| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शौनक उवाच॥
किमर्थं राजशार्दूलः स राजा जनमेजयः । सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे ॥१॥
किमर्थम् राज-शार्दूलः स राजा जनमेजयः । सर्प-सत्रेण सर्पाणाम् गतः अन्तम् तत् वदस्व मे ॥१॥
kimartham rāja-śārdūlaḥ sa rājā janamejayaḥ . sarpa-satreṇa sarpāṇām gataḥ antam tat vadasva me ..1..
आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः । मोक्षयामास भुजगान्दीप्तात्तस्माद्धुताशनात् ॥२॥
आस्तीकः च द्विजश्रेष्ठः किमर्थम् जपताम् वरः । मोक्षयामास भुजगान् दीप्तात् तस्मात् हुताशनात् ॥२॥
āstīkaḥ ca dvijaśreṣṭhaḥ kimartham japatām varaḥ . mokṣayāmāsa bhujagān dīptāt tasmāt hutāśanāt ..2..
कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत् । स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे ॥३॥
कस्य पुत्रः स राजा आसीत् सर्प-सत्रम् यः आहरत् । स च द्विजाति-प्रवरः कस्य पुत्रः वदस्व मे ॥३॥
kasya putraḥ sa rājā āsīt sarpa-satram yaḥ āharat . sa ca dvijāti-pravaraḥ kasya putraḥ vadasva me ..3..
सूत उवाच॥
महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते द्विज । सर्वमेतदशेषेण शृणु मे वदतां वर ॥४॥
महत् आख्यानम् आस्तीकम् यत्र एतत् प्रोच्यते द्विज । सर्वम् एतत् अशेषेण शृणु मे वदताम् वर ॥४॥
mahat ākhyānam āstīkam yatra etat procyate dvija . sarvam etat aśeṣeṇa śṛṇu me vadatām vara ..4..
शौनक उवाच॥
श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम् । आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः ॥५॥
श्रोतुम् इच्छामि अशेषेण कथाम् एताम् मनोरमाम् । आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः ॥५॥
śrotum icchāmi aśeṣeṇa kathām etām manoramām . āstīkasya purāṇasya brāhmaṇasya yaśasvinaḥ ..5..
सूत उवाच॥
इतिहासमिमं वृद्धाः पुराणं परिचक्षते । कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिनः ॥६॥
इतिहासम् इमम् वृद्धाः पुराणम् परिचक्षते । कृष्णद्वैपायन-प्रोक्तम् नैमिष-अरण्य-वासिनः ॥६॥
itihāsam imam vṛddhāḥ purāṇam paricakṣate . kṛṣṇadvaipāyana-proktam naimiṣa-araṇya-vāsinaḥ ..6..
पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः । शिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान् ॥७॥
पूर्वम् प्रचोदितः सूतः पिता मे लोमहर्षणः । शिष्यः व्यासस्य मेधावी ब्राह्मणैः इदम् उक्तवान् ॥७॥
pūrvam pracoditaḥ sūtaḥ pitā me lomaharṣaṇaḥ . śiṣyaḥ vyāsasya medhāvī brāhmaṇaiḥ idam uktavān ..7..
तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम् । इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते ॥८॥
तस्मात् अहम् उपश्रुत्य प्रवक्ष्यामि यथातथम् । इदम् आस्तीकम् आख्यानम् तुभ्यम् शौनक पृच्छते ॥८॥
tasmāt aham upaśrutya pravakṣyāmi yathātatham . idam āstīkam ākhyānam tubhyam śaunaka pṛcchate ..8..
आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः । ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा ॥९॥
आस्तीकस्य पिता हि आसीत् प्रजापति-समः प्रभुः । ब्रह्मचारी यत-आहारः तपसि उग्रे रतः सदा ॥९॥
āstīkasya pitā hi āsīt prajāpati-samaḥ prabhuḥ . brahmacārī yata-āhāraḥ tapasi ugre rataḥ sadā ..9..
जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिः । यायावराणां धर्मज्ञः प्रवरः संशितव्रतः ॥१०॥
जरत्कारुः इति ख्यातः ऊर्ध्वरेताः महान् ऋषिः । यायावराणाम् धर्म-ज्ञः प्रवरः संशित-व्रतः ॥१०॥
jaratkāruḥ iti khyātaḥ ūrdhvaretāḥ mahān ṛṣiḥ . yāyāvarāṇām dharma-jñaḥ pravaraḥ saṃśita-vrataḥ ..10..
अटमानः कदाचित्स स्वान्ददर्श पितामहान् । लम्बमानान्महागर्ते पादैरूर्ध्वैरधोमुखान् ॥११॥
अटमानः कदाचिद् स स्वान् ददर्श पितामहान् । लम्बमानान् महा-गर्ते पादैः ऊर्ध्वैः अधोमुखान् ॥११॥
aṭamānaḥ kadācid sa svān dadarśa pitāmahān . lambamānān mahā-garte pādaiḥ ūrdhvaiḥ adhomukhān ..11..
तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान् । के भवन्तोऽवलम्बन्ते गर्तेऽस्मिन्वा अधोमुखाः ॥१२॥
तान् अब्रवीत् स दृष्ट्वा एव जरत्कारुः पितामहान् । के भवन्तः अवलम्बन्ते गर्ते अस्मिन् वा अधोमुखाः ॥१२॥
tān abravīt sa dṛṣṭvā eva jaratkāruḥ pitāmahān . ke bhavantaḥ avalambante garte asmin vā adhomukhāḥ ..12..
वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते । मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना ॥१३॥
वीरण-स्तम्बके लग्नाः सर्वतस् परिभक्षिते । मूषकेन निगूढेन गर्ते अस्मिन् नित्य-वासिना ॥१३॥
vīraṇa-stambake lagnāḥ sarvatas paribhakṣite . mūṣakena nigūḍhena garte asmin nitya-vāsinā ..13..
पितर ऊचुः॥
यायावरा नाम वयमृषयः संशितव्रताः । सन्तानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम् ॥१४॥
यायावराः नाम वयम् ऋषयः संशित-व्रताः । सन्तान-प्रक्षयात् ब्रह्मन् अधस् गच्छाम मेदिनीम् ॥१४॥
yāyāvarāḥ nāma vayam ṛṣayaḥ saṃśita-vratāḥ . santāna-prakṣayāt brahman adhas gacchāma medinīm ..14..
अस्माकं सन्ततिस्त्वेको जरत्कारुरिति श्रुतः । मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः ॥१५॥
अस्माकम् सन्ततिः तु एकः जरत्कारुः इति श्रुतः । मन्दभाग्यः अल्पभाग्यानाम् तपः एव समास्थितः ॥१५॥
asmākam santatiḥ tu ekaḥ jaratkāruḥ iti śrutaḥ . mandabhāgyaḥ alpabhāgyānām tapaḥ eva samāsthitaḥ ..15..
न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति । तेन लम्बामहे गर्ते सन्तानप्रक्षयादिह ॥१६॥
न स पुत्रान् जनयितुम् दारान् मूढः चिकीर्षति । तेन लम्बामहे गर्ते सन्तान-प्रक्षयात् इह ॥१६॥
na sa putrān janayitum dārān mūḍhaḥ cikīrṣati . tena lambāmahe garte santāna-prakṣayāt iha ..16..
अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा । कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम ॥१७॥
अनाथाः तेन नाथेन यथा दुष्कृतिनः तथा । कः त्वम् बन्धुः इव अस्माकम् अनुशोचसि सत्तम ॥१७॥
anāthāḥ tena nāthena yathā duṣkṛtinaḥ tathā . kaḥ tvam bandhuḥ iva asmākam anuśocasi sattama ..17..
ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह धिष्ठितः । किमर्थं चैव नः शोच्याननुकम्पितुमर्हसि ॥१८॥
ज्ञातुम् इच्छामहे ब्रह्मन् कः भवान् इह धिष्ठितः । किमर्थम् च एव नः शोच्यान् अनुकम्पितुम् अर्हसि ॥१८॥
jñātum icchāmahe brahman kaḥ bhavān iha dhiṣṭhitaḥ . kimartham ca eva naḥ śocyān anukampitum arhasi ..18..
जरत्कारुरुवाच॥
मम पूर्वे भवन्तो वै पितरः सपितामहाः । ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम् ॥१९॥
मम पूर्वे भवन्तः वै पितरः स पितामहाः । ब्रूत किम् करवाणि अद्य जरत्कारुः अहम् स्वयम् ॥१९॥
mama pūrve bhavantaḥ vai pitaraḥ sa pitāmahāḥ . brūta kim karavāṇi adya jaratkāruḥ aham svayam ..19..
पितर ऊचुः॥
यतस्व यत्नवांस्तात सन्तानाय कुलस्य नः । आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव चाभिभो ॥२०॥
यतस्व यत्नवान् तात सन्तानाय कुलस्य नः । आत्मनः अर्थे अस्मद्-अर्थे च धर्मः इति एव च अभिभो ॥२०॥
yatasva yatnavān tāta santānāya kulasya naḥ . ātmanaḥ arthe asmad-arthe ca dharmaḥ iti eva ca abhibho ..20..
न हि धर्मफलैस्तात न तपोभिः सुसञ्चितैः । तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह ॥२१॥
न हि धर्म-फलैः तात न तपोभिः सु सञ्चितैः । ताम् गतिम् प्राप्नुवन्ति इह पुत्रिणः याम् व्रजन्ति ह ॥२१॥
na hi dharma-phalaiḥ tāta na tapobhiḥ su sañcitaiḥ . tām gatim prāpnuvanti iha putriṇaḥ yām vrajanti ha ..21..
तद्दारग्रहणे यत्नं सन्तत्यां च मनः कुरु । पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम् ॥२२॥
तद्-दार-ग्रहणे यत्नम् सन्तत्याम् च मनः कुरु । पुत्रक अस्मद्-नियोगात् त्वम् एतत् नः परमम् हितम् ॥२२॥
tad-dāra-grahaṇe yatnam santatyām ca manaḥ kuru . putraka asmad-niyogāt tvam etat naḥ paramam hitam ..22..
जरत्कारुरुवाच॥
न दारान्वै करिष्यामि सदा मे भावितं मनः । भवतां तु हितार्थाय करिष्ये दारसङ्ग्रहम् ॥२३॥
न दारान् वै करिष्यामि सदा मे भावितम् मनः । भवताम् तु हित-अर्थाय करिष्ये दार-सङ्ग्रहम् ॥२३॥
na dārān vai kariṣyāmi sadā me bhāvitam manaḥ . bhavatām tu hita-arthāya kariṣye dāra-saṅgraham ..23..
समयेन च कर्ताहमनेन विधिपूर्वकम् । तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम् ॥२४॥
समयेन च कर्ताहम् अनेन विधि-पूर्वकम् । तथा यदि उपलप्स्यामि करिष्ये न अन्यथा तु अहम् ॥२४॥
samayena ca kartāham anena vidhi-pūrvakam . tathā yadi upalapsyāmi kariṣye na anyathā tu aham ..24..
सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः । भैक्षवत्तामहं कन्यामुपयंस्ये विधानतः ॥२५॥
सनाम्नी या भवित्री मे दित्सिता च एव बन्धुभिः । भैक्षवत्-ताम् अहम् कन्याम् उपयंस्ये विधानतः ॥२५॥
sanāmnī yā bhavitrī me ditsitā ca eva bandhubhiḥ . bhaikṣavat-tām aham kanyām upayaṃsye vidhānataḥ ..25..
दरिद्राय हि मे भार्यां को दास्यति विशेषतः । प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति ॥२६॥
दरिद्राय हि मे भार्याम् कः दास्यति विशेषतः । प्रतिग्रहीष्ये भिक्षाम् तु यदि कश्चिद् प्रदास्यति ॥२६॥
daridrāya hi me bhāryām kaḥ dāsyati viśeṣataḥ . pratigrahīṣye bhikṣām tu yadi kaścid pradāsyati ..26..
एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः । अनेन विधिना शश्वन्न करिष्येऽहमन्यथा ॥२७॥
एवम् दारक्रिया-हेतोः प्रयतिष्ये पितामहाः । अनेन विधिना शश्वत् न करिष्ये अहम् अन्यथा ॥२७॥
evam dārakriyā-hetoḥ prayatiṣye pitāmahāḥ . anena vidhinā śaśvat na kariṣye aham anyathā ..27..
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै । शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम ॥२८॥1.13.32
तत्र च उत्पत्स्यते जन्तुः भवताम् तारणाय वै । शाश्वतम् स्थानम् आसाद्य मोदन्ताम् पितरः मम ॥२८॥१।१३।३२
tatra ca utpatsyate jantuḥ bhavatām tāraṇāya vai . śāśvatam sthānam āsādya modantām pitaraḥ mama ..28..1.13.32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In