| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

धृतराष्ट्र उवाच॥
पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय । राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः ॥१॥
पाण्डोः विदुर सर्वाणि प्रेतकार्याणि कारय । राज-वत् राज-सिंहस्य माद्र्याः च एव विशेषतः ॥१॥
pāṇḍoḥ vidura sarvāṇi pretakāryāṇi kāraya . rāja-vat rāja-siṃhasya mādryāḥ ca eva viśeṣataḥ ..1..
पशून्वासांसि रत्नानि धनानि विविधानि च । पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम् ॥२॥
पशून् वासांसि रत्नानि धनानि विविधानि च । पाण्डोः प्रयच्छ माद्र्याः च येभ्यः यावत् च वाञ्छितम् ॥२॥
paśūn vāsāṃsi ratnāni dhanāni vividhāni ca . pāṇḍoḥ prayaccha mādryāḥ ca yebhyaḥ yāvat ca vāñchitam ..2..
यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु । यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम् ॥३॥
यथा च कुन्ती सत्कारम् कुर्यात् माद्र्याः तथा कुरु । यथा न वायुः न आदित्यः पश्येताम् ताम् सु संवृताम् ॥३॥
yathā ca kuntī satkāram kuryāt mādryāḥ tathā kuru . yathā na vāyuḥ na ādityaḥ paśyetām tām su saṃvṛtām ..3..
न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः । यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः ॥४॥
न शोच्यः पाण्डुः अनघः प्रशस्यः स नराधिपः । यस्य पञ्च सुताः वीराः जाताः सुर-सुत-उपमाः ॥४॥
na śocyaḥ pāṇḍuḥ anaghaḥ praśasyaḥ sa narādhipaḥ . yasya pañca sutāḥ vīrāḥ jātāḥ sura-suta-upamāḥ ..4..
वैशम्पायन उवाच॥
विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत । पाण्डुं संस्कारयामास देशे परमसंवृते ॥५॥
विदुरः तम् तथा इति उक्त्वा भीष्मेण सह भारत । पाण्डुम् संस्कारयामास देशे परम-संवृते ॥५॥
viduraḥ tam tathā iti uktvā bhīṣmeṇa saha bhārata . pāṇḍum saṃskārayāmāsa deśe parama-saṃvṛte ..5..
ततस्तु नगरात्तूर्णमाज्यहोमपुरस्कृताः । निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः ॥६॥
ततस् तु नगरात् तूर्णम् आज्य-होम-पुरस्कृताः । निर्हृताः पावकाः दीप्ताः पाण्डोः राज-पुरोहितैः ॥६॥
tatas tu nagarāt tūrṇam ājya-homa-puraskṛtāḥ . nirhṛtāḥ pāvakāḥ dīptāḥ pāṇḍoḥ rāja-purohitaiḥ ..6..
अथैनमार्तवैर्गन्धैर्माल्यैश्च विविधैर्वरैः । शिबिकां समलञ्चक्रुर्वाससाच्छाद्य सर्वशः ॥७॥
अथ एनम् आर्तवैः गन्धैः माल्यैः च विविधैः वरैः । शिबिकाम् समलञ्चक्रुः वाससा आच्छाद्य सर्वशस् ॥७॥
atha enam ārtavaiḥ gandhaiḥ mālyaiḥ ca vividhaiḥ varaiḥ . śibikām samalañcakruḥ vāsasā ācchādya sarvaśas ..7..
तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः । अमात्या ज्ञातयश्चैव सुहृदश्चोपतस्थिरे ॥८॥
ताम् तथा शोभिताम् माल्यैः वासोभिः च महाधनैः । अमात्याः ज्ञातयः च एव सुहृदः च उपतस्थिरे ॥८॥
tām tathā śobhitām mālyaiḥ vāsobhiḥ ca mahādhanaiḥ . amātyāḥ jñātayaḥ ca eva suhṛdaḥ ca upatasthire ..8..
नृसिंहं नरयुक्तेन परमालङ्कृतेन तम् । अवहन्यानमुख्येन सह माद्र्या सुसंवृतम् ॥९॥
नृ-सिंहम् नर-युक्तेन परम-अलङ्कृतेन तम् । अवहन् यान-मुख्येन सह माद्र्या सु संवृतम् ॥९॥
nṛ-siṃham nara-yuktena parama-alaṅkṛtena tam . avahan yāna-mukhyena saha mādryā su saṃvṛtam ..9..
पाण्डुरेणातपत्रेण चामरव्यजनेन च । सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः ॥१०॥
पाण्डुरेण आतपत्रेण चामर-व्यजनेन च । सर्व-वादित्र-नादैः च समलञ्चक्रिरे ततस् ॥१०॥
pāṇḍureṇa ātapatreṇa cāmara-vyajanena ca . sarva-vāditra-nādaiḥ ca samalañcakrire tatas ..10..
रत्नानि चाप्युपादाय बहूनि शतशो नराः । प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तत्रौर्ध्वदेहिकम् ॥११॥
रत्नानि च अपि उपादाय बहूनि शतशस् नराः । प्रददुः काङ्क्षमाणेभ्यः पाण्डोः तत्र और्ध्वदेहिकम् ॥११॥
ratnāni ca api upādāya bahūni śataśas narāḥ . pradaduḥ kāṅkṣamāṇebhyaḥ pāṇḍoḥ tatra aurdhvadehikam ..11..
अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च । आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च ॥१२॥
अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च । आजह्रुः कौरवस्य अर्थे वासांसि रुचिराणि च ॥१२॥
atha chatrāṇi śubhrāṇi pāṇḍurāṇi bṛhanti ca . ājahruḥ kauravasya arthe vāsāṃsi rucirāṇi ca ..12..
याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः । अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः ॥१३॥
याजकैः शुक्ल-वासोभिः हूयमानाः हुताशनाः । अगच्छन् अग्रतस् तस्य दीप्यमानाः सु अलङ्कृताः ॥१३॥
yājakaiḥ śukla-vāsobhiḥ hūyamānāḥ hutāśanāḥ . agacchan agratas tasya dīpyamānāḥ su alaṅkṛtāḥ ..13..
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः । रुदन्तः शोकसन्तप्ता अनुजग्मुर्नराधिपम् ॥१४॥
ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राः च एव सहस्रशस् । रुदन्तः शोक-सन्तप्ताः अनुजग्मुः नराधिपम् ॥१४॥
brāhmaṇāḥ kṣatriyāḥ vaiśyāḥ śūdrāḥ ca eva sahasraśas . rudantaḥ śoka-santaptāḥ anujagmuḥ narādhipam ..14..
अयमस्मानपाहाय दुःखे चाधाय शाश्वते । कृत्वानाथान्परो नाथः क्व यास्यति नराधिपः ॥१५॥
अयम् अस्मान् अपाहाय दुःखे च आधाय शाश्वते । कृत्वा अनाथान् परः नाथः क्व यास्यति नराधिपः ॥१५॥
ayam asmān apāhāya duḥkhe ca ādhāya śāśvate . kṛtvā anāthān paraḥ nāthaḥ kva yāsyati narādhipaḥ ..15..
क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च । रमणीये वनोद्देशे गङ्गातीरे समे शुभे ॥१६॥
क्रोशन्तः पाण्डवाः सर्वे भीष्मः विदुरः एव च । रमणीये वन-उद्देशे गङ्गा-तीरे समे शुभे ॥१६॥
krośantaḥ pāṇḍavāḥ sarve bhīṣmaḥ viduraḥ eva ca . ramaṇīye vana-uddeśe gaṅgā-tīre same śubhe ..16..
न्यासयामासुरथ तां शिबिकां सत्यवादिनः । सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः ॥१७॥
न्यासयामासुः अथ ताम् शिबिकाम् सत्य-वादिनः । स भार्यस्य नृ-सिंहस्य पाण्डोः अक्लिष्ट-कर्मणः ॥१७॥
nyāsayāmāsuḥ atha tām śibikām satya-vādinaḥ . sa bhāryasya nṛ-siṃhasya pāṇḍoḥ akliṣṭa-karmaṇaḥ ..17..
ततस्तस्य शरीरं तत्सर्वगन्धनिषेवितम् । शुचिकालीयकादिग्धं मुख्यस्नानाधिवासितम् ॥१८॥ ( पर्यषिञ्चज्जलेनाशु शातकुम्भमयैर्घटैः ॥१८॥ )
ततस् तस्य शरीरम् तत् सर्व-गन्ध-निषेवितम् । शुचि-कालीयक-आदिग्धम् मुख्य-स्नान-अधिवासितम् ॥१८॥ ( पर्यषिञ्चत् जलेन आशु शातकुम्भ-मयैः घटैः ॥१८॥ )
tatas tasya śarīram tat sarva-gandha-niṣevitam . śuci-kālīyaka-ādigdham mukhya-snāna-adhivāsitam ..18.. ( paryaṣiñcat jalena āśu śātakumbha-mayaiḥ ghaṭaiḥ ..18.. )
चन्दनेन च मुख्येन शुक्लेन समलेपयन् । कालागुरुविमिश्रेण तथा तुङ्गरसेन च ॥१९॥
चन्दनेन च मुख्येन शुक्लेन समलेपयन् । कालागुरु-विमिश्रेण तथा तुङ्ग-रसेन च ॥१९॥
candanena ca mukhyena śuklena samalepayan . kālāguru-vimiśreṇa tathā tuṅga-rasena ca ..19..
अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन् । आच्छन्नः स तु वासोभिर्जीवन्निव नरर्षभः ॥२०॥ ( शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः ॥२०॥ )
अथ एनम् देश-जैः शुक्लैः वासोभिः समयोजयन् । आच्छन्नः स तु वासोभिः जीवन् इव नर-ऋषभः ॥२०॥ ( शुशुभे पुरुष-व्याघ्रः महार्ह-शयन-उचितः ॥२०॥ )
atha enam deśa-jaiḥ śuklaiḥ vāsobhiḥ samayojayan . ācchannaḥ sa tu vāsobhiḥ jīvan iva nara-ṛṣabhaḥ ..20.. ( śuśubhe puruṣa-vyāghraḥ mahārha-śayana-ucitaḥ ..20.. )
याजकैरभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः । घृतावसिक्तं राजानं सह माद्र्या स्वलङ्कृतम् ॥२१॥
याजकैः अभ्यनुज्ञातम् प्रेत-कर्मणि निष्ठितैः । घृत-अवसिक्तम् राजानम् सह माद्र्या सु अलङ्कृतम् ॥२१॥
yājakaiḥ abhyanujñātam preta-karmaṇi niṣṭhitaiḥ . ghṛta-avasiktam rājānam saha mādryā su alaṅkṛtam ..21..
तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना । अन्यैश्च विविधैर्गन्धैरनल्पैः समदाहयन् ॥२२॥
तुङ्ग-पद्मक-मिश्रेण चन्दनेन सुगन्धिना । अन्यैः च विविधैः गन्धैः अनल्पैः समदाहयन् ॥२२॥
tuṅga-padmaka-miśreṇa candanena sugandhinā . anyaiḥ ca vividhaiḥ gandhaiḥ analpaiḥ samadāhayan ..22..
ततस्तयोः शरीरे ते दृष्ट्वा मोहवशं गता । हाहा पुत्रेति कौसल्या पपात सहसा भुवि ॥२३॥
ततस् तयोः शरीरे ते दृष्ट्वा मोह-वशम् गता । हाहा पुत्र इति कौसल्या पपात सहसा भुवि ॥२३॥
tatas tayoḥ śarīre te dṛṣṭvā moha-vaśam gatā . hāhā putra iti kausalyā papāta sahasā bhuvi ..23..
तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः । रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः ॥२४॥
ताम् प्रेक्ष्य पतिताम् आर्ताम् पौर-जानपदः जनः । रुरोद स स्वनम् सर्वः राज-भक्त्या कृपा-अन्वितः ॥२४॥
tām prekṣya patitām ārtām paura-jānapadaḥ janaḥ . ruroda sa svanam sarvaḥ rāja-bhaktyā kṛpā-anvitaḥ ..24..
क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः । मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि ॥२५॥
क्लान्तानि इव आर्त-नादेन सर्वाणि च विचुक्रुशुः । मानुषैः सह भूतानि तिर्यग्योनि-गतानि अपि ॥२५॥
klāntāni iva ārta-nādena sarvāṇi ca vicukruśuḥ . mānuṣaiḥ saha bhūtāni tiryagyoni-gatāni api ..25..
तथा भीष्मः शान्तनवो विदुरश्च महामतिः । सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः ॥२६॥
तथा भीष्मः शान्तनवः विदुरः च महामतिः । सर्वशस् कौरवाः च एव प्राणदन् भृश-दुःखिताः ॥२६॥
tathā bhīṣmaḥ śāntanavaḥ viduraḥ ca mahāmatiḥ . sarvaśas kauravāḥ ca eva prāṇadan bhṛśa-duḥkhitāḥ ..26..
ततो भीष्मोऽथ विदुरो राजा च सह बन्धुभिः । उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः ॥२७॥
ततस् भीष्मः अथ विदुरः राजा च सह बन्धुभिः । उदकम् चक्रिरे तस्य सर्वाः च कुरु-योषितः ॥२७॥
tatas bhīṣmaḥ atha viduraḥ rājā ca saha bandhubhiḥ . udakam cakrire tasya sarvāḥ ca kuru-yoṣitaḥ ..27..
कृतोदकांस्तानादाय पाण्डवाञ्शोककर्शितान् । सर्वाः प्रकृतयो राजञ्शोचन्त्यः पर्यवारयन् ॥२८॥
कृत-उदकान् तान् आदाय पाण्डवान् शोक-कर्शितान् । सर्वाः प्रकृतयः राजन् शोचन्त्यः पर्यवारयन् ॥२८॥
kṛta-udakān tān ādāya pāṇḍavān śoka-karśitān . sarvāḥ prakṛtayaḥ rājan śocantyaḥ paryavārayan ..28..
यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः । तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः ॥२९॥
यथा एव पाण्डवाः भूमौ सुषुपुः सह बान्धवैः । तथा एव नागराः राजन् शिश्यिरे ब्राह्मण-आदयः ॥२९॥
yathā eva pāṇḍavāḥ bhūmau suṣupuḥ saha bāndhavaiḥ . tathā eva nāgarāḥ rājan śiśyire brāhmaṇa-ādayaḥ ..29..
तदनानन्दमस्वस्थमाकुमारमहृष्टवत् । बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः ॥३०॥1.126.32
तत् अनानन्दम् अस्वस्थम् आकुमारम् अहृष्ट-वत् । बभूव पाण्डवैः सार्धम् नगरम् द्वादश क्षपाः ॥३०॥१।१२६।३२
tat anānandam asvastham ākumāram ahṛṣṭa-vat . babhūva pāṇḍavaiḥ sārdham nagaram dvādaśa kṣapāḥ ..30..1.126.32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In