| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
कृपस्यापि महाब्रह्मन्सम्भवं वक्तुमर्हसि । शरस्तम्भात्कथं जज्ञे कथं चास्त्राण्यवाप्तवान् ॥१॥
कृपस्य अपि महा-ब्रह्मन् सम्भवम् वक्तुम् अर्हसि । शर-स्तम्भात् कथम् जज्ञे कथम् च अस्त्राणि अवाप्तवान् ॥१॥
kṛpasya api mahā-brahman sambhavam vaktum arhasi . śara-stambhāt katham jajñe katham ca astrāṇi avāptavān ..1..
वैशम्पायन उवाच॥
महर्षेर्गौतमस्यासीच्छरद्वान्नाम नामतः । पुत्रः किल महाराज जातः सह शरैर्विभो ॥२॥
महा-ऋषेः गौतमस्य आसीत् शरद्वान् नाम नामतः । पुत्रः किल महा-राज जातः सह शरैः विभो ॥२॥
mahā-ṛṣeḥ gautamasya āsīt śaradvān nāma nāmataḥ . putraḥ kila mahā-rāja jātaḥ saha śaraiḥ vibho ..2..
न तस्य वेदाध्ययने तथा बुद्धिरजायत । यथास्य बुद्धिरभवद्धनुर्वेदे परन्तप ॥३॥
न तस्य वेद-अध्ययने तथा बुद्धिः अजायत । यथा अस्य बुद्धिः अभवत् धनुर्वेदे परन्तप ॥३॥
na tasya veda-adhyayane tathā buddhiḥ ajāyata . yathā asya buddhiḥ abhavat dhanurvede parantapa ..3..
अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मवादिनः । तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह ॥४॥
अधिजग्मुः यथा वेदान् तपसा ब्रह्म-वादिनः । तथा स तपसा उपेतः सर्वाणि अस्त्राणि अवाप ह ॥४॥
adhijagmuḥ yathā vedān tapasā brahma-vādinaḥ . tathā sa tapasā upetaḥ sarvāṇi astrāṇi avāpa ha ..4..
धनुर्वेदपरत्वाच्च तपसा विपुलेन च । भृशं सन्तापयामास देवराजं स गौतमः ॥५॥
धनुर्वेद-पर-त्वात् च तपसा विपुलेन च । भृशम् सन्तापयामास देवराजम् स गौतमः ॥५॥
dhanurveda-para-tvāt ca tapasā vipulena ca . bhṛśam santāpayāmāsa devarājam sa gautamaḥ ..5..
ततो जालपदीं नाम देवकन्यां सुरेश्वरः । प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव ॥६॥
ततस् जालपदीम् नाम देव-कन्याम् सुरेश्वरः । प्राहिणोत् तपसः विघ्नम् कुरु तस्य इति कौरव ॥६॥
tatas jālapadīm nāma deva-kanyām sureśvaraḥ . prāhiṇot tapasaḥ vighnam kuru tasya iti kaurava ..6..
साभिगम्याश्रमपदं रमणीयं शरद्वतः । धनुर्बाणधरं बाला लोभयामास गौतमम् ॥७॥
सा अभिगम्य आश्रम-पदम् रमणीयम् शरद्वतः । धनुः-बाण-धरम् बाला लोभयामास गौतमम् ॥७॥
sā abhigamya āśrama-padam ramaṇīyam śaradvataḥ . dhanuḥ-bāṇa-dharam bālā lobhayāmāsa gautamam ..7..
तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने । लोकेऽप्रतिमसंस्थानामुत्फुल्लनयनोऽभवत् ॥८॥
ताम् एक-वसनाम् दृष्ट्वा गौतमः अप्सरसम् वने । लोके अप्रतिम-संस्थानाम् उत्फुल्ल-नयनः अभवत् ॥८॥
tām eka-vasanām dṛṣṭvā gautamaḥ apsarasam vane . loke apratima-saṃsthānām utphulla-nayanaḥ abhavat ..8..
धनुश्च हि शराश्चास्य कराभ्यां प्रापतन्भुवि । वेपथुश्चास्य तां दृष्ट्वा शरीरे समजायत ॥९॥
धनुः च हि शराः च अस्य कराभ्याम् प्रापतन् भुवि । वेपथुः च अस्य ताम् दृष्ट्वा शरीरे समजायत ॥९॥
dhanuḥ ca hi śarāḥ ca asya karābhyām prāpatan bhuvi . vepathuḥ ca asya tām dṛṣṭvā śarīre samajāyata ..9..
स तु ज्ञानगरीयस्त्वात्तपसश्च समन्वयात् । अवतस्थे महाप्राज्ञो धैर्येण परमेण ह ॥१०॥
स तु ज्ञान-गरीयः-त्वात् तपसः च समन्वयात् । अवतस्थे महा-प्राज्ञः धैर्येण परमेण ह ॥१०॥
sa tu jñāna-garīyaḥ-tvāt tapasaḥ ca samanvayāt . avatasthe mahā-prājñaḥ dhairyeṇa parameṇa ha ..10..
यस्त्वस्य सहसा राजन्विकारः समपद्यत । तेन सुस्राव रेतोऽस्य स च तन्नावबुध्यत ॥११॥
यः तु अस्य सहसा राजन् विकारः समपद्यत । तेन सुस्राव रेतः अस्य स च तत् न अवबुध्यत ॥११॥
yaḥ tu asya sahasā rājan vikāraḥ samapadyata . tena susrāva retaḥ asya sa ca tat na avabudhyata ..11..
स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः । जगाम रेतस्तत्तस्य शरस्तम्बे पपात ह ॥१२॥
स विहाय आश्रमम् तम् च ताम् च एव अप्सरसम् मुनिः । जगाम रेतः तत् तस्य शर-स्तम्बे पपात ह ॥१२॥
sa vihāya āśramam tam ca tām ca eva apsarasam muniḥ . jagāma retaḥ tat tasya śara-stambe papāta ha ..12..
शरस्तम्बे च पतितं द्विधा तदभवन्नृप । तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः ॥१३॥
शर-स्तम्बे च पतितम् द्विधा तत् अभवत् नृप । तस्य अथ मिथुनम् जज्ञे गौतमस्य शरद्वतः ॥१३॥
śara-stambe ca patitam dvidhā tat abhavat nṛpa . tasya atha mithunam jajñe gautamasya śaradvataḥ ..13..
मृगयां चरतो राज्ञः शन्तनोस्तु यदृच्छया । कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत ॥१४॥
मृगयाम् चरतः राज्ञः शन्तनोः तु यदृच्छया । कश्चिद् सेनाचरः अरण्ये मिथुनम् तत् अपश्यत ॥१४॥
mṛgayām carataḥ rājñaḥ śantanoḥ tu yadṛcchayā . kaścid senācaraḥ araṇye mithunam tat apaśyata ..14..
धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च । व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य तत् ॥१५॥ ( स राज्ञे दर्शयामास मिथुनं सशरं तदा ॥१५॥ )
धनुः च स शरम् दृष्ट्वा तथा कृष्ण-अजिनानि च । व्यवस्य ब्राह्मण-अपत्यम् धनुर्वेद-अन्तगस्य तत् ॥१५॥ ( स राज्ञे दर्शयामास मिथुनम् स शरम् तदा ॥१५॥ )
dhanuḥ ca sa śaram dṛṣṭvā tathā kṛṣṇa-ajināni ca . vyavasya brāhmaṇa-apatyam dhanurveda-antagasya tat ..15.. ( sa rājñe darśayāmāsa mithunam sa śaram tadā ..15.. )
स तदादाय मिथुनं राजाथ कृपयान्वितः । आजगाम गृहानेव मम पुत्राविति ब्रुवन् ॥१६॥
स तत् आदाय मिथुनम् राजा अथ कृपया अन्वितः । आजगाम गृहान् एव मम पुत्रौ इति ब्रुवन् ॥१६॥
sa tat ādāya mithunam rājā atha kṛpayā anvitaḥ . ājagāma gṛhān eva mama putrau iti bruvan ..16..
ततः संवर्धयामास संस्कारैश्चाप्ययोजयत् । गौतमोऽपि तदापेत्य धनुर्वेदपरोऽभवत् ॥१७॥
ततस् संवर्धयामास संस्कारैः च अपि अयोजयत् । गौतमः अपि तदा अपेत्य धनुर्वेद-परः अभवत् ॥१७॥
tatas saṃvardhayāmāsa saṃskāraiḥ ca api ayojayat . gautamaḥ api tadā apetya dhanurveda-paraḥ abhavat ..17..
कृपया यन्मया बालाविमौ संवर्धिताविति । तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः ॥१८॥
कृपया यत् मया बालौ इमौ संवर्धितौ इति । तस्मात् तयोः नाम चक्रे तत् एव स महीपतिः ॥१८॥
kṛpayā yat mayā bālau imau saṃvardhitau iti . tasmāt tayoḥ nāma cakre tat eva sa mahīpatiḥ ..18..
निहितौ गौतमस्तत्र तपसा तावविन्दत । आगम्य चास्मै गोत्रादि सर्वमाख्यातवांस्तदा ॥१९॥
निहितौ गौतमः तत्र तपसा तौ अविन्दत । आगम्य च अस्मै गोत्र-आदि सर्वम् आख्यातवान् तदा ॥१९॥
nihitau gautamaḥ tatra tapasā tau avindata . āgamya ca asmai gotra-ādi sarvam ākhyātavān tadā ..19..
चतुर्विधं धनुर्वेदमस्त्राणि विविधानि च । निखिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा ॥२०॥ ( सोऽचिरेणैव कालेन परमाचार्यतां गतः ॥२०॥ )
चतुर्विधम् धनुर्वेदम् अस्त्राणि विविधानि च । निखिलेन अस्य तत् सर्वम् गुह्यम् आख्यातवान् तदा ॥२०॥ ( सः अचिरेण एव कालेन परम-आचार्य-ताम् गतः ॥२०॥ )
caturvidham dhanurvedam astrāṇi vividhāni ca . nikhilena asya tat sarvam guhyam ākhyātavān tadā ..20.. ( saḥ acireṇa eva kālena parama-ācārya-tām gataḥ ..20.. )
ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः । धृतराष्ट्रात्मजाश्चैव पाण्डवाश्च महाबलाः ॥२१॥
ततस् अधिजग्मुः सर्वे ते धनुर्वेदम् महा-रथाः । धृतराष्ट्र-आत्मजाः च एव पाण्डवाः च महा-बलाः ॥२१॥
tatas adhijagmuḥ sarve te dhanurvedam mahā-rathāḥ . dhṛtarāṣṭra-ātmajāḥ ca eva pāṇḍavāḥ ca mahā-balāḥ ..21..
वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः ॥२१॥1.129.24
वृष्णयः च नृपाः च अन्ये नाना देश-समागताः ॥२१॥१।१२९।२४
vṛṣṇayaḥ ca nṛpāḥ ca anye nānā deśa-samāgatāḥ ..21..1.129.24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In