| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत् । तस्य कन्या पृथा नाम रूपेणासदृशी भुवि ॥१॥
शूरः नाम यदु-श्रेष्ठः वसुदेव-पिता अभवत् । तस्य कन्या पृथा नाम रूपेण असदृशी भुवि ॥१॥
śūraḥ nāma yadu-śreṣṭhaḥ vasudeva-pitā abhavat . tasya kanyā pṛthā nāma rūpeṇa asadṛśī bhuvi ..1..
पैतृष्वसेयाय स तामनपत्याय वीर्यवान् । अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वीर्यवान् ॥२॥
पैतृष्वसेयाय स ताम् अनपत्याय वीर्यवान् । अग्र्यम् अग्रे प्रतिज्ञाय स्वस्य अपत्यस्य वीर्यवान् ॥२॥
paitṛṣvaseyāya sa tām anapatyāya vīryavān . agryam agre pratijñāya svasya apatyasya vīryavān ..2..
अग्रजातेति तां कन्यामग्र्यानुग्रहकाङ्क्षिणे । प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने ॥३॥
अग्र-जाता इति ताम् कन्याम् अग्र्य-अनुग्रह-काङ्क्षिणे । प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने ॥३॥
agra-jātā iti tām kanyām agrya-anugraha-kāṅkṣiṇe . pradadau kuntibhojāya sakhā sakhye mahātmane ..3..
सा नियुक्ता पितुर्गेहे देवतातिथिपूजने । उग्रं पर्यचरद्घोरं ब्राह्मणं संशितव्रतम् ॥४॥
सा नियुक्ता पितुः गेहे देवता-अतिथि-पूजने । उग्रम् पर्यचरत् घोरम् ब्राह्मणम् संशित-व्रतम् ॥४॥
sā niyuktā pituḥ gehe devatā-atithi-pūjane . ugram paryacarat ghoram brāhmaṇam saṃśita-vratam ..4..
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः । तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत् ॥५॥
निगूढ-निश्चयम् धर्मे यम् तम् दुर्वाससम् विदुः । तम् उग्रम् संशित-आत्मानम् सर्व-यत्नैः अतोषयत् ॥५॥
nigūḍha-niścayam dharme yam tam durvāsasam viduḥ . tam ugram saṃśita-ātmānam sarva-yatnaiḥ atoṣayat ..5..
तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षया । अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः ॥६॥
तस्यै स प्रददौ मन्त्रम् आपद्-धर्म-अन्ववेक्षया । अभिचार-अभिसंयुक्तम् अब्रवीत् च एव ताम् मुनिः ॥६॥
tasyai sa pradadau mantram āpad-dharma-anvavekṣayā . abhicāra-abhisaṃyuktam abravīt ca eva tām muniḥ ..6..
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि । तस्य तस्य प्रसादेन पुत्रस्तव भविष्यति ॥७॥
यम् यम् देवम् त्वम् एतेन मन्त्रेण आवाहयिष्यसि । तस्य तस्य प्रसादेन पुत्रः तव भविष्यति ॥७॥
yam yam devam tvam etena mantreṇa āvāhayiṣyasi . tasya tasya prasādena putraḥ tava bhaviṣyati ..7..
तथोक्ता सा तु विप्रेण तेन कौतूहलात्तदा । कन्या सती देवमर्कमाजुहाव यशस्विनी ॥८॥
तथा उक्ता सा तु विप्रेण तेन कौतूहलात् तदा । कन्या सती देवम् अर्कम् आजुहाव यशस्विनी ॥८॥
tathā uktā sā tu vipreṇa tena kautūhalāt tadā . kanyā satī devam arkam ājuhāva yaśasvinī ..8..
सा ददर्श तमायान्तं भास्करं लोकभावनम् । विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम् ॥९॥
सा ददर्श तम् आयान्तम् भास्करम् लोक-भावनम् । विस्मिता च अनवद्य-अङ्गी दृष्ट्वा तत् महत् अद्भुतम् ॥९॥
sā dadarśa tam āyāntam bhāskaram loka-bhāvanam . vismitā ca anavadya-aṅgī dṛṣṭvā tat mahat adbhutam ..9..
प्रकाशकर्मा तपनस्तस्यां गर्भं दधौ ततः । अजीजनत्ततो वीरं सर्वशस्त्रभृतां वरम् ॥१०॥ ( आमुक्तकवचः श्रीमान्देवगर्भः श्रियावृतः ॥१०॥ )
प्रकाश-कर्मा तपनः तस्याम् गर्भम् ततस् । अजीजनत् ततस् वीरम् सर्व-शस्त्रभृताम् वरम् ॥१०॥ ( आमुक्त-कवचः श्रीमान् देव-गर्भः श्रिया आवृतः ॥१०॥ )
prakāśa-karmā tapanaḥ tasyām garbham tatas . ajījanat tatas vīram sarva-śastrabhṛtām varam ..10.. ( āmukta-kavacaḥ śrīmān deva-garbhaḥ śriyā āvṛtaḥ ..10.. )
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः । अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः ॥११॥
सहजम् कवचम् बिभ्रत् कुण्डल-उद्द्योतित-आननः । अजायत सुतः कर्णः सर्व-लोकेषु विश्रुतः ॥११॥
sahajam kavacam bibhrat kuṇḍala-uddyotita-ānanaḥ . ajāyata sutaḥ karṇaḥ sarva-lokeṣu viśrutaḥ ..11..
प्रादाच्च तस्याः कन्यात्वं पुनः स परमद्युतिः । दत्त्वा च ददतां श्रेष्ठो दिवमाचक्रमे ततः ॥१२॥
प्रादात् च तस्याः कन्या-त्वम् पुनर् स परम-द्युतिः । दत्त्वा च ददताम् श्रेष्ठः दिवम् आचक्रमे ततस् ॥१२॥
prādāt ca tasyāḥ kanyā-tvam punar sa parama-dyutiḥ . dattvā ca dadatām śreṣṭhaḥ divam ācakrame tatas ..12..
गूहमानापचारं तं बन्धुपक्षभयात्तदा । उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम् ॥१३॥
गूहमान-अपचारम् तम् बन्धु-पक्ष-भयात् तदा । उत्ससर्ज जले कुन्ती तम् कुमारम् सलक्षणम् ॥१३॥
gūhamāna-apacāram tam bandhu-pakṣa-bhayāt tadā . utsasarja jale kuntī tam kumāram salakṣaṇam ..13..
तमुत्सृष्टं तदा गर्भं राधाभर्ता महायशाः । पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः ॥१४॥
तम् उत्सृष्टम् तदा गर्भम् राधाभर्ता महा-यशाः । पुत्र-त्वे कल्पयामास स भार्यः सूत-नन्दनः ॥१४॥
tam utsṛṣṭam tadā garbham rādhābhartā mahā-yaśāḥ . putra-tve kalpayāmāsa sa bhāryaḥ sūta-nandanaḥ ..14..
नामधेयं च चक्राते तस्य बालस्य तावुभौ । वसुना सह जातोऽयं वसुषेणो भवत्विति ॥१५॥
नामधेयम् च चक्राते तस्य बालस्य तौ उभौ । वसुना सह जातः अयम् वसुषेणः भवतु इति ॥१५॥
nāmadheyam ca cakrāte tasya bālasya tau ubhau . vasunā saha jātaḥ ayam vasuṣeṇaḥ bhavatu iti ..15..
स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत् । आ पृष्ठतापादादित्यमुपतस्थे स वीर्यवान् ॥१६॥
स वर्धमानः बलवान् सर्व-अस्त्रेषु उद्यतः अभवत् । आ पृष्ठतापात् आदित्यम् उपतस्थे स वीर्यवान् ॥१६॥
sa vardhamānaḥ balavān sarva-astreṣu udyataḥ abhavat . ā pṛṣṭhatāpāt ādityam upatasthe sa vīryavān ..16..
यस्मिन्काले जपन्नास्ते स वीरः सत्यसङ्गरः । नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः ॥१७॥
यस्मिन् काले जपन् आस्ते स वीरः सत्य-सङ्गरः । न आदेयम् ब्राह्मणेषु आसीत् तस्मिन् काले महात्मनः ॥१७॥
yasmin kāle japan āste sa vīraḥ satya-saṅgaraḥ . na ādeyam brāhmaṇeṣu āsīt tasmin kāle mahātmanaḥ ..17..
तमिन्द्रो ब्राह्मणो भूत्वा भिक्षार्थं भूतभावनः । कुण्डले प्रार्थयामास कवचं च महाद्युतिः ॥१८॥
तम् इन्द्रः ब्राह्मणः भूत्वा भिक्षा-अर्थम् भूत-भावनः । कुण्डले प्रार्थयामास कवचम् च महा-द्युतिः ॥१८॥
tam indraḥ brāhmaṇaḥ bhūtvā bhikṣā-artham bhūta-bhāvanaḥ . kuṇḍale prārthayāmāsa kavacam ca mahā-dyutiḥ ..18..
उत्कृत्य विमनाः स्वाङ्गात्कवचं रुधिरस्रवम् । कर्णस्तु कुण्डले छित्त्वा प्रायच्छत्स कृताञ्जलिः ॥१९॥
उत्कृत्य विमनाः स्व-अङ्गात् कवचम् रुधिर-स्रवम् । कर्णः तु कुण्डले छित्त्वा प्रायच्छत् स कृताञ्जलिः ॥१९॥
utkṛtya vimanāḥ sva-aṅgāt kavacam rudhira-sravam . karṇaḥ tu kuṇḍale chittvā prāyacchat sa kṛtāñjaliḥ ..19..
शक्तिं तस्मै ददौ शक्रः विस्मितो वाक्यमब्रवीत् । देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ॥२०॥
शक्तिम् तस्मै ददौ शक्रः विस्मितः वाक्यम् अब्रवीत् । देव-असुर-मनुष्याणाम् गन्धर्व-उरग-रक्षसाम् ॥२०॥
śaktim tasmai dadau śakraḥ vismitaḥ vākyam abravīt . deva-asura-manuṣyāṇām gandharva-uraga-rakṣasām ..20..
यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति ॥२०॥
यस्मै क्षेप्स्यसि रुष्टः सन् सः अनया न भविष्यति ॥२०॥
yasmai kṣepsyasi ruṣṭaḥ san saḥ anayā na bhaviṣyati ..20..
पुरा नाम तु तस्यासीद्वसुषेण इति श्रुतम् । ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् ॥२१॥1.110.31
पुरा नाम तु तस्य आसीत् वसुषेणः इति श्रुतम् । ततस् वैकर्तनः कर्णः कर्मणा तेन सः अभवत् ॥२१॥१।११०।३१
purā nāma tu tasya āsīt vasuṣeṇaḥ iti śrutam . tatas vaikartanaḥ karṇaḥ karmaṇā tena saḥ abhavat ..21..1.110.31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In