| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

भीष्म उवाच॥
गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम् । अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक् ॥१॥
गुणैः समुदितम् सम्यक् इदम् नः प्रथितम् कुलम् । अति अन्यान् पृथिवीपालान् पृथिव्याम् अधिराज्य-भाज् ॥१॥
guṇaiḥ samuditam samyak idam naḥ prathitam kulam . ati anyān pṛthivīpālān pṛthivyām adhirājya-bhāj ..1..
रक्षितं राजभिः पूर्वैर्धर्मविद्भिर्महात्मभिः । नोत्सादमगमच्चेदं कदाचिदिह नः कुलम् ॥२॥
रक्षितम् राजभिः पूर्वैः धर्म-विद्भिः महात्मभिः । न उत्सादम् अगमत् च इदम् कदाचिद् इह नः कुलम् ॥२॥
rakṣitam rājabhiḥ pūrvaiḥ dharma-vidbhiḥ mahātmabhiḥ . na utsādam agamat ca idam kadācid iha naḥ kulam ..2..
मया च सत्यवत्या च कृष्णेन च महात्मना । समवस्थापितं भूयो युष्मासु कुलतन्तुषु ॥३॥
मया च सत्यवत्या च कृष्णेन च महात्मना । समवस्थापितम् भूयः युष्मासु कुल-तन्तुषु ॥३॥
mayā ca satyavatyā ca kṛṣṇena ca mahātmanā . samavasthāpitam bhūyaḥ yuṣmāsu kula-tantuṣu ..3..
वर्धते तदिदं पुत्र कुलं सागरवद्यथा । तथा मया विधातव्यं त्वया चैव विशेषतः ॥४॥
वर्धते तत् इदम् पुत्र कुलम् सागर-वत् यथा । तथा मया विधातव्यम् त्वया च एव विशेषतः ॥४॥
vardhate tat idam putra kulam sāgara-vat yathā . tathā mayā vidhātavyam tvayā ca eva viśeṣataḥ ..4..
श्रूयते यादवी कन्या अनुरूपा कुलस्य नः । सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च ॥५॥
श्रूयते यादवी कन्या अनुरूपा कुलस्य नः । सुबलस्य आत्मजा च एव तथा मद्र-ईश्वरस्य च ॥५॥
śrūyate yādavī kanyā anurūpā kulasya naḥ . subalasya ātmajā ca eva tathā madra-īśvarasya ca ..5..
कुलीना रूपवत्यश्च नाथवत्यश्च सर्वशः । उचिताश्चैव सम्बन्धे तेऽस्माकं क्षत्रियर्षभाः ॥६॥
कुलीनाः रूपवत्यः च नाथवत्यः च सर्वशस् । उचिताः च एव सम्बन्धे ते अस्माकम् क्षत्रिय-ऋषभाः ॥६॥
kulīnāḥ rūpavatyaḥ ca nāthavatyaḥ ca sarvaśas . ucitāḥ ca eva sambandhe te asmākam kṣatriya-ṛṣabhāḥ ..6..
मन्ये वरयितव्यास्ता इत्यहं धीमतां वर । सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे ॥७॥
मन्ये वरयितव्याः ताः इति अहम् धीमताम् वर । सन्तान-अर्थम् कुलस्य अस्य यत् वा विदुर मन्यसे ॥७॥
manye varayitavyāḥ tāḥ iti aham dhīmatām vara . santāna-artham kulasya asya yat vā vidura manyase ..7..
विदुर उवाच॥
भवान्पिता भवान्माता भवान्नः परमो गुरुः । तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम् ॥८॥
भवान् पिता भवान् माता भवान् नः परमः गुरुः । तस्मात् स्वयम् कुलस्य अस्य विचार्य कुरु यत् हितम् ॥८॥
bhavān pitā bhavān mātā bhavān naḥ paramaḥ guruḥ . tasmāt svayam kulasya asya vicārya kuru yat hitam ..8..
वैशम्पायन उवाच॥
अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम् । आराध्य वरदं देवं भगनेत्रहरं हरम् ॥९॥ ( गान्धारी किल पुत्राणां शतं लेभे वरं शुभा ॥९॥ )
अथ शुश्राव विप्रेभ्यः गान्धारीम् सुबल-आत्मजाम् । आराध्य वर-दम् देवम् भग-नेत्र-हरम् हरम् ॥९॥ ( गान्धारी किल पुत्राणाम् शतम् लेभे वरम् शुभा ॥९॥ )
atha śuśrāva viprebhyaḥ gāndhārīm subala-ātmajām . ārādhya vara-dam devam bhaga-netra-haram haram ..9.. ( gāndhārī kila putrāṇām śatam lebhe varam śubhā ..9.. )
इति श्रुत्वा च तत्त्वेन भीष्मः कुरुपितामहः । ततो गान्धारराजस्य प्रेषयामास भारत ॥१०॥
इति श्रुत्वा च तत्त्वेन भीष्मः कुरु-पितामहः । ततस् गान्धार-राजस्य प्रेषयामास भारत ॥१०॥
iti śrutvā ca tattvena bhīṣmaḥ kuru-pitāmahaḥ . tatas gāndhāra-rājasya preṣayāmāsa bhārata ..10..
अचक्षुरिति तत्रासीत्सुबलस्य विचारणा । कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः ॥११॥ ( ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम् ॥११॥ )
अचक्षुः इति तत्र आसीत् सुबलस्य विचारणा । कुलम् ख्यातिम् च वृत्तम् च बुद्ध्या तु प्रसमीक्ष्य सः ॥११॥ ( ददौ ताम् धृतराष्ट्राय गान्धारीम् धर्म-चारिणीम् ॥११॥ )
acakṣuḥ iti tatra āsīt subalasya vicāraṇā . kulam khyātim ca vṛttam ca buddhyā tu prasamīkṣya saḥ ..11.. ( dadau tām dhṛtarāṣṭrāya gāndhārīm dharma-cāriṇīm ..11.. )
गान्धारी त्वपि शुश्राव धृतराष्ट्रमचक्षुषम् । आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत ॥१२॥
गान्धारी तु अपि शुश्राव धृतराष्ट्रम् अचक्षुषम् । आत्मानम् दित्सितम् च अस्मै पित्रा मात्रा च भारत ॥१२॥
gāndhārī tu api śuśrāva dhṛtarāṣṭram acakṣuṣam . ātmānam ditsitam ca asmai pitrā mātrā ca bhārata ..12..
ततः सा पट्टमादाय कृत्वा बहुगुणं शुभा । बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा ॥१३॥ ( नात्यश्नीयां पतिमहमित्येवं कृतनिश्चया ॥१३॥ )
ततस् सा पट्टम् आदाय कृत्वा बहु-गुणम् शुभा । बबन्ध नेत्रे स्वे राजन् पति-व्रत-परायणा ॥१३॥ ( न अत्यश्नीयाम् पतिम् अहम् इति एवम् कृत-निश्चया ॥१३॥ )
tatas sā paṭṭam ādāya kṛtvā bahu-guṇam śubhā . babandha netre sve rājan pati-vrata-parāyaṇā ..13.. ( na atyaśnīyām patim aham iti evam kṛta-niścayā ..13.. )
ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात् । स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान् ॥१४॥
ततस् गान्धार-राजस्य पुत्रः शकुनिः अभ्ययात् । स्वसारम् परया लक्ष्म्या युक्ताम् आदाय कौरवान् ॥१४॥
tatas gāndhāra-rājasya putraḥ śakuniḥ abhyayāt . svasāram parayā lakṣmyā yuktām ādāya kauravān ..14..
दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम् । पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः ॥१५॥
दत्त्वा स भगिनीम् वीरः यथार्हम् च परिच्छदम् । पुनर् आयात् स्व-नगरम् भीष्मेण प्रतिपूजितः ॥१५॥
dattvā sa bhaginīm vīraḥ yathārham ca paricchadam . punar āyāt sva-nagaram bhīṣmeṇa pratipūjitaḥ ..15..
गान्धार्यपि वरारोहा शीलाचारविचेष्टितैः । तुष्टिं कुरूणां सर्वेषां जनयामास भारत ॥१६॥
गान्धारी अपि वरारोहा शील-आचार-विचेष्टितैः । तुष्टिम् कुरूणाम् सर्वेषाम् जनयामास भारत ॥१६॥
gāndhārī api varārohā śīla-ācāra-viceṣṭitaiḥ . tuṣṭim kurūṇām sarveṣām janayāmāsa bhārata ..16..
वृत्तेनाराध्य तान्सर्वान्पतिव्रतपरायणा । वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत् ॥१७॥ 1.109.19
वृत्तेन आराध्य तान् सर्वान् पति-व्रत-परायणा । वाचा अपि पुरुषान् अन्यान् सुव्रताः न अन्वकीर्तयत् ॥१७॥ १।१०९।१९
vṛttena ārādhya tān sarvān pati-vrata-parāyaṇā . vācā api puruṣān anyān suvratāḥ na anvakīrtayat ..17.. 1.109.19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In