| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् । भीष्माय सत्यवत्यै च मात्रे चोपजहार सः ॥१॥
धृतराष्ट्र-अभ्यनुज्ञातः स्व-बाहु-विजितम् धनम् । भीष्माय सत्यवत्यै च मात्रे च उपजहार सः ॥१॥
dhṛtarāṣṭra-abhyanujñātaḥ sva-bāhu-vijitam dhanam . bhīṣmāya satyavatyai ca mātre ca upajahāra saḥ ..1..
विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् । सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् ॥२॥
विदुराय च वै पाण्डुः प्रेषयामास तत् धनम् । सुहृदः च अपि धर्म-आत्मा धनेन समतर्पयत् ॥२॥
vidurāya ca vai pāṇḍuḥ preṣayāmāsa tat dhanam . suhṛdaḥ ca api dharma-ātmā dhanena samatarpayat ..2..
ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम् । शुभैः पाण्डुजितै रत्नैस्तोषयामास भारत ॥३॥
ततस् सत्यवतीम् भीष्मः कौसल्याम् च यशस्विनीम् । शुभैः रत्नैः तोषयामास भारत ॥३॥
tatas satyavatīm bhīṣmaḥ kausalyām ca yaśasvinīm . śubhaiḥ ratnaiḥ toṣayāmāsa bhārata ..3..
ननन्द माता कौसल्या तमप्रतिमतेजसम् । जयन्तमिव पौलोमी परिष्वज्य नरर्षभम् ॥४॥
ननन्द माता कौसल्या तम् अप्रतिम-तेजसम् । जयन्तम् इव पौलोमी परिष्वज्य नर-ऋषभम् ॥४॥
nananda mātā kausalyā tam apratima-tejasam . jayantam iva paulomī pariṣvajya nara-ṛṣabham ..4..
तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः । अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः ॥५॥
तस्य वीरस्य विक्रान्तैः सहस्र-शत-दक्षिणैः । अश्वमेध-शतैः ईजे धृतराष्ट्रः महा-मखैः ॥५॥
tasya vīrasya vikrāntaiḥ sahasra-śata-dakṣiṇaiḥ . aśvamedha-śataiḥ īje dhṛtarāṣṭraḥ mahā-makhaiḥ ..5..
सम्प्रयुक्तश्च कुन्त्या च माद्र्या च भरतर्षभ । जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः ॥६॥
सम्प्रयुक्तः च कुन्त्या च माद्र्या च भरत-ऋषभ । जित-तन्द्रीः तदा पाण्डुः बभूव वन-गोचरः ॥६॥
samprayuktaḥ ca kuntyā ca mādryā ca bharata-ṛṣabha . jita-tandrīḥ tadā pāṇḍuḥ babhūva vana-gocaraḥ ..6..
हित्वा प्रासादनिलयं शुभानि शयनानि च । अरण्यनित्यः सततं बभूव मृगयापरः ॥७॥
हित्वा प्रासाद-निलयम् शुभानि शयनानि च । अरण्य-नित्यः सततम् बभूव मृगया-परः ॥७॥
hitvā prāsāda-nilayam śubhāni śayanāni ca . araṇya-nityaḥ satatam babhūva mṛgayā-paraḥ ..7..
स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः । उवास गिरिपृष्ठेषु महाशालवनेषु च ॥८॥
स चरन् दक्षिणम् पार्श्वम् रम्यम् हिमवतः गिरेः । उवास गिरि-पृष्ठेषु महा-शाल-वनेषु च ॥८॥
sa caran dakṣiṇam pārśvam ramyam himavataḥ gireḥ . uvāsa giri-pṛṣṭheṣu mahā-śāla-vaneṣu ca ..8..
रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन् । करेण्वोरिव मध्यस्थः श्रीमान्पौरंदरो गजः ॥९॥
रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन् । करेण्वोः इव मध्य-स्थः श्रीमान् पौरंदरः गजः ॥९॥
rarāja kuntyā mādryā ca pāṇḍuḥ saha vane vasan . kareṇvoḥ iva madhya-sthaḥ śrīmān pauraṃdaraḥ gajaḥ ..9..
भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम् । विचित्रकवचं वीरं परमास्त्रविदं नृपम् ॥१०॥ ( देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः ॥१०॥ )
भारतम् सह भार्याभ्याम् बाण-खड्ग-धनुः-धरम् । विचित्र-कवचम् वीरम् परम-अस्त्र-विदम् नृपम् ॥१०॥ ( देवः अयम् इति अमन्यन्त चरन्तम् वन-वासिनः ॥१०॥ )
bhāratam saha bhāryābhyām bāṇa-khaḍga-dhanuḥ-dharam . vicitra-kavacam vīram parama-astra-vidam nṛpam ..10.. ( devaḥ ayam iti amanyanta carantam vana-vāsinaḥ ..10.. )
तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः । उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः ॥११॥
तस्य कामान् च भोगान् च नराः नित्यम् अतन्द्रिताः । उपजह्रुः वनान्तेषु धृतराष्ट्रेण चोदिताः ॥११॥
tasya kāmān ca bhogān ca narāḥ nityam atandritāḥ . upajahruḥ vanānteṣu dhṛtarāṣṭreṇa coditāḥ ..11..
अथ पारशवीं कन्यां देवकस्य महीपतेः । रूपयौवनसम्पन्नां स शुश्रावापगासुतः ॥१२॥
अथ पारशवीम् कन्याम् देवकस्य महीपतेः । रूप-यौवन-सम्पन्नाम् स शुश्राव आपगासुतः ॥१२॥
atha pāraśavīm kanyām devakasya mahīpateḥ . rūpa-yauvana-sampannām sa śuśrāva āpagāsutaḥ ..12..
ततस्तु वरयित्वा तामानाय्य पुरुषर्षभः । विवाहं कारयामास विदुरस्य महामतेः ॥१३॥
ततस् तु वरयित्वा ताम् आनाय्य पुरुष-ऋषभः । विवाहम् कारयामास विदुरस्य महामतेः ॥१३॥
tatas tu varayitvā tām ānāyya puruṣa-ṛṣabhaḥ . vivāham kārayāmāsa vidurasya mahāmateḥ ..13..
तस्यां चोत्पादयामास विदुरः कुरुनन्दनः । पुत्रान्विनयसम्पन्नानात्मनः सदृशान्गुणैः ॥१४॥1.113.14
तस्याम् च उत्पादयामास विदुरः कुरु-नन्दनः । पुत्रान् विनय-सम्पन्नान् आत्मनः सदृशान् गुणैः ॥१४॥१।११३।१४
tasyām ca utpādayāmāsa viduraḥ kuru-nandanaḥ . putrān vinaya-sampannān ātmanaḥ sadṛśān guṇaiḥ ..14..1.113.14

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In