| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत् । धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम् ॥१॥
एवम् उक्तः तया राजा ताम् देवीम् पुनर् अब्रवीत् । धर्म-विद् धर्म-संयुक्तम् इदम् वचनम् उत्तमम् ॥१॥
evam uktaḥ tayā rājā tām devīm punar abravīt . dharma-vid dharma-saṃyuktam idam vacanam uttamam ..1..
एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह । यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः ॥२॥
एवम् एतत् पुरा कुन्ति व्युषिताश्वः चकार ह । यथा त्वया उक्तम् कल्याणि स हि आसीत् अमर-उपमः ॥२॥
evam etat purā kunti vyuṣitāśvaḥ cakāra ha . yathā tvayā uktam kalyāṇi sa hi āsīt amara-upamaḥ ..2..
अथ त्विमं प्रवक्ष्यामि धर्मं त्वेतं निबोध मे । पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः ॥३॥
अथ तु इमम् प्रवक्ष्यामि धर्मम् तु एतम् निबोध मे । पुराणम् ऋषिभिः दृष्टम् धर्म-विद्भिः महात्मभिः ॥३॥
atha tu imam pravakṣyāmi dharmam tu etam nibodha me . purāṇam ṛṣibhiḥ dṛṣṭam dharma-vidbhiḥ mahātmabhiḥ ..3..
अनावृताः किल पुरा स्त्रिय आसन्वरानने । कामचारविहारिण्यः स्वतन्त्राश्चारुलोचने ॥४॥
अनावृताः किल पुरा स्त्रियः आसन् वरानने । काम-चार-विहारिण्यः स्वतन्त्राः चारु-लोचने ॥४॥
anāvṛtāḥ kila purā striyaḥ āsan varānane . kāma-cāra-vihāriṇyaḥ svatantrāḥ cāru-locane ..4..
तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् । नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराभवत् ॥५॥
तासाम् व्युच्चरमाणानाम् कौमारात् सुभगे पतीन् । न अधर्मः अभूत् वरारोहे स हि धर्मः पुरा भवत् ॥५॥
tāsām vyuccaramāṇānām kaumārāt subhage patīn . na adharmaḥ abhūt varārohe sa hi dharmaḥ purā bhavat ..5..
तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः । अद्याप्यनुविधीयन्ते कामद्वेषविवर्जिताः ॥६॥ (पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः ॥६॥ )
तम् च एव धर्मम् पौराणम् तिर्यग्योनि-गताः प्रजाः । अद्य अपि अनुविधीयन्ते काम-द्वेष-विवर्जिताः ॥६॥ (पुराण-दृष्टः धर्मः अयम् पूज्यते च महा-ऋषिभिः ॥६॥ )
tam ca eva dharmam paurāṇam tiryagyoni-gatāḥ prajāḥ . adya api anuvidhīyante kāma-dveṣa-vivarjitāḥ ..6.. (purāṇa-dṛṣṭaḥ dharmaḥ ayam pūjyate ca mahā-ṛṣibhiḥ ..6.. )
उत्तरेषु च रम्भोरु कुरुष्वद्यापि वर्तते । स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः ॥७॥
उत्तरेषु च रम्भोरु कुरुषु अद्या अपि वर्तते । स्त्रीणाम् अनुग्रह-करः स हि धर्मः सनातनः ॥७॥
uttareṣu ca rambhoru kuruṣu adyā api vartate . strīṇām anugraha-karaḥ sa hi dharmaḥ sanātanaḥ ..7..
अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते । स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु ॥८॥
अस्मिन् तु लोके नचिरात् मर्यादा इयम् शुचि-स्मिते । स्थापिताः येन यस्मात् च तत् मे विस्तरतः शृणु ॥८॥
asmin tu loke nacirāt maryādā iyam śuci-smite . sthāpitāḥ yena yasmāt ca tat me vistarataḥ śṛṇu ..8..
बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् । श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः ॥९॥
बभूव उद्दालकः नाम महा-ऋषिः इति नः श्रुतम् । श्वेतकेतुः इति ख्यातः पुत्रः तस्य अभवत् मुनिः ॥९॥
babhūva uddālakaḥ nāma mahā-ṛṣiḥ iti naḥ śrutam . śvetaketuḥ iti khyātaḥ putraḥ tasya abhavat muniḥ ..9..
मर्यादेयं कृता तेन मानुषेष्विति नः श्रुतम् । कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे ॥१०॥
मर्यादा इयम् कृता तेन मानुषेषु इति नः श्रुतम् । कोपात् कमल-पत्र-अक्षि यत् अर्थम् तत् निबोध मे ॥१०॥
maryādā iyam kṛtā tena mānuṣeṣu iti naḥ śrutam . kopāt kamala-patra-akṣi yat artham tat nibodha me ..10..
श्वेतकेतोः किल पुरा समक्षं मातरं पितुः । जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् ॥११॥
श्वेतकेतोः किल पुरा समक्षम् मातरम् पितुः । जग्राह ब्राह्मणः पाणौ गच्छावः इति च अब्रवीत् ॥११॥
śvetaketoḥ kila purā samakṣam mātaram pituḥ . jagrāha brāhmaṇaḥ pāṇau gacchāvaḥ iti ca abravīt ..11..
ऋषिपुत्रस्ततः कोपं चकारामर्षितस्तदा । मातरं तां तथा दृष्ट्वा नीयमानां बलादिव ॥१२॥
ऋषि-पुत्रः ततस् कोपम् चकार अमर्षितः तदा । मातरम् ताम् तथा दृष्ट्वा नीयमानाम् बलात् इव ॥१२॥
ṛṣi-putraḥ tatas kopam cakāra amarṣitaḥ tadā . mātaram tām tathā dṛṣṭvā nīyamānām balāt iva ..12..
क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह । मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः ॥१३॥
क्रुद्धम् तम् तु पिता दृष्ट्वा श्वेतकेतुम् उवाच ह । मा तात कोपम् कार्षीः त्वम् एष धर्मः सनातनः ॥१३॥
kruddham tam tu pitā dṛṣṭvā śvetaketum uvāca ha . mā tāta kopam kārṣīḥ tvam eṣa dharmaḥ sanātanaḥ ..13..
अनावृता हि सर्वेषां वर्णानामङ्गना भुवि । यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः ॥१४॥
अनावृताः हि सर्वेषाम् वर्णानाम् अङ्गनाः भुवि । यथा गावः स्थिताः तात स्वे स्वे वर्णे तथा प्रजाः ॥१४॥
anāvṛtāḥ hi sarveṣām varṇānām aṅganāḥ bhuvi . yathā gāvaḥ sthitāḥ tāta sve sve varṇe tathā prajāḥ ..14..
ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे । चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि ॥१५॥
ऋषि-पुत्रः अथ तम् धर्मम् श्वेतकेतुः न चक्षमे । चकार च एव मर्यादाम् इमाम् स्त्रीपुंसयोः भुवि ॥१५॥
ṛṣi-putraḥ atha tam dharmam śvetaketuḥ na cakṣame . cakāra ca eva maryādām imām strīpuṃsayoḥ bhuvi ..15..
मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु । तदा प्रभृति मर्यादा स्थितेयमिति नः श्रुतम् ॥१६॥
मानुषेषु महाभागे न तु एव अन्येषु जन्तुषु । तदा प्रभृति मर्यादा स्थिता इयम् इति नः श्रुतम् ॥१६॥
mānuṣeṣu mahābhāge na tu eva anyeṣu jantuṣu . tadā prabhṛti maryādā sthitā iyam iti naḥ śrutam ..16..
व्युच्चरन्त्याः पतिं नार्या अद्य प्रभृति पातकम् । भ्रूणहत्याकृतं पापं भविष्यत्यसुखावहम् ॥१७॥
व्युच्चरन्त्याः पतिम् नार्याः अद्य प्रभृति पातकम् । भ्रूणहत्या-कृतम् पापम् भविष्यति असुख-आवहम् ॥१७॥
vyuccarantyāḥ patim nāryāḥ adya prabhṛti pātakam . bhrūṇahatyā-kṛtam pāpam bhaviṣyati asukha-āvaham ..17..
भार्यां तथा व्युच्चरतः कौमारीं ब्रह्मचारिणीम् । पतिव्रतामेतदेव भविता पातकं भुवि ॥१८॥
भार्याम् तथा व्युच्चरतः कौमारीम् ब्रह्मचारिणीम् । पतिव्रताम् एतत् एव भविता पातकम् भुवि ॥१८॥
bhāryām tathā vyuccarataḥ kaumārīm brahmacāriṇīm . pativratām etat eva bhavitā pātakam bhuvi ..18..
पत्या नियुक्ता या चैव पत्न्यपत्यार्थमेव च । न करिष्यति तस्याश्च भविष्यत्येतदेव हि ॥१९॥
पत्या नियुक्ता या च एव पत्नी अपत्य-अर्थम् एव च । न करिष्यति तस्याः च भविष्यति एतत् एव हि ॥१९॥
patyā niyuktā yā ca eva patnī apatya-artham eva ca . na kariṣyati tasyāḥ ca bhaviṣyati etat eva hi ..19..
इति तेन पुरा भीरु मर्यादा स्थापिता बलात् । उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना ॥२०॥
इति तेन पुरा भीरु मर्यादा स्थापिता बलात् । उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना ॥२०॥
iti tena purā bhīru maryādā sthāpitā balāt . uddālakasya putreṇa dharmyā vai śvetaketunā ..20..
सौदासेन च रम्भोरु नियुक्तापत्यजन्मनि । मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम् ॥२१॥
सौदासेन च रम्भा-ऊरु नियुक्ता अपत्य-जन्मनि । मदयन्ती जगाम ऋषिम् वसिष्ठम् इति नः श्रुतम् ॥२१॥
saudāsena ca rambhā-ūru niyuktā apatya-janmani . madayantī jagāma ṛṣim vasiṣṭham iti naḥ śrutam ..21..
तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी । भार्या कल्माषपादस्य भर्तुः प्रियचिकीर्षया ॥२२॥
तस्मात् लेभे च सा पुत्रम् अश्मकम् नाम भामिनी । भार्या कल्माषपादस्य भर्तुः प्रिय-चिकीर्षया ॥२२॥
tasmāt lebhe ca sā putram aśmakam nāma bhāminī . bhāryā kalmāṣapādasya bhartuḥ priya-cikīrṣayā ..22..
अस्माकमपि ते जन्म विदितं कमलेक्षणे । कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये ॥२३॥
अस्माकम् अपि ते जन्म विदितम् कमल-ईक्षणे । कृष्णद्वैपायनात् भीरु कुरूणाम् वंश-वृद्धये ॥२३॥
asmākam api te janma viditam kamala-īkṣaṇe . kṛṣṇadvaipāyanāt bhīru kurūṇām vaṃśa-vṛddhaye ..23..
अत एतानि सर्वाणि कारणानि समीक्ष्य वै । ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते ॥२४॥
अतस् एतानि सर्वाणि कारणानि समीक्ष्य वै । मम एतत् वचनम् धर्म्यम् कर्तुम् अर्हसि अनिन्दिते ॥२४॥
atas etāni sarvāṇi kāraṇāni samīkṣya vai . mama etat vacanam dharmyam kartum arhasi anindite ..24..
ऋतावृतौ राजपुत्रि स्त्रिया भर्ता यतव्रते । नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः ॥२५॥
ऋतौ ऋतौ राज-पुत्रि स्त्रियाः भर्ता यत-व्रते । न अतिवर्तव्यः इति एवम् धर्मम् धर्म-विदः विदुः ॥२५॥
ṛtau ṛtau rāja-putri striyāḥ bhartā yata-vrate . na ativartavyaḥ iti evam dharmam dharma-vidaḥ viduḥ ..25..
शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति । धर्ममेतं जनाः सन्तः पुराणं परिचक्षते ॥२६॥
शेषेषु अन्येषु कालेषु स्वातन्त्र्यम् स्त्री किल अर्हति । धर्मम् एतम् जनाः सन्तः पुराणम् परिचक्षते ॥२६॥
śeṣeṣu anyeṣu kāleṣu svātantryam strī kila arhati . dharmam etam janāḥ santaḥ purāṇam paricakṣate ..26..
भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यमेव वा । यद्ब्रूयात्तत्तथा कार्यमिति धर्मविदो विदुः ॥२७॥
भर्ता भार्याम् राज-पुत्रि धर्म्यम् वा अधर्म्यम् एव वा । यत् ब्रूयात् तत् तथा कार्यम् इति धर्म-विदः विदुः ॥२७॥
bhartā bhāryām rāja-putri dharmyam vā adharmyam eva vā . yat brūyāt tat tathā kāryam iti dharma-vidaḥ viduḥ ..27..
विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम् । यथाहमनवद्याङ्गि पुत्रदर्शनलालसः ॥२८॥
विशेषतः पुत्र-गृद्धी हीनः प्रजननात् स्वयम् । यथा अहम् अनवद्य-अङ्गि पुत्र-दर्शन-लालसः ॥२८॥
viśeṣataḥ putra-gṛddhī hīnaḥ prajananāt svayam . yathā aham anavadya-aṅgi putra-darśana-lālasaḥ ..28..
तथा रक्ताङ्गुलितलः पद्मपत्रनिभः शुभे । प्रसादार्थं मया तेऽयं शिरस्यभ्युद्यतोऽञ्जलिः ॥२९॥
तथा रक्त-अङ्गुलि-तलः पद्म-पत्र-निभः शुभे । प्रसाद-अर्थम् मया ते अयम् शिरसि अभ्युद्यतः अञ्जलिः ॥२९॥
tathā rakta-aṅguli-talaḥ padma-patra-nibhaḥ śubhe . prasāda-artham mayā te ayam śirasi abhyudyataḥ añjaliḥ ..29..
मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाधिकात् । पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि ॥३०॥ ( त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् ॥३०॥ )
मद्-नियोगात् सुकेश-अन्ते द्विजातेः तपसा अधिकात् । पुत्रान् गुण-समायुक्तान् उत्पादयितुम् अर्हसि ॥३०॥ ( त्वद्-कृते अहम् पृथु-श्रोणि गच्छेयम् पुत्रिणाम् गतिम् ॥३०॥ )
mad-niyogāt sukeśa-ante dvijāteḥ tapasā adhikāt . putrān guṇa-samāyuktān utpādayitum arhasi ..30.. ( tvad-kṛte aham pṛthu-śroṇi gaccheyam putriṇām gatim ..30.. )
एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम् । प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता ॥३१॥
एवम् उक्ता ततस् कुन्ती पाण्डुम् परपुरञ्जयम् । प्रत्युवाच वरारोहा भर्तुः प्रिय-हिते रता ॥३१॥
evam uktā tatas kuntī pāṇḍum parapurañjayam . pratyuvāca varārohā bhartuḥ priya-hite ratā ..31..
पितृवेश्मन्यहं बाला नियुक्तातिथिपूजने । उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् ॥३२॥
पितृ-वेश्मनि अहम् बाला नियुक्ता अतिथि-पूजने । उग्रम् पर्यचरम् तत्र ब्राह्मणम् संशित-व्रतम् ॥३२॥
pitṛ-veśmani aham bālā niyuktā atithi-pūjane . ugram paryacaram tatra brāhmaṇam saṃśita-vratam ..32..
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः । तमहं संशितात्मानं सर्वयत्नैरतोषयम् ॥३३॥
निगूढ-निश्चयम् धर्मे यम् तम् दुर्वाससम् विदुः । तम् अहम् संशित-आत्मानम् सर्व-यत्नैः अतोषयम् ॥३३॥
nigūḍha-niścayam dharme yam tam durvāsasam viduḥ . tam aham saṃśita-ātmānam sarva-yatnaiḥ atoṣayam ..33..
स मेऽभिचारसंयुक्तमाचष्ट भगवान्वरम् । मन्त्रग्रामं च मे प्रादादब्रवीच्चैव मामिदम् ॥३४॥
स मे अभिचार-संयुक्तम् आचष्ट भगवान् वरम् । मन्त्र-ग्रामम् च मे प्रादात् अब्रवीत् च एव माम् इदम् ॥३४॥
sa me abhicāra-saṃyuktam ācaṣṭa bhagavān varam . mantra-grāmam ca me prādāt abravīt ca eva mām idam ..34..
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि । अकामो वा सकामो वा स ते वशमुपैष्यति ॥३५॥
यम् यम् देवम् त्वम् एतेन मन्त्रेण आवाहयिष्यसि । अकामः वा स कामः वा स ते वशम् उपैष्यति ॥३५॥
yam yam devam tvam etena mantreṇa āvāhayiṣyasi . akāmaḥ vā sa kāmaḥ vā sa te vaśam upaiṣyati ..35..
इत्युक्ताहं तदा तेन पितृवेश्मनि भारत । ब्राह्मणेन वचस्तथ्यं तस्य कालोऽयमागतः ॥३६॥
इति उक्ता अहम् तदा तेन पितृ-वेश्मनि भारत । ब्राह्मणेन वचः तथ्यम् तस्य कालः अयम् आगतः ॥३६॥
iti uktā aham tadā tena pitṛ-veśmani bhārata . brāhmaṇena vacaḥ tathyam tasya kālaḥ ayam āgataḥ ..36..
अनुज्ञाता त्वया देवमाह्वयेयमहं नृप । तेन मन्त्रेण राजर्षे यथा स्यान्नौ प्रजा विभो ॥३७॥
अनुज्ञाता त्वया देवम् आह्वयेयम् अहम् नृप । तेन मन्त्रेण राजर्षे यथा स्यात् नौ प्रजा विभो ॥३७॥
anujñātā tvayā devam āhvayeyam aham nṛpa . tena mantreṇa rājarṣe yathā syāt nau prajā vibho ..37..
आवाहयामि कं देवं ब्रूहि तत्त्वविदां वर । त्वत्तोऽनुज्ञाप्रतीक्षां मां विद्ध्यस्मिन्कर्मणि स्थिताम् ॥३८॥
आवाहयामि कम् देवम् ब्रूहि तत्त्व-विदाम् वर । त्वत्तः अनुज्ञा-प्रतीक्षाम् माम् विद्धि अस्मिन् कर्मणि स्थिताम् ॥३८॥
āvāhayāmi kam devam brūhi tattva-vidām vara . tvattaḥ anujñā-pratīkṣām mām viddhi asmin karmaṇi sthitām ..38..
पाण्डुरुवाच॥
अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि । धर्ममावाहय शुभे स हि देवेषु पुण्यभाक् ॥३९॥
अद्या एव त्वम् वरारोहे प्रयतस्व यथाविधि । धर्मम् आवाहय शुभे स हि देवेषु पुण्य-भाज् ॥३९॥
adyā eva tvam varārohe prayatasva yathāvidhi . dharmam āvāhaya śubhe sa hi deveṣu puṇya-bhāj ..39..
अधर्मेण न नो धर्मः संयुज्येत कथञ्चन । लोकश्चायं वरारोहे धर्मोऽयमिति मंस्यते ॥४०॥
अधर्मेण न नः धर्मः संयुज्येत कथञ्चन । लोकः च अयम् वरारोहे धर्मः अयम् इति मंस्यते ॥४०॥
adharmeṇa na naḥ dharmaḥ saṃyujyeta kathañcana . lokaḥ ca ayam varārohe dharmaḥ ayam iti maṃsyate ..40..
धार्मिकश्च कुरूणां स भविष्यति न संशयः । दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः ॥४१॥
धार्मिकः च कुरूणाम् स भविष्यति न संशयः । दत्तस्य अपि च धर्मेण न अधर्मे रंस्यते मनः ॥४१॥
dhārmikaḥ ca kurūṇām sa bhaviṣyati na saṃśayaḥ . dattasya api ca dharmeṇa na adharme raṃsyate manaḥ ..41..
तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते । उपचाराभिचाराभ्यां धर्ममाराधयस्व वै ॥४२॥
तस्मात् धर्मम् पुरस्कृत्य नियता त्वम् शुचि-स्मिते । उपचार-अभिचाराभ्याम् धर्मम् आराधयस्व वै ॥४२॥
tasmāt dharmam puraskṛtya niyatā tvam śuci-smite . upacāra-abhicārābhyām dharmam ārādhayasva vai ..42..
वैशम्पायन उवाच॥
सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना । अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमवर्तत ॥४३॥1.121.21
सा तथा उक्ता तथा इति उक्त्वा तेन भर्त्रा वर-अङ्गना । अभिवाद्य अभ्यनुज्ञाता प्रदक्षिणम् अवर्तत ॥४३॥१।१२१।२१
sā tathā uktā tathā iti uktvā tena bhartrā vara-aṅganā . abhivādya abhyanujñātā pradakṣiṇam avartata ..43..1.121.21

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In