| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

१०५ 1.111
105 1.111
105 1.111
वैशम्पायन उवाच॥
रूपसत्त्वगुणोपेता धर्मारामा महाव्रता । दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे ॥१॥
रूप-सत्त्व-गुण-उपेता धर्म-आरामा महा-व्रता । दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे ॥१॥
rūpa-sattva-guṇa-upetā dharma-ārāmā mahā-vratā . duhitā kuntibhojasya kṛte pitrā svayaṃvare ..1..
सिंहदंष्ट्रं गजस्कन्धमृषभाक्षं महाबलम् । भूमिपालसहस्राणां मध्ये पाण्डुमविन्दत ॥२॥
सिंह-दंष्ट्रम् गज-स्कन्धम् ऋषभ-अक्षम् महा-बलम् । भूमिपाल-सहस्राणाम् मध्ये पाण्डुम् अविन्दत ॥२॥
siṃha-daṃṣṭram gaja-skandham ṛṣabha-akṣam mahā-balam . bhūmipāla-sahasrāṇām madhye pāṇḍum avindata ..2..
स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः । युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव ॥३॥
स तया कुन्तिभोजस्य दुहित्रा कुरु-नन्दनः । युयुजे अमित-सौभाग्यः पौलोम्या मघवान् इव ॥३॥
sa tayā kuntibhojasya duhitrā kuru-nandanaḥ . yuyuje amita-saubhāgyaḥ paulomyā maghavān iva ..3..
यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् । विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता ॥४॥
यात्वा देव-व्रतेन अपि मद्राणाम् पुटभेदनम् । विश्रुता त्रिषु लोकेषु माद्री मद्र-पतेः सुता ॥४॥
yātvā deva-vratena api madrāṇām puṭabhedanam . viśrutā triṣu lokeṣu mādrī madra-pateḥ sutā ..4..
सर्वराजसु विख्याता रूपेणासदृशी भुवि । पाण्डोरर्थे परिक्रीता धनेन महता तदा ॥५॥ ( विवाहं कारयामास भीष्मः पाण्डोर्महात्मनः ॥५॥ )
सर्व-राजसु विख्याता रूपेण असदृशी भुवि । पाण्डोः अर्थे परिक्रीता धनेन महता तदा ॥५॥ ( विवाहम् कारयामास भीष्मः पाण्डोः महात्मनः ॥५॥ )
sarva-rājasu vikhyātā rūpeṇa asadṛśī bhuvi . pāṇḍoḥ arthe parikrītā dhanena mahatā tadā ..5.. ( vivāham kārayāmāsa bhīṣmaḥ pāṇḍoḥ mahātmanaḥ ..5.. )
सिंहोरस्कं गजस्कन्धमृषभाक्षं मनस्विनम् । पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मयन्त नरा भुवि ॥६॥
सिंह-उरस्कम् गज-स्कन्धम् ऋषभ-अक्षम् मनस्विनम् । पाण्डुम् दृष्ट्वा नर-व्याघ्रम् व्यस्मयन्त नराः भुवि ॥६॥
siṃha-uraskam gaja-skandham ṛṣabha-akṣam manasvinam . pāṇḍum dṛṣṭvā nara-vyāghram vyasmayanta narāḥ bhuvi ..6..
कृतोद्वाहस्ततः पाण्डुर्बलोत्साहसमन्वितः । जिगीषमाणो वसुधां ययौ शत्रूननेकशः ॥७॥
कृत-उद्वाहः ततस् पाण्डुः बल-उत्साह-समन्वितः । जिगीषमाणः वसुधाम् ययौ शत्रून् अनेकशस् ॥७॥
kṛta-udvāhaḥ tatas pāṇḍuḥ bala-utsāha-samanvitaḥ . jigīṣamāṇaḥ vasudhām yayau śatrūn anekaśas ..7..
पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः । पाण्डुना नरसिंहेन कौरवाणां यशोभृता ॥८॥
पूर्वम् आगस्कृतः गत्वा दशार्णाः समरे जिताः । पाण्डुना नर-सिंहेन कौरवाणाम् यशः-भृता ॥८॥
pūrvam āgaskṛtaḥ gatvā daśārṇāḥ samare jitāḥ . pāṇḍunā nara-siṃhena kauravāṇām yaśaḥ-bhṛtā ..8..
ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् । प्रभूतहस्त्यश्वरथां पदातिगणसङ्कुलाम् ॥९॥
ततस् सेनाम् उपादाय पाण्डुः नानाविध-ध्वजाम् । प्रभूत-हस्ति-अश्व-रथाम् पदाति-गण-सङ्कुलाम् ॥९॥
tatas senām upādāya pāṇḍuḥ nānāvidha-dhvajām . prabhūta-hasti-aśva-rathām padāti-gaṇa-saṅkulām ..9..
आगस्कृत्सर्ववीराणां वैरी सर्वमहीभृताम् । गोप्ता मगधराष्ट्रस्य दार्वो राजगृहे हतः ॥१०॥
आगस्कृत् सर्व-वीराणाम् वैरी सर्व-महीभृताम् । गोप्ता मगध-राष्ट्रस्य दार्वः राजगृहे हतः ॥१०॥
āgaskṛt sarva-vīrāṇām vairī sarva-mahībhṛtām . goptā magadha-rāṣṭrasya dārvaḥ rājagṛhe hataḥ ..10..
ततः कोशं समादाय वाहनानि बलानि च । पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः ॥११॥
ततस् कोशम् समादाय वाहनानि बलानि च । पाण्डुना मिथिलाम् गत्वा विदेहाः समरे जिताः ॥११॥
tatas kośam samādāya vāhanāni balāni ca . pāṇḍunā mithilām gatvā videhāḥ samare jitāḥ ..11..
तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ । स्वबाहुबलवीर्येण कुरूणामकरोद्यशः ॥१२॥
तथा काशिषु सुह्मेषु पुण्ड्रेषु भरत-ऋषभ । स्व-बाहु-बल-वीर्येण कुरूणाम् अकरोत् यशः ॥१२॥
tathā kāśiṣu suhmeṣu puṇḍreṣu bharata-ṛṣabha . sva-bāhu-bala-vīryeṇa kurūṇām akarot yaśaḥ ..12..
तं शरौघमहाज्वालमस्त्रार्चिषमरिंदमम् । पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः ॥१३॥
तम् शर-ओघ-महा-ज्वालम् अस्त्र-अरिंदमम् । पाण्डु-पावकम् आसाद्य व्यदह्यन्त नराधिपाः ॥१३॥
tam śara-ogha-mahā-jvālam astra-ariṃdamam . pāṇḍu-pāvakam āsādya vyadahyanta narādhipāḥ ..13..
ते ससेनाः ससेनेन विध्वंसितबला नृपाः । पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः ॥१४॥
ते स सेनाः स सेनेन विध्वंसित-बलाः नृपाः । पाण्डुना वश-गाः कृत्वा कर-कर्मसु योजिताः ॥१४॥
te sa senāḥ sa senena vidhvaṃsita-balāḥ nṛpāḥ . pāṇḍunā vaśa-gāḥ kṛtvā kara-karmasu yojitāḥ ..14..
तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः । तमेकं मेनिरे शूरं देवेष्विव पुरंदरम् ॥१५॥
तेन ते निर्जिताः सर्वे पृथिव्याम् सर्व-पार्थिवाः । तम् एकम् मेनिरे शूरम् देवेषु इव पुरंदरम् ॥१५॥
tena te nirjitāḥ sarve pṛthivyām sarva-pārthivāḥ . tam ekam menire śūram deveṣu iva puraṃdaram ..15..
तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः । उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च ॥१६॥
तम् कृताञ्जलयः सर्वे प्रणताः वसुधाधिपाः । उपाजग्मुः धनम् गृह्य रत्नानि विविधानि च ॥१६॥
tam kṛtāñjalayaḥ sarve praṇatāḥ vasudhādhipāḥ . upājagmuḥ dhanam gṛhya ratnāni vividhāni ca ..16..
मणिमुक्ताप्रवालं च सुवर्णं रजतं तथा । गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् ॥१७॥1.112.34
मणि-मुक्ता-प्रवालम् च सुवर्णम् रजतम् तथा । गो-रत्नानि अश्व-रत्नानि रथ-रत्नानि कुञ्जरान् ॥१७॥१।११२।३४
maṇi-muktā-pravālam ca suvarṇam rajatam tathā . go-ratnāni aśva-ratnāni ratha-ratnāni kuñjarān ..17..1.112.34
खरोष्ट्रमहिषांश्चैव यच्च किञ्चिदजाविकम् । तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः ॥१८॥
खर-उष्ट्र-महिषान् च एव यत् च किञ्चिद् अज-अविकम् । तत् सर्वम् प्रतिजग्राह राजा नागपुर-अधिपः ॥१८॥
khara-uṣṭra-mahiṣān ca eva yat ca kiñcid aja-avikam . tat sarvam pratijagrāha rājā nāgapura-adhipaḥ ..18..
तदादाय ययौ पाण्डुः पुनर्मुदितवाहनः । हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम् ॥१९॥
तत् आदाय ययौ पाण्डुः पुनर् मुदित-वाहनः । हर्षयिष्यन् स्व-राष्ट्राणि पुरम् च गजसाह्वयम् ॥१९॥
tat ādāya yayau pāṇḍuḥ punar mudita-vāhanaḥ . harṣayiṣyan sva-rāṣṭrāṇi puram ca gajasāhvayam ..19..
शन्तनो राजसिंहस्य भरतस्य च धीमतः । प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनरुद्धृतः ॥२०॥
शन्तनोः राज-सिंहस्य भरतस्य च धीमतः । प्रनष्टः कीर्ति-जः शब्दः पाण्डुना पुनर् उद्धृतः ॥२०॥
śantanoḥ rāja-siṃhasya bharatasya ca dhīmataḥ . pranaṣṭaḥ kīrti-jaḥ śabdaḥ pāṇḍunā punar uddhṛtaḥ ..20..
ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च । ते नागपुरसिंहेन पाण्डुना करदाः कृताः ॥२१॥
ये पुरा कुरु-राष्ट्राणि जह्रुः कुरु-धनानि च । ते नागपुर-सिंहेन पाण्डुना कर-दाः कृताः ॥२१॥
ye purā kuru-rāṣṭrāṇi jahruḥ kuru-dhanāni ca . te nāgapura-siṃhena pāṇḍunā kara-dāḥ kṛtāḥ ..21..
इत्यभाषन्त राजानो राजामात्याश्च सङ्गताः । प्रतीतमनसो हृष्टाः पौरजानपदैः सह ॥२२॥
इति अभाषन्त राजानः राज-अमात्याः च सङ्गताः । प्रतीत-मनसः हृष्टाः पौर-जानपदैः सह ॥२२॥
iti abhāṣanta rājānaḥ rāja-amātyāḥ ca saṅgatāḥ . pratīta-manasaḥ hṛṣṭāḥ paura-jānapadaiḥ saha ..22..
प्रत्युद्ययुस्तं सम्प्राप्तं सर्वे भीष्मपुरोगमाः । ते नदूरमिवाध्वानं गत्वा नागपुरालयाः ॥२३॥ ( आवृतं ददृशुर्लोकं हृष्टा बहुविधैर्जनैः ॥२३॥ )
प्रत्युद्ययुः तम् सम्प्राप्तम् सर्वे भीष्म-पुरोगमाः । ते न दूरम् इव अध्वानम् गत्वा नागपुर-आलयाः ॥२३॥ ( आवृतम् ददृशुः लोकम् हृष्टाः बहुविधैः जनैः ॥२३॥ )
pratyudyayuḥ tam samprāptam sarve bhīṣma-purogamāḥ . te na dūram iva adhvānam gatvā nāgapura-ālayāḥ ..23.. ( āvṛtam dadṛśuḥ lokam hṛṣṭāḥ bahuvidhaiḥ janaiḥ ..23.. )
नानायानसमानीतै रत्नैरुच्चावचैस्तथा । हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैरथाविकैः ॥२४॥ ( नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः ॥२४॥ )
नाना यान-समानीतैः रत्नैः उच्चावचैः तथा । हस्ति-अश्व-रथ-रत्नैः च गोभिः उष्ट्रैः अथ अविकैः ॥२४॥ ( न अन्तम् ददृशुः आसाद्य भीष्मेण सह कौरवाः ॥२४॥ )
nānā yāna-samānītaiḥ ratnaiḥ uccāvacaiḥ tathā . hasti-aśva-ratha-ratnaiḥ ca gobhiḥ uṣṭraiḥ atha avikaiḥ ..24.. ( na antam dadṛśuḥ āsādya bhīṣmeṇa saha kauravāḥ ..24.. )
सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः । यथार्हं मानयामास पौरजानपदानपि ॥२५॥
सः अभिवाद्य पितुः पादौ कौसल्या-आनन्द-वर्धनः । यथार्हम् मानयामास पौर-जानपदान् अपि ॥२५॥
saḥ abhivādya pituḥ pādau kausalyā-ānanda-vardhanaḥ . yathārham mānayāmāsa paura-jānapadān api ..25..
प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् । पुत्रमासाद्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् ॥२६॥
प्रमृद्य पर-राष्ट्राणि कृतार्थम् पुनर् आगतम् । पुत्रम् आसाद्य भीष्मः तु हर्षात् अश्रूणि अवर्तयत् ॥२६॥
pramṛdya para-rāṣṭrāṇi kṛtārtham punar āgatam . putram āsādya bhīṣmaḥ tu harṣāt aśrūṇi avartayat ..26..
स तूर्यशतसङ्घानां भेरीणां च महास्वनैः । हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम् ॥२७॥1.112.45
स तूर्य-शत-सङ्घानाम् भेरीणाम् च महा-स्वनैः । हर्षयन् सर्वशस् पौरान् विवेश गजसाह्वयम् ॥२७॥१।११२।४५
sa tūrya-śata-saṅghānām bherīṇām ca mahā-svanaiḥ . harṣayan sarvaśas paurān viveśa gajasāhvayam ..27..1.112.45

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In