| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने । तान्पश्यन्पर्वते रेमे स्वबाहुबलपालितान् ॥१॥
दर्शनीयान् ततस् पुत्रान् पाण्डुः पञ्च महा-वने । तान् पश्यन् पर्वते रेमे स्व-बाहु-बल-पालितान् ॥१॥
darśanīyān tatas putrān pāṇḍuḥ pañca mahā-vane . tān paśyan parvate reme sva-bāhu-bala-pālitān ..1..
सुपुष्पितवने काले कदाचिन्मधुमाधवे । भूतसंमोहने राजा सभार्यो व्यचरद्वनम् ॥२॥
सु पुष्पित-वने काले कदाचिद् मधु-माधवे । भूतसंमोहने राजा स भार्यः व्यचरत् वनम् ॥२॥
su puṣpita-vane kāle kadācid madhu-mādhave . bhūtasaṃmohane rājā sa bhāryaḥ vyacarat vanam ..2..
पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः । अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः ॥३॥
पलाशैः तिलकैः चूतैः चम्पकैः पारिभद्रकैः । अन्यैः च बहुभिः वृक्षैः फल-पुष्प-समृद्धिभिः ॥३॥
palāśaiḥ tilakaiḥ cūtaiḥ campakaiḥ pāribhadrakaiḥ . anyaiḥ ca bahubhiḥ vṛkṣaiḥ phala-puṣpa-samṛddhibhiḥ ..3..
जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम् । पाण्डोर्वनं तु सम्प्रेक्ष्य प्रजज्ञे हृदि मन्मथः ॥४॥
जल-स्थानैः च विविधैः पद्मिनीभिः च शोभितम् । पाण्डोः वनम् तु सम्प्रेक्ष्य प्रजज्ञे हृदि मन्मथः ॥४॥
jala-sthānaiḥ ca vividhaiḥ padminībhiḥ ca śobhitam . pāṇḍoḥ vanam tu samprekṣya prajajñe hṛdi manmathaḥ ..4..
प्रहृष्टमनसं तत्र विहरन्तं यथामरम् । तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम् ॥५॥
प्रहृष्ट-मनसम् तत्र विहरन्तम् यथा अमरम् । तम् माद्री अनुजगाम एका वसनम् बिभ्रती शुभम् ॥५॥
prahṛṣṭa-manasam tatra viharantam yathā amaram . tam mādrī anujagāma ekā vasanam bibhratī śubham ..5..
समीक्षमाणः स तु तां वयःस्थां तनुवाससम् । तस्य कामः प्रववृधे गहनेऽग्निरिवोत्थितः ॥६॥
समीक्षमाणः स तु ताम् वयःस्थाम् तनु-वाससम् । तस्य कामः प्रववृधे गहने अग्निः इव उत्थितः ॥६॥
samīkṣamāṇaḥ sa tu tām vayaḥsthām tanu-vāsasam . tasya kāmaḥ pravavṛdhe gahane agniḥ iva utthitaḥ ..6..
रहस्यात्मसमां दृष्ट्वा राजा राजीवलोचनाम् । न शशाक नियन्तुं तं कामं कामबलात्कृतः ॥७॥
रहस्य-आत्म-समाम् दृष्ट्वा राजा राजीव-लोचनाम् । न शशाक नियन्तुम् तम् कामम् काम-बलात्कृतः ॥७॥
rahasya-ātma-samām dṛṣṭvā rājā rājīva-locanām . na śaśāka niyantum tam kāmam kāma-balātkṛtaḥ ..7..
तत एनां बलाद्राजा निजग्राह रहोगताम् । वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम् ॥८॥
ततस् एनाम् बलात् राजा निजग्राह रहः-गताम् । वार्यमाणः तया देव्या विस्फुरन्त्या यथाबलम् ॥८॥
tatas enām balāt rājā nijagrāha rahaḥ-gatām . vāryamāṇaḥ tayā devyā visphurantyā yathābalam ..8..
स तु कामपरीतात्मा तं शापं नान्वबुध्यत । माद्रीं मैथुनधर्मेण गच्छमानो बलादिव ॥९॥
स तु काम-परीत-आत्मा तम् शापम् न अन्वबुध्यत । माद्रीम् मैथुन-धर्मेण गच्छमानः बलात् इव ॥९॥
sa tu kāma-parīta-ātmā tam śāpam na anvabudhyata . mādrīm maithuna-dharmeṇa gacchamānaḥ balāt iva ..9..
जीवितान्ताय कौरव्यो मन्मथस्य वशं गतः । शापजं भयमुत्सृज्य जगामैव बलात्प्रियाम् ॥१०॥
जीवित-अन्ताय कौरव्यः मन्मथस्य वशम् गतः । शाप-जम् भयम् उत्सृज्य जगाम एव बलात् प्रियाम् ॥१०॥
jīvita-antāya kauravyaḥ manmathasya vaśam gataḥ . śāpa-jam bhayam utsṛjya jagāma eva balāt priyām ..10..
तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता । सम्प्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा ॥११॥
तस्य काम-आत्मनः बुद्धिः साक्षात् कालेन मोहिता । सम्प्रमथ्य इन्द्रिय-ग्रामम् प्रनष्टा सह चेतसा ॥११॥
tasya kāma-ātmanaḥ buddhiḥ sākṣāt kālena mohitā . sampramathya indriya-grāmam pranaṣṭā saha cetasā ..11..
स तया सह सङ्गम्य भार्यया कुरुनन्दन । पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा ॥१२॥
स तया सह सङ्गम्य भार्यया कुरु-नन्दन । पाण्डुः परम-धर्म-आत्मा युयुजे कालधर्मणा ॥१२॥
sa tayā saha saṅgamya bhāryayā kuru-nandana . pāṇḍuḥ parama-dharma-ātmā yuyuje kāladharmaṇā ..12..
ततो माद्री समालिङ्ग्य राजानं गतचेतसम् । मुमोच दुःखजं शब्दं पुनः पुनरतीव ह ॥१३॥
ततस् माद्री समालिङ्ग्य राजानम् गत-चेतसम् । मुमोच दुःख-जम् शब्दम् पुनर् पुनर् अतीव ह ॥१३॥
tatas mādrī samāliṅgya rājānam gata-cetasam . mumoca duḥkha-jam śabdam punar punar atīva ha ..13..
सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ । आजग्मुः सहितास्तत्र यत्र राजा तथागतः ॥१४॥
सह पुत्रैः ततस् कुन्ती माद्री-पुत्रौ च पाण्डवौ । आजग्मुः सहिताः तत्र यत्र राजा तथागतः ॥१४॥
saha putraiḥ tatas kuntī mādrī-putrau ca pāṇḍavau . ājagmuḥ sahitāḥ tatra yatra rājā tathāgataḥ ..14..
ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः । एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः ॥१५॥
ततस् माद्री अब्रवीत् राजन् न आर्ता कुन्तीम् इदम् वचः । एका एव त्वम् इह आगच्छ तिष्ठन्तु अत्र एव दारकाः ॥१५॥
tatas mādrī abravīt rājan na ārtā kuntīm idam vacaḥ . ekā eva tvam iha āgaccha tiṣṭhantu atra eva dārakāḥ ..15..
तच्छ्रुत्वा वचनं तस्यास्तत्रैवावार्य दारकान् । हताहमिति विक्रुश्य सहसोपजगाम ह ॥१६॥
तत् श्रुत्वा वचनम् तस्याः तत्र एव आवार्य दारकान् । हता अहम् इति विक्रुश्य सहसा उपजगाम ह ॥१६॥
tat śrutvā vacanam tasyāḥ tatra eva āvārya dārakān . hatā aham iti vikruśya sahasā upajagāma ha ..16..
दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले । कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता ॥१७॥
दृष्ट्वा पाण्डुम् च माद्रीम् च शयानौ धरणी-तले । कुन्ती शोक-परीत-अङ्गी विललाप सु दुःखिता ॥१७॥
dṛṣṭvā pāṇḍum ca mādrīm ca śayānau dharaṇī-tale . kuntī śoka-parīta-aṅgī vilalāpa su duḥkhitā ..17..
रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान् । कथं त्वमभ्यतिक्रान्तः शापं जानन्वनौकसः ॥१८॥
रक्ष्यमाणः मया नित्यम् वीरः सततम् आत्मवान् । कथम् त्वम् अभ्यतिक्रान्तः शापम् जानन् वनौकसः ॥१८॥
rakṣyamāṇaḥ mayā nityam vīraḥ satatam ātmavān . katham tvam abhyatikrāntaḥ śāpam jānan vanaukasaḥ ..18..
ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः । सा कथं लोभितवती विजने त्वं नराधिपम् ॥१९॥
ननु नाम त्वया माद्रि रक्षितव्यः जनाधिपः । सा कथम् लोभितवती विजने त्वम् नराधिपम् ॥१९॥
nanu nāma tvayā mādri rakṣitavyaḥ janādhipaḥ . sā katham lobhitavatī vijane tvam narādhipam ..19..
कथं दीनस्य सततं त्वामासाद्य रहोगताम् । तं विचिन्तयतः शापं प्रहर्षः समजायत ॥२०॥
कथम् दीनस्य सततम् त्वाम् आसाद्य रहः-गताम् । तम् विचिन्तयतः शापम् प्रहर्षः समजायत ॥२०॥
katham dīnasya satatam tvām āsādya rahaḥ-gatām . tam vicintayataḥ śāpam praharṣaḥ samajāyata ..20..
धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा । दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः ॥२१॥
धन्या त्वम् असि बाह्लीकि मत्तः भाग्यतरा तथा । दृष्टवती असि यत् वक्त्रम् प्रहृष्टस्य महीपतेः ॥२१॥
dhanyā tvam asi bāhlīki mattaḥ bhāgyatarā tathā . dṛṣṭavatī asi yat vaktram prahṛṣṭasya mahīpateḥ ..21..
माद्र्युवाच॥
विलोभ्यमानेन मया वार्यमाणेन चासकृत् । आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा ॥२२॥
विलोभ्यमानेन मया वार्यमाणेन च असकृत् । आत्मा न वारितः अनेन सत्यम् दिष्टम् चिकीर्षुणा ॥२२॥
vilobhyamānena mayā vāryamāṇena ca asakṛt . ātmā na vāritaḥ anena satyam diṣṭam cikīrṣuṇā ..22..
कुन्त्युवाच॥
अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम । अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय ॥२३॥
अहम् ज्येष्ठा धर्म-पत्नी ज्येष्ठम् धर्म-फलम् मम । अवश्यम् भाविनः भावात् मा माम् माद्रि निवर्तय ॥२३॥
aham jyeṣṭhā dharma-patnī jyeṣṭham dharma-phalam mama . avaśyam bhāvinaḥ bhāvāt mā mām mādri nivartaya ..23..
अन्वेष्यामीह भर्तारमहं प्रेतवशं गतम् । उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान् ॥२४॥
अन्वेष्यामि इह भर्तारम् अहम् प्रेत-वशम् गतम् । उत्तिष्ठ त्वम् विसृज्य एनम् इमान् रक्षस्व दारकान् ॥२४॥
anveṣyāmi iha bhartāram aham preta-vaśam gatam . uttiṣṭha tvam visṛjya enam imān rakṣasva dārakān ..24..
माद्र्युवाच॥
अहमेवानुयास्यामि भर्तारमपलायिनम् । न हि तृप्तास्मि कामानां तज्ज्येष्ठा अनुमन्यताम् ॥२५॥
अहम् एव अनुयास्यामि भर्तारम् अपलायिनम् । न हि तृप्ता अस्मि कामानाम् तत् ज्येष्ठा अनुमन्यताम् ॥२५॥
aham eva anuyāsyāmi bhartāram apalāyinam . na hi tṛptā asmi kāmānām tat jyeṣṭhā anumanyatām ..25..
मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः । तमुच्छिन्द्यामस्य कामं कथं नु यमसादने ॥२६॥
माम् च अभिगम्य क्षीणः अयम् कामात् भरत-सत्तमः । तम् उच्छिन्द्याम् अस्य कामम् कथम् नु यम-सादने ॥२६॥
mām ca abhigamya kṣīṇaḥ ayam kāmāt bharata-sattamaḥ . tam ucchindyām asya kāmam katham nu yama-sādane ..26..
न चाप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते । वृत्तिमार्ये चरिष्यामि स्पृशेदेनस्तथा हि माम् ॥२७॥
न च अपि अहम् वर्तयन्ती निर्विशेषम् सुतेषु ते । वृत्तिम् आर्ये चरिष्यामि स्पृशेत् एनः तथा हि माम् ॥२७॥
na ca api aham vartayantī nirviśeṣam suteṣu te . vṛttim ārye cariṣyāmi spṛśet enaḥ tathā hi mām ..27..
तस्मान्मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत् । मां हि कामयमानोऽयं राजा प्रेतवशं गतः ॥२८॥
तस्मात् मे सुतयोः कुन्ति वर्तितव्यम् स्व-पुत्र-वत् । माम् हि कामयमानः अयम् राजा प्रेत-वशम् गतः ॥२८॥
tasmāt me sutayoḥ kunti vartitavyam sva-putra-vat . mām hi kāmayamānaḥ ayam rājā preta-vaśam gataḥ ..28..
राज्ञः शरीरेण सह ममापीदं कलेवरम् । दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु ॥२९॥
राज्ञः शरीरेण सह मम अपि इदम् कलेवरम् । दग्धव्यम् सु प्रतिच्छन्नम् एतत् आर्ये प्रियम् कुरु ॥२९॥
rājñaḥ śarīreṇa saha mama api idam kalevaram . dagdhavyam su praticchannam etat ārye priyam kuru ..29..
दारकेष्वप्रमत्ता च भवेथाश्च हिता मम । अतोऽन्यन्न प्रपश्यामि संदेष्टव्यं हि किञ्चन ॥३०॥
दारकेषु अप्रमत्ता च भवेथाः च हिता मम । अतस् अन्यत् न प्रपश्यामि संदेष्टव्यम् हि किञ्चन ॥३०॥
dārakeṣu apramattā ca bhavethāḥ ca hitā mama . atas anyat na prapaśyāmi saṃdeṣṭavyam hi kiñcana ..30..
वैशम्पायन उवाच॥
इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम् । मद्रराजात्मजा तूर्णमन्वारोहद्यशस्विनी ॥३१॥1.124.31
इति उक्त्वा तम् चिता-अग्नि-स्थम् धर्मपत्नी नर-ऋषभम् । मद्र-राज-आत्मजा तूर्णम् अन्वारोहत् यशस्विनी ॥३१॥१।१२४।३१
iti uktvā tam citā-agni-stham dharmapatnī nara-ṛṣabham . madra-rāja-ātmajā tūrṇam anvārohat yaśasvinī ..31..1.124.31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In