| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
संवत्सराहिते गर्भे गान्धार्या जनमेजय । आह्वयामास वै कुन्ती गर्भार्थं धर्ममच्युतम् ॥१॥
संवत्सर-आहिते गर्भे गान्धार्याः जनमेजय । आह्वयामास वै कुन्ती गर्भ-अर्थम् धर्मम् अच्युतम् ॥१॥
saṃvatsara-āhite garbhe gāndhāryāḥ janamejaya . āhvayāmāsa vai kuntī garbha-artham dharmam acyutam ..1..
सा बलिं त्वरिता देवी धर्मायोपजहार ह । जजाप जप्यं विधिवद्दत्तं दुर्वाससा पुरा ॥२॥
सा बलिम् त्वरिता देवी धर्माय उपजहार ह । जजाप जप्यम् विधिवत् दत्तम् दुर्वाससा पुरा ॥२॥
sā balim tvaritā devī dharmāya upajahāra ha . jajāpa japyam vidhivat dattam durvāsasā purā ..2..
सङ्गम्य सा तु धर्मेण योगमूर्तिधरेण वै । लेभे पुत्रं वरारोहा सर्वप्राणभृतां वरम् ॥३॥
सङ्गम्य सा तु धर्मेण योग-मूर्ति-धरेण वै । लेभे पुत्रम् वर-आरोहा सर्व-प्राणभृताम् वरम् ॥३॥
saṅgamya sā tu dharmeṇa yoga-mūrti-dhareṇa vai . lebhe putram vara-ārohā sarva-prāṇabhṛtām varam ..3..
ऐन्द्रे चन्द्रसमायुक्ते मुहूर्तेऽभिजितेऽष्टमे । दिवा मध्यगते सूर्ये तिथौ पुण्येऽभिपूजिते ॥४॥
ऐन्द्रे चन्द्र-समायुक्ते मुहूर्ते अभिजिते अष्टमे । दिवा मध्य-गते सूर्ये तिथौ पुण्ये अभिपूजिते ॥४॥
aindre candra-samāyukte muhūrte abhijite aṣṭame . divā madhya-gate sūrye tithau puṇye abhipūjite ..4..
समृद्धयशसं कुन्ती सुषाव समये सुतम् । जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी ॥५॥
समृद्ध-यशसम् कुन्ती सुषाव समये सुतम् । जात-मात्रे सुते तस्मिन् वाच् उवाच अशरीरिणी ॥५॥
samṛddha-yaśasam kuntī suṣāva samaye sutam . jāta-mātre sute tasmin vāc uvāca aśarīriṇī ..5..
एष धर्मभृतां श्रेष्ठो भविष्यति न संशयः । युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः ॥६॥
एष धर्म-भृताम् श्रेष्ठः भविष्यति न संशयः । युधिष्ठिरः इति ख्यातः पाण्डोः प्रथम-जः सुतः ॥६॥
eṣa dharma-bhṛtām śreṣṭhaḥ bhaviṣyati na saṃśayaḥ . yudhiṣṭhiraḥ iti khyātaḥ pāṇḍoḥ prathama-jaḥ sutaḥ ..6..
भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः । यशसा तेजसा चैव वृत्तेन च समन्वितः ॥७॥
भविता प्रथितः राजा त्रिषु लोकेषु विश्रुतः । यशसा तेजसा च एव वृत्तेन च समन्वितः ॥७॥
bhavitā prathitaḥ rājā triṣu lokeṣu viśrutaḥ . yaśasā tejasā ca eva vṛttena ca samanvitaḥ ..7..
धार्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् । प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु ॥८॥
धार्मिकम् तम् सुतम् लब्ध्वा पाण्डुः ताम् पुनर् अब्रवीत् । प्राहुः क्षत्रम् बल-ज्येष्ठम् बल-ज्येष्ठम् सुतम् वृणु ॥८॥
dhārmikam tam sutam labdhvā pāṇḍuḥ tām punar abravīt . prāhuḥ kṣatram bala-jyeṣṭham bala-jyeṣṭham sutam vṛṇu ..8..
ततस्तथोक्ता पत्या तु वायुमेवाजुहाव सा । तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः ॥९॥
ततस् तथा उक्ता पत्या तु वायुम् एव आजुहाव सा । तस्मात् जज्ञे महा-बाहुः भीमः भीम-पराक्रमः ॥९॥
tatas tathā uktā patyā tu vāyum eva ājuhāva sā . tasmāt jajñe mahā-bāhuḥ bhīmaḥ bhīma-parākramaḥ ..9..
तमप्यतिबलं जातं वागभ्यवददच्युतम् । सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत ॥१०॥
तम् अपि अतिबलम् जातम् वाच् अभ्यवदत् अच्युतम् । सर्वेषाम् बलिनाम् श्रेष्ठः जातः अयम् इति भारत ॥१०॥
tam api atibalam jātam vāc abhyavadat acyutam . sarveṣām balinām śreṣṭhaḥ jātaḥ ayam iti bhārata ..10..
इदमत्यद्भुतं चासीज्जातमात्रे वृकोदरे । यदङ्कात्पतितो मातुः शिलां गात्रैरचूर्णयत् ॥११॥
इदम् अत्यद्भुतम् च आसीत् जात-मात्रे वृकोदरे । यद्-अङ्कात् पतितः मातुः शिलाम् गात्रैः अचूर्णयत् ॥११॥
idam atyadbhutam ca āsīt jāta-mātre vṛkodare . yad-aṅkāt patitaḥ mātuḥ śilām gātraiḥ acūrṇayat ..11..
कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल । नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम् ॥१२॥
कुन्ती व्याघ्र-भय-उद्विग्ना सहसा उत्पतिता किल । न अन्वबुध्यत संसुप्तम् उत्सङ्गे स्वे वृकोदरम् ॥१२॥
kuntī vyāghra-bhaya-udvignā sahasā utpatitā kila . na anvabudhyata saṃsuptam utsaṅge sve vṛkodaram ..12..
ततः स वज्रसङ्घातः कुमारोऽभ्यपतद्गिरौ । पतता तेन शतधा शिला गात्रैर्विचूर्णिता ॥१३॥ ( तां शिलां चूर्णितां दृष्ट्वा पाण्डुर्विस्मयमागमत् ॥१३॥ )
ततस् स वज्र-सङ्घातः कुमारः अभ्यपतत् गिरौ । पतता तेन शतधा शिला गात्रैः विचूर्णिता ॥१३॥ ( ताम् शिलाम् चूर्णिताम् दृष्ट्वा पाण्डुः विस्मयम् आगमत् ॥१३॥ )
tatas sa vajra-saṅghātaḥ kumāraḥ abhyapatat girau . patatā tena śatadhā śilā gātraiḥ vicūrṇitā ..13.. ( tām śilām cūrṇitām dṛṣṭvā pāṇḍuḥ vismayam āgamat ..13.. )
यस्मिन्नहनि भीमस्तु जज्ञे भरतसत्तम । दुर्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप ॥१४॥
यस्मिन् अहनि भीमः तु जज्ञे भरत-सत्तम । दुर्योधनः अपि तत्र एव प्रजज्ञे वसुधाधिप ॥१४॥
yasmin ahani bhīmaḥ tu jajñe bharata-sattama . duryodhanaḥ api tatra eva prajajñe vasudhādhipa ..14..
जाते वृकोदरे पाण्डुरिदं भूयोऽन्वचिन्तयत् । कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेदिति ॥१५॥
जाते वृकोदरे पाण्डुः इदम् भूयस् अन्वचिन्तयत् । कथम् नु मे वरः पुत्रः लोक-श्रेष्ठः भवेत् इति ॥१५॥
jāte vṛkodare pāṇḍuḥ idam bhūyas anvacintayat . katham nu me varaḥ putraḥ loka-śreṣṭhaḥ bhavet iti ..15..
दैवे पुरुषकारे च लोकोऽयं हि प्रतिष्ठितः । तत्र दैवं तु विधिना कालयुक्तेन लभ्यते ॥१६॥
दैवे पुरुषकारे च लोकः अयम् हि प्रतिष्ठितः । तत्र दैवम् तु विधिना काल-युक्तेन लभ्यते ॥१६॥
daive puruṣakāre ca lokaḥ ayam hi pratiṣṭhitaḥ . tatra daivam tu vidhinā kāla-yuktena labhyate ..16..
इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम् । अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः ॥१७॥
इन्द्रः हि राजा देवानाम् प्रधानः इति नः श्रुतम् । अप्रमेय-बल-उत्साहः वीर्यवान् अमित-द्युतिः ॥१७॥
indraḥ hi rājā devānām pradhānaḥ iti naḥ śrutam . aprameya-bala-utsāhaḥ vīryavān amita-dyutiḥ ..17..
तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम् । यं दास्यति स मे पुत्रं स वरीयान्भविष्यति ॥१८॥ ( कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः ॥१८॥ )
तम् तोषयित्वा तपसा पुत्रम् लप्स्ये महा-बलम् । यम् दास्यति स मे पुत्रम् स वरीयान् भविष्यति ॥१८॥ ( कर्मणा मनसा वाचा तस्मात् तप्स्ये महत् तपः ॥१८॥ )
tam toṣayitvā tapasā putram lapsye mahā-balam . yam dāsyati sa me putram sa varīyān bhaviṣyati ..18.. ( karmaṇā manasā vācā tasmāt tapsye mahat tapaḥ ..18.. )
ततः पाण्डुर्महातेजा मन्त्रयित्वा महर्षिभिः । दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम् ॥१९॥
ततस् पाण्डुः महा-तेजाः मन्त्रयित्वा महा-ऋषिभिः । दिदेश कुन्त्याः कौरव्यः व्रतम् सांवत्सरम् शुभम् ॥१९॥
tatas pāṇḍuḥ mahā-tejāḥ mantrayitvā mahā-ṛṣibhiḥ . dideśa kuntyāḥ kauravyaḥ vratam sāṃvatsaram śubham ..19..
आत्मना च महाबाहुरेकपादस्थितोऽभवत् । उग्रं स तप आतस्थे परमेण समाधिना ॥२०॥
आत्मना च महा-बाहुः एक-पाद-स्थितः अभवत् । उग्रम् स तपः आतस्थे परमेण समाधिना ॥२०॥
ātmanā ca mahā-bāhuḥ eka-pāda-sthitaḥ abhavat . ugram sa tapaḥ ātasthe parameṇa samādhinā ..20..
आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम् । सूर्येण सह धर्मात्मा पर्यवर्तत भारत ॥२१॥
आरिराधयिषुः देवम् त्रिदशानाम् तम् ईश्वरम् । सूर्येण सह धर्म-आत्मा पर्यवर्तत भारत ॥२१॥
ārirādhayiṣuḥ devam tridaśānām tam īśvaram . sūryeṇa saha dharma-ātmā paryavartata bhārata ..21..
तं तु कालेन महता वासवः प्रत्यभाषत । पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् ॥२२॥
तम् तु कालेन महता वासवः प्रत्यभाषत । पुत्रम् तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् ॥२२॥
tam tu kālena mahatā vāsavaḥ pratyabhāṣata . putram tava pradāsyāmi triṣu lokeṣu viśrutam ..22..
देवानां ब्राह्मणानां च सुहृदां चार्थसाधकम् । सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम् ॥२३॥
देवानाम् ब्राह्मणानाम् च सुहृदाम् च अर्थ-साधकम् । सुतम् ते अग्र्यम् प्रदास्यामि सर्व-अमित्र-विनाशनम् ॥२३॥
devānām brāhmaṇānām ca suhṛdām ca artha-sādhakam . sutam te agryam pradāsyāmi sarva-amitra-vināśanam ..23..
इत्युक्तः कौरवो राजा वासवेन महात्मना । उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन् ॥२४॥
इति उक्तः कौरवः राजा वासवेन महात्मना । उवाच कुन्तीम् धर्म-आत्मा देवराज-वचः स्मरन् ॥२४॥
iti uktaḥ kauravaḥ rājā vāsavena mahātmanā . uvāca kuntīm dharma-ātmā devarāja-vacaḥ smaran ..24..
नीतिमन्तं महात्मानमादित्यसमतेजसम् । दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम् ॥२५॥
नीतिमन्तम् महात्मानम् आदित्य-सम-तेजसम् । दुराधर्षम् क्रियावन्तम् अतीव अद्भुत-दर्शनम् ॥२५॥
nītimantam mahātmānam āditya-sama-tejasam . durādharṣam kriyāvantam atīva adbhuta-darśanam ..25..
पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम् । लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते ॥२६॥
पुत्रम् जनय सुश्रोणि धाम क्षत्रिय-तेजसाम् । लब्धः प्रसादः देव-इन्द्रात् तम् आह्वय शुचि-स्मिते ॥२६॥
putram janaya suśroṇi dhāma kṣatriya-tejasām . labdhaḥ prasādaḥ deva-indrāt tam āhvaya śuci-smite ..26..
एवमुक्ता ततः शक्रमाजुहाव यशस्विनी । अथाजगाम देवेन्द्रो जनयामास चार्जुनम् ॥२७॥
एवम् उक्ता ततस् शक्रम् आजुहाव यशस्विनी । अथ आजगाम देव-इन्द्रः जनयामास च अर्जुनम् ॥२७॥
evam uktā tatas śakram ājuhāva yaśasvinī . atha ājagāma deva-indraḥ janayāmāsa ca arjunam ..27..
जातमात्रे कुमारे तु वागुवाचाशरीरिणी । महागम्भीरनिर्घोषा नभो नादयती तदा ॥२८॥
जात-मात्रे कुमारे तु वाच् उवाच अशरीरिणी । महा-गम्भीर-निर्घोषा नभः नादयती तदा ॥२८॥
jāta-mātre kumāre tu vāc uvāca aśarīriṇī . mahā-gambhīra-nirghoṣā nabhaḥ nādayatī tadā ..28..
कार्तवीर्यसमः कुन्ति शिबितुल्यपराक्रमः । एष शक्र इवाजेयो यशस्ते प्रथयिष्यति ॥२९॥
कार्तवीर्य-समः कुन्ति शिबि-तुल्य-पराक्रमः । एष शक्रः इव अजेयः यशः ते प्रथयिष्यति ॥२९॥
kārtavīrya-samaḥ kunti śibi-tulya-parākramaḥ . eṣa śakraḥ iva ajeyaḥ yaśaḥ te prathayiṣyati ..29..
अदित्या विष्णुना प्रीतिर्यथाभूदभिवर्धिता । तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः ॥३०॥
अदित्याः विष्णुना प्रीतिः यथा अभूत् अभिवर्धिता । तथा विष्णु-समः प्रीतिम् वर्धयिष्यति ते अर्जुनः ॥३०॥
adityāḥ viṣṇunā prītiḥ yathā abhūt abhivardhitā . tathā viṣṇu-samaḥ prītim vardhayiṣyati te arjunaḥ ..30..
एष मद्रान्वशे कृत्वा कुरूंश्च सह केकयैः । चेदिकाशिकरूषांश्च कुरुलक्ष्म सुधास्यति ॥३१॥
एष मद्रान् वशे कृत्वा कुरून् च सह केकयैः । चेदि-काशि-करूषान् च कुरु-लक्ष्म सुधास्यति ॥३१॥
eṣa madrān vaśe kṛtvā kurūn ca saha kekayaiḥ . cedi-kāśi-karūṣān ca kuru-lakṣma sudhāsyati ..31..
एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः । मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम् ॥३२॥
एतस्य भुज-वीर्येण खाण्डवे हव्यवाहनः । मेदसा सर्व-भूतानाम् तृप्तिम् यास्यति वै पराम् ॥३२॥
etasya bhuja-vīryeṇa khāṇḍave havyavāhanaḥ . medasā sarva-bhūtānām tṛptim yāsyati vai parām ..32..
ग्रामणीश्च महीपालानेष जित्वा महाबलः । भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति ॥३३॥
ग्रामणीः च महीपालान् एष जित्वा महा-बलः । भ्रातृभिः सहितः वीरः त्रीन् मेधान् आहरिष्यति ॥३३॥
grāmaṇīḥ ca mahīpālān eṣa jitvā mahā-balaḥ . bhrātṛbhiḥ sahitaḥ vīraḥ trīn medhān āhariṣyati ..33..
जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः । एष वीर्यवतां श्रेष्ठो भविष्यत्यपराजितः ॥३४॥
जामदग्न्य-समः कुन्ति विष्णु-तुल्य-पराक्रमः । एष वीर्यवताम् श्रेष्ठः भविष्यति अपराजितः ॥३४॥
jāmadagnya-samaḥ kunti viṣṇu-tulya-parākramaḥ . eṣa vīryavatām śreṣṭhaḥ bhaviṣyati aparājitaḥ ..34..
तथा दिव्यानि चास्त्राणि निखिलान्याहरिष्यति । विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः ॥३५॥
तथा दिव्यानि च अस्त्राणि निखिलानि आहरिष्यति । विप्रनष्टाम् श्रियम् च अयम् आहर्ता पुरुष-ऋषभः ॥३५॥
tathā divyāni ca astrāṇi nikhilāni āhariṣyati . vipranaṣṭām śriyam ca ayam āhartā puruṣa-ṛṣabhaḥ ..35..
एतामत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके । उक्तवान्वायुराकाशे कुन्ती शुश्राव चास्य ताम् ॥३६॥
एताम् अति अद्भुताम् वाचम् कुन्ती-पुत्रस्य सूतके । उक्तवान् वायुः आकाशे कुन्ती शुश्राव च अस्य ताम् ॥३६॥
etām ati adbhutām vācam kuntī-putrasya sūtake . uktavān vāyuḥ ākāśe kuntī śuśrāva ca asya tām ..36..
वाचमुच्चारितामुच्चैस्तां निशम्य तपस्विनाम् । बभूव परमो हर्षः शतशृङ्गनिवासिनाम् ॥३७॥
वाचम् उच्चारिताम् उच्चैस् ताम् निशम्य तपस्विनाम् । बभूव परमः हर्षः शतशृङ्ग-निवासिनाम् ॥३७॥
vācam uccāritām uccais tām niśamya tapasvinām . babhūva paramaḥ harṣaḥ śataśṛṅga-nivāsinām ..37..
तथा देवऋषीणां च सेन्द्राणां च दिवौकसाम् । आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः ॥३८॥
तथा देवऋषीणाम् च स इन्द्राणाम् च दिवौकसाम् । आकाशे दुन्दुभीनाम् च बभूव तुमुलः स्वनः ॥३८॥
tathā devaṛṣīṇām ca sa indrāṇām ca divaukasām . ākāśe dundubhīnām ca babhūva tumulaḥ svanaḥ ..38..
उदतिष्ठन्महाघोषः पुष्पवृष्टिभिरावृतः । समवेत्य च देवानां गणाः पार्थमपूजयन् ॥३९॥
उदतिष्ठत् महा-घोषः पुष्प-वृष्टिभिः आवृतः । समवेत्य च देवानाम् गणाः पार्थम् अपूजयन् ॥३९॥
udatiṣṭhat mahā-ghoṣaḥ puṣpa-vṛṣṭibhiḥ āvṛtaḥ . samavetya ca devānām gaṇāḥ pārtham apūjayan ..39..
काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा । प्रजानां पतयः सर्वे सप्त चैव महर्षयः ॥४०॥
काद्रवेयाः वैनतेयाः गन्धर्व-अप्सरसः तथा । प्रजानाम् पतयः सर्वे सप्त च एव महा-ऋषयः ॥४०॥
kādraveyāḥ vainateyāḥ gandharva-apsarasaḥ tathā . prajānām patayaḥ sarve sapta ca eva mahā-ṛṣayaḥ ..40..
भरद्वाजः कश्यपो गौतमश्च; विश्वामित्रो जमदग्निर्वसिष्ठः । यश्चोदितो भास्करेऽभूत्प्रनष्टे; सोऽप्यत्रात्रिर्भगवानाजगाम ॥४१॥
भरद्वाजः कश्यपः गौतमः च; विश्वामित्रः जमदग्निः वसिष्ठः । यः च उदितः भास्करे अभूत् प्रनष्टे; सः अपि अत्र अत्रिः भगवान् आजगाम ॥४१॥
bharadvājaḥ kaśyapaḥ gautamaḥ ca; viśvāmitraḥ jamadagniḥ vasiṣṭhaḥ . yaḥ ca uditaḥ bhāskare abhūt pranaṣṭe; saḥ api atra atriḥ bhagavān ājagāma ..41..
मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः । दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा ॥४२॥
मरीचिः अङ्गिराः च एव पुलस्त्यः पुलहः क्रतुः । दक्षः प्रजापतिः च एव गन्धर्व-अप्सरसः तथा ॥४२॥
marīciḥ aṅgirāḥ ca eva pulastyaḥ pulahaḥ kratuḥ . dakṣaḥ prajāpatiḥ ca eva gandharva-apsarasaḥ tathā ..42..
दिव्यमाल्याम्बरधराः सर्वालङ्कारभूषिताः । उपगायन्ति बीभत्सुमुपनृत्यन्ति चाप्सराः ॥४३॥ ( गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः ॥४३॥ )
दिव्य-माल्य-अम्बर-धराः सर्व-अलङ्कार-भूषिताः । उपगायन्ति बीभत्सुम् उपनृत्यन्ति च अप्सराः ॥४३॥ ( गन्धर्वैः सहितः श्रीमान् प्रागायत च तुम्बुरुः ॥४३॥ )
divya-mālya-ambara-dharāḥ sarva-alaṅkāra-bhūṣitāḥ . upagāyanti bībhatsum upanṛtyanti ca apsarāḥ ..43.. ( gandharvaiḥ sahitaḥ śrīmān prāgāyata ca tumburuḥ ..43.. )
भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा । गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ॥४४॥
भीमसेन-उग्रसेनौ च ऊर्णायुः अनघः तथा । गोपतिः धृतराष्ट्रः च सूर्यवर्चाः च सप्तमः ॥४४॥
bhīmasena-ugrasenau ca ūrṇāyuḥ anaghaḥ tathā . gopatiḥ dhṛtarāṣṭraḥ ca sūryavarcāḥ ca saptamaḥ ..44..
युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा । त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः ॥४५॥
युगपः तृणपः कार्ष्णिः नन्दिः चित्ररथः तथा । त्रयोदशः शालिशिराः पर्जन्यः च चतुर्दशः ॥४५॥
yugapaḥ tṛṇapaḥ kārṣṇiḥ nandiḥ citrarathaḥ tathā . trayodaśaḥ śāliśirāḥ parjanyaḥ ca caturdaśaḥ ..45..
कलिः पञ्चदशश्चात्र नारदश्चैव षोडशः । सद्वा बृहद्वा बृहकः करालश्च महायशाः ॥४६॥
कलिः पञ्चदशः च अत्र नारदः च एव षोडशः । सद्वा बृहद्वा बृहकः करालः च महा-यशाः ॥४६॥
kaliḥ pañcadaśaḥ ca atra nāradaḥ ca eva ṣoḍaśaḥ . sadvā bṛhadvā bṛhakaḥ karālaḥ ca mahā-yaśāḥ ..46..
ब्रह्मचारी बहुगुणः सुपर्णश्चेति विश्रुतः । विश्वावसुर्भुमन्युश्च सुचन्द्रो दशमस्तथा ॥४७॥
ब्रह्मचारी बहु-गुणः सुपर्णः च इति विश्रुतः । विश्वावसुः भुमन्युः च सुचन्द्रः दशमः तथा ॥४७॥
brahmacārī bahu-guṇaḥ suparṇaḥ ca iti viśrutaḥ . viśvāvasuḥ bhumanyuḥ ca sucandraḥ daśamaḥ tathā ..47..
गीतमाधुर्यसम्पन्नौ विख्यातौ च हहाहुहू । इत्येते देवगन्धर्वा जगुस्तत्र नरर्षभम् ॥४८॥
गीत-माधुर्य-सम्पन्नौ विख्यातौ च हहा-हुहू । इति एते देव-गन्धर्वाः जगुः तत्र नर-ऋषभम् ॥४८॥
gīta-mādhurya-sampannau vikhyātau ca hahā-huhū . iti ete deva-gandharvāḥ jaguḥ tatra nara-ṛṣabham ..48..
तथैवाप्सरसो हृष्टाः सर्वालङ्कारभूषिताः । ननृतुर्वै महाभागा जगुश्चायतलोचनाः ॥४९॥
तथा एव अप्सरसः हृष्टाः सर्व-अलङ्कार-भूषिताः । ननृतुः वै महाभागाः जगुः च आयत-लोचनाः ॥४९॥
tathā eva apsarasaḥ hṛṣṭāḥ sarva-alaṅkāra-bhūṣitāḥ . nanṛtuḥ vai mahābhāgāḥ jaguḥ ca āyata-locanāḥ ..49..
अनूना चानवद्या च प्रियमुख्या गुणावरा । अद्रिका च तथा साची मिश्रकेशी अलम्बुसा ॥५०॥
अनूना च अनवद्या च प्रिय-मुख्या गुण-अवरा । अद्रिका च तथा साची मिश्रकेशी अलम्बुसा ॥५०॥
anūnā ca anavadyā ca priya-mukhyā guṇa-avarā . adrikā ca tathā sācī miśrakeśī alambusā ..50..
मरीचिः शिचुका चैव विद्युत्पर्णा तिलोत्तमा । अग्निका लक्षणा क्षेमा देवी रम्भा मनोरमा ॥५१॥
मरीचिः शिचुका च एव विद्युत्पर्णा तिलोत्तमा । अग्निका लक्षणा क्षेमा देवी रम्भा मनोरमा ॥५१॥
marīciḥ śicukā ca eva vidyutparṇā tilottamā . agnikā lakṣaṇā kṣemā devī rambhā manoramā ..51..
असिता च सुबाहुश्च सुप्रिया सुवपुस्तथा । पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी ॥५२॥
असिता च सुबाहुः च सुप्रिया सुवपुः तथा । पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी ॥५२॥
asitā ca subāhuḥ ca supriyā suvapuḥ tathā . puṇḍarīkā sugandhā ca surathā ca pramāthinī ..52..
काम्या शारद्वती चैव ननृतुस्तत्र सङ्घशः । मेनका सहजन्या च पर्णिका पुञ्जिकस्थला ॥५३॥
काम्या शारद्वती च एव ननृतुः तत्र सङ्घशस् । च ॥५३॥
kāmyā śāradvatī ca eva nanṛtuḥ tatra saṅghaśas . ca ..53..
क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि । उम्लोचेत्यभिविख्याता प्रम्लोचेति च ता दश ॥५४॥ ( उर्वश्येकादशीत्येता जगुरायतलोचनाः ॥५४॥ )
क्रतुस्थला घृताची च विश्वाची पूर्वचित्ती अपि । उम्लोचा इति अभिविख्याता प्रम्लोचा इति च ताः दश ॥५४॥ ( उर्वशी एकादशी इति एताः जगुः आयत-लोचनाः ॥५४॥ )
kratusthalā ghṛtācī ca viśvācī pūrvacittī api . umlocā iti abhivikhyātā pramlocā iti ca tāḥ daśa ..54.. ( urvaśī ekādaśī iti etāḥ jaguḥ āyata-locanāḥ ..54.. )
धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा । इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा ॥५५॥
धाता अर्यमा च मित्रः च वरुणः ओंशः भगः तथा । इन्द्रः विवस्वान् पूषा च त्वष्टा च सविता तथा ॥५५॥
dhātā aryamā ca mitraḥ ca varuṇaḥ oṃśaḥ bhagaḥ tathā . indraḥ vivasvān pūṣā ca tvaṣṭā ca savitā tathā ..55..
पर्जन्यश्चैव विष्णुश्च आदित्याः पावकार्चिषः । महिमानं पाण्डवस्य वर्धयन्तोऽम्बरे स्थिताः ॥५६॥
पर्जन्यः च एव विष्णुः च आदित्याः पावक-अर्चिषः । महिमानम् पाण्डवस्य वर्धयन्तः अम्बरे स्थिताः ॥५६॥
parjanyaḥ ca eva viṣṇuḥ ca ādityāḥ pāvaka-arciṣaḥ . mahimānam pāṇḍavasya vardhayantaḥ ambare sthitāḥ ..56..
मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः । अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः ॥५७॥
मृगव्याधः च शर्वः च निरृतिः च महा-यशाः । अजैकपाद् अहिर्बुध्न्यः पिनाकी च परन्तपः ॥५७॥
mṛgavyādhaḥ ca śarvaḥ ca nirṛtiḥ ca mahā-yaśāḥ . ajaikapād ahirbudhnyaḥ pinākī ca parantapaḥ ..57..
दहनोऽथेश्वरश्चैव कपाली च विशां पते । स्थाणुर्भवश्च भगवान्रुद्रास्तत्रावतस्थिरे ॥५८॥
दहनः अथ ईश्वरः च एव कपाली च विशाम् पते । स्थाणुः भवः च भगवान् रुद्राः तत्र अवतस्थिरे ॥५८॥
dahanaḥ atha īśvaraḥ ca eva kapālī ca viśām pate . sthāṇuḥ bhavaḥ ca bhagavān rudrāḥ tatra avatasthire ..58..
अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः । विश्वेदेवास्तथा साध्यास्तत्रासन्परिसंस्थिताः ॥५९॥
अश्विनौ वसवः च अष्टौ मरुतः च महा-बलाः । विश्वेदेवाः तथा साध्याः तत्र आसन् परिसंस्थिताः ॥५९॥
aśvinau vasavaḥ ca aṣṭau marutaḥ ca mahā-balāḥ . viśvedevāḥ tathā sādhyāḥ tatra āsan parisaṃsthitāḥ ..59..
कर्कोटकोऽथ शेषश्च वासुकिश्च भुजङ्गमः । कच्छपश्चापकुण्डश्च तक्षकश्च महोरगः ॥६०॥
कर्कोटकः अथ शेषः च वासुकिः च भुजङ्गमः । कच्छपः चापकुण्डः च तक्षकः च महोरगः ॥६०॥
karkoṭakaḥ atha śeṣaḥ ca vāsukiḥ ca bhujaṅgamaḥ . kacchapaḥ cāpakuṇḍaḥ ca takṣakaḥ ca mahoragaḥ ..60..
आययुस्तेजसा युक्ता महाक्रोधा महाबलाः । एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः ॥६१॥
आययुः तेजसा युक्ताः महा-क्रोधाः महा-बलाः । एते च अन्ये च बहवः तत्र नागाः व्यवस्थिताः ॥६१॥
āyayuḥ tejasā yuktāḥ mahā-krodhāḥ mahā-balāḥ . ete ca anye ca bahavaḥ tatra nāgāḥ vyavasthitāḥ ..61..
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासितध्वजः । अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः ॥६२॥
तार्क्ष्यः च अरिष्टनेमिः च गरुडः च असितध्वजः । अरुणः च अरुणिः च एव वैनतेयाः व्यवस्थिताः ॥६२॥
tārkṣyaḥ ca ariṣṭanemiḥ ca garuḍaḥ ca asitadhvajaḥ . aruṇaḥ ca aruṇiḥ ca eva vainateyāḥ vyavasthitāḥ ..62..
तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः । अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवान्प्रति ॥६३॥
तत् दृष्ट्वा महत् आश्चर्यम् विस्मिताः मुनि-सत्तमाः । अधिकाम् स्म ततस् वृत्तिम् अवर्तन् पाण्डवान् प्रति ॥६३॥
tat dṛṣṭvā mahat āścaryam vismitāḥ muni-sattamāḥ . adhikām sma tatas vṛttim avartan pāṇḍavān prati ..63..
पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः । प्राहिणोद्दर्शनीयाङ्गीं कुन्ती त्वेनमथाब्रवीत् ॥६४॥
पाण्डुः तु पुनर् एव एनाम् पुत्र-लोभात् महा-यशाः । प्राहिणोत् दर्शनीय-अङ्गीम् कुन्ती तु एनम् अथ अब्रवीत् ॥६४॥
pāṇḍuḥ tu punar eva enām putra-lobhāt mahā-yaśāḥ . prāhiṇot darśanīya-aṅgīm kuntī tu enam atha abravīt ..64..
नातश्चतुर्थं प्रसवमापत्स्वपि वदन्त्युत । अतः परं चारिणी स्यात्पञ्चमे बन्धकी भवेत् ॥६५॥
न अतस् चतुर्थम् प्रसवम् आपत्सु अपि वदन्ति उत । अतस् परम् चारिणी स्यात् पञ्चमे बन्धकी भवेत् ॥६५॥
na atas caturtham prasavam āpatsu api vadanti uta . atas param cāriṇī syāt pañcame bandhakī bhavet ..65..
स त्वं विद्वन्धर्ममिमं बुद्धिगम्यं कथं नु माम् । अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे ॥६६॥ 1.122.78
स त्वम् विद्वन् धर्मम् इमम् बुद्धि-गम्यम् कथम् नु माम् । अपत्य-अर्थम् समुत्क्रम्य प्रमादात् इव भाषसे ॥६६॥ १।१२२।७८
sa tvam vidvan dharmam imam buddhi-gamyam katham nu mām . apatya-artham samutkramya pramādāt iva bhāṣase ..66.. 1.122.78

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In