| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततः क्षत्ता च राजा च भीष्मश्च सह बन्धुभिः । ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा ॥१॥
ततस् क्षत्ता च राजा च भीष्मः च सह बन्धुभिः । ददुः श्राद्धम् तदा पाण्डोः स्वधा-अमृत-मयम् तदा ॥१॥
tatas kṣattā ca rājā ca bhīṣmaḥ ca saha bandhubhiḥ . daduḥ śrāddham tadā pāṇḍoḥ svadhā-amṛta-mayam tadā ..1..
कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः । रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरानपि ॥२॥
कुरून् च विप्र-मुख्यान् च भोजयित्वा सहस्रशस् । रत्न-ओघान् द्विजमुख्येभ्यः दत्त्वा ग्राम-वरान् अपि ॥२॥
kurūn ca vipra-mukhyān ca bhojayitvā sahasraśas . ratna-oghān dvijamukhyebhyaḥ dattvā grāma-varān api ..2..
कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान् । आदाय विविशुः पौराः पुरं वारणसाह्वयम् ॥३॥
कृत-शौचान् ततस् तान् तु पाण्डवान् भरत-ऋषभान् । आदाय विविशुः पौराः पुरम् वारणसाह्वयम् ॥३॥
kṛta-śaucān tatas tān tu pāṇḍavān bharata-ṛṣabhān . ādāya viviśuḥ paurāḥ puram vāraṇasāhvayam ..3..
सततं स्मान्वतप्यन्त तमेव भरतर्षभम् । पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम् ॥४॥
सततम् स्म अन्वतप्यन्त तम् एव भरत-ऋषभम् । पौर-जानपदाः सर्वे मृतम् स्वम् इव बान्धवम् ॥४॥
satatam sma anvatapyanta tam eva bharata-ṛṣabham . paura-jānapadāḥ sarve mṛtam svam iva bāndhavam ..4..
श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् । संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् ॥५॥
श्राद्ध-अवसाने तु तदा दृष्ट्वा तम् दुःखितम् जनम् । संमूढाम् दुःख-शोक-आर्ताम् व्यासः मातरम् अब्रवीत् ॥५॥
śrāddha-avasāne tu tadā dṛṣṭvā tam duḥkhitam janam . saṃmūḍhām duḥkha-śoka-ārtām vyāsaḥ mātaram abravīt ..5..
अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः । श्वः श्वः पापीयदिवसाः पृथिवी गतयौवना ॥६॥
अतिक्रान्त-सुखाः कालाः प्रत्युपस्थित-दारुणाः । श्वस् श्वस् पापीय-दिवसाः पृथिवी गत-यौवना ॥६॥
atikrānta-sukhāḥ kālāḥ pratyupasthita-dāruṇāḥ . śvas śvas pāpīya-divasāḥ pṛthivī gata-yauvanā ..6..
बहुमायासमाकीर्णो नानादोषसमाकुलः । लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति ॥७॥
बहु-माया-समाकीर्णः नाना दोष-समाकुलः । लुप्त-धर्म-क्रिया-आचारः घोरः कालः भविष्यति ॥७॥
bahu-māyā-samākīrṇaḥ nānā doṣa-samākulaḥ . lupta-dharma-kriyā-ācāraḥ ghoraḥ kālaḥ bhaviṣyati ..7..
गच्छ त्वं त्यागमास्थाय युक्ता वस तपोवने । मा द्रक्ष्यसि कुलस्यास्य घोरं सङ्क्षयमात्मनः ॥८॥
गच्छ त्वम् त्यागम् आस्थाय युक्ता वस तपः-वने । मा द्रक्ष्यसि कुलस्य अस्य घोरम् सङ्क्षयम् आत्मनः ॥८॥
gaccha tvam tyāgam āsthāya yuktā vasa tapaḥ-vane . mā drakṣyasi kulasya asya ghoram saṅkṣayam ātmanaḥ ..8..
तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम् । अम्बिके तव पुत्रस्य दुर्नयात्किल भारताः ॥९॥ ( सानुबन्धा विनङ्क्ष्यन्ति पौत्राश्चैवेति नः श्रुतम् ॥९॥ )
तथा इति समनुज्ञाय सा प्रविश्य अब्रवीत् स्नुषाम् । अम्बिके तव पुत्रस्य दुर्नयात् किल भारताः ॥९॥ ( सानुबन्धाः विनङ्क्ष्यन्ति पौत्राः च एव इति नः श्रुतम् ॥९॥ )
tathā iti samanujñāya sā praviśya abravīt snuṣām . ambike tava putrasya durnayāt kila bhāratāḥ ..9.. ( sānubandhāḥ vinaṅkṣyanti pautrāḥ ca eva iti naḥ śrutam ..9.. )
तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम् । वनमादाय भद्रं ते गच्छावो यदि मन्यसे ॥१०॥1.127.11
तत् कौसल्याम् इमाम् आर्ताम् पुत्र-शोक-अभिपीडिताम् । वनम् आदाय भद्रम् ते गच्छावः यदि मन्यसे ॥१०॥१।१२७।११
tat kausalyām imām ārtām putra-śoka-abhipīḍitām . vanam ādāya bhadram te gacchāvaḥ yadi manyase ..10..1.127.11
तथेत्युक्ते अम्बिकया भीष्ममामन्त्र्य सुव्रता । वनं ययौ सत्यवती स्नुषाभ्यां सह भारत ॥११॥
तथा इति उक्ते अम्बिकया भीष्मम् आमन्त्र्य सुव्रता । वनम् ययौ सत्यवती स्नुषाभ्याम् सह भारत ॥११॥
tathā iti ukte ambikayā bhīṣmam āmantrya suvratā . vanam yayau satyavatī snuṣābhyām saha bhārata ..11..
ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम । देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा ॥१२॥
ताः सु घोरम् तपः कृत्वा देव्यः भरत-सत्तम । देहम् त्यक्त्वा महा-राज गतिम् इष्टाम् ययुः तदा ॥१२॥
tāḥ su ghoram tapaḥ kṛtvā devyaḥ bharata-sattama . deham tyaktvā mahā-rāja gatim iṣṭām yayuḥ tadā ..12..
अवाप्नुवन्त वेदोक्तान्संस्कारान्पाण्डवास्तदा । अवर्धन्त च भोगांस्ते भुञ्जानाः पितृवेश्मनि ॥१३॥
अवाप्नुवन्त वेद-उक्तान् संस्कारान् पाण्डवाः तदा । अवर्धन्त च भोगान् ते भुञ्जानाः पितृ-वेश्मनि ॥१३॥
avāpnuvanta veda-uktān saṃskārān pāṇḍavāḥ tadā . avardhanta ca bhogān te bhuñjānāḥ pitṛ-veśmani ..13..
धार्तराष्ट्रैश्च सहिताः क्रीडन्तः पितृवेश्मनि । बालक्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन् ॥१४॥
धार्तराष्ट्रैः च सहिताः क्रीडन्तः पितृ-वेश्मनि । बाल-क्रीडासु सर्वासु विशिष्टाः पाण्डवाः अभवन् ॥१४॥
dhārtarāṣṭraiḥ ca sahitāḥ krīḍantaḥ pitṛ-veśmani . bāla-krīḍāsu sarvāsu viśiṣṭāḥ pāṇḍavāḥ abhavan ..14..
जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे । धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति ॥१५॥
जवे लक्ष्य-अभिहरणे भोज्ये पांसु-विकर्षणे । धार्तराष्ट्रान् भीमसेनः सर्वान् स परिमर्दति ॥१५॥
jave lakṣya-abhiharaṇe bhojye pāṃsu-vikarṣaṇe . dhārtarāṣṭrān bhīmasenaḥ sarvān sa parimardati ..15..
हर्षादेतान्क्रीडमानान्गृह्य काकनिलीयने । शिरःसु च निगृह्यैनान्योधयामास पाण्डवः ॥१६॥
हर्षात् एतान् क्रीडमानान् गृह्य काक-निलीयने । शिरःसु च निगृह्य एनान् योधयामास पाण्डवः ॥१६॥
harṣāt etān krīḍamānān gṛhya kāka-nilīyane . śiraḥsu ca nigṛhya enān yodhayāmāsa pāṇḍavaḥ ..16..
शतमेकोत्तरं तेषां कुमाराणां महौजसाम् । एक एव विमृद्नाति नातिकृच्छ्राद्वृकोदरः ॥१७॥
शतम् एक-उत्तरम् तेषाम् कुमाराणाम् महा-ओजसाम् । एकः एव विमृद्नाति न अतिकृच्छ्रात् वृकोदरः ॥१७॥
śatam eka-uttaram teṣām kumārāṇām mahā-ojasām . ekaḥ eva vimṛdnāti na atikṛcchrāt vṛkodaraḥ ..17..
पादेषु च निगृह्यैनान्विनिहत्य बलाद्बली । चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान् ॥१८॥
पादेषु च निगृह्य एनान् विनिहत्य बलात् बली । चकर्ष क्रोशतः भूमौ घृष्ट-जानु-शिर-उक्षिकान् ॥१८॥
pādeṣu ca nigṛhya enān vinihatya balāt balī . cakarṣa krośataḥ bhūmau ghṛṣṭa-jānu-śira-ukṣikān ..18..
दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः । आस्ते स्म सलिले मग्नः प्रमृतांश्च विमुञ्चति ॥१९॥
दश बालान् जले क्रीडन् भुजाभ्याम् परिगृह्य सः । आस्ते स्म सलिले मग्नः प्रमृतान् च विमुञ्चति ॥१९॥
daśa bālān jale krīḍan bhujābhyām parigṛhya saḥ . āste sma salile magnaḥ pramṛtān ca vimuñcati ..19..
फलानि वृक्षमारुह्य प्रचिन्वन्ति च ते यदा । तदा पादप्रहारेण भीमः कम्पयते द्रुमम् ॥२०॥1.127.21
फलानि वृक्षम् आरुह्य प्रचिन्वन्ति च ते यदा । तदा पाद-प्रहारेण भीमः कम्पयते द्रुमम् ॥२०॥१।१२७।२१
phalāni vṛkṣam āruhya pracinvanti ca te yadā . tadā pāda-prahāreṇa bhīmaḥ kampayate drumam ..20..1.127.21
प्रहारवेगाभिहताद्द्रुमाद्व्याघूर्णितास्ततः । सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः ॥२१॥
प्रहार-वेग-अभिहतात् द्रुमात् व्याघूर्णिताः ततस् । सफलाः प्रपतन्ति स्म द्रुतम् स्रस्ताः कुमारकाः ॥२१॥
prahāra-vega-abhihatāt drumāt vyāghūrṇitāḥ tatas . saphalāḥ prapatanti sma drutam srastāḥ kumārakāḥ ..21..
न ते नियुद्धे न जवे न योग्यासु कदाचन । कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् ॥२२॥
न ते नियुद्धे न जवे न योग्यासु कदाचन । कुमाराः उत्तरम् चक्रुः स्पर्धमानाः वृकोदरम् ॥२२॥
na te niyuddhe na jave na yogyāsu kadācana . kumārāḥ uttaram cakruḥ spardhamānāḥ vṛkodaram ..22..
एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः । अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा ॥२३॥
एवम् स धार्तराष्ट्राणाम् स्पर्धमानः वृकोदरः । अप्रिये अतिष्ठत् अत्यन्तम् बाल्यात् न द्रोह-चेतसा ॥२३॥
evam sa dhārtarāṣṭrāṇām spardhamānaḥ vṛkodaraḥ . apriye atiṣṭhat atyantam bālyāt na droha-cetasā ..23..
ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान् । भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् ॥२४॥
ततस् बलम् अतिख्यातम् धार्तराष्ट्रः प्रतापवान् । भीमसेनस्य तत् ज्ञात्वा दुष्ट-भावम् अदर्शयत् ॥२४॥
tatas balam atikhyātam dhārtarāṣṭraḥ pratāpavān . bhīmasenasya tat jñātvā duṣṭa-bhāvam adarśayat ..24..
तस्य धर्मादपेतस्य पापानि परिपश्यतः । मोहादैश्वर्यलोभाच्च पापा मतिरजायत ॥२५॥
तस्य धर्मात् अपेतस्य पापानि परिपश्यतः । मोहात् ऐश्वर्य-लोभात् च पापा मतिः अजायत ॥२५॥
tasya dharmāt apetasya pāpāni paripaśyataḥ . mohāt aiśvarya-lobhāt ca pāpā matiḥ ajāyata ..25..
अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः । मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम् ॥२६॥
अयम् बलवताम् श्रेष्ठः कुन्ती-पुत्रः वृकोदरः । मध्यमः पाण्डु-पुत्राणाम् निकृत्या संनिहन्यताम् ॥२६॥
ayam balavatām śreṣṭhaḥ kuntī-putraḥ vṛkodaraḥ . madhyamaḥ pāṇḍu-putrāṇām nikṛtyā saṃnihanyatām ..26..
अथ तस्मादवरजं ज्येष्ठं चैव युधिष्ठिरम् । प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम् ॥२७॥
अथ तस्मात् अवरजम् ज्येष्ठम् च एव युधिष्ठिरम् । प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम् ॥२७॥
atha tasmāt avarajam jyeṣṭham ca eva yudhiṣṭhiram . prasahya bandhane baddhvā praśāsiṣye vasundharām ..27..
एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा । नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः ॥२८॥
एवम् स निश्चयम् पापः कृत्वा दुर्योधनः तदा । नित्यम् एव अन्तर-प्रेक्षी भीमस्य आसीत् महात्मनः ॥२८॥
evam sa niścayam pāpaḥ kṛtvā duryodhanaḥ tadā . nityam eva antara-prekṣī bhīmasya āsīt mahātmanaḥ ..28..
ततो जलविहारार्थं कारयामास भारत । चेलकम्बलवेश्मानि विचित्राणि महान्ति च ॥२९॥
ततस् जल-विहार-अर्थम् कारयामास भारत । चेल-कम्बल-वेश्मानि विचित्राणि महान्ति च ॥२९॥
tatas jala-vihāra-artham kārayāmāsa bhārata . cela-kambala-veśmāni vicitrāṇi mahānti ca ..29..
प्रमाणकोट्यामुद्देशं स्थलं किञ्चिदुपेत्य च । क्रीडावसाने सर्वे ते शुचिवस्त्राः स्वलङ्कृताः ॥३०॥ ( सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः ॥३०॥ )
प्रमाणकोट्याम् उद्देशम् स्थलम् किञ्चिद् उपेत्य च । क्रीडा-अवसाने सर्वे ते शुचि-वस्त्राः सु अलङ्कृताः ॥३०॥ ( सर्व-काम-समृद्धम् तत् अन्नम् बुभुजिरे शनैस् ॥३०॥ )
pramāṇakoṭyām uddeśam sthalam kiñcid upetya ca . krīḍā-avasāne sarve te śuci-vastrāḥ su alaṅkṛtāḥ ..30.. ( sarva-kāma-samṛddham tat annam bubhujire śanais ..30.. )
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः । विहारावसथेष्वेव वीरा वासमरोचयन् ॥३१॥
दिवस-अन्ते परिश्रान्ताः विहृत्य च कुरु-उद्वहाः । विहार-आवसथेषु एव वीराः वासम् अरोचयन् ॥३१॥
divasa-ante pariśrāntāḥ vihṛtya ca kuru-udvahāḥ . vihāra-āvasatheṣu eva vīrāḥ vāsam arocayan ..31..
खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा । वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः ॥३२॥ ( प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत्स्थलम् ॥३२॥ )
खिन्नः तु बलवान् भीमः व्यायाम-अभ्यधिकः तदा । वाहयित्वा कुमारान् तान् जल-क्रीडा-आगतान् विभुः ॥३२॥ ( प्रमाणकोट्याम् वास-अर्थी सुष्वाप आरुह्य तत् स्थलम् ॥३२॥ )
khinnaḥ tu balavān bhīmaḥ vyāyāma-abhyadhikaḥ tadā . vāhayitvā kumārān tān jala-krīḍā-āgatān vibhuḥ ..32.. ( pramāṇakoṭyām vāsa-arthī suṣvāpa āruhya tat sthalam ..32.. )
शीतं वासं समासाद्य श्रान्तो मदविमोहितः । निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतकल्पवत् ॥३३॥
शीतम् वासम् समासाद्य श्रान्तः मद-विमोहितः । निश्चेष्टः पाण्डवः राजन् सुष्वाप मृत-कल्प-वत् ॥३३॥
śītam vāsam samāsādya śrāntaḥ mada-vimohitaḥ . niśceṣṭaḥ pāṇḍavaḥ rājan suṣvāpa mṛta-kalpa-vat ..33..
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः । गम्भीरं भीमवेगं च स्थलाज्जलमपातयत् ॥३४॥
ततस् बद्ध्वा लता-पाशैः भीमम् दुर्योधनः शनैस् । गम्भीरम् भीम-वेगम् च स्थलात् जलम् अपातयत् ॥३४॥
tatas baddhvā latā-pāśaiḥ bhīmam duryodhanaḥ śanais . gambhīram bhīma-vegam ca sthalāt jalam apātayat ..34..
ततः प्रबुद्धः कौन्तेयः सर्वं सञ्छिद्य बन्धनम् । उदतिष्ठज्जलाद्भूयो भीमः प्रहरतां वरः ॥३५॥
ततस् प्रबुद्धः कौन्तेयः सर्वम् सञ्छिद्य बन्धनम् । उदतिष्ठत् जलात् भूयस् भीमः प्रहरताम् वरः ॥३५॥
tatas prabuddhaḥ kaunteyaḥ sarvam sañchidya bandhanam . udatiṣṭhat jalāt bhūyas bhīmaḥ praharatām varaḥ ..35..
सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः । कुपितैर्दंशयामास सर्वेष्वेवाङ्गमर्मसु ॥३६॥
सुप्तम् च अपि पुनर् सर्पैः तीक्ष्ण-दंष्ट्रैः महाविषैः । कुपितैः दंशयामास सर्वेषु एव अङ्ग-मर्मसु ॥३६॥
suptam ca api punar sarpaiḥ tīkṣṇa-daṃṣṭraiḥ mahāviṣaiḥ . kupitaiḥ daṃśayāmāsa sarveṣu eva aṅga-marmasu ..36..
दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः । त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः ॥३७॥
दंष्ट्राः च दंष्ट्रिणाम् तेषाम् मर्मसु अपि निपातिताः । त्वचम् न एव अस्य बिभिदुः सार-त्वात् पृथु-वक्षसः ॥३७॥
daṃṣṭrāḥ ca daṃṣṭriṇām teṣām marmasu api nipātitāḥ . tvacam na eva asya bibhiduḥ sāra-tvāt pṛthu-vakṣasaḥ ..37..
प्रतिबुद्धस्तु भीमस्तान्सर्वान्सर्पानपोथयत् । सारथिं चास्य दयितमपहस्तेन जघ्निवान् ॥३८॥
प्रतिबुद्धः तु भीमः तान् सर्वान् सर्पान् अपोथयत् । सारथिम् च अस्य दयितम् अपहस्तेन जघ्निवान् ॥३८॥
pratibuddhaḥ tu bhīmaḥ tān sarvān sarpān apothayat . sārathim ca asya dayitam apahastena jaghnivān ..38..
भोजने भीमसेनस्य पुनः प्राक्षेपयद्विषम् । कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम् ॥३९॥
भोजने भीमसेनस्य पुनर् प्राक्षेपयत् विषम् । कालकूटम् नवम् तीक्ष्णम् सम्भृतम् लोम-हर्षणम् ॥३९॥
bhojane bhīmasenasya punar prākṣepayat viṣam . kālakūṭam navam tīkṣṇam sambhṛtam loma-harṣaṇam ..39..
वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया । तच्चापि भुक्त्वाजरयदविकारो वृकोदरः ॥४०॥
वैश्यापुत्रः तत् आचष्ट पार्थानाम् हित-काम्यया । तत् च अपि भुक्त्वा अजरयत् अविकारः वृकोदरः ॥४०॥
vaiśyāputraḥ tat ācaṣṭa pārthānām hita-kāmyayā . tat ca api bhuktvā ajarayat avikāraḥ vṛkodaraḥ ..40..
विकारं न ह्यजनयत्सुतीक्ष्णमपि तद्विषम् । भीमसंहननो भीमस्तदप्यजरयत्ततः ॥४१॥
विकारम् न हि अजनयत् सु तीक्ष्णम् अपि तत् विषम् । भीम-संहननः भीमः तत् अपि अजरयत् ततस् ॥४१॥
vikāram na hi ajanayat su tīkṣṇam api tat viṣam . bhīma-saṃhananaḥ bhīmaḥ tat api ajarayat tatas ..41..
एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः । अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥४२॥
एवम् दुर्योधनः कर्णः शकुनिः च अपि सौबलः । अनेकैः अभ्युपायैः तान् जिघांसन्ति स्म पाण्डवान् ॥४२॥
evam duryodhanaḥ karṇaḥ śakuniḥ ca api saubalaḥ . anekaiḥ abhyupāyaiḥ tān jighāṃsanti sma pāṇḍavān ..42..
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः । उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥४३॥ 1.128.41
पाण्डवाः च अपि तत् सर्वम् प्रत्यजानन् अरिंदमाः । उद्भावनम् अकुर्वन्तः विदुरस्य मते स्थिताः ॥४३॥ १।१२८।४१
pāṇḍavāḥ ca api tat sarvam pratyajānan ariṃdamāḥ . udbhāvanam akurvantaḥ vidurasya mate sthitāḥ ..43.. 1.128.41

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In