| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च । मद्रराजसुता पाण्डुं रहो वचनमब्रवीत् ॥१॥
कुन्ती-पुत्रेषु जातेषु धृतराष्ट्र-आत्मजेषु च । मद्र-राज-सुता पाण्डुम् रहः वचनम् अब्रवीत् ॥१॥
kuntī-putreṣu jāteṣu dhṛtarāṣṭra-ātmajeṣu ca . madra-rāja-sutā pāṇḍum rahaḥ vacanam abravīt ..1..
न मेऽस्ति त्वयि सन्तापो विगुणेऽपि परन्तप । नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा ॥२॥
न मे अस्ति त्वयि सन्तापः विगुणे अपि परन्तप । न अवर-त्वे वर-अर्हायाः स्थित्वा च अनघ नित्यदा ॥२॥
na me asti tvayi santāpaḥ viguṇe api parantapa . na avara-tve vara-arhāyāḥ sthitvā ca anagha nityadā ..2..
गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा । श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन ॥३॥
गान्धार्याः च एव नृपते जातम् पुत्र-शतम् तथा । श्रुत्वा न मे तथा दुःखम् अभवत् कुरु-नन्दन ॥३॥
gāndhāryāḥ ca eva nṛpate jātam putra-śatam tathā . śrutvā na me tathā duḥkham abhavat kuru-nandana ..3..
इदं तु मे महद्दुःखं तुल्यतायामपुत्रता । दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति सन्ततिः ॥४॥
इदम् तु मे महत् दुःखम् तुल्य-तायाम् अ पुत्र-ता । दिष्ट्या तु इदानीम् भर्तुः मे कुन्त्याम् अपि अस्ति सन्ततिः ॥४॥
idam tu me mahat duḥkham tulya-tāyām a putra-tā . diṣṭyā tu idānīm bhartuḥ me kuntyām api asti santatiḥ ..4..
यदि त्वपत्यसन्तानं कुन्तिराजसुता मयि । कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् ॥५॥
यदि तु अपत्य-सन्तानम् कुन्ति-राज-सुता मयि । कुर्यात् अनुग्रहः मे स्यात् तव च अपि हितम् भवेत् ॥५॥
yadi tu apatya-santānam kunti-rāja-sutā mayi . kuryāt anugrahaḥ me syāt tava ca api hitam bhavet ..5..
स्तम्भो हि मे सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति । यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय ॥६॥
स्तम्भः हि मे सपत्नी-त्वात् वक्तुम् कुन्ति-सुताम् प्रति । यदि तु त्वम् प्रसन्नः मे स्वयम् एनाम् प्रचोदय ॥६॥
stambhaḥ hi me sapatnī-tvāt vaktum kunti-sutām prati . yadi tu tvam prasannaḥ me svayam enām pracodaya ..6..
पाण्डुरुवाच॥
ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते । न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया ॥७॥
मम अपि एष सदा माद्रि हृदि अर्थः परिवर्तते । न तु त्वाम् प्रसहे वक्तुम् इष्ट-अनिष्ट-विवक्षया ॥७॥
mama api eṣa sadā mādri hṛdi arthaḥ parivartate . na tu tvām prasahe vaktum iṣṭa-aniṣṭa-vivakṣayā ..7..
तव त्विदं मतं ज्ञात्वा प्रयतिष्याम्यतः परम् । मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते ॥८॥
तव तु इदम् मतम् ज्ञात्वा प्रयतिष्यामि अतस् परम् । मन्ये ध्रुवम् मया उक्ता सा वचः मे प्रतिपत्स्यते ॥८॥
tava tu idam matam jñātvā prayatiṣyāmi atas param . manye dhruvam mayā uktā sā vacaḥ me pratipatsyate ..8..
वैशम्पायन उवाच॥
ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् । कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम् ॥९॥
ततस् कुन्तीम् पुनर् पाण्डुः विविक्ते इदम् अब्रवीत् । कुलस्य मम सन्तानम् लोकस्य च कुरु प्रियम् ॥९॥
tatas kuntīm punar pāṇḍuḥ vivikte idam abravīt . kulasya mama santānam lokasya ca kuru priyam ..9..
मम चापिण्डनाशाय पूर्वेषामपि चात्मनः । मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् ॥१०॥
मम च अ पिण्ड-नाशाय पूर्वेषाम् अपि च आत्मनः । मद्-प्रिय-अर्थम् च कल्याणि कुरु कल्याणम् उत्तमम् ॥१०॥
mama ca a piṇḍa-nāśāya pūrveṣām api ca ātmanaḥ . mad-priya-artham ca kalyāṇi kuru kalyāṇam uttamam ..10..
यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् । प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोर्थिना ॥११॥
यशसः अर्थाय च एव त्वम् कुरु कर्म सु दुष्करम् । प्राप्य आधिपत्यम् इन्द्रेण यज्ञैः इष्टम् यशः-ऋथिना ॥११॥
yaśasaḥ arthāya ca eva tvam kuru karma su duṣkaram . prāpya ādhipatyam indreṇa yajñaiḥ iṣṭam yaśaḥ-ṛthinā ..11..
तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम् । गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि ॥१२॥
तथा मन्त्र-विदः विप्राः तपः तप्त्वा सु दुष्करम् । गुरून् अभ्युपगच्छन्ति यशसः अर्थाय भामिनि ॥१२॥
tathā mantra-vidaḥ viprāḥ tapaḥ taptvā su duṣkaram . gurūn abhyupagacchanti yaśasaḥ arthāya bhāmini ..12..
तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः । चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम् ॥१३॥
तथा राजर्षयः सर्वे ब्राह्मणाः च तपोधनाः । चक्रुः उच्चावचम् कर्म यशसः अर्थाय दुष्करम् ॥१३॥
tathā rājarṣayaḥ sarve brāhmaṇāḥ ca tapodhanāḥ . cakruḥ uccāvacam karma yaśasaḥ arthāya duṣkaram ..13..
सा त्वं माद्रीं प्लवेनेव तारयेमामनिन्दिते । अपत्यसंविभागेन परां कीर्तिमवाप्नुहि ॥१४॥
सा त्वम् माद्रीम् प्लवेन इव तारय इमाम् अनिन्दिते । अपत्य-संविभागेन पराम् कीर्तिम् अवाप्नुहि ॥१४॥
sā tvam mādrīm plavena iva tāraya imām anindite . apatya-saṃvibhāgena parām kīrtim avāpnuhi ..14..
एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम् । तस्मात्ते भवितापत्यमनुरूपमसंशयम् ॥१५॥
एवम् उक्ता अब्रवीत् माद्रीम् सकृत् चिन्तय दैवतम् । तस्मात् ते भविता अपत्यम् अनुरूपम् असंशयम् ॥१५॥
evam uktā abravīt mādrīm sakṛt cintaya daivatam . tasmāt te bhavitā apatyam anurūpam asaṃśayam ..15..
ततो माद्री विचार्यैव जगाम मनसाश्विनौ । तावागम्य सुतौ तस्यां जनयामासतुर्यमौ ॥१६॥
ततस् माद्री विचार्य एव जगाम मनसा अश्विनौ । तौ आगम्य सुतौ तस्याम् जनयामासतुः यमौ ॥१६॥
tatas mādrī vicārya eva jagāma manasā aśvinau . tau āgamya sutau tasyām janayāmāsatuḥ yamau ..16..
नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि । तथैव तावपि यमौ वागुवाचाशरीरिणी ॥१७॥
नकुलम् सहदेवम् च रूपेण अप्रतिमौ भुवि । तथा एव तौ अपि यमौ वाच् उवाच अशरीरिणी ॥१७॥
nakulam sahadevam ca rūpeṇa apratimau bhuvi . tathā eva tau api yamau vāc uvāca aśarīriṇī ..17..
रूपसत्त्वगुणोपेतावेतावन्याञ्जनानति । भासतस्तेजसात्यर्थं रूपद्रविणसम्पदा ॥१८॥
रूप-सत्त्व-गुण-उपेतौ एतौ अन्यान् जनान् अति । भासतः तेजसा अत्यर्थम् रूप-द्रविण-सम्पदा ॥१८॥
rūpa-sattva-guṇa-upetau etau anyān janān ati . bhāsataḥ tejasā atyartham rūpa-draviṇa-sampadā ..18..
नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः । भक्त्या च कर्मणा चैव तथाशीर्भिर्विशां पते ॥१९॥
नामानि चक्रिरे तेषाम् शतशृङ्ग-निवासिनः । भक्त्या च कर्मणा च एव तथा आशीर्भिः विशाम् पते ॥१९॥
nāmāni cakrire teṣām śataśṛṅga-nivāsinaḥ . bhaktyā ca karmaṇā ca eva tathā āśīrbhiḥ viśām pate ..19..
ज्येष्ठं युधिष्ठिरेत्याहुर्भीमसेनेति मध्यमम् । अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन् ॥२०॥
ज्येष्ठम् युधिष्ठिर इति आहुः भीमसेन इति मध्यमम् । अर्जुन इति तृतीयम् च कुन्ती-पुत्रान् अकल्पयन् ॥२०॥
jyeṣṭham yudhiṣṭhira iti āhuḥ bhīmasena iti madhyamam . arjuna iti tṛtīyam ca kuntī-putrān akalpayan ..20..
पूर्वजं नकुलेत्येवं सहदेवेति चापरम् । माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः ॥२१॥ ( अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः ॥२१॥ )
पूर्वजम् नकुल इति एवम् सहदेव इति च अपरम् । माद्री-पुत्रौ अकथयन् ते विप्राः प्रीत-मानसाः ॥२१॥ ( अनुसंवत्सरम् जाताः अपि ते कुरु-सत्तमाः ॥२१॥ )
pūrvajam nakula iti evam sahadeva iti ca aparam . mādrī-putrau akathayan te viprāḥ prīta-mānasāḥ ..21.. ( anusaṃvatsaram jātāḥ api te kuru-sattamāḥ ..21.. )
कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् । तमुवाच पृथा राजन्रहस्युक्ता सती सदा ॥२२॥
कुन्तीम् अथ पुनर् पाण्डुः माद्री-अर्थे समचोदयत् । तम् उवाच पृथा राजन् रहसि उक्ता सती सदा ॥२२॥
kuntīm atha punar pāṇḍuḥ mādrī-arthe samacodayat . tam uvāca pṛthā rājan rahasi uktā satī sadā ..22..
उक्ता सकृद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता । बिभेम्यस्याः परिभवान्नारीणां गतिरीदृशी ॥२३॥
उक्ता सकृत् द्वन्द्वम् एषा लेभे तेन अस्मि वञ्चिता । बिभेमि अस्याः परिभवात् नारीणाम् गतिः ईदृशी ॥२३॥
uktā sakṛt dvandvam eṣā lebhe tena asmi vañcitā . bibhemi asyāḥ paribhavāt nārīṇām gatiḥ īdṛśī ..23..
नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम् । तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम ॥२४॥
न अज्ञासिषम् अहम् मूढा द्वन्द्व-आह्वाने फल-द्वयम् । तस्मात् न अहम् नियोक्तव्या त्वया एषः अस्तु वरः मम ॥२४॥
na ajñāsiṣam aham mūḍhā dvandva-āhvāne phala-dvayam . tasmāt na aham niyoktavyā tvayā eṣaḥ astu varaḥ mama ..24..
एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः । सम्भूताः कीर्तिमन्तस्ते कुरुवंशविवर्धनाः ॥२५॥
एवम् पाण्डोः सुताः पञ्च देव-दत्ताः महा-बलाः । सम्भूताः कीर्तिमन्तः ते कुरु-वंश-विवर्धनाः ॥२५॥
evam pāṇḍoḥ sutāḥ pañca deva-dattāḥ mahā-balāḥ . sambhūtāḥ kīrtimantaḥ te kuru-vaṃśa-vivardhanāḥ ..25..
शुभलक्षणसम्पन्नाः सोमवत्प्रियदर्शनाः । सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः ॥२६॥ ( सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः ॥२६॥ )
शुभ-लक्षण-सम्पन्नाः सोम-वत् प्रिय-दर्शनाः । सिंह-दर्पाः महा-इष्वासाः सिंह-विक्रान्त-गामिनः ॥२६॥ ( सिंह-ग्रीवाः मनुष्य-इन्द्राः ववृधुः देव-विक्रमाः ॥२६॥ )
śubha-lakṣaṇa-sampannāḥ soma-vat priya-darśanāḥ . siṃha-darpāḥ mahā-iṣvāsāḥ siṃha-vikrānta-gāminaḥ ..26.. ( siṃha-grīvāḥ manuṣya-indrāḥ vavṛdhuḥ deva-vikramāḥ ..26.. )
विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ । विस्मयं जनयामासुर्महर्षीणां समेयुषाम् ॥२७॥
विवर्धमानाः ते तत्र पुण्ये हैमवते गिरौ । विस्मयम् जनयामासुः महा-ऋषीणाम् समेयुषाम् ॥२७॥
vivardhamānāḥ te tatra puṇye haimavate girau . vismayam janayāmāsuḥ mahā-ṛṣīṇām sameyuṣām ..27..
ते च पञ्च शतं चैव कुरुवंशविवर्धनाः । सर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः ॥२८॥ 1.123.32
ते च पञ्च शतम् च एव कुरु-वंश-विवर्धनाः । सर्वे ववृधुः अल्पेन कालेन अप्सु इव नीरजाः ॥२८॥ १।१२३।३२
te ca pañca śatam ca eva kuru-vaṃśa-vivardhanāḥ . sarve vavṛdhuḥ alpena kālena apsu iva nīrajāḥ ..28.. 1.123.32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In