| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय । धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः ॥१॥
ततस् पुत्र-शतम् जज्ञे गान्धार्याम् जनमेजय । धृतराष्ट्रस्य वैश्यायाम् एकः च अपि शतात् परः ॥१॥
tatas putra-śatam jajñe gāndhāryām janamejaya . dhṛtarāṣṭrasya vaiśyāyām ekaḥ ca api śatāt paraḥ ..1..
पाण्डोः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः । देवेभ्यः समपद्यन्त सन्तानाय कुलस्य वै ॥२॥
पाण्डोः कुन्त्याम् च माद्र्याम् च पञ्च पुत्राः महा-रथाः । देवेभ्यः समपद्यन्त सन्तानाय कुलस्य वै ॥२॥
pāṇḍoḥ kuntyām ca mādryām ca pañca putrāḥ mahā-rathāḥ . devebhyaḥ samapadyanta santānāya kulasya vai ..2..
जनमेजय उवाच॥
कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम । कियता चैव कालेन तेषामायुश्च किं परम् ॥३॥
कथम् पुत्र-शतम् जज्ञे गान्धार्याम् द्विजसत्तम । कियता च एव कालेन तेषाम् आयुः च किम् परम् ॥३॥
katham putra-śatam jajñe gāndhāryām dvijasattama . kiyatā ca eva kālena teṣām āyuḥ ca kim param ..3..
कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत् । कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् ॥४॥ ( आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत ॥४॥ )
कथम् च एकः स वैश्यायाम् धृतराष्ट्र-सुतः अभवत् । कथम् च सदृशीम् भार्याम् गान्धारीम् धर्म-चारिणीम् ॥४॥ ( आनुकूल्ये वर्तमानाम् धृतराष्ट्रः अत्यवर्तत ॥४॥ )
katham ca ekaḥ sa vaiśyāyām dhṛtarāṣṭra-sutaḥ abhavat . katham ca sadṛśīm bhāryām gāndhārīm dharma-cāriṇīm ..4.. ( ānukūlye vartamānām dhṛtarāṣṭraḥ atyavartata ..4.. )
कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना । समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः ॥५॥
कथम् च शप्तस्य सतः पाण्डोः तेन महात्मना । समुत्पन्नाः दैवतेभ्यः पञ्च पुत्राः महा-रथाः ॥५॥
katham ca śaptasya sataḥ pāṇḍoḥ tena mahātmanā . samutpannāḥ daivatebhyaḥ pañca putrāḥ mahā-rathāḥ ..5..
एतद्विद्वन्यथावृत्तं विस्तरेण तपोधन । कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु ॥६॥
एतत् विद्वन् यथावृत्तम् विस्तरेण तपोधन । कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु ॥६॥
etat vidvan yathāvṛttam vistareṇa tapodhana . kathayasva na me tṛptiḥ kathyamāneṣu bandhuṣu ..6..
वैशम्पायन उवाच॥
क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम् । तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ ॥७॥
क्षुध्-श्रम-अभिपरिग्लानम् द्वैपायनम् उपस्थितम् । तोषयामास गान्धारी व्यासः तस्यै वरम् ददौ ॥७॥
kṣudh-śrama-abhipariglānam dvaipāyanam upasthitam . toṣayāmāsa gāndhārī vyāsaḥ tasyai varam dadau ..7..
सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः । ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत् ॥८॥
सा वव्रे सदृशम् भर्तुः पुत्राणाम् शतम् आत्मनः । ततस् कालेन सा गर्भम् धृतराष्ट्रात् अथ अग्रहीत् ॥८॥
sā vavre sadṛśam bhartuḥ putrāṇām śatam ātmanaḥ . tatas kālena sā garbham dhṛtarāṣṭrāt atha agrahīt ..8..
संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम् । अप्रजा धारयामास ततस्तां दुःखमाविशत् ॥९॥
संवत्सर-द्वयम् तम् तु गान्धारी गर्भम् आहितम् । अप्रजाः धारयामास ततस् ताम् दुःखम् आविशत् ॥९॥
saṃvatsara-dvayam tam tu gāndhārī garbham āhitam . aprajāḥ dhārayāmāsa tatas tām duḥkham āviśat ..9..
श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् । उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तयत् ॥१०॥
श्रुत्वा कुन्ती-सुतम् जातम् बाल-अर्क-सम-तेजसम् । उदरस्य आत्मनः स्थैर्यम् उपलभ्य अन्वचिन्तयत् ॥१०॥
śrutvā kuntī-sutam jātam bāla-arka-sama-tejasam . udarasya ātmanaḥ sthairyam upalabhya anvacintayat ..10..
अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः । सोदरं पातयामास गान्धारी दुःखमूर्च्छिता ॥११॥
अज्ञातम् धृतराष्ट्रस्य यत्नेन महता ततस् । सोदरम् पातयामास गान्धारी दुःख-मूर्च्छिता ॥११॥
ajñātam dhṛtarāṣṭrasya yatnena mahatā tatas . sodaram pātayāmāsa gāndhārī duḥkha-mūrcchitā ..11..
ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता । द्विवर्षसम्भृतां कुक्षौ तामुत्स्रष्टुं प्रचक्रमे ॥१२॥
ततस् जज्ञे मांस-पेशी लोह-अष्ठीला इव संहता । द्वि-वर्ष-सम्भृताम् कुक्षौ ताम् उत्स्रष्टुम् प्रचक्रमे ॥१२॥
tatas jajñe māṃsa-peśī loha-aṣṭhīlā iva saṃhatā . dvi-varṣa-sambhṛtām kukṣau tām utsraṣṭum pracakrame ..12..
अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् । तां स मांसमयीं पेशीं ददर्श जपतां वरः ॥१३॥
अथ द्वैपायनः ज्ञात्वा त्वरितः समुपागमत् । ताम् स मांस-मयीम् पेशीम् ददर्श जपताम् वरः ॥१३॥
atha dvaipāyanaḥ jñātvā tvaritaḥ samupāgamat . tām sa māṃsa-mayīm peśīm dadarśa japatām varaḥ ..13..
ततोऽब्रवीत्सौबलेयीं किमिदं ते चिकीर्षितम् । सा चात्मनो मतं सत्यं शशंस परमर्षये ॥१४॥
ततस् अब्रवीत् सौबलेयीम् किम् इदम् ते चिकीर्षितम् । सा च आत्मनः मतम् सत्यम् शशंस परम-ऋषये ॥१४॥
tatas abravīt saubaleyīm kim idam te cikīrṣitam . sā ca ātmanaḥ matam satyam śaśaṃsa parama-ṛṣaye ..14..
ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् । दुःखेन परमेणेदमुदरं पातितं मया ॥१५॥
ज्येष्ठम् कुन्ती-सुतम् जातम् श्रुत्वा रवि-सम-प्रभम् । दुःखेन परमेण इदम् उदरम् पातितम् मया ॥१५॥
jyeṣṭham kuntī-sutam jātam śrutvā ravi-sama-prabham . duḥkhena parameṇa idam udaram pātitam mayā ..15..
शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा । इयं च मे मांसपेशी जाता पुत्रशताय वै ॥१६॥
शतम् च किल पुत्राणाम् वितीर्णम् मे त्वया पुरा । इयम् च मे मांस-पेशी जाता पुत्र-शताय वै ॥१६॥
śatam ca kila putrāṇām vitīrṇam me tvayā purā . iyam ca me māṃsa-peśī jātā putra-śatāya vai ..16..
व्यास उवाच॥
एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत् । वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ॥१७॥
एवम् एतत् सौबलेयि न एतत् जातु अन्यथा भवेत् । वितथम् न उक्त-पूर्वम् मे स्वैरेषु अपि कुतस् अन्यथा ॥१७॥
evam etat saubaleyi na etat jātu anyathā bhavet . vitatham na ukta-pūrvam me svaireṣu api kutas anyathā ..17..
घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम् । शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चत ॥१८॥
घृत-पूर्णम् कुण्ड-शतम् क्षिप्रम् एव विधीयताम् । शीताभिः अद्भिः अष्ठीलाम् इमाम् च परिषिञ्चत ॥१८॥
ghṛta-pūrṇam kuṇḍa-śatam kṣipram eva vidhīyatām . śītābhiḥ adbhiḥ aṣṭhīlām imām ca pariṣiñcata ..18..
वैशम्पायन उवाच॥
सा सिच्यमाना अष्ठीला अभवच्छतधा तदा । अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथगेव तु ॥१९॥
सा सिच्यमाना अष्ठीला अभवत् शतधा तदा । अङ्गुष्ठ-पर्व-मात्राणाम् गर्भाणाम् पृथक् एव तु ॥१९॥
sā sicyamānā aṣṭhīlā abhavat śatadhā tadā . aṅguṣṭha-parva-mātrāṇām garbhāṇām pṛthak eva tu ..19..
एकाधिकशतं पूर्णं यथायोगं विशां पते । मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात् ॥२०॥
एक-अधिक-शतम् पूर्णम् यथायोगम् विशाम् पते । मांस-पेश्याः तदा राजन् क्रमशस् काल-पर्ययात् ॥२०॥
eka-adhika-śatam pūrṇam yathāyogam viśām pate . māṃsa-peśyāḥ tadā rājan kramaśas kāla-paryayāt ..20..
ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा । स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात्ततः ॥२१॥
ततस् तान् तेषु कुण्डेषु गर्भान् अवदधे तदा । स्वनुगुप्तेषु देशेषु रक्षाम् च व्यदधात् ततस् ॥२१॥
tatas tān teṣu kuṇḍeṣu garbhān avadadhe tadā . svanugupteṣu deśeṣu rakṣām ca vyadadhāt tatas ..21..
शशास चैव भगवान्कालेनैतावता पुनः । विघट्टनीयान्येतानि कुण्डानीति स्म सौबलीम् ॥२२॥
शशास च एव भगवान् कालेन एतावता पुनर् । विघट्टनीयानि एतानि कुण्डानि इति स्म सौबलीम् ॥२२॥
śaśāsa ca eva bhagavān kālena etāvatā punar . vighaṭṭanīyāni etāni kuṇḍāni iti sma saubalīm ..22..
इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च । जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम् ॥२३॥
इति उक्त्वा भगवान् व्यासः तथा प्रतिविधाय च । जगाम तपसे धीमान् हिमवन्तम् शिलोच्चयम् ॥२३॥
iti uktvā bhagavān vyāsaḥ tathā pratividhāya ca . jagāma tapase dhīmān himavantam śiloccayam ..23..
जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः । जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः ॥२४॥
जज्ञे क्रमेण च एतेन तेषाम् दुर्योधनः नृपः । जन्मतः तु प्रमाणेन ज्येष्ठः राजा युधिष्ठिरः ॥२४॥
jajñe krameṇa ca etena teṣām duryodhanaḥ nṛpaḥ . janmataḥ tu pramāṇena jyeṣṭhaḥ rājā yudhiṣṭhiraḥ ..24..
जातमात्रे सुते तस्मिन्धृतराष्ट्रोऽब्रवीदिदम् । समानीय बहून्विप्रान्भीष्मं विदुरमेव च ॥२५॥
जात-मात्रे सुते तस्मिन् धृतराष्ट्रः अब्रवीत् इदम् । समानीय बहून् विप्रान् भीष्मम् विदुरम् एव च ॥२५॥
jāta-mātre sute tasmin dhṛtarāṣṭraḥ abravīt idam . samānīya bahūn viprān bhīṣmam viduram eva ca ..25..
युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः । प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः ॥२६॥
युधिष्ठिरः राज-पुत्रः ज्येष्ठः नः कुल-वर्धनः । प्राप्तः स्व-गुणतः राज्यम् न तस्मिन् वाच्यम् अस्ति नः ॥२६॥
yudhiṣṭhiraḥ rāja-putraḥ jyeṣṭhaḥ naḥ kula-vardhanaḥ . prāptaḥ sva-guṇataḥ rājyam na tasmin vācyam asti naḥ ..26..
अयं त्वनन्तरस्तस्मादपि राजा भविष्यति । एतद्धि ब्रूत मे सत्यं यदत्र भविता ध्रुवम् ॥२७॥
अयम् तु अनन्तरः तस्मात् अपि राजा भविष्यति । एतत् हि ब्रूत मे सत्यम् यत् अत्र भविता ध्रुवम् ॥२७॥
ayam tu anantaraḥ tasmāt api rājā bhaviṣyati . etat hi brūta me satyam yat atra bhavitā dhruvam ..27..
वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत । क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवशंसिनः ॥२८॥
वाक्यस्य एतस्य निधने दिक्षु सर्वासु भारत । क्रव्यादाः प्राणदन् घोराः शिवाः च अशिव-शंसिनः ॥२८॥
vākyasya etasya nidhane dikṣu sarvāsu bhārata . kravyādāḥ prāṇadan ghorāḥ śivāḥ ca aśiva-śaṃsinaḥ ..28..
लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः । तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः ॥२९॥
लक्षयित्वा निमित्तानि तानि घोराणि सर्वशस् । ते अब्रुवन् ब्राह्मणाः राजन् विदुरः च महामतिः ॥२९॥
lakṣayitvā nimittāni tāni ghorāṇi sarvaśas . te abruvan brāhmaṇāḥ rājan viduraḥ ca mahāmatiḥ ..29..
व्यक्तं कुलान्तकरणो भवितैष सुतस्तव । तस्य शान्तिः परित्यागे पुष्ट्या त्वपनयो महान् ॥३०॥
व्यक्तम् कुल-अन्त-करणः भविता एष सुतः तव । तस्य शान्तिः परित्यागे पुष्ट्या तु अपनयः महान् ॥३०॥
vyaktam kula-anta-karaṇaḥ bhavitā eṣa sutaḥ tava . tasya śāntiḥ parityāge puṣṭyā tu apanayaḥ mahān ..30..
शतमेकोनमप्यस्तु पुत्राणां ते महीपते । एकेन कुरु वै क्षेमं लोकस्य च कुलस्य च ॥३१॥
शतम् एक-ऊनम् अपि अस्तु पुत्राणाम् ते महीपते । एकेन कुरु वै क्षेमम् लोकस्य च कुलस्य च ॥३१॥
śatam eka-ūnam api astu putrāṇām te mahīpate . ekena kuru vai kṣemam lokasya ca kulasya ca ..31..
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥३२॥
त्यजेत् एकम् कुलस्य अर्थे ग्रामस्य अर्थे कुलम् त्यजेत् । ग्रामम् जनपदस्य अर्थे आत्म-अर्थे पृथिवीम् त्यजेत् ॥३२॥
tyajet ekam kulasya arthe grāmasya arthe kulam tyajet . grāmam janapadasya arthe ātma-arthe pṛthivīm tyajet ..32..
स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः । न चकार तथा राजा पुत्रस्नेहसमन्वितः ॥३३॥
स तथा विदुरेण उक्तः तैः च सर्वैः द्विजोत्तमैः । न चकार तथा राजा पुत्र-स्नेह-समन्वितः ॥३३॥
sa tathā vidureṇa uktaḥ taiḥ ca sarvaiḥ dvijottamaiḥ . na cakāra tathā rājā putra-sneha-samanvitaḥ ..33..
ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव । मासमात्रेण सञ्जज्ञे कन्या चैका शताधिका ॥३४॥
ततस् पुत्र-शतम् सर्वम् धृतराष्ट्रस्य पार्थिव । मास-मात्रेण सञ्जज्ञे कन्या च एका शत-अधिका ॥३४॥
tatas putra-śatam sarvam dhṛtarāṣṭrasya pārthiva . māsa-mātreṇa sañjajñe kanyā ca ekā śata-adhikā ..34..
गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता । धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत्किल ॥३५॥
गान्धार्याम् क्लिश्यमानायाम् उदरेण विवर्धता । धृतराष्ट्रम् महा-बाहुम् वैश्या पर्यचरत् किल ॥३५॥
gāndhāryām kliśyamānāyām udareṇa vivardhatā . dhṛtarāṣṭram mahā-bāhum vaiśyā paryacarat kila ..35..
तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः । जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करणो नृप ॥३६॥
तस्मिन् संवत्सरे राजन् धृतराष्ट्रात् महा-यशाः । जज्ञे धीमान् ततस् तस्याम् युयुत्सुः करणः नृप ॥३६॥
tasmin saṃvatsare rājan dhṛtarāṣṭrāt mahā-yaśāḥ . jajñe dhīmān tatas tasyām yuyutsuḥ karaṇaḥ nṛpa ..36..
एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः । महारथानां वीराणां कन्या चैकाथ दुःशला ॥३७॥1.114.43
एवम् पुत्र-शतम् जज्ञे धृतराष्ट्रस्य धीमतः । महा-रथानाम् वीराणाम् कन्या च एका अथ दुःशला ॥३७॥१।११४।४३
evam putra-śatam jajñe dhṛtarāṣṭrasya dhīmataḥ . mahā-rathānām vīrāṇām kanyā ca ekā atha duḥśalā ..37..1.114.43

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In