| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् । सिद्धचारणसङ्घानां बभूव प्रियदर्शनः ॥१॥
तत्र अपि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् । सिद्ध-चारण-सङ्घानाम् बभूव प्रिय-दर्शनः ॥१॥
tatra api tapasi śreṣṭhe vartamānaḥ sa vīryavān . siddha-cāraṇa-saṅghānām babhūva priya-darśanaḥ ..1..
शुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः । स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत ॥२॥
शुश्रूषुः अन् अहंवादी संयत-आत्मा जित-इन्द्रियः । स्वर्गम् गन्तुम् पराक्रान्तः स्वेन वीर्येण भारत ॥२॥
śuśrūṣuḥ an ahaṃvādī saṃyata-ātmā jita-indriyaḥ . svargam gantum parākrāntaḥ svena vīryeṇa bhārata ..2..
केषाञ्चिदभवद्भ्राता केषाञ्चिदभवत्सखा । ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् ॥३॥
केषाञ्चिद् अभवत् भ्राता केषाञ्चिद् अभवत् सखा । ऋषयः तु अपरे च एनम् पुत्र-वत् पर्यपालयन् ॥३॥
keṣāñcid abhavat bhrātā keṣāñcid abhavat sakhā . ṛṣayaḥ tu apare ca enam putra-vat paryapālayan ..3..
स तु कालेन महता प्राप्य निष्कल्मषं तपः । ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ ॥४॥
स तु कालेन महता प्राप्य निष्कल्मषम् तपः । ब्रह्मर्षि-सदृशः पाण्डुः बभूव भरत-ऋषभ ॥४॥
sa tu kālena mahatā prāpya niṣkalmaṣam tapaḥ . brahmarṣi-sadṛśaḥ pāṇḍuḥ babhūva bharata-ṛṣabha ..4..
स्वर्गपारं तितीर्षन्स शतशृङ्गादुदङ्मुखः । प्रतस्थे सह पत्नीभ्यामब्रुवंस्तत्र तापसाः ॥५॥ ( उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः ॥५॥1.119.9 )
स्वर्ग-पारम् तितीर्षन् स शतशृङ्गात् उदक्-मुखः । प्रतस्थे सह पत्नीभ्याम् अब्रुवन् तत्र तापसाः ॥५॥ ( उपरि उपरि गच्छन्तः शैलराजम् उदक्-मुखाः ॥५॥१।११९।९ )
svarga-pāram titīrṣan sa śataśṛṅgāt udak-mukhaḥ . pratasthe saha patnībhyām abruvan tatra tāpasāḥ ..5.. ( upari upari gacchantaḥ śailarājam udak-mukhāḥ ..5..1.119.9 )
दृष्टवन्तो गिरेरस्य दुर्गान्देशान्बहून्वयम् । आक्रीडभूतान्देवानां गन्धर्वाप्सरसां तथा ॥६॥
दृष्टवन्तः गिरेः अस्य दुर्गान् देशान् बहून् वयम् । आक्रीड-भूतान् देवानाम् गन्धर्व-अप्सरसाम् तथा ॥६॥
dṛṣṭavantaḥ gireḥ asya durgān deśān bahūn vayam . ākrīḍa-bhūtān devānām gandharva-apsarasām tathā ..6..
उद्यानानि कुबेरस्य समानि विषमाणि च । महानदीनितम्बांश्च दुर्गांश्च गिरिगह्वरान् ॥७॥
उद्यानानि कुबेरस्य समानि विषमाणि च । महा-नदी-नितम्बान् च दुर्गान् च गिरि-गह्वरान् ॥७॥
udyānāni kuberasya samāni viṣamāṇi ca . mahā-nadī-nitambān ca durgān ca giri-gahvarān ..7..
सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः । सन्ति केचिन्महावर्षा दुर्गाः केचिद्दुरासदाः ॥८॥
सन्ति नित्य-हिमाः देशाः निर्वृक्ष-मृग-पक्षिणः । सन्ति केचिद् महा-वर्षाः दुर्गाः केचिद् दुरासदाः ॥८॥
santi nitya-himāḥ deśāḥ nirvṛkṣa-mṛga-pakṣiṇaḥ . santi kecid mahā-varṣāḥ durgāḥ kecid durāsadāḥ ..8..
अतिक्रामेन्न पक्षी यान्कुत एवेतरे मृगाः । वायुरेकोऽतिगाद्यत्र सिद्धाश्च परमर्षयः ॥९॥
अतिक्रामेत् न पक्षी यान् कुतस् एव इतरे मृगाः । वायुः एकः अतिगात् यत्र सिद्धाः च परम-ऋषयः ॥९॥
atikrāmet na pakṣī yān kutas eva itare mṛgāḥ . vāyuḥ ekaḥ atigāt yatra siddhāḥ ca parama-ṛṣayaḥ ..9..
गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे । न सीदेतामदुःखार्हे मा गमो भरतर्षभ ॥१०॥
गच्छन्त्यौ शैलराजे अस्मिन् राज-पुत्र्यौ कथम् तु इमे । न सीदेताम् अदुःख-अर्हे मा गमः भरत-ऋषभ ॥१०॥
gacchantyau śailarāje asmin rāja-putryau katham tu ime . na sīdetām aduḥkha-arhe mā gamaḥ bharata-ṛṣabha ..10..
पाण्डुरुवाच॥
अप्रजस्य महाभागा न द्वारं परिचक्षते । स्वर्गे तेनाभितप्तोऽहमप्रजस्तद्ब्रवीमि वः ॥११॥
अप्रजस्य महाभागाः न द्वारम् परिचक्षते । स्वर्गे तेन अभितप्तः अहम् अप्रजः तत् ब्रवीमि वः ॥११॥
aprajasya mahābhāgāḥ na dvāram paricakṣate . svarge tena abhitaptaḥ aham aprajaḥ tat bravīmi vaḥ ..11..
ऋणैश्चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि । पितृदेवर्षिमनुजदेयैः शतसहस्रशः ॥१२॥
ऋणैः चतुर्भिः संयुक्ताः जायन्ते मनुजाः भुवि । पितृ-देव-ऋषि-मनुज-देयैः शत-सहस्रशस् ॥१२॥
ṛṇaiḥ caturbhiḥ saṃyuktāḥ jāyante manujāḥ bhuvi . pitṛ-deva-ṛṣi-manuja-deyaiḥ śata-sahasraśas ..12..
एतानि तु यथाकालं यो न बुध्यति मानवः । न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम् ॥१३॥1.119.18
एतानि तु यथाकालम् यः न बुध्यति मानवः । न तस्य लोकाः सन्ति इति धर्म-विद्भिः प्रतिष्ठितम् ॥१३॥१।११९।१८
etāni tu yathākālam yaḥ na budhyati mānavaḥ . na tasya lokāḥ santi iti dharma-vidbhiḥ pratiṣṭhitam ..13..1.119.18
यज्ञैश्च देवान्प्रीणाति स्वाध्यायतपसा मुनीन् । पुत्रैः श्राद्धैः पितृंश्चापि आनृशंस्येन मानवान् ॥१४॥
यज्ञैः च देवान् प्रीणाति स्वाध्याय-तपसा मुनीन् । पुत्रैः श्राद्धैः पितृन् च अपि आनृशंस्येन मानवान् ॥१४॥
yajñaiḥ ca devān prīṇāti svādhyāya-tapasā munīn . putraiḥ śrāddhaiḥ pitṛn ca api ānṛśaṃsyena mānavān ..14..
ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः । पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः ॥१५॥
ऋषि-देव-मनुष्याणाम् परिमुक्तः अस्मि धर्मतः । पित्र्यात् ऋणात् अनिर्मुक्तः तेन तप्ये तपोधनाः ॥१५॥
ṛṣi-deva-manuṣyāṇām parimuktaḥ asmi dharmataḥ . pitryāt ṛṇāt anirmuktaḥ tena tapye tapodhanāḥ ..15..
देहनाशे ध्रुवो नाशः पितृणामेष निश्चयः । इह तस्मात्प्रजाहेतोः प्रजायन्ते नरोत्तमाः ॥१६॥
देह-नाशे ध्रुवः नाशः पितृणाम् एष निश्चयः । इह तस्मात् प्रजा-हेतोः प्रजायन्ते नर-उत्तमाः ॥१६॥
deha-nāśe dhruvaḥ nāśaḥ pitṛṇām eṣa niścayaḥ . iha tasmāt prajā-hetoḥ prajāyante nara-uttamāḥ ..16..
यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना । तथैवास्मिन्मम क्षेत्रे कथं वै सम्भवेत्प्रजा ॥१७॥
यथा एव अहम् पितुः क्षेत्रे सृष्टः तेन महात्मना । तथा एव अस्मिन् मम क्षेत्रे कथम् वै सम्भवेत् प्रजा ॥१७॥
yathā eva aham pituḥ kṣetre sṛṣṭaḥ tena mahātmanā . tathā eva asmin mama kṣetre katham vai sambhavet prajā ..17..
तापसा ऊचुः॥
अस्ति वै तव धर्मात्मन्विद्म देवोपमं शुभम् । अपत्यमनघं राजन्वयं दिव्येन चक्षुषा ॥१८॥
अस्ति वै तव धर्म-आत्मन् विद्म देव-उपमम् शुभम् । अपत्यम् अनघम् राजन् वयम् दिव्येन चक्षुषा ॥१८॥
asti vai tava dharma-ātman vidma deva-upamam śubham . apatyam anagham rājan vayam divyena cakṣuṣā ..18..
दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय । अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः ॥१९॥
दैव-दिष्टम् नर-व्याघ्र कर्मणा इह उपपादय । अक्लिष्टम् फलम् अव्यग्रः विन्दते बुद्धिमान् नरः ॥१९॥
daiva-diṣṭam nara-vyāghra karmaṇā iha upapādaya . akliṣṭam phalam avyagraḥ vindate buddhimān naraḥ ..19..
तस्मिन्दृष्टे फले तात प्रयत्नं कर्तुमर्हसि । अपत्यं गुणसम्पन्नं लब्ध्वा प्रीतिमवाप्स्यसि ॥२०॥
तस्मिन् दृष्टे फले तात प्रयत्नम् कर्तुम् अर्हसि । अपत्यम् गुण-सम्पन्नम् लब्ध्वा प्रीतिम् अवाप्स्यसि ॥२०॥
tasmin dṛṣṭe phale tāta prayatnam kartum arhasi . apatyam guṇa-sampannam labdhvā prītim avāpsyasi ..20..
वैशम्पायन उवाच॥
तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्तापरोऽभवत् । आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् ॥२१॥1.119.26
तत् श्रुत्वा तापस-वचः पाण्डुः चिन्ता-परः अभवत् । आत्मनः मृग-शापेन जानन् उपहताम् क्रियाम् ॥२१॥१।११९।२६
tat śrutvā tāpasa-vacaḥ pāṇḍuḥ cintā-paraḥ abhavat . ātmanaḥ mṛga-śāpena jānan upahatām kriyām ..21..1.119.26
सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् । अपत्योत्पादने योगमापदि प्रसमर्थयन् ॥२२॥
सः अब्रवीत् विजने कुन्तीम् धर्म-पत्नीम् यशस्विनीम् । अपत्य-उत्पादने योगम् आपदि प्रसमर्थयन् ॥२२॥
saḥ abravīt vijane kuntīm dharma-patnīm yaśasvinīm . apatya-utpādane yogam āpadi prasamarthayan ..22..
अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता । इति कुन्ति विदुर्धीराः शाश्वतं धर्ममादितः ॥२३॥
अपत्यम् नाम लोकेषु प्रतिष्ठा धर्म-संहिता । इति कुन्ति विदुः धीराः शाश्वतम् धर्मम् आदितस् ॥२३॥
apatyam nāma lokeṣu pratiṣṭhā dharma-saṃhitā . iti kunti viduḥ dhīrāḥ śāśvatam dharmam āditas ..23..
इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः । सर्वमेवानपत्यस्य न पावनमिहोच्यते ॥२४॥
इष्टम् दत्तम् तपः तप्तम् नियमः च सु अनुष्ठितः । सर्वम् एव अनपत्यस्य न पावनम् इह उच्यते ॥२४॥
iṣṭam dattam tapaḥ taptam niyamaḥ ca su anuṣṭhitaḥ . sarvam eva anapatyasya na pāvanam iha ucyate ..24..
सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते । अनपत्यः शुभाँल्लोकान्नावाप्स्यामीति चिन्तयन् ॥२५॥
सः अहम् एवम् विदित्वा एतत् प्रपश्यामि शुचि-स्मिते । अनपत्यः शुभान् लोकान् न अवाप्स्यामि इति चिन्तयन् ॥२५॥
saḥ aham evam viditvā etat prapaśyāmi śuci-smite . anapatyaḥ śubhān lokān na avāpsyāmi iti cintayan ..25..
मृगाभिशापान्नष्टं मे प्रजनं ह्यकृतात्मनः । नृशंसकारिणो भीरु यथैवोपहतं तथा ॥२६॥
मृग-अभिशापात् नष्टम् मे प्रजनम् हि अकृतात्मनः । नृशंस-कारिणः भीरु यथा एव उपहतम् तथा ॥२६॥
mṛga-abhiśāpāt naṣṭam me prajanam hi akṛtātmanaḥ . nṛśaṃsa-kāriṇaḥ bhīru yathā eva upahatam tathā ..26..
इमे वै बन्धुदायादाः षट्पुत्रा धर्मदर्शने । षडेवाबन्धुदायादाः पुत्रास्ताञ्शृणु मे पृथे ॥२७॥
इमे वै बन्धु-दायादाः षट् पुत्राः धर्म-दर्शने । षट् एव अबन्धु-दायादाः पुत्राः तान् शृणु मे पृथे ॥२७॥
ime vai bandhu-dāyādāḥ ṣaṭ putrāḥ dharma-darśane . ṣaṭ eva abandhu-dāyādāḥ putrāḥ tān śṛṇu me pṛthe ..27..
स्वयञ्जातः प्रणीतश्च परिक्रीतश्च यः सुतः । पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते ॥२८॥1.119.33
स्वयञ्जातः प्रणीतः च परिक्रीतः च यः सुतः । पौनर्भवः च कानीनः स्वैरिण्याम् यः च जायते ॥२८॥१।११९।३३
svayañjātaḥ praṇītaḥ ca parikrītaḥ ca yaḥ sutaḥ . paunarbhavaḥ ca kānīnaḥ svairiṇyām yaḥ ca jāyate ..28..1.119.33
दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः । सहोढो जातरेताश्च हीनयोनिधृतश्च यः ॥२९॥
दत्तः क्रीतः कृत्रिमः च उपगच्छेत् स्वयम् च यः । सहोढः जात-रेताः च हीन-योनि-धृतः च यः ॥२९॥
dattaḥ krītaḥ kṛtrimaḥ ca upagacchet svayam ca yaḥ . sahoḍhaḥ jāta-retāḥ ca hīna-yoni-dhṛtaḥ ca yaḥ ..29..
पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम् । उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि ॥३०॥
पूर्व-पूर्वतम-अभावे मत्वा लिप्सेत वै सुतम् । उत्तमात् अवराः पुंसः काङ्क्षन्ते पुत्रम् आपदि ॥३०॥
pūrva-pūrvatama-abhāve matvā lipseta vai sutam . uttamāt avarāḥ puṃsaḥ kāṅkṣante putram āpadi ..30..
अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः । आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत् ॥३१॥
अपत्यम् धर्म-फल-दम् श्रेष्ठम् विन्दन्ति साधवः । आत्म-शुक्रात् अपि पृथे मनुः स्वायम्भुवः अब्रवीत् ॥३१॥
apatyam dharma-phala-dam śreṣṭham vindanti sādhavaḥ . ātma-śukrāt api pṛthe manuḥ svāyambhuvaḥ abravīt ..31..
तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् । सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि ॥३२॥
तस्मात् प्रहेष्यामि अद्य त्वाम् हीनः प्रजननात् स्वयम् । सदृशात् श्रेयसः वा त्वम् विद्धि अपत्यम् यशस्विनि ॥३२॥
tasmāt praheṣyāmi adya tvām hīnaḥ prajananāt svayam . sadṛśāt śreyasaḥ vā tvam viddhi apatyam yaśasvini ..32..
शृणु कुन्ति कथां चेमां शारदण्डायनीं प्रति । या वीरपत्नी गुरुभिर्नियुक्तापत्यजन्मनि ॥३३॥
शृणु कुन्ति कथाम् च इमाम् शारदण्डायनीम् प्रति । या वीर-पत्नी गुरुभिः नियुक्ता अपत्य-जन्मनि ॥३३॥
śṛṇu kunti kathām ca imām śāradaṇḍāyanīm prati . yā vīra-patnī gurubhiḥ niyuktā apatya-janmani ..33..
पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे । वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् ॥३४॥
पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे । वरयित्वा द्विजम् सिद्धम् हुत्वा पुंसवने अनलम् ॥३४॥
puṣpeṇa prayatā snātā niśi kunti catuṣpathe . varayitvā dvijam siddham hutvā puṃsavane analam ..34..
कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत् । तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान् ॥३५॥
कर्मणि अवसिते तस्मिन् सा तेन एव सह अवसत् । तत्र त्रीन् जनयामास दुर्जय-आदीन् महा-रथान् ॥३५॥
karmaṇi avasite tasmin sā tena eva saha avasat . tatra trīn janayāmāsa durjaya-ādīn mahā-rathān ..35..
तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात् । मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति ॥३६॥
तथा त्वम् अपि कल्याणि ब्राह्मणात् तपसा अधिकात् । मद्-नियोगात् यत क्षिप्रम् अपत्य-उत्पादनम् प्रति ॥३६॥
tathā tvam api kalyāṇi brāhmaṇāt tapasā adhikāt . mad-niyogāt yata kṣipram apatya-utpādanam prati ..36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In