| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो । धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय ॥१॥
ज्येष्ठानुज्येष्ठताम् तेषाम् नामधेयानि च अभिभो । धृतराष्ट्रस्य पुत्राणाम् आनुपूर्व्येण कीर्तय ॥१॥
jyeṣṭhānujyeṣṭhatām teṣām nāmadheyāni ca abhibho . dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya ..1..
वैशम्पायन उवाच॥
दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा । दुःसहो दुःशलश्चैव जलसन्धः समः सहः ॥२॥
दुर्योधनः युयुत्सुः च राजन् दुःशासनः तथा । दुःसहः दुःशलः च एव जलसन्धः समः सहः ॥२॥
duryodhanaḥ yuyutsuḥ ca rājan duḥśāsanaḥ tathā . duḥsahaḥ duḥśalaḥ ca eva jalasandhaḥ samaḥ sahaḥ ..2..
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः । दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च ॥३॥
विन्द-अनुविन्दौ दुर्धर्षः सुबाहुः दुष्प्रधर्षणः । दुर्मर्षणः दुर्मुखः च दुष्कर्णः कर्णः एव च ॥३॥
vinda-anuvindau durdharṣaḥ subāhuḥ duṣpradharṣaṇaḥ . durmarṣaṇaḥ durmukhaḥ ca duṣkarṇaḥ karṇaḥ eva ca ..3..
विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः । चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः ॥४॥
विविंशतिः विकर्णः च जलसन्धः सुलोचनः । चित्र-उपचित्रौ चित्राक्षः चारुचित्रः शरासनः ॥४॥
viviṃśatiḥ vikarṇaḥ ca jalasandhaḥ sulocanaḥ . citra-upacitrau citrākṣaḥ cārucitraḥ śarāsanaḥ ..4..
दुर्मदो दुष्प्रगाहश्च विवित्सुर्विकटः समः । ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ ॥५॥
दुर्मदः दुष्प्रगाहः च विवित्सुः विकटः समः । ऊर्णनाभः सुनाभः च तथा नन्द-उपनन्दकौ ॥५॥
durmadaḥ duṣpragāhaḥ ca vivitsuḥ vikaṭaḥ samaḥ . ūrṇanābhaḥ sunābhaḥ ca tathā nanda-upanandakau ..5..
सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ । चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः ॥६॥
सेनापतिः सुषेणः च कुण्डोदर-महोदरौ । चित्रबाणः चित्रवर्मा सुवर्मा दुर्विमोचनः ॥६॥
senāpatiḥ suṣeṇaḥ ca kuṇḍodara-mahodarau . citrabāṇaḥ citravarmā suvarmā durvimocanaḥ ..6..
अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः । भीमवेगो भीमबलो बलाकी बलवर्धनः ॥७॥
अयोबाहुः महाबाहुः चित्राङ्गः चित्रकुण्डलः । भीम-वेगः भीम-बलः बलाकी बल-वर्धनः ॥७॥
ayobāhuḥ mahābāhuḥ citrāṅgaḥ citrakuṇḍalaḥ . bhīma-vegaḥ bhīma-balaḥ balākī bala-vardhanaḥ ..7..
उग्रायुधो भीमकर्मा कनकायुर्दृढायुधः । दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः ॥८॥
। दृढवर्मा दृढक्षत्रः सोमकीर्तिः अनूदरः ॥८॥
. dṛḍhavarmā dṛḍhakṣatraḥ somakīrtiḥ anūdaraḥ ..8..
दृढसन्धो जरासन्धः सत्यसन्धः सदःसुवाक् । उग्रश्रवा अश्वसेनः सेनानीर्दुष्पराजयः ॥९॥
दृढसन्धः जरासन्धः सत्यसन्धः सदःसुवाच् । उग्रश्रवाः अश्वसेनः सेनानीः दुष्पराजयः ॥९॥
dṛḍhasandhaḥ jarāsandhaḥ satyasandhaḥ sadaḥsuvāc . ugraśravāḥ aśvasenaḥ senānīḥ duṣparājayaḥ ..9..
अपराजितः पण्डितको विशालाक्षो दुरावरः । दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ॥१०॥
। दृढहस्तः सुहस्तः च वातवेग-सुवर्चसौ ॥१०॥
. dṛḍhahastaḥ suhastaḥ ca vātavega-suvarcasau ..10..
आदित्यकेतुर्बह्वाशी नागदन्तोग्रयायिनौ । कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः ॥११॥
। कवची निषङ्गी पाशी च दण्डधारः धनुर्ग्रहः ॥११॥
. kavacī niṣaṅgī pāśī ca daṇḍadhāraḥ dhanurgrahaḥ ..11..
उग्रो भीमरथो वीरो वीरबाहुरलोलुपः । अभयो रौद्रकर्मा च तथा दृढरथस्त्रयः ॥१२॥
। अभयः रौद्रकर्मा च तथा दृढरथः त्रयः ॥१२॥
. abhayaḥ raudrakarmā ca tathā dṛḍharathaḥ trayaḥ ..12..
अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः । दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः ॥१३॥
। दीर्घबाहुः महाबाहुः व्यूढोरुः कनकध्वजः ॥१३॥
. dīrghabāhuḥ mahābāhuḥ vyūḍhoruḥ kanakadhvajaḥ ..13..
कुण्डाशी विरजाश्चैव दुःशला च शताधिका । एतदेकशतं राजन्कन्या चैका प्रकीर्तिता ॥१४॥
कुण्डाशी विरजाः च एव दुःशला च शत-अधिका । एतत् एक-शतम् राजन् कन्या च एका प्रकीर्तिता ॥१४॥
kuṇḍāśī virajāḥ ca eva duḥśalā ca śata-adhikā . etat eka-śatam rājan kanyā ca ekā prakīrtitā ..14..
नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप । सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः ॥१५॥
नामधेय-आनुपूर्व्येण विद्धि जन्म-क्रमम् नृप । सर्वे तु अतिरथाः शूराः सर्वे युद्ध-विशारदाः ॥१५॥
nāmadheya-ānupūrvyeṇa viddhi janma-kramam nṛpa . sarve tu atirathāḥ śūrāḥ sarve yuddha-viśāradāḥ ..15..
सर्वे वेदविदश्चैव राजशास्त्रेषु कोविदाः । सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः ॥१६॥
सर्वे वेद-विदः च एव राज-शास्त्रेषु कोविदाः । सर्वे संसर्ग-विद्यासु विद्या-अभिजन-शोभिनः ॥१६॥
sarve veda-vidaḥ ca eva rāja-śāstreṣu kovidāḥ . sarve saṃsarga-vidyāsu vidyā-abhijana-śobhinaḥ ..16..
सर्वेषामनुरूपाश्च कृता दारा महीपते । धृतराष्ट्रेण समये समीक्ष्य विधिवत्तदा ॥१७॥
सर्वेषाम् अनुरूपाः च कृताः दाराः महीपते । धृतराष्ट्रेण समये समीक्ष्य विधिवत् तदा ॥१७॥
sarveṣām anurūpāḥ ca kṛtāḥ dārāḥ mahīpate . dhṛtarāṣṭreṇa samaye samīkṣya vidhivat tadā ..17..
दुःशलां समये राजा सिन्धुराजाय भारत । जयद्रथाय प्रददौ सौबलानुमते तदा ॥१८॥ 1.116.18
दुःशलाम् समये राजा सिन्धु-राजाय भारत । जयद्रथाय प्रददौ सौबल-अनुमते तदा ॥१८॥ १।११६।१८
duḥśalām samaye rājā sindhu-rājāya bhārata . jayadrathāya pradadau saubala-anumate tadā ..18.. 1.116.18

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In