| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम् । सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः ॥१॥
तम् व्यतीतम् अतिक्रम्य राजा स्वम् इव बान्धवम् । स भार्यः शोक-दुःख-आर्तः पर्यदेवयत् आतुरः ॥१॥
tam vyatītam atikramya rājā svam iva bāndhavam . sa bhāryaḥ śoka-duḥkha-ārtaḥ paryadevayat āturaḥ ..1..
पाण्डुरुवाच॥
सतामपि कुले जाताः कर्मणा बत दुर्गतिम् । प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः ॥२॥
सताम् अपि कुले जाताः कर्मणा बत दुर्गतिम् । प्राप्नुवन्ति अकृतात्मानः काम-जाल-विमोहिताः ॥२॥
satām api kule jātāḥ karmaṇā bata durgatim . prāpnuvanti akṛtātmānaḥ kāma-jāla-vimohitāḥ ..2..
शश्वद्धर्मात्मना जातो बाल एव पिता मम । जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् ॥३॥
शश्वत् धर्म-आत्मना जातः बालः एव पिता मम । जीवित-अन्तम् अनुप्राप्तः काम-आत्मा एव इति नः श्रुतम् ॥३॥
śaśvat dharma-ātmanā jātaḥ bālaḥ eva pitā mama . jīvita-antam anuprāptaḥ kāma-ātmā eva iti naḥ śrutam ..3..
तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः । कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् ॥४॥
तस्य काम-आत्मनः क्षेत्रे राज्ञः संयत-वाच् ऋषिः । कृष्णद्वैपायनः साक्षात् भगवान् माम् अजीजनत् ॥४॥
tasya kāma-ātmanaḥ kṣetre rājñaḥ saṃyata-vāc ṛṣiḥ . kṛṣṇadvaipāyanaḥ sākṣāt bhagavān mām ajījanat ..4..
तस्याद्य व्यसने बुद्धिः सञ्जातेयं ममाधमा । त्यक्तस्य देवैरनयान्मृगयायां दुरात्मनः ॥५॥
तस्य अद्य व्यसने बुद्धिः सञ्जाता इयम् मम अधमा । त्यक्तस्य देवैः अनयात् मृगयायाम् दुरात्मनः ॥५॥
tasya adya vyasane buddhiḥ sañjātā iyam mama adhamā . tyaktasya devaiḥ anayāt mṛgayāyām durātmanaḥ ..5..
मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् । सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥६॥ ( अतीव तपसात्मानं योजयिष्याम्यसंशयम् ॥६॥ )
मोक्षम् एव व्यवस्यामि बन्धो हि व्यसनम् महत् । सुवृत्तिम् अनुवर्तिष्ये ताम् अहम् पितुः अव्ययाम् ॥६॥ ( अतीव तपसा आत्मानम् योजयिष्यामि असंशयम् ॥६॥ )
mokṣam eva vyavasyāmi bandho hi vyasanam mahat . suvṛttim anuvartiṣye tām aham pituḥ avyayām ..6.. ( atīva tapasā ātmānam yojayiṣyāmi asaṃśayam ..6.. )
तस्मादेकोऽहमेकाहमेकैकस्मिन्वनस्पतौ । चरन्भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् ॥७॥
तस्मात् एकः अहम् एकाहम् एकैकस्मिन् वनस्पतौ । चरन् भैक्षम् मुनिः मुण्डः चरिष्यामि महीम् इमाम् ॥७॥
tasmāt ekaḥ aham ekāham ekaikasmin vanaspatau . caran bhaikṣam muniḥ muṇḍaḥ cariṣyāmi mahīm imām ..7..
पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः । वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥८॥
पांसुना समवच्छन्नः शून्य-आगार-प्रतिश्रयः । वृक्ष-मूल-निकेतः वा त्यक्त-सर्व-प्रिय-अप्रियः ॥८॥
pāṃsunā samavacchannaḥ śūnya-āgāra-pratiśrayaḥ . vṛkṣa-mūla-niketaḥ vā tyakta-sarva-priya-apriyaḥ ..8..
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः । निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः ॥९॥
न शोचन् न प्रहृष्यन् च तुल्य-निन्दा-आत्म-संस्तुतिः । निराशीः निर्नमस्कारः निर्द्वन्द्वः निष्परिग्रहः ॥९॥
na śocan na prahṛṣyan ca tulya-nindā-ātma-saṃstutiḥ . nirāśīḥ nirnamaskāraḥ nirdvandvaḥ niṣparigrahaḥ ..9..
न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीं क्वचित् । प्रसन्नवदनो नित्यं सर्वभूतहिते रतः ॥१०॥
न च अपि अवहसन् कञ्चिद् न कुर्वन् भ्रुकुटीम् क्वचिद् । प्रसन्न-वदनः नित्यम् सर्व-भूत-हिते रतः ॥१०॥
na ca api avahasan kañcid na kurvan bhrukuṭīm kvacid . prasanna-vadanaḥ nityam sarva-bhūta-hite rataḥ ..10..
जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् । स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति ॥११॥
जङ्गम-अजङ्गमम् सर्वम् अ विहिंसन् चतुर्विधम् । स्वासु प्रजासु इव सदा समः प्राणभृताम् प्रति ॥११॥
jaṅgama-ajaṅgamam sarvam a vihiṃsan caturvidham . svāsu prajāsu iva sadā samaḥ prāṇabhṛtām prati ..11..
एककालं चरन्भैक्षं कुलानि द्वे च पञ्च च । असम्भवे वा भैक्षस्य चरन्ननशनान्यपि ॥१२॥
एक-कालम् चरन् भैक्षम् कुलानि द्वे च पञ्च च । असम्भवे वा भैक्षस्य चरन् अनशनानि अपि ॥१२॥
eka-kālam caran bhaikṣam kulāni dve ca pañca ca . asambhave vā bhaikṣasya caran anaśanāni api ..12..
अल्पमल्पं यथाभोज्यं पूर्वलाभेन जातु चित् । नित्यं नातिचरँल्लाभे अलाभे सप्त पूरयन् ॥१३॥
अल्पम् अल्पम् यथा भोज्यम् पूर्व-लाभेन जातु चित् । नित्यम् न अतिचरन् लाभे अलाभे सप्त पूरयन् ॥१३॥
alpam alpam yathā bhojyam pūrva-lābhena jātu cit . nityam na aticaran lābhe alābhe sapta pūrayan ..13..
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः । नाकल्याणं न कल्याणं प्रध्यायन्नुभयोस्तयोः ॥१४॥
वा अस्य एकम् तक्षतः बाहुम् चन्दनेन एकम् उक्षतः । न अकल्याणम् न कल्याणम् प्रध्यायन् उभयोः तयोः ॥१४॥
vā asya ekam takṣataḥ bāhum candanena ekam ukṣataḥ . na akalyāṇam na kalyāṇam pradhyāyan ubhayoḥ tayoḥ ..14..
न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन् । मरणं जीवितं चैव नाभिनन्दन्न च द्विषन् ॥१५॥
न जिजीविषु-वत् किञ्चिद् न मुमूर्षु-वत् आचरन् । मरणम् जीवितम् च एव न अभिनन्दन् न च द्विषन् ॥१५॥
na jijīviṣu-vat kiñcid na mumūrṣu-vat ācaran . maraṇam jīvitam ca eva na abhinandan na ca dviṣan ..15..
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः । ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः ॥१६॥
याः काश्चिद् जीवता शक्याः कर्तुम् अभ्युदय-क्रियाः । ताः सर्वाः समतिक्रम्य निमेष-आदिषु अवस्थितः ॥१६॥
yāḥ kāścid jīvatā śakyāḥ kartum abhyudaya-kriyāḥ . tāḥ sarvāḥ samatikramya nimeṣa-ādiṣu avasthitaḥ ..16..
तासु सर्वास्ववस्थासु त्यक्तसर्वेन्द्रियक्रियः । सम्परित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः ॥१७॥
तासु सर्वासु अवस्थासु त्यक्त-सर्व-इन्द्रिय-क्रियः । सम्परित्यक्त-धर्म-आत्मा सु निर्णिक्त-आत्म-कल्मषः ॥१७॥
tāsu sarvāsu avasthāsu tyakta-sarva-indriya-kriyaḥ . samparityakta-dharma-ātmā su nirṇikta-ātma-kalmaṣaḥ ..17..
निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः । न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥१८॥
निर्मुक्तः सर्व-पापेभ्यः व्यतीतः सर्व-वागुराः । न वशे कस्यचिद् तिष्ठन् सधर्मा मातरिश्वनः ॥१८॥
nirmuktaḥ sarva-pāpebhyaḥ vyatītaḥ sarva-vāgurāḥ . na vaśe kasyacid tiṣṭhan sadharmā mātariśvanaḥ ..18..
एतया सततं वृत्त्या चरन्नेवम्प्रकारया । देहं सन्धारयिष्यामि निर्भयं मार्गमास्थितः ॥१९॥
एतया सततम् वृत्त्या चरन् एवम्प्रकारया । देहम् सन्धारयिष्यामि निर्भयम् मार्गम् आस्थितः ॥१९॥
etayā satatam vṛttyā caran evamprakārayā . deham sandhārayiṣyāmi nirbhayam mārgam āsthitaḥ ..19..
नाहं श्वाचरिते मार्गे अवीर्यकृपणोचिते । स्वधर्मात्सततापेते रमेयं वीर्यवर्जितः ॥२०॥
न अहम् श्व-आचरिते मार्गे अ वीर्य-कृपण-उचिते । स्वधर्मात् सतत-अपेते रमेयम् वीर्य-वर्जितः ॥२०॥
na aham śva-ācarite mārge a vīrya-kṛpaṇa-ucite . svadharmāt satata-apete rameyam vīrya-varjitaḥ ..20..
सत्कृतोऽसक्तृतो वापि योऽन्यां कृपणचक्षुषा । उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि ॥२१॥
सत्कृतः अ सक्तृतः वा अपि यः अन्याम् कृपण-चक्षुषा । उपैति वृत्तिम् काम-आत्मा स शुनाम् वर्तते पथि ॥२१॥
satkṛtaḥ a saktṛtaḥ vā api yaḥ anyām kṛpaṇa-cakṣuṣā . upaiti vṛttim kāma-ātmā sa śunām vartate pathi ..21..
वैशम्पायन उवाच॥
एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः । अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत ॥२२॥
एवम् उक्त्वा सु दुःख-आर्तः निःश्वास-परमः नृपः । अवेक्षमाणः कुन्तीम् च माद्रीम् च समभाषत ॥२२॥
evam uktvā su duḥkha-ārtaḥ niḥśvāsa-paramaḥ nṛpaḥ . avekṣamāṇaḥ kuntīm ca mādrīm ca samabhāṣata ..22..
कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः । आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः ॥२३॥
कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः । आर्या सत्यवती भीष्मः ते च राज-पुरोहिताः ॥२३॥
kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ . āryā satyavatī bhīṣmaḥ te ca rāja-purohitāḥ ..23..
ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः । पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः ॥२४॥ ( प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् ॥२४॥ )
ब्राह्मणाः च महात्मानः सोम-पाः संशित-व्रताः । पौर-वृद्धाः च ये तत्र निवसन्ति अस्मद्-आश्रयाः ॥२४॥ ( प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितः वनम् ॥२४॥ )
brāhmaṇāḥ ca mahātmānaḥ soma-pāḥ saṃśita-vratāḥ . paura-vṛddhāḥ ca ye tatra nivasanti asmad-āśrayāḥ ..24.. ( prasādya sarve vaktavyāḥ pāṇḍuḥ pravrajitaḥ vanam ..24.. )
निशम्य वचनं भर्तुर्वनवासे धृतात्मनः । तत्समं वचनं कुन्ती माद्री च समभाषताम् ॥२५॥
निशम्य वचनम् भर्तुः वन-वासे धृत-आत्मनः । तद्-समम् वचनम् कुन्ती माद्री च समभाषताम् ॥२५॥
niśamya vacanam bhartuḥ vana-vāse dhṛta-ātmanaḥ . tad-samam vacanam kuntī mādrī ca samabhāṣatām ..25..
अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ । आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत् ॥२६॥ ( त्वमेव भविता सार्थः स्वर्गस्यापि न संशयः ॥२६॥ )
अन्ये अपि हि आश्रमाः सन्ति ये शक्याः भरत-ऋषभ । आवाभ्याम् धर्म-पत्नीभ्याम् सह तप्त्वा तपः महत् ॥२६॥ ( त्वम् एव भविता सार्थः स्वर्गस्य अपि न संशयः ॥२६॥ )
anye api hi āśramāḥ santi ye śakyāḥ bharata-ṛṣabha . āvābhyām dharma-patnībhyām saha taptvā tapaḥ mahat ..26.. ( tvam eva bhavitā sārthaḥ svargasya api na saṃśayaḥ ..26.. )
प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे । त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः ॥२७॥
प्रणिधाय इन्द्रिय-ग्रामम् भर्तृ-लोक-परायणे । त्यक्त-काम-सुखे हि आवाम् तप्स्यावः विपुलम् तपः ॥२७॥
praṇidhāya indriya-grāmam bhartṛ-loka-parāyaṇe . tyakta-kāma-sukhe hi āvām tapsyāvaḥ vipulam tapaḥ ..27..
यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते । अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः ॥२८॥
यदि आवाम् महा-प्राज्ञ त्यक्ष्यसि त्वम् विशाम् पते । अद्य एव आवाम् प्रहास्यावः जीतिवम् न अत्र संशयः ॥२८॥
yadi āvām mahā-prājña tyakṣyasi tvam viśām pate . adya eva āvām prahāsyāvaḥ jītivam na atra saṃśayaḥ ..28..
पाण्डुरुवाच॥
यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् । स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥२९॥
यदि व्यवसितम् हि एतत् युवयोः धर्म-संहितम् । स्व-वृत्तिम् अनुवर्तिष्ये ताम् अहम् पितुः अव्ययाम् ॥२९॥
yadi vyavasitam hi etat yuvayoḥ dharma-saṃhitam . sva-vṛttim anuvartiṣye tām aham pituḥ avyayām ..29..
त्यक्तग्राम्यसुखाचारस्तप्यमानो महत्तपः । वल्कली फलमूलाशी चरिष्यामि महावने ॥३०॥
त्यक्त-ग्राम्य-सुख-आचारः तप्यमानः महत् तपः । वल्कली फल-मूल-आशी चरिष्यामि महा-वने ॥३०॥
tyakta-grāmya-sukha-ācāraḥ tapyamānaḥ mahat tapaḥ . valkalī phala-mūla-āśī cariṣyāmi mahā-vane ..30..
अग्निं जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् । कृशः परिमिताहारश्चीरचर्मजटाधरः ॥३१॥
अग्निम् जुह्वन् उभौ कालौ उभौ कालौ उपस्पृशन् । कृशः परिमित-आहारः चीर-चर्म-जटा-धरः ॥३१॥
agnim juhvan ubhau kālau ubhau kālau upaspṛśan . kṛśaḥ parimita-āhāraḥ cīra-carma-jaṭā-dharaḥ ..31..
शीतवातातपसहः क्षुत्पिपासाश्रमान्वितः । तपसा दुश्चरेणेदं शरीरमुपशोषयन् ॥३२॥
शीत-वात-आतप-सहः क्षुध्-पिपासा-श्रम-अन्वितः । तपसा दुश्चरेण इदम् शरीरम् उपशोषयन् ॥३२॥
śīta-vāta-ātapa-sahaḥ kṣudh-pipāsā-śrama-anvitaḥ . tapasā duścareṇa idam śarīram upaśoṣayan ..32..
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् । पितृन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥३३॥
एकान्त-शीली विमृशन् पक्व-अपक्वेन वर्तयन् । पितृन् देवान् च वन्येन वाग्भिः अद्भिः च तर्पयन् ॥३३॥
ekānta-śīlī vimṛśan pakva-apakvena vartayan . pitṛn devān ca vanyena vāgbhiḥ adbhiḥ ca tarpayan ..33..
वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम् । नाप्रियाण्याचरञ्जातु किं पुनर्ग्रामवासिनाम् ॥३४॥
वानप्रस्थ-जनस्य अपि दर्शनम् कुल-वासिनाम् । न अप्रियाणि आचरन् जातु किम् पुनर् ग्राम-वासिनाम् ॥३४॥
vānaprastha-janasya api darśanam kula-vāsinām . na apriyāṇi ācaran jātu kim punar grāma-vāsinām ..34..
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् । काङ्क्षमाणोऽहमासिष्ये देहस्यास्य समापनात् ॥३५॥
एवम् आरण्य-शास्त्राणाम् उग्रम् उग्रतरम् विधिम् । काङ्क्षमाणः अहम् आसिष्ये देहस्य अस्य समापनात् ॥३५॥
evam āraṇya-śāstrāṇām ugram ugrataram vidhim . kāṅkṣamāṇaḥ aham āsiṣye dehasya asya samāpanāt ..35..
वैशम्पायन उवाच॥
इत्येवमुक्त्वा भार्ये ते राजा कौरववंशजः । ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च ॥३६॥ ( वासांसि च महार्हाणि स्त्रीणामाभरणानि च ॥३६॥ )
इति एवम् उक्त्वा भार्ये ते राजा कौरव-वंश-जः । ततस् चूडामणिम् निष्कम् अङ्गदे कुण्डलानि च ॥३६॥ ( वासांसि च महार्हाणि स्त्रीणाम् आभरणानि च ॥३६॥ )
iti evam uktvā bhārye te rājā kaurava-vaṃśa-jaḥ . tatas cūḍāmaṇim niṣkam aṅgade kuṇḍalāni ca ..36.. ( vāsāṃsi ca mahārhāṇi strīṇām ābharaṇāni ca ..36.. )
प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत । गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम् ॥३७॥
प्रदाय सर्वम् विप्रेभ्यः पाण्डुः पुनर् अभाषत । गत्वा नागपुरम् वाच्यम् पाण्डुः प्रव्रजितः वनम् ॥३७॥
pradāya sarvam viprebhyaḥ pāṇḍuḥ punar abhāṣata . gatvā nāgapuram vācyam pāṇḍuḥ pravrajitaḥ vanam ..37..
अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् । प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुपुङ्गवः ॥३८॥
अर्थम् कामम् सुखम् च एव रतिम् च परम-आत्मिकाम् । प्रतस्थे सर्वम् उत्सृज्य स भार्यः कुरु-पुङ्गवः ॥३८॥
artham kāmam sukham ca eva ratim ca parama-ātmikām . pratasthe sarvam utsṛjya sa bhāryaḥ kuru-puṅgavaḥ ..38..
ततस्तस्यानुयात्राणि ते चैव परिचारकाः । श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः ॥३९॥ ( भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ॥३९॥ )
ततस् तस्य अनुयात्राणि ते च एव परिचारकाः । श्रुत्वा भरत-सिंहस्य विविधाः करुणाः गिरः ॥३९॥ ( भीमम् आर्त-स्वरम् कृत्वा हाहा इति परिचुक्रुशुः ॥३९॥ )
tatas tasya anuyātrāṇi te ca eva paricārakāḥ . śrutvā bharata-siṃhasya vividhāḥ karuṇāḥ giraḥ ..39.. ( bhīmam ārta-svaram kṛtvā hāhā iti paricukruśuḥ ..39.. )
उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम् । ययुर्नागपुरं तूर्णं सर्वमादाय तद्वचः ॥४०॥
उष्णम् अश्रु विमुञ्चन्तः तम् विहाय महीपतिम् । ययुः नागपुरम् तूर्णम् सर्वम् आदाय तत् वचः ॥४०॥
uṣṇam aśru vimuñcantaḥ tam vihāya mahīpatim . yayuḥ nāgapuram tūrṇam sarvam ādāya tat vacaḥ ..40..
श्रुत्वा च तेभ्यस्तत्सर्वं यथावृत्तं महावने । धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत ॥४१॥
श्रुत्वा च तेभ्यः तत् सर्वम् यथावृत्तम् महा-वने । धृतराष्ट्रः नर-श्रेष्ठः पाण्डुम् एव अन्वशोचत ॥४१॥
śrutvā ca tebhyaḥ tat sarvam yathāvṛttam mahā-vane . dhṛtarāṣṭraḥ nara-śreṣṭhaḥ pāṇḍum eva anvaśocata ..41..
राजपुत्रस्तु कौरव्यः पाण्डुर्मूलफलाशनः । जगाम सह भार्याभ्यां ततो नागसभं गिरिम् ॥४२॥
राज-पुत्रः तु कौरव्यः पाण्डुः मूल-फल-अशनः । जगाम सह भार्याभ्याम् ततस् नागसभम् गिरिम् ॥४२॥
rāja-putraḥ tu kauravyaḥ pāṇḍuḥ mūla-phala-aśanaḥ . jagāma saha bhāryābhyām tatas nāgasabham girim ..42..
स चैत्ररथमासाद्य वारिषेणमतीत्य च । हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् ॥४३॥
स चैत्ररथम् आसाद्य वारिषेणम् अतीत्य च । हिमवन्तम् अतिक्रम्य प्रययौ गन्धमादनम् ॥४३॥
sa caitraratham āsādya vāriṣeṇam atītya ca . himavantam atikramya prayayau gandhamādanam ..43..
रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः । उवास स तदा राजा समेषु विषमेषु च ॥४४॥
रक्ष्यमाणः महा-भूतैः सिद्धैः च परम-ऋषिभिः । उवास स तदा राजा समेषु विषमेषु च ॥४४॥
rakṣyamāṇaḥ mahā-bhūtaiḥ siddhaiḥ ca parama-ṛṣibhiḥ . uvāsa sa tadā rājā sameṣu viṣameṣu ca ..44..
इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च । शतशृङ्गे महाराज तापसः समपद्यत ॥४५॥ 1.118.50
इन्द्रद्युम्न-सरः प्राप्य हंसकूटम् अतीत्य च । शतशृङ्गे महा-राज तापसः समपद्यत ॥४५॥ १।११८।५०
indradyumna-saraḥ prāpya haṃsakūṭam atītya ca . śataśṛṅge mahā-rāja tāpasaḥ samapadyata ..45.. 1.118.50

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In