| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
पाण्डोरवभृथं कृत्वा देवकल्पा महर्षयः । ततो मन्त्रमकुर्वन्त ते समेत्य तपस्विनः ॥१॥
पाण्डोः अवभृथम् कृत्वा देव-कल्पाः महा-ऋषयः । ततस् मन्त्रम् अकुर्वन्त ते समेत्य तपस्विनः ॥१॥
pāṇḍoḥ avabhṛtham kṛtvā deva-kalpāḥ mahā-ṛṣayaḥ . tatas mantram akurvanta te sametya tapasvinaḥ ..1..
हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः । अस्मिन्स्थाने तपस्तप्तुं तापसाञ्शरणं गतः ॥२॥
हित्वा राज्यम् च राष्ट्रम् च स महात्मा महा-तपाः । अस्मिन् स्थाने तपः तप्तुम् तापसान् शरणम् गतः ॥२॥
hitvā rājyam ca rāṣṭram ca sa mahātmā mahā-tapāḥ . asmin sthāne tapaḥ taptum tāpasān śaraṇam gataḥ ..2..
स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह । प्रदायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः ॥३॥
स जात-मात्रान् पुत्रान् च दारान् च भवताम् इह । प्रदाय उपनिधिम् राजा पाण्डुः स्वर्गम् इतस् गतः ॥३॥
sa jāta-mātrān putrān ca dārān ca bhavatām iha . pradāya upanidhim rājā pāṇḍuḥ svargam itas gataḥ ..3..
ते परस्परमामन्त्र्य सर्वभूतहिते रताः । पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् ॥४॥
ते परस्परम् आमन्त्र्य सर्व-भूत-हिते रताः । पाण्डोः पुत्रान् पुरस्कृत्य नगरम् नागसाह्वयम् ॥४॥
te parasparam āmantrya sarva-bhūta-hite ratāḥ . pāṇḍoḥ putrān puraskṛtya nagaram nāgasāhvayam ..4..
उदारमनसः सिद्धा गमने चक्रिरे मनः । भीष्माय पाण्डवान्दातुं धृतराष्ट्राय चैव हि ॥५॥
उदार-मनसः सिद्धाः गमने चक्रिरे मनः । भीष्माय पाण्डवान् दातुम् धृतराष्ट्राय च एव हि ॥५॥
udāra-manasaḥ siddhāḥ gamane cakrire manaḥ . bhīṣmāya pāṇḍavān dātum dhṛtarāṣṭrāya ca eva hi ..5..
तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे । पाण्डोर्दारांश्च पुत्रांश्च शरीरं चैव तापसाः ॥६॥
तस्मिन् एव क्षणे सर्वे तान् आदाय प्रतस्थिरे । पाण्डोः दारान् च पुत्रान् च शरीरम् च एव तापसाः ॥६॥
tasmin eva kṣaṇe sarve tān ādāya pratasthire . pāṇḍoḥ dārān ca putrān ca śarīram ca eva tāpasāḥ ..6..
सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला । प्रपन्ना दीर्घमध्वानं सङ्क्षिप्तं तदमन्यत ॥७॥
सुखिनी सा पुरा भूत्वा सततम् पुत्र-वत्सला । प्रपन्ना दीर्घम् अध्वानम् सङ्क्षिप्तम् तत् अमन्यत ॥७॥
sukhinī sā purā bhūtvā satatam putra-vatsalā . prapannā dīrgham adhvānam saṅkṣiptam tat amanyata ..7..
सा नदीर्घेण कालेन सम्प्राप्ता कुरुजाङ्गलम् । वर्धमानपुरद्वारमाससाद यशस्विनी ॥८॥
सा न दीर्घेण कालेन सम्प्राप्ता कुरुजाङ्गलम् । वर्धमान-पुर-द्वारम् आससाद यशस्विनी ॥८॥
sā na dīrgheṇa kālena samprāptā kurujāṅgalam . vardhamāna-pura-dvāram āsasāda yaśasvinī ..8..
तं चारणसहस्राणां मुनीनामागमं तदा । श्रुत्वा नागपुरे नृणां विस्मयः समजायत ॥९॥
तम् चारण-सहस्राणाम् मुनीनाम् आगमम् तदा । श्रुत्वा नागपुरे नृणाम् विस्मयः समजायत ॥९॥
tam cāraṇa-sahasrāṇām munīnām āgamam tadā . śrutvā nāgapure nṛṇām vismayaḥ samajāyata ..9..
मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः । सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः ॥१०॥
मुहूर्त-उदिते आदित्ये सर्वे धर्म-पुरस्कृताः । स दाराः तापसान् द्रष्टुम् निर्ययुः पुर-वासिनः ॥१०॥
muhūrta-udite āditye sarve dharma-puraskṛtāḥ . sa dārāḥ tāpasān draṣṭum niryayuḥ pura-vāsinaḥ ..10..
स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घान्समास्थिताः । ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः ॥११॥
स्त्री-सङ्घाः क्षत्र-सङ्घाः च यान-सङ्घान् समास्थिताः । ब्राह्मणैः सह निर्जग्मुः ब्राह्मणानाम् च योषितः ॥११॥
strī-saṅghāḥ kṣatra-saṅghāḥ ca yāna-saṅghān samāsthitāḥ . brāhmaṇaiḥ saha nirjagmuḥ brāhmaṇānām ca yoṣitaḥ ..11..
तथा विट्शूद्रसङ्घानां महान्व्यतिकरोऽभवत् । न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः ॥१२॥
तथा विश्-शूद्र-सङ्घानाम् महान् व्यतिकरः अभवत् । न कश्चिद् अकरोत् ईर्ष्याम् अभवन् धर्म-बुद्धयः ॥१२॥
tathā viś-śūdra-saṅghānām mahān vyatikaraḥ abhavat . na kaścid akarot īrṣyām abhavan dharma-buddhayaḥ ..12..
तथा भीष्मः शान्तनवः सोमदत्तोऽथ बाह्लिकः । प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् ॥१३॥
तथा भीष्मः शान्तनवः सोमदत्तः अथ बाह्लिकः । प्रज्ञाचक्षुः च राजर्षिः क्षत्ता च विदुरः स्वयम् ॥१३॥
tathā bhīṣmaḥ śāntanavaḥ somadattaḥ atha bāhlikaḥ . prajñācakṣuḥ ca rājarṣiḥ kṣattā ca viduraḥ svayam ..13..
सा च सत्यवती देवी कौसल्या च यशस्विनी । राजदारैः परिवृता गान्धारी च विनिर्ययौ ॥१४॥
सा च सत्यवती देवी कौसल्या च यशस्विनी । राज-दारैः परिवृता गान्धारी च विनिर्ययौ ॥१४॥
sā ca satyavatī devī kausalyā ca yaśasvinī . rāja-dāraiḥ parivṛtā gāndhārī ca viniryayau ..14..
धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः । भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः ॥१५॥
धृतराष्ट्रस्य दायादाः दुर्योधन-पुरोगमाः । भूषिताः भूषणैः चित्रैः शत-सङ्ख्याः विनिर्ययुः ॥१५॥
dhṛtarāṣṭrasya dāyādāḥ duryodhana-purogamāḥ . bhūṣitāḥ bhūṣaṇaiḥ citraiḥ śata-saṅkhyāḥ viniryayuḥ ..15..
तान्महर्षिगणान्सर्वाञ्शिरोभिरभिवाद्य च । उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः ॥१६॥
तान् महा-ऋषि-गणान् सर्वान् शिरोभिः अभिवाद्य च । उपोपविविशुः सर्वे कौरव्याः स पुरोहिताः ॥१६॥
tān mahā-ṛṣi-gaṇān sarvān śirobhiḥ abhivādya ca . upopaviviśuḥ sarve kauravyāḥ sa purohitāḥ ..16..
तथैव शिरसा भूमावभिवाद्य प्रणम्य च । उपोपविविशुः सर्वे पौरजानपदा अपि ॥१७॥
तथा एव शिरसा भूमौ अभिवाद्य प्रणम्य च । उपोपविविशुः सर्वे पौर-जानपदाः अपि ॥१७॥
tathā eva śirasā bhūmau abhivādya praṇamya ca . upopaviviśuḥ sarve paura-jānapadāḥ api ..17..
तमकूजमिवाज्ञाय जनौघं सर्वशस्तदा । भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् ॥१८॥
तम् अ कूजम् इव आज्ञाय जन-ओघम् सर्वशस् तदा । भीष्मः राज्यम् च राष्ट्रम् च महा-ऋषिभ्यः न्यवेदयत् ॥१८॥
tam a kūjam iva ājñāya jana-ogham sarvaśas tadā . bhīṣmaḥ rājyam ca rāṣṭram ca mahā-ṛṣibhyaḥ nyavedayat ..18..
तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी । महर्षिमतमाज्ञाय महर्षिरिदमब्रवीत् ॥१९॥
तेषाम् अथो वृद्धतमः प्रत्युत्थाय जटाजिनी । महा-ऋषि-मतम् आज्ञाय महा-ऋषिः इदम् अब्रवीत् ॥१९॥
teṣām atho vṛddhatamaḥ pratyutthāya jaṭājinī . mahā-ṛṣi-matam ājñāya mahā-ṛṣiḥ idam abravīt ..19..
यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः । कामभोगान्परित्यज्य शतशृङ्गमितो गतः ॥२०॥
यः स कौरव्य-दायादः पाण्डुः नाम नराधिपः । काम-भोगान् परित्यज्य शतशृङ्गम् इतस् गतः ॥२०॥
yaḥ sa kauravya-dāyādaḥ pāṇḍuḥ nāma narādhipaḥ . kāma-bhogān parityajya śataśṛṅgam itas gataḥ ..20..
ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना । साक्षाद्धर्मादयं पुत्रस्तस्य जातो युधिष्ठिरः ॥२१॥
ब्रह्मचर्य-व्रत-स्थस्य तस्य दिव्येन हेतुना । साक्षात् धर्मात् अयम् पुत्रः तस्य जातः युधिष्ठिरः ॥२१॥
brahmacarya-vrata-sthasya tasya divyena hetunā . sākṣāt dharmāt ayam putraḥ tasya jātaḥ yudhiṣṭhiraḥ ..21..
तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः । मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् ॥२२॥
तथा इमम् बलिनाम् श्रेष्ठम् तस्य राज्ञः महात्मनः । मातरिश्वा ददौ पुत्रम् भीमम् नाम महा-बलम् ॥२२॥
tathā imam balinām śreṣṭham tasya rājñaḥ mahātmanaḥ . mātariśvā dadau putram bhīmam nāma mahā-balam ..22..
पुरुहूतादयं जज्ञे कुन्त्यां सत्यपराक्रमः । यस्य कीरित्र्महेष्वासान्सर्वानभिभविष्यति ॥२३॥
पुरुहूतात् अयम् जज्ञे कुन्त्याम् सत्य-पराक्रमः । यस्य कीरितृ-महा-इष्वासान् सर्वान् अभिभविष्यति ॥२३॥
puruhūtāt ayam jajñe kuntyām satya-parākramaḥ . yasya kīritṛ-mahā-iṣvāsān sarvān abhibhaviṣyati ..23..
यौ तु माद्री महेष्वासावसूत कुरुसत्तमौ । अश्विभ्यां मनुजव्याघ्राविमौ तावपि तिष्ठतः ॥२४॥
यौ तु माद्री महा-इष्वासौ असूत कुरु-सत्तमौ । अश्विभ्याम् मनुज-व्याघ्रौ इमौ तौ अपि तिष्ठतः ॥२४॥
yau tu mādrī mahā-iṣvāsau asūta kuru-sattamau . aśvibhyām manuja-vyāghrau imau tau api tiṣṭhataḥ ..24..
चरता धर्मनित्येन वनवासं यशस्विना । एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः ॥२५॥
चरता धर्म-नित्येन वन-वासम् यशस्विना । एष पैतामहः वंशः पाण्डुना पुनर् उद्धृतः ॥२५॥
caratā dharma-nityena vana-vāsam yaśasvinā . eṣa paitāmahaḥ vaṃśaḥ pāṇḍunā punar uddhṛtaḥ ..25..
पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च । पश्यतः सततं पाण्डोः शश्वत्प्रीतिरवर्धत ॥२६॥
पुत्राणाम् जन्म वृद्धिम् च वैदिक-अध्ययनानि च । पश्यतः सततम् पाण्डोः शश्वत् प्रीतिः अवर्धत ॥२६॥
putrāṇām janma vṛddhim ca vaidika-adhyayanāni ca . paśyataḥ satatam pāṇḍoḥ śaśvat prītiḥ avardhata ..26..
वर्तमानः सतां वृत्ते पुत्रलाभमवाप्य च । पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि ॥२७॥
वर्तमानः सताम् वृत्ते पुत्र-लाभम् अवाप्य च । पितृ-लोकम् गतः पाण्डुरितः सप्तदशे अहनि ॥२७॥
vartamānaḥ satām vṛtte putra-lābham avāpya ca . pitṛ-lokam gataḥ pāṇḍuritaḥ saptadaśe ahani ..27..
तं चितागतमाज्ञाय वैश्वानरमुखे हुतम् । प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः ॥२८॥
तम् चिता-गतम् आज्ञाय वैश्वानर-मुखे हुतम् । प्रविष्टा पावकम् माद्री हित्वा जीवितम् आत्मनः ॥२८॥
tam citā-gatam ājñāya vaiśvānara-mukhe hutam . praviṣṭā pāvakam mādrī hitvā jīvitam ātmanaḥ ..28..
सा गता सह तेनैव पतिलोकमनुव्रता । तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् ॥२९॥
सा गता सह तेन एव पति-लोकम् अनुव्रता । तस्याः तस्य च यत् कार्यम् क्रियताम् तत् अनन्तरम् ॥२९॥
sā gatā saha tena eva pati-lokam anuvratā . tasyāḥ tasya ca yat kāryam kriyatām tat anantaram ..29..
इमे तयोः शरीरे द्वे सुताश्चेमे तयोर्वराः । क्रियाभिरनुगृह्यन्तां सह मात्रा परन्तपाः ॥३०॥
इमे तयोः शरीरे द्वे सुताः च इमे तयोः वराः । क्रियाभिः अनुगृह्यन्ताम् सह मात्रा परन्तपाः ॥३०॥
ime tayoḥ śarīre dve sutāḥ ca ime tayoḥ varāḥ . kriyābhiḥ anugṛhyantām saha mātrā parantapāḥ ..30..
प्रेतकार्ये च निर्वृत्ते पितृमेधं महायशाः । लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः ॥३१॥
प्रेतकार्ये च निर्वृत्ते पितृमेधम् महा-यशाः । लभताम् सर्व-धर्म-ज्ञः पाण्डुः कुरु-कुल-उद्वहः ॥३१॥
pretakārye ca nirvṛtte pitṛmedham mahā-yaśāḥ . labhatām sarva-dharma-jñaḥ pāṇḍuḥ kuru-kula-udvahaḥ ..31..
एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् । क्षणेनान्तर्हिताः सर्वे चारणा गुह्यकैः सह ॥३२॥
एवम् उक्त्वा कुरून् सर्वान् कुरूणाम् एव पश्यताम् । क्षणेन अन्तर्हिताः सर्वे चारणाः गुह्यकैः सह ॥३२॥
evam uktvā kurūn sarvān kurūṇām eva paśyatām . kṣaṇena antarhitāḥ sarve cāraṇāḥ guhyakaiḥ saha ..32..
गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः । ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः ॥३३॥ 1.125.35
गन्धर्वनगर-आकारम् तत्र एव अन्तर्हितम् पुनर् । ऋषि-सिद्ध-गणम् दृष्ट्वा विस्मयम् ते परम् ययुः ॥३३॥ १।१२५।३५
gandharvanagara-ākāram tatra eva antarhitam punar . ṛṣi-siddha-gaṇam dṛṣṭvā vismayam te param yayuḥ ..33.. 1.125.35

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In