| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

रुरुरुवाच॥
कथं हिंसितवान्सर्पान्क्षत्रियो जनमेजयः । सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम ॥१॥
कथम् हिंसितवान् सर्पान् क्षत्रियः जनमेजयः । सर्पाः वा हिंसिताः तात किमर्थम् द्विजसत्तम ॥१॥
katham hiṃsitavān sarpān kṣatriyaḥ janamejayaḥ . sarpāḥ vā hiṃsitāḥ tāta kimartham dvijasattama ..1..
किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे । आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः ॥२॥
किमर्थम् मोक्षिताः च एव पन्नगाः तेन शंस मे । आस्तीकेन तत् आचक्ष्व श्रोतुम् इच्छामि अशेषतस् ॥२॥
kimartham mokṣitāḥ ca eva pannagāḥ tena śaṃsa me . āstīkena tat ācakṣva śrotum icchāmi aśeṣatas ..2..
ऋषिरुवाच॥
श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् । ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत ॥३॥
श्रोष्यसि त्वम् रुरो सर्वम् आस्तीक-चरितम् महत् । ब्राह्मणानाम् कथयताम् इति उक्त्वा अन्तरधीयत ॥३॥
śroṣyasi tvam ruro sarvam āstīka-caritam mahat . brāhmaṇānām kathayatām iti uktvā antaradhīyata ..3..
सूत उवाच॥
रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः । तमृषिं द्रष्टुमन्विच्छन्संश्रान्तो न्यपतद्भुवि ॥४॥
रुरुः च अपि वनम् सर्वम् पर्यधावत् समन्ततः । तम् ऋषिम् द्रष्टुम् अन्विच्छन् संश्रान्तः न्यपतत् भुवि ॥४॥
ruruḥ ca api vanam sarvam paryadhāvat samantataḥ . tam ṛṣim draṣṭum anvicchan saṃśrāntaḥ nyapatat bhuvi ..4..
लब्धसञ्ज्ञो रुरुश्चायात्तच्चाचख्यौ पितुस्तदा । पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् ॥५॥1.12.6
लब्ध-सञ्ज्ञः रुरुः च आयात् तत् च आचख्यौ पितुः तदा । पिता च अस्य तत् आख्यानम् पृष्टः सर्वम् न्यवेदयत् ॥५॥१।१२।६
labdha-sañjñaḥ ruruḥ ca āyāt tat ca ācakhyau pituḥ tadā . pitā ca asya tat ākhyānam pṛṣṭaḥ sarvam nyavedayat ..5..1.12.6

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In