| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
कथितो धार्तराष्ट्राणामार्षः सम्भव उत्तमः । अमानुषो मानुषाणां भवता ब्रह्मवित्तम ॥१॥
कथितः धार्तराष्ट्राणाम् आर्षः सम्भवः उत्तमः । अमानुषः मानुषाणाम् भवत ब्रह्म-वित्तम ॥१॥
kathitaḥ dhārtarāṣṭrāṇām ārṣaḥ sambhavaḥ uttamaḥ . amānuṣaḥ mānuṣāṇām bhavata brahma-vittama ..1..
नामधेयानि चाप्येषां कथ्यमानानि भागशः । त्वत्तः श्रुतानि मे ब्रह्मन्पाण्डवानां तु कीर्तय ॥२॥
नामधेयानि च अपि एषाम् कथ्यमानानि भागशस् । त्वत्तः श्रुतानि मे ब्रह्मन् पाण्डवानाम् तु कीर्तय ॥२॥
nāmadheyāni ca api eṣām kathyamānāni bhāgaśas . tvattaḥ śrutāni me brahman pāṇḍavānām tu kīrtaya ..2..
ते हि सर्वे महात्मानो देवराजपराक्रमाः । त्वयैवांशावतरणे देवभागाः प्रकीर्तिताः ॥३॥
ते हि सर्वे महात्मानः देवराज-पराक्रमाः । त्वया एव अंशावतरणे देव-भागाः प्रकीर्तिताः ॥३॥
te hi sarve mahātmānaḥ devarāja-parākramāḥ . tvayā eva aṃśāvataraṇe deva-bhāgāḥ prakīrtitāḥ ..3..
तस्मादिच्छाम्यहं श्रोतुमतिमानुषकर्मणाम् । तेषामाजननं सर्वं वैशम्पायन कीर्तय ॥४॥
तस्मात् इच्छामि अहम् श्रोतुम् अति मानुष-कर्मणाम् । तेषाम् आजननम् सर्वम् वैशम्पायन कीर्तय ॥४॥
tasmāt icchāmi aham śrotum ati mānuṣa-karmaṇām . teṣām ājananam sarvam vaiśampāyana kīrtaya ..4..
वैशम्पायन उवाच॥
राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते । वने मैथुनकालस्थं ददर्श मृगयूथपम् ॥५॥
राजा पाण्डुः महा-अरण्ये मृग-व्याल-निषेविते । वने मैथुन-काल-स्थम् ददर्श मृग-यूथपम् ॥५॥
rājā pāṇḍuḥ mahā-araṇye mṛga-vyāla-niṣevite . vane maithuna-kāla-stham dadarśa mṛga-yūthapam ..5..
ततस्तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः । निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः ॥६॥
ततस् ताम् च मृगीम् तम् च रुक्म-पुङ्खैः सु पत्रिभिः । निर्बिभेद शरैः तीक्ष्णैः पाण्डुः पञ्चभिः आशुगैः ॥६॥
tatas tām ca mṛgīm tam ca rukma-puṅkhaiḥ su patribhiḥ . nirbibheda śaraiḥ tīkṣṇaiḥ pāṇḍuḥ pañcabhiḥ āśugaiḥ ..6..
स च राजन्महातेजा ऋषिपुत्रस्तपोधनः । भार्यया सह तेजस्वी मृगरूपेण सङ्गतः ॥७॥
स च राजन् महा-तेजाः ऋषि-पुत्रः तपोधनः । भार्यया सह तेजस्वी मृग-रूपेण सङ्गतः ॥७॥
sa ca rājan mahā-tejāḥ ṛṣi-putraḥ tapodhanaḥ . bhāryayā saha tejasvī mṛga-rūpeṇa saṅgataḥ ..7..
संसक्तस्तु तया मृग्या मानुषीमीरयन्गिरम् । क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः ॥८॥
संसक्तः तु तया मृग्या मानुषीम् ईरयन् गिरम् । क्षणेन पतितः भूमौ विललाप आकुल-इन्द्रियः ॥८॥
saṃsaktaḥ tu tayā mṛgyā mānuṣīm īrayan giram . kṣaṇena patitaḥ bhūmau vilalāpa ākula-indriyaḥ ..8..
मृग उवाच॥
काममन्युपरीतापि बुद्ध्यङ्गरहितापि च । वर्जयन्ति नृशंसानि पापेष्वभिरता नराः ॥९॥
काम-मन्यु-परीता अपि बुद्धि-अङ्ग-रहिता अपि च । वर्जयन्ति नृशंसानि पापेषु अभिरताः नराः ॥९॥
kāma-manyu-parītā api buddhi-aṅga-rahitā api ca . varjayanti nṛśaṃsāni pāpeṣu abhiratāḥ narāḥ ..9..
न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः । विधिपर्यागतानर्थान्प्रज्ञा न प्रतिपद्यते ॥१०॥
न विधिम् ग्रसते प्रज्ञा प्रज्ञाम् तु ग्रसते विधिः । विधि-पर्यागतान् अर्थान् प्रज्ञा न प्रतिपद्यते ॥१०॥
na vidhim grasate prajñā prajñām tu grasate vidhiḥ . vidhi-paryāgatān arthān prajñā na pratipadyate ..10..
शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत । कामलोभाभिभूतस्य कथं ते चलिता मतिः ॥११॥
शश्वत् धर्म-आत्मनाम् मुख्ये कुले जातस्य भारत । काम-लोभ-अभिभूतस्य कथम् ते चलिता मतिः ॥११॥
śaśvat dharma-ātmanām mukhye kule jātasya bhārata . kāma-lobha-abhibhūtasya katham te calitā matiḥ ..11..
पाण्डुरुवाच॥
शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता । राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि ॥१२॥
शत्रूणाम् या वधे वृत्तिः सा मृगाणाम् वधे स्मृता । राज्ञाम् मृग न माम् मोहात् त्वम् गर्हयितुम् अर्हसि ॥१२॥
śatrūṇām yā vadhe vṛttiḥ sā mṛgāṇām vadhe smṛtā . rājñām mṛga na mām mohāt tvam garhayitum arhasi ..12..
अच्छद्मनामायया च मृगाणां वध इष्यते । स एव धर्मो राज्ञां तु तद्विद्वान्किं नु गर्हसे ॥१३॥
अच्छद्मना अमायया च मृगाणाम् वधः इष्यते । सः एव धर्मः राज्ञाम् तु तद्-विद्वान् किम् नु गर्हसे ॥१३॥
acchadmanā amāyayā ca mṛgāṇām vadhaḥ iṣyate . saḥ eva dharmaḥ rājñām tu tad-vidvān kim nu garhase ..13..
अगस्त्यः सत्रमासीनश्चचार मृगयामृषिः । आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने ॥१४॥
अगस्त्यः सत्रम् आसीनः चचार मृगयाम् ऋषिः । आरण्यान् सर्व-दैवत्यान् मृगान् प्रोक्ष्य महा-वने ॥१४॥
agastyaḥ satram āsīnaḥ cacāra mṛgayām ṛṣiḥ . āraṇyān sarva-daivatyān mṛgān prokṣya mahā-vane ..14..
प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे । अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता ॥१५॥
प्रमाण-दृष्ट-धर्मेण कथम् अस्मान् विगर्हसे । अगस्त्यस्य अभिचारेण युष्माकम् वै वपा हुता ॥१५॥
pramāṇa-dṛṣṭa-dharmeṇa katham asmān vigarhase . agastyasya abhicāreṇa yuṣmākam vai vapā hutā ..15..
मृग उवाच॥
न रिपून्वै समुद्दिश्य विमुञ्चन्ति पुरा शरान् । रन्ध्र एषां विशेषेण वधकालः प्रशस्यते ॥१६॥
न रिपून् वै समुद्दिश्य विमुञ्चन्ति पुरा शरान् । रन्ध्रः एषाम् विशेषेण वध-कालः प्रशस्यते ॥१६॥
na ripūn vai samuddiśya vimuñcanti purā śarān . randhraḥ eṣām viśeṣeṇa vadha-kālaḥ praśasyate ..16..
पाण्डुरुवाच॥
प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा । उपायैरिषुभिस्तीक्ष्णैः कस्मान्मृग विगर्हसे ॥१७॥
प्रमत्तम् अप्रमत्तम् वा विवृतम् घ्नन्ति च ओजसा । उपायैः इषुभिः तीक्ष्णैः कस्मात् मृग विगर्हसे ॥१७॥
pramattam apramattam vā vivṛtam ghnanti ca ojasā . upāyaiḥ iṣubhiḥ tīkṣṇaiḥ kasmāt mṛga vigarhase ..17..
मृग उवाच॥
नाहं घ्नन्तं मृगान्राजन्विगर्हे आत्मकारणात् । मैथुनं तु प्रतीक्ष्यं मे स्यात्त्वयेहानृशंसतः ॥१८॥
न अहम् घ्नन्तम् मृगान् राजन् विगर्हे आत्म-कारणात् । मैथुनम् तु प्रतीक्ष्यम् मे स्यात् त्वया इह अनृशंसतः ॥१८॥
na aham ghnantam mṛgān rājan vigarhe ātma-kāraṇāt . maithunam tu pratīkṣyam me syāt tvayā iha anṛśaṃsataḥ ..18..
सर्वभूतहिते काले सर्वभूतेप्सिते तथा । को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने ॥१९॥ ( पुरुषार्थफलं कान्तं यत्त्वया वितथं कृतम् ॥१९॥ )
सर्व-भूत-हिते काले सर्व-भूत-ईप्सिते तथा । कः हि विद्वान् मृगम् हन्यात् चरन्तम् मैथुनम् वने ॥१९॥ ( पुरुष-अर्थ-फलम् कान्तम् यत् त्वया वितथम् कृतम् ॥१९॥ )
sarva-bhūta-hite kāle sarva-bhūta-īpsite tathā . kaḥ hi vidvān mṛgam hanyāt carantam maithunam vane ..19.. ( puruṣa-artha-phalam kāntam yat tvayā vitatham kṛtam ..19.. )
पौरवाणामृषीणां च तेषामक्लिष्टकर्मणाम् । वंशे जातस्य कौरव्य नानुरूपमिदं तव ॥२०॥
पौरवाणाम् ऋषीणाम् च तेषाम् अक्लिष्ट-कर्मणाम् । वंशे जातस्य कौरव्य न अनुरूपम् इदम् तव ॥२०॥
pauravāṇām ṛṣīṇām ca teṣām akliṣṭa-karmaṇām . vaṃśe jātasya kauravya na anurūpam idam tava ..20..
नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम् । अस्वर्ग्यमयशस्यं च अधर्मिष्ठं च भारत ॥२१॥
नृशंसम् कर्म सु महत् सर्व-लोक-विगर्हितम् । अस्वर्ग्यम् अयशस्यम् च अधर्मिष्ठम् च भारत ॥२१॥
nṛśaṃsam karma su mahat sarva-loka-vigarhitam . asvargyam ayaśasyam ca adharmiṣṭham ca bhārata ..21..
स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् । नार्हस्त्वं सुरसङ्काश कर्तुमस्वर्ग्यमीदृशम् ॥२२॥
स्त्री-भोगानाम् विशेष-ज्ञः शास्त्र-धर्म-अर्थ-तत्त्व-विद् । न अर्हः त्वम् सुर-सङ्काश कर्तुम् अस्वर्ग्यम् ईदृशम् ॥२२॥
strī-bhogānām viśeṣa-jñaḥ śāstra-dharma-artha-tattva-vid . na arhaḥ tvam sura-saṅkāśa kartum asvargyam īdṛśam ..22..
त्वया नृशंसकर्तारः पापाचाराश्च मानवाः । निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः ॥२३॥
त्वया नृशंस-कर्तारः पाप-आचाराः च मानवाः । निग्राह्याः पार्थिव-श्रेष्ठ त्रिवर्ग-परिवर्जिताः ॥२३॥
tvayā nṛśaṃsa-kartāraḥ pāpa-ācārāḥ ca mānavāḥ . nigrāhyāḥ pārthiva-śreṣṭha trivarga-parivarjitāḥ ..23..
किं कृतं ते नरश्रेष्ठ निघ्नतो मामनागसम् । मुनिं मूलफलाहारं मृगवेषधरं नृप ॥२४॥ ( वसमानमरण्येषु नित्यं शमपरायणम् ॥२४॥ )
किम् कृतम् ते नर-श्रेष्ठ निघ्नतः माम् अनागसम् । मुनिम् मूल-फल-आहारम् मृग-वेष-धरम् नृप ॥२४॥ ( वसमानम् अरण्येषु नित्यम् शम-परायणम् ॥२४॥ )
kim kṛtam te nara-śreṣṭha nighnataḥ mām anāgasam . munim mūla-phala-āhāram mṛga-veṣa-dharam nṛpa ..24.. ( vasamānam araṇyeṣu nityam śama-parāyaṇam ..24.. )
त्वयाहं हिंसितो यस्मात्तस्मात्त्वामप्यसंशयम् । द्वयोर्नृशंसकर्तारमवशं काममोहितम् ॥२५॥ ( जीवितान्तकरो भाव एवमेवागमिष्यति ॥२५॥ )
त्वया अहम् हिंसितः यस्मात् तस्मात् त्वाम् अपि असंशयम् । द्वयोः नृशंस-कर्तारम् अवशम् काम-मोहितम् ॥२५॥ ( जीवितान्त-करः भावः एवम् एव आगमिष्यति ॥२५॥ )
tvayā aham hiṃsitaḥ yasmāt tasmāt tvām api asaṃśayam . dvayoḥ nṛśaṃsa-kartāram avaśam kāma-mohitam ..25.. ( jīvitānta-karaḥ bhāvaḥ evam eva āgamiṣyati ..25.. )
अहं हि किंदमो नाम तपसाप्रतिमो मुनिः । व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम् ॥२६॥
अहम् हि किंदमः नाम तपसा अप्रतिमः मुनिः । व्यपत्रपन् मनुष्याणाम् मृग्याम् मैथुनम् आचरम् ॥२६॥
aham hi kiṃdamaḥ nāma tapasā apratimaḥ muniḥ . vyapatrapan manuṣyāṇām mṛgyām maithunam ācaram ..26..
मृगो भूत्वा मृगैः सार्धं चरामि गहने वने । न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः ॥२७॥ ( मृगरूपधरं हत्वा मामेवं काममोहितम् ॥२७॥ )
मृगः भूत्वा मृगैः सार्धम् चरामि गहने वने । न तु ते ब्रह्महत्या इयम् भविष्यति अविजानतः ॥२७॥ ( मृग-रूप-धरम् हत्वा माम् एवम् काम-मोहितम् ॥२७॥ )
mṛgaḥ bhūtvā mṛgaiḥ sārdham carāmi gahane vane . na tu te brahmahatyā iyam bhaviṣyati avijānataḥ ..27.. ( mṛga-rūpa-dharam hatvā mām evam kāma-mohitam ..27.. )
अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि । प्रियया सह संवासं प्राप्य कामविमोहितः ॥२८॥ ( त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि ॥२८॥ )
अस्य तु त्वम् फलम् मूढ प्राप्स्यसि ईदृशम् एव हि । प्रियया सह संवासम् प्राप्य काम-विमोहितः ॥२८॥ ( त्वम् अपि अस्याम् अवस्थायाम् प्रेत-लोकम् गमिष्यसि ॥२८॥ )
asya tu tvam phalam mūḍha prāpsyasi īdṛśam eva hi . priyayā saha saṃvāsam prāpya kāma-vimohitaḥ ..28.. ( tvam api asyām avasthāyām preta-lokam gamiṣyasi ..28.. )
अन्तकाले च संवासं यया गन्तासि कान्तया । प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम् ॥२९॥ ( भक्त्या मतिमतां श्रेष्ठ सैव त्वामनुयास्यति ॥२९॥ )
अन्तकाले च संवासम् यया गन्तासि कान्तया । प्रेतराज-वशम् प्राप्तम् सर्व-भूत-दुरत्ययम् ॥२९॥ ( भक्त्या मतिमताम् श्रेष्ठ सा एव त्वाम् अनुयास्यति ॥२९॥ )
antakāle ca saṃvāsam yayā gantāsi kāntayā . pretarāja-vaśam prāptam sarva-bhūta-duratyayam ..29.. ( bhaktyā matimatām śreṣṭha sā eva tvām anuyāsyati ..29.. )
वर्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया । तथा सुखं त्वां सम्प्राप्तं दुःखमभ्यागमिष्यति ॥३०॥
वर्तमानः सुखे दुःखम् यथा अहम् प्रापितः त्वया । तथा सुखम् त्वाम् सम्प्राप्तम् दुःखम् अभ्यागमिष्यति ॥३०॥
vartamānaḥ sukhe duḥkham yathā aham prāpitaḥ tvayā . tathā sukham tvām samprāptam duḥkham abhyāgamiṣyati ..30..
वैशम्पायन उवाच॥
एवमुक्त्वा सुदुःखार्तो जीवितात्स व्ययुज्यत । मृगः पाण्डुश्च शोकार्तः क्षणेन समपद्यत ॥३१॥ 1.117.34
एवम् उक्त्वा सु दुःख-आर्तः जीवितात् स व्ययुज्यत । मृगः पाण्डुः च शोक-आर्तः क्षणेन समपद्यत ॥३१॥ १।११७।३४
evam uktvā su duḥkha-ārtaḥ jīvitāt sa vyayujyata . mṛgaḥ pāṇḍuḥ ca śoka-ārtaḥ kṣaṇena samapadyata ..31.. 1.117.34

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In