| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया । इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसंमतान् ॥१॥1.129.24
विशेष-अर्थी ततस् भीष्मः पौत्राणाम् विनय-ईप्सया । इषु-अस्त्र-ज्ञान् पर्यपृच्छत् आचार्यान् वीर्य-संमतान् ॥१॥१।१२९।२४
viśeṣa-arthī tatas bhīṣmaḥ pautrāṇām vinaya-īpsayā . iṣu-astra-jñān paryapṛcchat ācāryān vīrya-saṃmatān ..1..1.129.24
नाल्पधीर्नामहाभागस्तथानानास्त्रकोविदः । नादेवसत्त्वो विनयेत्कुरूनस्त्रे महाबलान् ॥२॥
न अल्प-धीः ना महाभागः तथा नाना अस्त्र-कोविदः । न अदेव-सत्त्वः विनयेत् कुरून् अस्त्रे महा-बलान् ॥२॥
na alpa-dhīḥ nā mahābhāgaḥ tathā nānā astra-kovidaḥ . na adeva-sattvaḥ vinayet kurūn astre mahā-balān ..2..
महर्षिस्तु भरद्वाजो हविर्धाने चरन्पुरा । ददर्शाप्सरसं साक्षाद्घृताचीमाप्लुतामृषिः ॥३॥
महा-ऋषिः तु भरद्वाजः हविर्धाने चरन् पुरा । ददर्श अप्सरसम् साक्षात् घृताचीम् आप्लुताम् ऋषिः ॥३॥
mahā-ṛṣiḥ tu bharadvājaḥ havirdhāne caran purā . dadarśa apsarasam sākṣāt ghṛtācīm āplutām ṛṣiḥ ..3..
तस्या वायुः समुद्धूतो वसनं व्यपकर्षत । ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥४॥
तस्याः वायुः समुद्धूतः वसनम् व्यपकर्षत । ततस् अस्य रेतः चस्कन्द तत् ऋषिः द्रोणे आदधे ॥४॥
tasyāḥ vāyuḥ samuddhūtaḥ vasanam vyapakarṣata . tatas asya retaḥ caskanda tat ṛṣiḥ droṇe ādadhe ..4..
तस्मिन्समभवद्द्रोणः कलशे तस्य धीमतः । अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥५॥
तस्मिन् समभवत् द्रोणः कलशे तस्य धीमतः । अध्यगीष्ट स वेदान् च वेदाङ्गानि च सर्वशस् ॥५॥
tasmin samabhavat droṇaḥ kalaśe tasya dhīmataḥ . adhyagīṣṭa sa vedān ca vedāṅgāni ca sarvaśas ..5..
अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान् । प्रत्यपादयदाग्नेयमस्त्रं धर्मभृतां वरः ॥६॥
अग्निवेश्यम् महाभागम् भरद्वाजः प्रतापवान् । प्रत्यपादयत् आग्नेयम् अस्त्रम् धर्म-भृताम् वरः ॥६॥
agniveśyam mahābhāgam bharadvājaḥ pratāpavān . pratyapādayat āgneyam astram dharma-bhṛtām varaḥ ..6..
अग्निष्टुज्जातः स मुनिस्ततो भरतसत्तम । भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् ॥७॥
अग्निष्टुत् जातः स मुनिः ततस् भरत-सत्तम । भारद्वाजम् तत् आग्नेयम् महा-अस्त्रम् प्रत्यपादयत् ॥७॥
agniṣṭut jātaḥ sa muniḥ tatas bharata-sattama . bhāradvājam tat āgneyam mahā-astram pratyapādayat ..7..
भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः । तस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥८॥
भरद्वाज-सखा च आसीत् पृषतः नाम पार्थिवः । तस्य अपि द्रुपदः नाम तदा समभवत् सुतः ॥८॥
bharadvāja-sakhā ca āsīt pṛṣataḥ nāma pārthivaḥ . tasya api drupadaḥ nāma tadā samabhavat sutaḥ ..8..
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः । चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥९॥
स नित्यम् आश्रमम् गत्वा द्रोणेन सह पार्षतः । चिक्रीड अध्ययनम् च एव चकार क्षत्रिय-ऋषभः ॥९॥
sa nityam āśramam gatvā droṇena saha pārṣataḥ . cikrīḍa adhyayanam ca eva cakāra kṣatriya-ṛṣabhaḥ ..9..
ततो व्यतीते पृषते स राजा द्रुपदोऽभवत् । पाञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः ॥१०॥
ततस् व्यतीते पृषते स राजा द्रुपदः अभवत् । पाञ्चालेषु महा-बाहुः उत्तरेषु नरेश्वरः ॥१०॥
tatas vyatīte pṛṣate sa rājā drupadaḥ abhavat . pāñcāleṣu mahā-bāhuḥ uttareṣu nareśvaraḥ ..10..
भरद्वाजोऽपि भगवानारुरोह दिवं तदा । ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः ॥११॥ ( शारद्वतीं ततो द्रोणः कृपीं भार्यामविन्दत ॥११॥ )
भरद्वाजः अपि भगवान् आरुरोह दिवम् तदा । ततस् पितृ-नियुक्त-आत्मा पुत्र-लोभात् महा-यशाः ॥११॥ ( शारद्वतीम् ततस् द्रोणः कृपीम् भार्याम् अविन्दत ॥११॥ )
bharadvājaḥ api bhagavān āruroha divam tadā . tatas pitṛ-niyukta-ātmā putra-lobhāt mahā-yaśāḥ ..11.. ( śāradvatīm tatas droṇaḥ kṛpīm bhāryām avindata ..11.. )
अग्निहोत्रे च धर्मे च दमे च सततं रता । अलभद्गौतमी पुत्रमश्वत्थामानमेव च ॥१२॥
अग्निहोत्रे च धर्मे च दमे च सततम् रता । अलभत् गौतमी पुत्रम् अश्वत्थामानम् एव च ॥१२॥
agnihotre ca dharme ca dame ca satatam ratā . alabhat gautamī putram aśvatthāmānam eva ca ..12..
स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः । तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत् ॥१३॥
स जात-मात्रः व्यनदत् यथा एव उच्चैःश्रवाः हयः । तत् श्रुत्वा अन्तर्हितम् भूतम् अन्तरिक्ष-स्थम् अब्रवीत् ॥१३॥
sa jāta-mātraḥ vyanadat yathā eva uccaiḥśravāḥ hayaḥ . tat śrutvā antarhitam bhūtam antarikṣa-stham abravīt ..13..
अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम् । अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति ॥१४॥
अश्वस्य इव अस्य यत् स्थाम नदतः प्रदिशः गतम् । अश्वत्थामा एव बालः अयम् तस्मात् नाम्ना भविष्यति ॥१४॥
aśvasya iva asya yat sthāma nadataḥ pradiśaḥ gatam . aśvatthāmā eva bālaḥ ayam tasmāt nāmnā bhaviṣyati ..14..
सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत् । तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत् ॥१५॥
सुतेन तेन सु प्रीतः भारद्वाजः ततस् अभवत् । तत्र एव च वसन् धीमान् धनुर्वेद-परः अभवत् ॥१५॥
sutena tena su prītaḥ bhāradvājaḥ tatas abhavat . tatra eva ca vasan dhīmān dhanurveda-paraḥ abhavat ..15..
स शुश्राव महात्मानं जामदग्न्यं परन्तपम् । ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः ॥१६॥
स शुश्राव महात्मानम् जामदग्न्यम् परन्तपम् । ब्राह्मणेभ्यः तदा राजन् दित्सन्तम् वसु सर्वशस् ॥१६॥
sa śuśrāva mahātmānam jāmadagnyam parantapam . brāhmaṇebhyaḥ tadā rājan ditsantam vasu sarvaśas ..16..
वनं तु प्रस्थितं रामं भारद्वाजस्तदाब्रवीत् । आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभम् ॥१७॥
वनम् तु प्रस्थितम् रामम् भारद्वाजः तदा ब्रवीत् । आगतम् वित्त-कामम् माम् विद्धि द्रोणम् द्विजर्षभम् ॥१७॥
vanam tu prasthitam rāmam bhāradvājaḥ tadā bravīt . āgatam vitta-kāmam mām viddhi droṇam dvijarṣabham ..17..
राम उवाच॥
हिरण्यं मम यच्चान्यद्वसु किञ्चन विद्यते । ब्राह्मणेभ्यो मया दत्तं सर्वमेव तपोधन ॥१८॥
हिरण्यम् मम यत् च अन्यत् वसु किञ्चन विद्यते । ब्राह्मणेभ्यः मया दत्तम् सर्वम् एव तपोधन ॥१८॥
hiraṇyam mama yat ca anyat vasu kiñcana vidyate . brāhmaṇebhyaḥ mayā dattam sarvam eva tapodhana ..18..
तथैवेयं धरा देवी सागरान्ता सपत्तना । कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी ॥१९॥
तथा एवा इयम् धरा देवी सागर-अन्ता स पत्तना । कश्यपाय मया दत्ता कृत्स्ना नगर-मालिनी ॥१९॥
tathā evā iyam dharā devī sāgara-antā sa pattanā . kaśyapāya mayā dattā kṛtsnā nagara-mālinī ..19..
शरीरमात्रमेवाद्य मयेदमवशेषितम् । अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च ॥२०॥ ( वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत् ॥२०॥ )
शरीर-मात्रम् एव अद्य मया इदम् अवशेषितम् । अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च ॥२०॥ ( वृणीष्व किम् प्रयच्छामि तुभ्यम् द्रोण वद आशु तत् ॥२०॥ )
śarīra-mātram eva adya mayā idam avaśeṣitam . astrāṇi ca mahārhāṇi śastrāṇi vividhāni ca ..20.. ( vṛṇīṣva kim prayacchāmi tubhyam droṇa vada āśu tat ..20.. )
द्रोण उवाच॥
अस्त्राणि मे समग्राणि ससंहाराणि भार्गव । सप्रयोगरहस्यानि दातुमर्हस्यशेषतः ॥२१॥
अस्त्राणि मे समग्राणि स संहाराणि भार्गव । सप्रयोगरहस्यानि दातुम् अर्हसि अशेषतस् ॥२१॥
astrāṇi me samagrāṇi sa saṃhārāṇi bhārgava . saprayogarahasyāni dātum arhasi aśeṣatas ..21..
वैशम्पायन उवाच॥
तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः । सरहस्यव्रतं चैव धनुर्वेदमशेषतः ॥२२॥
तथा इति उक्त्वा ततस् तस्मै प्रादात् अस्त्राणि भार्गवः । स रहस्यव्रतम् च एव धनुर्वेदम् अशेषतस् ॥२२॥
tathā iti uktvā tatas tasmai prādāt astrāṇi bhārgavaḥ . sa rahasyavratam ca eva dhanurvedam aśeṣatas ..22..
प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः । प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति ॥२३॥1.129.67
प्रतिगृह्य तु तत् सर्वम् कृतास्त्रः द्विजसत्तमः । प्रियम् सखायम् सु प्रीतः जगाम द्रुपदम् प्रति ॥२३॥१।१२९।६७
pratigṛhya tu tat sarvam kṛtāstraḥ dvijasattamaḥ . priyam sakhāyam su prītaḥ jagāma drupadam prati ..23..1.129.67

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In