| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
किं कृतं कर्म धर्मेण येन शापमुपेयिवान् । कस्य शापाच्च ब्रह्मर्षे शूद्रयोनावजायत ॥१॥
किम् कृतम् कर्म धर्मेण येन शापम् उपेयिवान् । कस्य शापात् च ब्रह्मर्षे शूद्र-योनौ अजायत ॥१॥
kim kṛtam karma dharmeṇa yena śāpam upeyivān . kasya śāpāt ca brahmarṣe śūdra-yonau ajāyata ..1..
वैशम्पायन उवाच॥
बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः । धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः ॥२॥
बभूव ब्राह्मणः कश्चिद् माण्डव्यः इति विश्रुतः । धृतिमान् सर्व-धर्म-ज्ञः सत्ये तपसि च स्थितः ॥२॥
babhūva brāhmaṇaḥ kaścid māṇḍavyaḥ iti viśrutaḥ . dhṛtimān sarva-dharma-jñaḥ satye tapasi ca sthitaḥ ..2..
स आश्रमपदद्वारि वृक्षमूले महातपाः । ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः ॥३॥
सः आश्रम-पद-द्वारि वृक्ष-मूले महा-तपाः । ऊर्ध्वबाहुः महा-योगी तस्थौ मौन-व्रत-अन्वितः ॥३॥
saḥ āśrama-pada-dvāri vṛkṣa-mūle mahā-tapāḥ . ūrdhvabāhuḥ mahā-yogī tasthau mauna-vrata-anvitaḥ ..3..
तस्य कालेन महता तस्मिंस्तपसि तिष्ठतः । तमाश्रमपदं प्राप्ता दस्यवो लोप्त्रहारिणः ॥४॥ ( अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ ॥४॥ )
तस्य कालेन महता तस्मिन् तपसि तिष्ठतः । तम् आश्रम-पदम् प्राप्ताः दस्यवः लोप्त्र-हारिणः ॥४॥ ( अनुसार्यमाणाः बहुभिः रक्षिभिः भरत-ऋषभ ॥४॥ )
tasya kālena mahatā tasmin tapasi tiṣṭhataḥ . tam āśrama-padam prāptāḥ dasyavaḥ loptra-hāriṇaḥ ..4.. ( anusāryamāṇāḥ bahubhiḥ rakṣibhiḥ bharata-ṛṣabha ..4.. )
ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम । निधाय च भयाल्लीनास्तत्रैवान्वागते बले ॥५॥
ते तस्य आवसथे लोप्त्रम् निदधुः कुरुसत्तम । निधाय च भयात् लीनाः तत्र एव अन्वागते बले ॥५॥
te tasya āvasathe loptram nidadhuḥ kurusattama . nidhāya ca bhayāt līnāḥ tatra eva anvāgate bale ..5..
तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् । आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः ॥६॥
तेषु लीनेषु अथो शीघ्रम् ततस् तद्-रक्षिणाम् बलम् । आजगाम ततस् अपश्यन् तम् ऋषिम् तस्कर-अनुगाः ॥६॥
teṣu līneṣu atho śīghram tatas tad-rakṣiṇām balam . ājagāma tatas apaśyan tam ṛṣim taskara-anugāḥ ..6..
तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम् । कतरेण पथा याता दस्यवो द्विजसत्तम ॥७॥ ( तेन गच्छामहे ब्रह्मन्पथा शीघ्रतरं वयम् ॥७॥ )
तम् अपृच्छन् ततस् राजन् तथा वृत्तम् तपोधनम् । कतरेण पथा याताः दस्यवः द्विजसत्तम ॥७॥ ( तेन गच्छामहे ब्रह्मन् पथा शीघ्रतरम् वयम् ॥७॥ )
tam apṛcchan tatas rājan tathā vṛttam tapodhanam . katareṇa pathā yātāḥ dasyavaḥ dvijasattama ..7.. ( tena gacchāmahe brahman pathā śīghrataram vayam ..7.. )
तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः । न किञ्चिद्वचनं राजन्नवदत्साध्वसाधु वा ॥८॥
तथा तु रक्षिणाम् तेषाम् ब्रुवताम् स तपोधनः । न किञ्चिद् वचनम् राजन् अवदत् साधु असाधु वा ॥८॥
tathā tu rakṣiṇām teṣām bruvatām sa tapodhanaḥ . na kiñcid vacanam rājan avadat sādhu asādhu vā ..8..
ततस्ते राजपुरुषा विचिन्वानास्तदाश्रमम् । ददृशुस्तत्र संलीनांस्तांश्चोरान्द्रव्यमेव च ॥९॥
ततस् ते राज-पुरुषाः विचिन्वानाः तद्-आश्रमम् । ददृशुः तत्र संलीनान् तान् चोरान् द्रव्यम् एव च ॥९॥
tatas te rāja-puruṣāḥ vicinvānāḥ tad-āśramam . dadṛśuḥ tatra saṃlīnān tān corān dravyam eva ca ..9..
ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति । संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन् ॥१०॥
ततस् शङ्का समभवत् रक्षिणाम् तम् मुनिम् प्रति । संयम्य एनम् ततस् राज्ञे दस्यून् च एव न्यवेदयन् ॥१०॥
tatas śaṅkā samabhavat rakṣiṇām tam munim prati . saṃyamya enam tatas rājñe dasyūn ca eva nyavedayan ..10..
तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति । स वध्यघातैरज्ञातः शूले प्रोतो महातपाः ॥११॥
तम् राजा सह तैः चोरैः अन्वशात् वध्यताम् इति । स वध्य-घातैः अज्ञातः शूले प्रोतः महा-तपाः ॥११॥
tam rājā saha taiḥ coraiḥ anvaśāt vadhyatām iti . sa vadhya-ghātaiḥ ajñātaḥ śūle protaḥ mahā-tapāḥ ..11..
ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा । प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ ॥१२॥
ततस् ते शूलम् आरोप्य तम् मुनिम् रक्षिणः तदा । प्रतिजग्मुः महीपालम् धनानि आदाय तानि अथ ॥१२॥
tatas te śūlam āropya tam munim rakṣiṇaḥ tadā . pratijagmuḥ mahīpālam dhanāni ādāya tāni atha ..12..
शूलस्थः स तु धर्मात्मा कालेन महता ततः । निराहारोऽपि विप्रर्षिर्मरणं नाभ्युपागमत् ॥१३॥ ( धारयामास च प्राणानृषींश्च समुपानयत् ॥१३॥ )
शूल-स्थः स तु धर्म-आत्मा कालेन महता ततस् । निराहारः अपि विप्रर्षिः मरणम् न अभ्युपागमत् ॥१३॥ ( धारयामास च प्राणान् ऋषीन् च समुपानयत् ॥१३॥ )
śūla-sthaḥ sa tu dharma-ātmā kālena mahatā tatas . nirāhāraḥ api viprarṣiḥ maraṇam na abhyupāgamat ..13.. ( dhārayāmāsa ca prāṇān ṛṣīn ca samupānayat ..13.. )
शूलाग्रे तप्यमानेन तपस्तेन महात्मना । सन्तापं परमं जग्मुर्मुनयोऽथ परन्तप ॥१४॥
शूल-अग्रे तप्यमानेन तपः तेन महात्मना । सन्तापम् परमम् जग्मुः मुनयः अथ परन्तप ॥१४॥
śūla-agre tapyamānena tapaḥ tena mahātmanā . santāpam paramam jagmuḥ munayaḥ atha parantapa ..14..
ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः । दर्शयन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम् ॥१५॥ ( श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि ॥१५॥1.106.17 )
ते रात्रौ शकुनाः भूत्वा संन्यवर्तन्त सर्वतस् । दर्शयन्तः यथाशक्ति तम् अपृच्छन् द्विजोत्तमम् ॥१५॥ ( श्रोतुम् इच्छामहे ब्रह्मन् किम् पापम् कृतवान् असि ॥१५॥१।१०६।१७ )
te rātrau śakunāḥ bhūtvā saṃnyavartanta sarvatas . darśayantaḥ yathāśakti tam apṛcchan dvijottamam ..15.. ( śrotum icchāmahe brahman kim pāpam kṛtavān asi ..15..1.106.17 )
ततः स मुनिशार्दूलस्तानुवाच तपोधनान् । दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति ॥१६॥1.107.1
ततस् स मुनि-शार्दूलः तान् उवाच तपोधनान् । दोषतः कम् गमिष्यामि न हि मे अन्यः अपराध्यति ॥१६॥१।१०७।१
tatas sa muni-śārdūlaḥ tān uvāca tapodhanān . doṣataḥ kam gamiṣyāmi na hi me anyaḥ aparādhyati ..16..1.107.1
राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः । प्रसादयामास तदा शूलस्थमृषिसत्तमम् ॥१७॥
राजा च तम् ऋषिम् श्रुत्वा निष्क्रम्य सह मन्त्रिभिः । प्रसादयामास तदा शूल-स्थम् ऋषि-सत्तमम् ॥१७॥
rājā ca tam ṛṣim śrutvā niṣkramya saha mantribhiḥ . prasādayāmāsa tadā śūla-stham ṛṣi-sattamam ..17..
यन्मयापकृतं मोहादज्ञानादृषिसत्तम । प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि ॥१८॥
यत् मया अपकृतम् मोहात् अज्ञानात् ऋषि-सत्तम । प्रसादये त्वाम् तत्र अहम् न मे त्वम् क्रोद्धुम् अर्हसि ॥१८॥
yat mayā apakṛtam mohāt ajñānāt ṛṣi-sattama . prasādaye tvām tatra aham na me tvam kroddhum arhasi ..18..
एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः । कृतप्रसादो राजा तं ततः समवतारयत् ॥१९॥
एवम् उक्तः ततस् राज्ञा प्रसादम् अकरोत् मुनिः । कृत-प्रसादः राजा तम् ततस् समवतारयत् ॥१९॥
evam uktaḥ tatas rājñā prasādam akarot muniḥ . kṛta-prasādaḥ rājā tam tatas samavatārayat ..19..
अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह । अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे ॥२०॥
अवतार्य च शूल-अग्रात् तत् शूलम् निश्चकर्ष ह । अ शक्नुवन् च निष्क्रष्टुम् शूलम् मूले स चिच्छिदे ॥२०॥
avatārya ca śūla-agrāt tat śūlam niścakarṣa ha . a śaknuvan ca niṣkraṣṭum śūlam mūle sa cicchide ..20..
स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः । स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः ॥२१॥ ( अणीमाण्डव्य इति च ततो लोकेषु कथ्यते ॥२१॥ )
स तथा अन्तर्गतेन एव शूलेन व्यचरत् मुनिः । स तेन तपसा लोकान् विजिग्ये दुर्लभान् परैः ॥२१॥ ( अणीमाण्डव्यः इति च ततस् लोकेषु कथ्यते ॥२१॥ )
sa tathā antargatena eva śūlena vyacarat muniḥ . sa tena tapasā lokān vijigye durlabhān paraiḥ ..21.. ( aṇīmāṇḍavyaḥ iti ca tatas lokeṣu kathyate ..21.. )
स गत्वा सदनं विप्रो धर्मस्य परमार्थवित् । आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः ॥२२॥
स गत्वा सदनम् विप्रः धर्मस्य परम-अर्थ-विद् । आसन-स्थम् ततस् धर्मम् दृष्ट्वा उपालभत प्रभुः ॥२२॥
sa gatvā sadanam vipraḥ dharmasya parama-artha-vid . āsana-stham tatas dharmam dṛṣṭvā upālabhata prabhuḥ ..22..
किं नु तद्दुष्कृतं कर्म मया कृतमजानता । यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया ॥२३॥ ( शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् ॥२३॥ )
किम् नु तत् दुष्कृतम् कर्म मया कृतम् अ जानता । यस्य इयम् फल-निर्वृत्तिः ईदृशी आसादिता मया ॥२३॥ ( शीघ्रम् आचक्ष्व मे तत्त्वम् पश्य मे तपसः बलम् ॥२३॥ )
kim nu tat duṣkṛtam karma mayā kṛtam a jānatā . yasya iyam phala-nirvṛttiḥ īdṛśī āsāditā mayā ..23.. ( śīghram ācakṣva me tattvam paśya me tapasaḥ balam ..23.. )
धर्म उवाच॥
पतङ्गकानां पुच्छेषु त्वयेषीका प्रवेशिता । कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन ॥२४॥
पतङ्गकानाम् पुच्छेषु त्वया इषीका प्रवेशिता । कर्मणः तस्य ते प्राप्तम् फलम् एतत् तपोधन ॥२४॥
pataṅgakānām puccheṣu tvayā iṣīkā praveśitā . karmaṇaḥ tasya te prāptam phalam etat tapodhana ..24..
अणीमाण्डव्य उवाच॥
अल्पेऽपराधे विपुलो मम दण्डस्त्वया कृतः । शूद्रयोनावतो धर्म मानुषः सम्भविष्यसि ॥२५॥
अल्पे अपराधे विपुलः मम दण्डः त्वया कृतः । शूद्र-योनौ अतस् धर्म मानुषः सम्भविष्यसि ॥२५॥
alpe aparādhe vipulaḥ mama daṇḍaḥ tvayā kṛtaḥ . śūdra-yonau atas dharma mānuṣaḥ sambhaviṣyasi ..25..
मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम् । आ चतुर्दशमाद्वर्षान्न भविष्यति पातकम् ॥२६॥ ( परेण कुर्वतामेवं दोष एव भविष्यति ॥२६॥ )
मर्यादाम् स्थापयामि अद्य लोके धर्म-फल-उदयाम् । चतुर्दशमात् वर्षात् न भविष्यति पातकम् ॥२६॥ ( परेण कुर्वताम् एवम् दोषः एव भविष्यति ॥२६॥ )
maryādām sthāpayāmi adya loke dharma-phala-udayām . caturdaśamāt varṣāt na bhaviṣyati pātakam ..26.. ( pareṇa kurvatām evam doṣaḥ eva bhaviṣyati ..26.. )
वैशम्पायन उवाच॥
एतेन त्वपराधेन शापात्तस्य महात्मनः । धर्मो विदुररूपेण शूद्रयोनावजायत ॥२७॥
एतेन तु अपराधेन शापात् तस्य महात्मनः । धर्मः विदुर-रूपेण शूद्र-योनौ अजायत ॥२७॥
etena tu aparādhena śāpāt tasya mahātmanaḥ . dharmaḥ vidura-rūpeṇa śūdra-yonau ajāyata ..27..
धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः । दीर्घदर्शी शमपरः कुरूणां च हिते रतः ॥२८॥1.107.19
धर्मे च अर्थे च कुशलः लोभ-क्रोध-विवर्जितः । दीर्घदर्शी शम-परः कुरूणाम् च हिते रतः ॥२८॥१।१०७।१९
dharme ca arthe ca kuśalaḥ lobha-krodha-vivarjitaḥ . dīrghadarśī śama-paraḥ kurūṇām ca hite rataḥ ..28..1.107.19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In