| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् । कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत ॥१॥
तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् । कुरवः अथ कुरुक्षेत्रम् त्रयम् एतत् अवर्धत ॥१॥
teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam . kuravaḥ atha kurukṣetram trayam etat avardhata ..1..
ऊर्ध्वसस्याभवद्भूमिः सस्यानि फलवन्ति च । यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः ॥२॥
ऊर्ध्व-सस्या अभवत् भूमिः सस्यानि फलवन्ति च । यथा ऋतु-वर्षी पर्जन्यः बहु-पुष्प-फलाः द्रुमाः ॥२॥
ūrdhva-sasyā abhavat bhūmiḥ sasyāni phalavanti ca . yathā ṛtu-varṣī parjanyaḥ bahu-puṣpa-phalāḥ drumāḥ ..2..
वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः । गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥३॥
वाहनानि प्रहृष्टानि मुदिताः मृग-पक्षिणः । गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥३॥
vāhanāni prahṛṣṭāni muditāḥ mṛga-pakṣiṇaḥ . gandhavanti ca mālyāni rasavanti phalāni ca ..3..
वणिग्भिश्चावकीर्यन्त नगराण्यथ शिल्पिभिः । शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ॥४॥
वणिग्भिः च अवकीर्यन्त नगराणि अथ शिल्पिभिः । शूराः च कृतविद्याः च सन्तः च सुखिनः अभवन् ॥४॥
vaṇigbhiḥ ca avakīryanta nagarāṇi atha śilpibhiḥ . śūrāḥ ca kṛtavidyāḥ ca santaḥ ca sukhinaḥ abhavan ..4..
नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः । प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत ॥५॥
न अभवन् दस्यवः केचिद् न अधर्म-रुचयः जनाः । प्रदेशेषु अपि राष्ट्राणाम् कृतम् युगम् अवर्तत ॥५॥
na abhavan dasyavaḥ kecid na adharma-rucayaḥ janāḥ . pradeśeṣu api rāṣṭrāṇām kṛtam yugam avartata ..5..
दानक्रियाधर्मशीला यज्ञव्रतपरायणाः । अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा ॥६॥
दान-क्रिया-धर्म-शीलाः यज्ञ-व्रत-परायणाः । अन्योन्य-प्रीति-संयुक्ताः व्यवर्धन्त प्रजाः तदा ॥६॥
dāna-kriyā-dharma-śīlāḥ yajña-vrata-parāyaṇāḥ . anyonya-prīti-saṃyuktāḥ vyavardhanta prajāḥ tadā ..6..
मानक्रोधविहीनाश्च जना लोभविवर्जिताः । अन्योन्यमभ्यवर्धन्त धर्मोत्तरमवर्तत ॥७॥
मान-क्रोध-विहीनाः च जनाः लोभ-विवर्जिताः । अन्योन्यम् अभ्यवर्धन्त धर्म-उत्तरम् अवर्तत ॥७॥
māna-krodha-vihīnāḥ ca janāḥ lobha-vivarjitāḥ . anyonyam abhyavardhanta dharma-uttaram avartata ..7..
तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत । द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः ॥८॥ ( प्रासादशतसम्बाधं महेन्द्रपुरसंनिभम् ॥८॥ )
तत् महोदधि-वत् पूर्णम् नगरम् वै व्यरोचत । द्वार-तोरण-निर्यूहैः युक्तम् अभ्र-चय-उपमैः ॥८॥ ( प्रासाद-शत-सम्बाधम् महा-इन्द्र-पुर-संनिभम् ॥८॥ )
tat mahodadhi-vat pūrṇam nagaram vai vyarocata . dvāra-toraṇa-niryūhaiḥ yuktam abhra-caya-upamaiḥ ..8.. ( prāsāda-śata-sambādham mahā-indra-pura-saṃnibham ..8.. )
नदीषु वनखण्डेषु वापीपल्वलसानुषु । काननेषु च रम्येषु विजह्रुर्मुदिता जनाः ॥९॥
नदीषु वन-खण्डेषु वापी-पल्वल-सानुषु । काननेषु च रम्येषु विजह्रुः मुदिताः जनाः ॥९॥
nadīṣu vana-khaṇḍeṣu vāpī-palvala-sānuṣu . kānaneṣu ca ramyeṣu vijahruḥ muditāḥ janāḥ ..9..
उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तदा । विस्पर्धमाना व्यचरंस्तथा सिद्धर्षिचारणैः ॥१०॥ ( नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः ॥१०॥ )
उत्तरैः कुरुभिः सार्धम् दक्षिणाः कुरवः तदा । विस्पर्धमानाः व्यचरन् तथा सिद्ध-ऋषि-चारणैः ॥१०॥ ( न अभवत् कृपणः कश्चिद् न अभवन् विधवाः स्त्रियः ॥१०॥ )
uttaraiḥ kurubhiḥ sārdham dakṣiṇāḥ kuravaḥ tadā . vispardhamānāḥ vyacaran tathā siddha-ṛṣi-cāraṇaiḥ ..10.. ( na abhavat kṛpaṇaḥ kaścid na abhavan vidhavāḥ striyaḥ ..10.. )
तस्मिञ्जनपदे रम्ये बहवः कुरुभिः कृताः । कूपारामसभावाप्यो ब्राह्मणावसथास्तथा ॥११॥ ( भीष्मेण शास्त्रतो राजन्सर्वतः परिरक्षिते ॥११॥ )
तस्मिन् जनपदे रम्ये बहवः कुरुभिः कृताः । कूप-आराम-सभा-वाप्यः ब्राह्मण-आवसथाः तथा ॥११॥ ( भीष्मेण शास्त्रतः राजन् सर्वतस् परिरक्षिते ॥११॥ )
tasmin janapade ramye bahavaḥ kurubhiḥ kṛtāḥ . kūpa-ārāma-sabhā-vāpyaḥ brāhmaṇa-āvasathāḥ tathā ..11.. ( bhīṣmeṇa śāstrataḥ rājan sarvatas parirakṣite ..11.. )
बभूव रमणीयश्च चैत्ययूपशताङ्कितः । स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः ॥१२॥ ( भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत ॥१२॥ )
बभूव रमणीयः च चैत्य-यूप-शत-अङ्कितः । स देशः पर-राष्ट्राणि प्रतिगृह्य अभिवर्धितः ॥१२॥ ( भीष्मेण विहितम् राष्ट्रे धर्म-चक्रम् अवर्तत ॥१२॥ )
babhūva ramaṇīyaḥ ca caitya-yūpa-śata-aṅkitaḥ . sa deśaḥ para-rāṣṭrāṇi pratigṛhya abhivardhitaḥ ..12.. ( bhīṣmeṇa vihitam rāṣṭre dharma-cakram avartata ..12.. )
क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् । पौरजानपदाः सर्वे बभूवुः सततोत्सवाः ॥१३॥
क्रियमाणेषु कृत्येषु कुमाराणाम् महात्मनाम् । पौर-जानपदाः सर्वे बभूवुः सतत-उत्सवाः ॥१३॥
kriyamāṇeṣu kṛtyeṣu kumārāṇām mahātmanām . paura-jānapadāḥ sarve babhūvuḥ satata-utsavāḥ ..13..
गृहेषु कुरुमुख्यानां पौराणां च नराधिप । दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः ॥१४॥
गृहेषु कुरु-मुख्यानाम् पौराणाम् च नराधिप । दीयताम् भुज्यताम् च इति वाचः अश्रूयन्त सर्वशस् ॥१४॥
gṛheṣu kuru-mukhyānām paurāṇām ca narādhipa . dīyatām bhujyatām ca iti vācaḥ aśrūyanta sarvaśas ..14..
धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः । जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः ॥१५॥
धृतराष्ट्रः च पाण्डुः च विदुरः च महामतिः । जन्म-प्रभृति भीष्मेण पुत्र-वत् परिपालिताः ॥१५॥
dhṛtarāṣṭraḥ ca pāṇḍuḥ ca viduraḥ ca mahāmatiḥ . janma-prabhṛti bhīṣmeṇa putra-vat paripālitāḥ ..15..
संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः । श्रमव्यायामकुशलाः समपद्यन्त यौवनम् ॥१६॥
संस्कारैः संस्कृताः ते तु व्रत-अध्ययन-संयुताः । श्रम-व्यायाम-कुशलाः समपद्यन्त यौवनम् ॥१६॥
saṃskāraiḥ saṃskṛtāḥ te tu vrata-adhyayana-saṃyutāḥ . śrama-vyāyāma-kuśalāḥ samapadyanta yauvanam ..16..
धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि । तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः ॥१७॥
धनुर्वेदे अश्व-पृष्ठे च गदा-युद्धे असि-चर्मणि । तथा एव गज-शिक्षायाम् नीति-शास्त्रे च पारगाः ॥१७॥
dhanurvede aśva-pṛṣṭhe ca gadā-yuddhe asi-carmaṇi . tathā eva gaja-śikṣāyām nīti-śāstre ca pāragāḥ ..17..
इतिहासपुराणेषु नानाशिक्षासु चाभिभो । वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः ॥१८॥
इतिहास-पुराणेषु नाना शिक्षासु च अभिभो । वेद-वेदाङ्ग-तत्त्व-ज्ञाः सर्वत्र कृत-निश्रमाः ॥१८॥
itihāsa-purāṇeṣu nānā śikṣāsu ca abhibho . veda-vedāṅga-tattva-jñāḥ sarvatra kṛta-niśramāḥ ..18..
पाण्डुर्धनुषि विक्रान्तो नरेभ्योऽभ्यधिकोऽभवत् । अत्यन्यान्बलवानासीद्धृतराष्ट्रो महीपतिः ॥१९॥
पाण्डुः धनुषि विक्रान्तः नरेभ्यः अभ्यधिकः अभवत् । अति अन्यान् बलवान् आसीत् धृतराष्ट्रः महीपतिः ॥१९॥
pāṇḍuḥ dhanuṣi vikrāntaḥ narebhyaḥ abhyadhikaḥ abhavat . ati anyān balavān āsīt dhṛtarāṣṭraḥ mahīpatiḥ ..19..
त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः । धर्मनित्यस्ततो राजन्धर्मे च परमं गतः ॥२०॥
त्रिषु लोकेषु न तु आसीत् कश्चिद् विदुर-संमितः । धर्म-नित्यः ततस् राजन् धर्मे च परमम् गतः ॥२०॥
triṣu lokeṣu na tu āsīt kaścid vidura-saṃmitaḥ . dharma-nityaḥ tatas rājan dharme ca paramam gataḥ ..20..
प्रनष्टं शन्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् । ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत ॥२१॥
प्रनष्टम् शन्तनोः वंशम् समीक्ष्य पुनर् उद्धृतम् । ततस् निर्वचनम् लोके सर्व-राष्ट्रेषु अवर्तत ॥२१॥
pranaṣṭam śantanoḥ vaṃśam samīkṣya punar uddhṛtam . tatas nirvacanam loke sarva-rāṣṭreṣu avartata ..21..
वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् । सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम् ॥२२॥
वीरसूनाम् काशिसुते देशानाम् कुरुजाङ्गलम् । सर्व-धर्म-विदाम् भीष्मः पुराणाम् गजसाह्वयम् ॥२२॥
vīrasūnām kāśisute deśānām kurujāṅgalam . sarva-dharma-vidām bhīṣmaḥ purāṇām gajasāhvayam ..22..
धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत । करणत्वाच्च विदुरः पाण्डुरासीन्महीपतिः ॥२३॥1.108.25
धृतराष्ट्रः तु अचक्षुष्ट्वात् राज्यम् न प्रत्यपद्यत । करण-त्वात् च विदुरः पाण्डुः आसीत् महीपतिः ॥२३॥१।१०८।२५
dhṛtarāṣṭraḥ tu acakṣuṣṭvāt rājyam na pratyapadyata . karaṇa-tvāt ca viduraḥ pāṇḍuḥ āsīt mahīpatiḥ ..23..1.108.25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In