वैगुण्यात् अन्धः एव भविष्यति ॥१०॥
tasya ca api śatam putrāḥ bhaviṣyanti mahā-balāḥ . kim tu mātuḥ sa vaiguṇyāt andhaḥ eva bhaviṣyati ..10..
तस्य तद्वचनं श्रुत्वा माता पुत्रमथाब्रवीत् । नान्धः कुरूणां नृपतिरनुरूपस्तपोधन ॥११॥
तस्य तत् वचनम् श्रुत्वा माता पुत्रम् अथ अब्रवीत् । न अन्धः कुरूणाम् नृपतिः अनुरूपः तपोधन ॥११॥
tasya tat vacanam śrutvā mātā putram atha abravīt . na andhaḥ kurūṇām nṛpatiḥ anurūpaḥ tapodhana ..11..
ज्ञातिवंशस्य गोप्तारं पितृणां वंशवर्धनम् । द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि ॥१२॥
ज्ञाति-वंशस्य गोप्तारम् पितृणाम् वंश-वर्धनम् । द्वितीयम् कुरु-वंशस्य राजानम् दातुम् अर्हसि ॥१२॥
jñāti-vaṃśasya goptāram pitṛṇām vaṃśa-vardhanam . dvitīyam kuru-vaṃśasya rājānam dātum arhasi ..12..
स तथेति प्रतिज्ञाय निश्चक्राम महातपाः । सापि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् ॥१३॥
स तथा इति प्रतिज्ञाय निश्चक्राम महा-तपाः । सा अपि कालेन कौसल्या सुषुवे अन्धम् तम् आत्मजम् ॥१३॥
sa tathā iti pratijñāya niścakrāma mahā-tapāḥ . sā api kālena kausalyā suṣuve andham tam ātmajam ..13..
पुनरेव तु सा देवी परिभाष्य स्नुषां ततः । ऋषिमावाहयत्सत्या यथापूर्वमनिन्दिता ॥१४॥
पुनर् एव तु सा देवी परिभाष्य स्नुषाम् ततस् । ऋषिम् आवाहयत् सत्या यथापूर्वम् अनिन्दिता ॥१४॥
punar eva tu sā devī paribhāṣya snuṣām tatas . ṛṣim āvāhayat satyā yathāpūrvam aninditā ..14..
ततस्तेनैव विधिना महर्षिस्तामपद्यत । अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि तम् ॥१५॥ ( विषण्णा पाण्डुसङ्काशा समपद्यत भारत ॥१५॥ )
ततस् तेन एव विधिना महा-ऋषिः ताम् अपद्यत । अम्बालिकाम् अथा अभ्यागात् ऋषिम् दृष्ट्वा च सा अपि तम् ॥१५॥ ( विषण्णा पाण्डु-सङ्काशा समपद्यत भारत ॥१५॥ )
tatas tena eva vidhinā mahā-ṛṣiḥ tām apadyata . ambālikām athā abhyāgāt ṛṣim dṛṣṭvā ca sā api tam ..15.. ( viṣaṇṇā pāṇḍu-saṅkāśā samapadyata bhārata ..15.. )
तां भीतां पाण्डुसङ्काशां विषण्णां प्रेक्ष्य पार्थिव । व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् ॥१६॥
ताम् भीताम् पाण्डु-सङ्काशाम् विषण्णाम् प्रेक्ष्य पार्थिव । व्यासः सत्यवती-पुत्रः इदम् वचनम् अब्रवीत् ॥१६॥
tām bhītām pāṇḍu-saṅkāśām viṣaṇṇām prekṣya pārthiva . vyāsaḥ satyavatī-putraḥ idam vacanam abravīt ..16..
यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामपि । तस्मादेष सुतस्तुभ्यं पाण्डुरेव भविष्यति ॥१७॥
यस्मात् पाण्डु-त्वम् आपन्ना विरूपम् प्रेक्ष्य माम् अपि । तस्मात् एष सुतः तुभ्यम् पाण्डुः एव भविष्यति ॥१७॥
yasmāt pāṇḍu-tvam āpannā virūpam prekṣya mām api . tasmāt eṣa sutaḥ tubhyam pāṇḍuḥ eva bhaviṣyati ..17..
नाम चास्य तदेवेह भविष्यति शुभानने । इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः ॥१८॥
नाम च अस्य तत् एव इह भविष्यति शुभ-आनने । इति उक्त्वा स निराक्रामत् भगवान् ऋषि-सत्तमः ॥१८॥
nāma ca asya tat eva iha bhaviṣyati śubha-ānane . iti uktvā sa nirākrāmat bhagavān ṛṣi-sattamaḥ ..18..
ततो निष्क्रान्तमालोक्य सत्या पुत्रमभाषत । शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम् ॥१९॥
ततस् निष्क्रान्तम् आलोक्य सत्या पुत्रम् अभाषत । शशंस स पुनर् मात्रे तस्य बालस्य पाण्डु-ताम् ॥१९॥
tatas niṣkrāntam ālokya satyā putram abhāṣata . śaśaṃsa sa punar mātre tasya bālasya pāṇḍu-tām ..19..
तं माता पुनरेवान्यमेकं पुत्रमयाचत । तथेति च महर्षिस्तां मातरं प्रत्यभाषत ॥२०॥
तम् माता पुनर् एव अन्यम् एकम् पुत्रम् अयाचत । तथा इति च महा-ऋषिः ताम् मातरम् प्रत्यभाषत ॥२०॥
tam mātā punar eva anyam ekam putram ayācata . tathā iti ca mahā-ṛṣiḥ tām mātaram pratyabhāṣata ..20..
ततः कुमारं सा देवी प्राप्तकालमजीजनत् । पाण्डुं लक्षणसम्पन्नं दीप्यमानमिव श्रिया ॥२१॥ ( तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः ॥२१॥ )
ततस् कुमारम् सा देवी प्राप्त-कालम् अजीजनत् । पाण्डुम् लक्षण-सम्पन्नम् दीप्यमानम् इव श्रिया ॥२१॥ ( तस्य पुत्राः महा-इष्वासाः जज्ञिरे पञ्च पाण्डवाः ॥२१॥ )
tatas kumāram sā devī prāpta-kālam ajījanat . pāṇḍum lakṣaṇa-sampannam dīpyamānam iva śriyā ..21.. ( tasya putrāḥ mahā-iṣvāsāḥ jajñire pañca pāṇḍavāḥ ..21.. )
ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् । सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम् ॥२२॥ ( नाकरोद्वचनं देव्या भयात्सुरसुतोपमा ॥२२॥ )
ऋतु-काले ततस् ज्येष्ठाम् वधूम् तस्मै न्ययोजयत् । सा तु रूपम् च गन्धम् च महा-ऋषेः प्रविचिन्त्य तम् ॥२२॥ ( न अकरोत् वचनम् देव्याः भयात् सुर-सुता-उपमा ॥२२॥ )
ṛtu-kāle tatas jyeṣṭhām vadhūm tasmai nyayojayat . sā tu rūpam ca gandham ca mahā-ṛṣeḥ pravicintya tam ..22.. ( na akarot vacanam devyāḥ bhayāt sura-sutā-upamā ..22.. )
ततः स्वैर्भूषणैर्दासीं भूषयित्वाप्सरोपमाम् । प्रेषयामास कृष्णाय ततः काशिपतेः सुता ॥२३॥
ततस् स्वैः भूषणैः दासीम् भूषयित्वा अप्सरः-उपमाम् । प्रेषयामास कृष्णाय ततस् काशि-पतेः सुता ॥२३॥
tatas svaiḥ bhūṣaṇaiḥ dāsīm bhūṣayitvā apsaraḥ-upamām . preṣayāmāsa kṛṣṇāya tatas kāśi-pateḥ sutā ..23..
दासी ऋषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च । संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह ॥२४॥
दासी ऋषिम् अनुप्राप्तम् प्रत्युद्गम्य अभिवाद्य च । संविवेश अभ्यनुज्ञाता सत्कृत्य उपचचार ह ॥२४॥
dāsī ṛṣim anuprāptam pratyudgamya abhivādya ca . saṃviveśa abhyanujñātā satkṛtya upacacāra ha ..24..
कामोपभोगेन तु स तस्यां तुष्टिमगादृषिः । तया सहोषितो रात्रिं महर्षिः प्रीयमाणया ॥२५॥
काम-उपभोगेन तु स तस्याम् तुष्टिम् अगात् ऋषिः । तया सह उषितः रात्रिम् महा-ऋषिः प्रीयमाणया ॥२५॥
kāma-upabhogena tu sa tasyām tuṣṭim agāt ṛṣiḥ . tayā saha uṣitaḥ rātrim mahā-ṛṣiḥ prīyamāṇayā ..25..
उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि । अयं च ते शुभे गर्भः श्रीमानुदरमागतः ॥२६॥ ( धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः ॥२६॥ )
उत्तिष्ठन् अब्रवीत् एनाम् अभुजिष्या भविष्यसि । अयम् च ते शुभे गर्भः श्रीमान् उदरम् आगतः ॥२६॥ ( धर्म-आत्मा भविता लोके सर्व-बुद्धिमताम् वरः ॥२६॥ )
uttiṣṭhan abravīt enām abhujiṣyā bhaviṣyasi . ayam ca te śubhe garbhaḥ śrīmān udaram āgataḥ ..26.. ( dharma-ātmā bhavitā loke sarva-buddhimatām varaḥ ..26.. )
स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः । धृतराष्ट्रस्य च भ्राता पाण्डोश्चामितबुद्धिमान् ॥२७॥
स जज्ञे विदुरः नाम कृष्णद्वैपायन-आत्मजः । धृतराष्ट्रस्य च भ्राता पाण्डोः च अमित-बुद्धिमान् ॥२७॥
sa jajñe viduraḥ nāma kṛṣṇadvaipāyana-ātmajaḥ . dhṛtarāṣṭrasya ca bhrātā pāṇḍoḥ ca amita-buddhimān ..27..
धर्मो विदुररूपेण शापात्तस्य महात्मनः । माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः ॥२८॥
धर्मः विदुर-रूपेण शापात् तस्य महात्मनः । माण्डव्यस्य अर्थ-तत्त्व-ज्ञः काम-क्रोध-विवर्जितः ॥२८॥
dharmaḥ vidura-rūpeṇa śāpāt tasya mahātmanaḥ . māṇḍavyasya artha-tattva-jñaḥ kāma-krodha-vivarjitaḥ ..28..
स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च । तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत ॥२९॥
स धर्मस्य अनृणः भूत्वा पुनर्मात्रा समेत्य च । तस्यै गर्भम् समावेद्य तत्र एव अन्तरधीयत ॥२९॥
sa dharmasya anṛṇaḥ bhūtvā punarmātrā sametya ca . tasyai garbham samāvedya tatra eva antaradhīyata ..29..
एवं विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि । जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः ॥३०॥ 1.105.32
एवम् विचित्रवीर्यस्य क्षेत्रे द्वैपायनात् अपि । जज्ञिरे देव-गर्भ-आभाः कुरु-वंश-विवर्धनाः ॥३०॥ १।१०५।३२
evam vicitravīryasya kṣetre dvaipāyanāt api . jajñire deva-garbha-ābhāḥ kuru-vaṃśa-vivardhanāḥ ..30.. 1.105.32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In