| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
एवमुक्ता महाराज कुन्ती पाण्डुमभाषत । कुरूणामृषभं वीरं तदा भूमिपतिं पतिम् ॥१॥
एवम् उक्ता महा-राज कुन्ती पाण्डुम् अभाषत । कुरूणाम् ऋषभम् वीरम् तदा भूमिपतिम् पतिम् ॥१॥
evam uktā mahā-rāja kuntī pāṇḍum abhāṣata . kurūṇām ṛṣabham vīram tadā bhūmipatim patim ..1..
न मामर्हसि धर्मज्ञ वक्तुमेवं कथञ्चन । धर्मपत्नीमभिरतां त्वयि राजीवलोचन ॥२॥
न माम् अर्हसि धर्म-ज्ञ वक्तुम् एवम् कथञ्चन । धर्मपत्नीम् अभिरताम् त्वयि राजीव-लोचन ॥२॥
na mām arhasi dharma-jña vaktum evam kathañcana . dharmapatnīm abhiratām tvayi rājīva-locana ..2..
त्वमेव तु महाबाहो मय्यपत्यानि भारत । वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि ॥३॥
त्वम् एव तु महा-बाहो मयि अपत्यानि भारत । वीर वीर्य-उपपन्नानि धर्मतः जनयिष्यसि ॥३॥
tvam eva tu mahā-bāho mayi apatyāni bhārata . vīra vīrya-upapannāni dharmataḥ janayiṣyasi ..3..
स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया । अपत्याय च मां गच्छ त्वमेव कुरुनन्दन ॥४॥
स्वर्गम् मनुज-शार्दूल गच्छेयम् सहिता त्वया । अपत्याय च माम् गच्छ त्वम् एव कुरु-नन्दन ॥४॥
svargam manuja-śārdūla gaccheyam sahitā tvayā . apatyāya ca mām gaccha tvam eva kuru-nandana ..4..
न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम् । त्वत्तः प्रतिविशिष्टश्च कोऽन्योऽस्ति भुवि मानवः ॥५॥
न हि अहम् मनसा अपि अन्यम् गच्छेयम् त्वत् ऋते नरम् । त्वत्तः प्रतिविशिष्टः च कः अन्यः अस्ति भुवि मानवः ॥५॥
na hi aham manasā api anyam gaccheyam tvat ṛte naram . tvattaḥ prativiśiṣṭaḥ ca kaḥ anyaḥ asti bhuvi mānavaḥ ..5..
इमां च तावद्धर्म्यां त्वं पौराणीं शृणु मे कथाम् । परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम् ॥६॥
इमाम् च तावत् धर्म्याम् त्वम् पौराणीम् शृणु मे कथाम् । परिश्रुताम् विशाल-अक्ष कीर्तयिष्यामि याम् अहम् ॥६॥
imām ca tāvat dharmyām tvam paurāṇīm śṛṇu me kathām . pariśrutām viśāla-akṣa kīrtayiṣyāmi yām aham ..6..
व्युषिताश्व इति ख्यातो बभूव किल पार्थिवः । पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः ॥७॥
व्युषिताश्वः इति ख्यातः बभूव किल पार्थिवः । पुरा परम-धर्मिष्ठः पूरोः वंश-विवर्धनः ॥७॥
vyuṣitāśvaḥ iti khyātaḥ babhūva kila pārthivaḥ . purā parama-dharmiṣṭhaḥ pūroḥ vaṃśa-vivardhanaḥ ..7..
तस्मिंश्च यजमाने वै धर्मात्मनि महात्मनि । उपागमंस्ततो देवाः सेन्द्राः सह महर्षिभिः ॥८॥
तस्मिन् च यजमाने वै धर्म-आत्मनि महात्मनि । उपागमन् ततस् देवाः स इन्द्राः सह महा-ऋषिभिः ॥८॥
tasmin ca yajamāne vai dharma-ātmani mahātmani . upāgaman tatas devāḥ sa indrāḥ saha mahā-ṛṣibhiḥ ..8..
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः । व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः ॥९॥
अमाद्यत् इन्द्रः सोमेन दक्षिणाभिः द्विजातयः । व्युषिताश्वस्य राजर्षेः ततस् यज्ञे महात्मनः ॥९॥
amādyat indraḥ somena dakṣiṇābhiḥ dvijātayaḥ . vyuṣitāśvasya rājarṣeḥ tatas yajñe mahātmanaḥ ..9..
व्युषिताश्वस्ततो राजन्नति मर्त्यान्व्यरोचत । सर्वभूतान्यति यथा तपनः शिशिरात्यये ॥१०॥
व्युषिताश्वः ततस् राजन् अति मर्त्यान् व्यरोचत । सर्व-भूतानि अति यथा तपनः शिशिर-अत्यये ॥१०॥
vyuṣitāśvaḥ tatas rājan ati martyān vyarocata . sarva-bhūtāni ati yathā tapanaḥ śiśira-atyaye ..10..
स विजित्य गृहीत्वा च नृपतीन्राजसत्तमः । प्राच्यानुदीच्यान्मध्यांश्च दक्षिणात्यानकालयत् ॥११॥
स विजित्य गृहीत्वा च नृपतीन् राज-सत्तमः । प्राच्यान् उदीच्यान् मध्यान् च दक्षिण-अत्यान् अकालयत् ॥११॥
sa vijitya gṛhītvā ca nṛpatīn rāja-sattamaḥ . prācyān udīcyān madhyān ca dakṣiṇa-atyān akālayat ..11..
अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान् । बभूव स हि राजेन्द्रो दशनागबलान्वितः ॥१२॥
अश्वमेधे महा-यज्ञे व्युषिताश्वः प्रतापवान् । बभूव स हि राज-इन्द्रः दश-नाग-बल-अन्वितः ॥१२॥
aśvamedhe mahā-yajñe vyuṣitāśvaḥ pratāpavān . babhūva sa hi rāja-indraḥ daśa-nāga-bala-anvitaḥ ..12..
अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः । व्युषिताश्वः समुद्रान्तां विजित्येमां वसुन्धराम् ॥१३॥ ( अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान् ॥१३॥ )
अपि अत्र गाथाम् गायन्ति ये पुराण-विदः जनाः । व्युषिताश्वः समुद्र-अन्ताम् विजित्य इमाम् वसुन्धराम् ॥१३॥ ( अपालयत् सर्व-वर्णान् पिता पुत्रान् इव औरसान् ॥१३॥ )
api atra gāthām gāyanti ye purāṇa-vidaḥ janāḥ . vyuṣitāśvaḥ samudra-antām vijitya imām vasundharām ..13.. ( apālayat sarva-varṇān pitā putrān iva aurasān ..13.. )
यजमानो महायज्ञैर्ब्राह्मणेभ्यो ददौ धनम् । अनन्तरत्नान्यादाय आजहार महाक्रतून् ॥१४॥ ( सुषाव च बहून्सोमान्सोमसंस्थास्ततान च ॥१४॥ )
यजमानः महा-यज्ञैः ब्राह्मणेभ्यः ददौ धनम् । अनन्त-रत्नानि आदाय आजहार महा-क्रतून् ॥१४॥ ( सुषाव च बहून् सोमान् सोम-संस्थाः ततान च ॥१४॥ )
yajamānaḥ mahā-yajñaiḥ brāhmaṇebhyaḥ dadau dhanam . ananta-ratnāni ādāya ājahāra mahā-kratūn ..14.. ( suṣāva ca bahūn somān soma-saṃsthāḥ tatāna ca ..14.. )
आसीत्काक्षीवती चास्य भार्या परमसंमता । भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि ॥१५॥
आसीत् काक्षीवती च अस्य भार्या परम-संमता । भद्रा नाम मनुष्य-इन्द्र रूपेण अ सदृशी भुवि ॥१५॥
āsīt kākṣīvatī ca asya bhāryā parama-saṃmatā . bhadrā nāma manuṣya-indra rūpeṇa a sadṛśī bhuvi ..15..
कामयामासतुस्तौ तु परस्परमिति श्रुतिः । स तस्यां कामसंमत्तो यक्ष्माणं समपद्यत ॥१६॥
कामयामासतुः तौ तु परस्परम् इति श्रुतिः । स तस्याम् काम-संमत्तः यक्ष्माणम् समपद्यत ॥१६॥
kāmayāmāsatuḥ tau tu parasparam iti śrutiḥ . sa tasyām kāma-saṃmattaḥ yakṣmāṇam samapadyata ..16..
तेनाचिरेण कालेन जगामास्तमिवांशुमान् । तस्मिन्प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता ॥१७॥
तेन अचिरेण कालेन जगाम अस्तम् इव अंशुमान् । तस्मिन् प्रेते मनुष्य-इन्द्रे भार्या अस्य भृश-दुःखिता ॥१७॥
tena acireṇa kālena jagāma astam iva aṃśumān . tasmin prete manuṣya-indre bhāryā asya bhṛśa-duḥkhitā ..17..
अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम् । भद्रा परमदुःखार्ता तन्निबोध नराधिप ॥१८॥
अपुत्रा पुरुष-व्याघ्र विललाप इति नः श्रुतम् । भद्रा परम-दुःख-आर्ता तत् निबोध नराधिप ॥१८॥
aputrā puruṣa-vyāghra vilalāpa iti naḥ śrutam . bhadrā parama-duḥkha-ārtā tat nibodha narādhipa ..18..
नारी परमधर्मज्ञ सर्वा पुत्रविनाकृता । पतिं विना जीवति या न सा जीवति दुःखिता ॥१९॥
नारी परम-धर्म-ज्ञ सर्वा पुत्र-विनाकृता । पतिम् विना जीवति या न सा जीवति दुःखिता ॥१९॥
nārī parama-dharma-jña sarvā putra-vinākṛtā . patim vinā jīvati yā na sā jīvati duḥkhitā ..19..
पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुङ्गव । त्वद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व माम् ॥२०॥
पतिम् विना मृतम् श्रेयः नार्याः क्षत्रिय-पुङ्गव । त्वद्-गतिम् गन्तुम् इच्छामि प्रसीदस्व नयस्व माम् ॥२०॥
patim vinā mṛtam śreyaḥ nāryāḥ kṣatriya-puṅgava . tvad-gatim gantum icchāmi prasīdasva nayasva mām ..20..
त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे । प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम् ॥२१॥
त्वया हीना क्षणम् अपि न अहम् जीवितुम् उत्सहे । प्रसादम् कुरु मे राजन् इतस् तूर्णम् नयस्व माम् ॥२१॥
tvayā hīnā kṣaṇam api na aham jīvitum utsahe . prasādam kuru me rājan itas tūrṇam nayasva mām ..21..
पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च । त्वामहं नरशार्दूल गच्छन्तमनिवर्तिनम् ॥२२॥
पृष्ठतस् अनुगमिष्यामि समेषु विषमेषु च । त्वाम् अहम् नर-शार्दूल गच्छन्तम् अनिवर्तिनम् ॥२२॥
pṛṣṭhatas anugamiṣyāmi sameṣu viṣameṣu ca . tvām aham nara-śārdūla gacchantam anivartinam ..22..
छायेवानपगा राजन्सततं वशवर्तिनी । भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता ॥२३॥
छाया इव अनपगा राजन् सततम् वश-वर्तिनी । भविष्यामि नर-व्याघ्र नित्यम् प्रिय-हिते रता ॥२३॥
chāyā iva anapagā rājan satatam vaśa-vartinī . bhaviṣyāmi nara-vyāghra nityam priya-hite ratā ..23..
अद्य प्रभृति मां राजन्कष्टा हृदयशोषणाः । आधयोऽभिभविष्यन्ति त्वदृते पुष्करेक्षण ॥२४॥
अद्य प्रभृति माम् राजन् कष्टाः हृदय-शोषणाः । आधयः अभिभविष्यन्ति त्वत् ऋते पुष्कर-ईक्षण ॥२४॥
adya prabhṛti mām rājan kaṣṭāḥ hṛdaya-śoṣaṇāḥ . ādhayaḥ abhibhaviṣyanti tvat ṛte puṣkara-īkṣaṇa ..24..
अभाग्यया मया नूनं वियुक्ताः सहचारिणः । संयोगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव ॥२५॥
अभाग्यया मया नूनम् वियुक्ताः सहचारिणः । संयोगाः विप्रयुक्ताः वा पूर्व-देहेषु पार्थिव ॥२५॥
abhāgyayā mayā nūnam viyuktāḥ sahacāriṇaḥ . saṃyogāḥ viprayuktāḥ vā pūrva-deheṣu pārthiva ..25..
तदिदं कर्मभिः पापैः पूर्वदेहेषु सञ्चितम् । दुःखं मामनुसम्प्राप्तं राजंस्त्वद्विप्रयोगजम् ॥२६॥
तत् इदम् कर्मभिः पापैः पूर्व-देहेषु सञ्चितम् । दुःखम् माम् अनुसम्प्राप्तम् राजन् त्वद्-विप्रयोग-जम् ॥२६॥
tat idam karmabhiḥ pāpaiḥ pūrva-deheṣu sañcitam . duḥkham mām anusamprāptam rājan tvad-viprayoga-jam ..26..
अद्य प्रभृत्यहं राजन्कुशप्रस्तरशायिनी । भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा ॥२७॥
अद्य प्रभृति अहम् राजन् कुश-प्रस्तर-शायिनी । भविष्यामि असुख-आविष्टा त्वद्-दर्शन-परायणा ॥२७॥
adya prabhṛti aham rājan kuśa-prastara-śāyinī . bhaviṣyāmi asukha-āviṣṭā tvad-darśana-parāyaṇā ..27..
दर्शयस्व नरव्याघ्र साधु मामसुखान्विताम् । दीनामनाथां कृपणां विलपन्तीं नरेश्वर ॥२८॥
दर्शयस्व नर-व्याघ्र साधु माम् असुख-अन्विताम् । दीनाम् अनाथाम् कृपणाम् विलपन्तीम् नरेश्वर ॥२८॥
darśayasva nara-vyāghra sādhu mām asukha-anvitām . dīnām anāthām kṛpaṇām vilapantīm nareśvara ..28..
एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः । तं शवं सम्परिष्वज्य वाक्किलान्तर्हिताब्रवीत् ॥२९॥
एवम् बहुविधम् तस्याम् विलपन्त्याम् पुनर् पुनर् । तम् शवम् सम्परिष्वज्य वाच् किल अन्तर्हिता ब्रवीत् ॥२९॥
evam bahuvidham tasyām vilapantyām punar punar . tam śavam sampariṣvajya vāc kila antarhitā bravīt ..29..
उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव । जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि ॥३०॥
उत्तिष्ठ भद्रे गच्छ त्वम् ददानि इह वरम् तव । जनयिष्यामि अपत्यानि त्वयि अहम् चारु-हासिनि ॥३०॥
uttiṣṭha bhadre gaccha tvam dadāni iha varam tava . janayiṣyāmi apatyāni tvayi aham cāru-hāsini ..30..
आत्मीये च वरारोहे शयनीये चतुर्दशीम् । अष्टमीं वा ऋतुस्नाता संविशेथा मया सह ॥३१॥
आत्मीये च वरारोहे शयनीये चतुर्दशीम् । अष्टमीम् वै ऋतु-स्नाता संविशेथाः मया सह ॥३१॥
ātmīye ca varārohe śayanīye caturdaśīm . aṣṭamīm vai ṛtu-snātā saṃviśethāḥ mayā saha ..31..
एवमुक्ता तु सा देवी तथा चक्रे पतिव्रता । यथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा ॥३२॥
एवम् उक्ता तु सा देवी तथा चक्रे पतिव्रता । यथा उक्तम् एव तत् वाक्यम् भद्रा पुत्र-अर्थिनी तदा ॥३२॥
evam uktā tu sā devī tathā cakre pativratā . yathā uktam eva tat vākyam bhadrā putra-arthinī tadā ..32..
सा तेन सुषुवे देवी शवेन मनुजाधिप । त्रीञ्शाल्वांश्चतुरो मद्रान्सुतान्भरतसत्तम ॥३३॥
सा तेन सुषुवे देवी शवेन मनुज-अधिप । त्रीन् शाल्वान् चतुरः मद्रान् सुतान् भरत-सत्तम ॥३३॥
sā tena suṣuve devī śavena manuja-adhipa . trīn śālvān caturaḥ madrān sutān bharata-sattama ..33..
तथा त्वमपि मय्येव मनसा भरतर्षभ । शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वयात् ॥३४॥ 1.120.37
तथा त्वम् अपि मयि एव मनसा भरत-ऋषभ । शक्तः जनयितुम् पुत्रान् तपः-योग-बल-अन्वयात् ॥३४॥ १।१२०।३७
tathā tvam api mayi eva manasā bharata-ṛṣabha . śaktaḥ janayitum putrān tapaḥ-yoga-bala-anvayāt ..34.. 1.120.37

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In