| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् । अब्रवीत्पार्षतं राजन्सखायं विद्धि मामिति ॥१॥
ततस् द्रुपदम् आसाद्य भारद्वाजः प्रतापवान् । अब्रवीत् पार्षतम् राजन् सखायम् विद्धि माम् इति ॥१॥
tatas drupadam āsādya bhāradvājaḥ pratāpavān . abravīt pārṣatam rājan sakhāyam viddhi mām iti ..1..
द्रुपद उवाच॥
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी । यन्मां ब्रवीषि प्रसभं सखा तेऽहमिति द्विज ॥२॥
अकृता इयम् तव प्रज्ञा ब्रह्मन् न अतिसमञ्जसी । यत् माम् ब्रवीषि प्रसभम् सखा ते अहम् इति द्विज ॥२॥
akṛtā iyam tava prajñā brahman na atisamañjasī . yat mām bravīṣi prasabham sakhā te aham iti dvija ..2..
न हि राज्ञामुदीर्णानामेवं भूतैर्नरैः क्वचित् । सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ॥३॥
न हि राज्ञाम् उदीर्णानाम् एवम् भूतैः नरैः क्वचिद् । सख्यम् भवति मन्द-आत्मन् श्रिया हीनैः धन-च्युतैः ॥३॥
na hi rājñām udīrṇānām evam bhūtaiḥ naraiḥ kvacid . sakhyam bhavati manda-ātman śriyā hīnaiḥ dhana-cyutaiḥ ..3..
सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यताम् । सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम् ॥४॥
सौहृदानि अपि जीर्यन्ते कालेन परिजीर्यताम् । सौहृदम् मे त्वया हि आसीत् पूर्वम् सामर्थ्य-बन्धनम् ॥४॥
sauhṛdāni api jīryante kālena parijīryatām . sauhṛdam me tvayā hi āsīt pūrvam sāmarthya-bandhanam ..4..
न सख्यमजरं लोके जातु दृश्येत कर्हिचित् । कामो वैनं विहरति क्रोधश्चैनं प्रवृश्चति ॥५॥
न सख्यम् अजरम् लोके जातु दृश्येत कर्हिचित् । कामः वा एनम् विहरति क्रोधः च एनम् प्रवृश्चति ॥५॥
na sakhyam ajaram loke jātu dṛśyeta karhicit . kāmaḥ vā enam viharati krodhaḥ ca enam pravṛścati ..5..
मैवं जीर्णमुपासिष्ठाः सख्यं नवमुपाकुरु । आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् ॥६॥
मा एवम् जीर्णम् उपासिष्ठाः सख्यम् नवम् उपाकुरु । आसीत् सख्यम् द्विजश्रेष्ठ त्वया मे अर्थ-निबन्धनम् ॥६॥
mā evam jīrṇam upāsiṣṭhāḥ sakhyam navam upākuru . āsīt sakhyam dvijaśreṣṭha tvayā me artha-nibandhanam ..6..
न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा । शूरस्य न सखा क्लीबः सखिपूर्वं किमिष्यते ॥७॥
न दरिद्रः वसुमतः न अ विद्वान् विदुषः सखा । शूरस्य न सखा क्लीबः सखिपूर्वम् किम् इष्यते ॥७॥
na daridraḥ vasumataḥ na a vidvān viduṣaḥ sakhā . śūrasya na sakhā klībaḥ sakhipūrvam kim iṣyate ..7..
ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोः सख्यं विवाहश्च न तु पुष्टविपुष्टयोः ॥८॥
ययोः एव समम् वित्तम् ययोः एव समम् कुलम् । तयोः सख्यम् विवाहः च न तु पुष्ट-विपुष्टयोः ॥८॥
yayoḥ eva samam vittam yayoḥ eva samam kulam . tayoḥ sakhyam vivāhaḥ ca na tu puṣṭa-vipuṣṭayoḥ ..8..
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । नाराज्ञा सङ्गतं राज्ञः सखिपूर्वं किमिष्यते ॥९॥
न अ श्रोत्रियः श्रोत्रियस्य न अ रथी रथिनः सखा । न अ राज्ञा सङ्गतम् राज्ञः सखिपूर्वम् किम् इष्यते ॥९॥
na a śrotriyaḥ śrotriyasya na a rathī rathinaḥ sakhā . na a rājñā saṅgatam rājñaḥ sakhipūrvam kim iṣyate ..9..
वैशम्पायन उवाच॥
द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान् । मुहूर्तं चिन्तयामास मन्युनाभिपरिप्लुतः ॥१०॥1.130.12
द्रुपदेन एवम् उक्तः तु भारद्वाजः प्रतापवान् । मुहूर्तम् चिन्तयामास मन्युना अभिपरिप्लुतः ॥१०॥१।१३०।१२
drupadena evam uktaḥ tu bhāradvājaḥ pratāpavān . muhūrtam cintayāmāsa manyunā abhipariplutaḥ ..10..1.130.12
स विनिश्चित्य मनसा पाञ्चालं प्रति बुद्धिमान् । जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ॥११॥
स विनिश्चित्य मनसा पाञ्चालम् प्रति बुद्धिमान् । जगाम कुरु-मुख्यानाम् नगरम् नागसाह्वयम् ॥११॥
sa viniścitya manasā pāñcālam prati buddhimān . jagāma kuru-mukhyānām nagaram nāgasāhvayam ..11..
कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात् । क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा ॥१२॥
कुमाराः तु अथ निष्क्रम्य समेताः गजसाह्वयात् । क्रीडन्तः वीटया तत्र वीराः पर्यचरन् मुदा ॥१२॥
kumārāḥ tu atha niṣkramya sametāḥ gajasāhvayāt . krīḍantaḥ vīṭayā tatra vīrāḥ paryacaran mudā ..12..
पपात कूपे सा वीटा तेषां वै क्रीडतां तदा । न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये ॥१३॥
पपात कूपे सा वीटा तेषाम् वै क्रीडताम् तदा । न च ते प्रत्यपद्यन्त कर्म वीट-उपलब्धये ॥१३॥
papāta kūpe sā vīṭā teṣām vai krīḍatām tadā . na ca te pratyapadyanta karma vīṭa-upalabdhaye ..13..
अथ द्रोणः कुमारांस्तान्दृष्ट्वा कृत्यवतस्तदा । प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान् ॥१४॥
अथ द्रोणः कुमारान् तान् दृष्ट्वा कृत्यवतः तदा । प्रहस्य मन्दम् पैशल्यात् अभ्यभाषत वीर्यवान् ॥१४॥
atha droṇaḥ kumārān tān dṛṣṭvā kṛtyavataḥ tadā . prahasya mandam paiśalyāt abhyabhāṣata vīryavān ..14..
अहो नु धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम् । भरतस्यान्वये जाता ये वीटां नाधिगच्छत ॥१५॥
अहो नु धिक् बलम् क्षात्रम् धिक् एताम् वः कृतास्त्र-ताम् । भरतस्य अन्वये जाताः ये वीटाम् न अधिगच्छत ॥१५॥
aho nu dhik balam kṣātram dhik etām vaḥ kṛtāstra-tām . bharatasya anvaye jātāḥ ye vīṭām na adhigacchata ..15..
एष मुष्टिरिषीकाणां मयास्त्रेणाभिमन्त्रितः । अस्य वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते ॥१६॥
एष मुष्टिः इषीकाणाम् मया अस्त्रेण अभिमन्त्रितः । अस्य वीर्यम् निरीक्षध्वम् यत् अन्यस्य न विद्यते ॥१६॥
eṣa muṣṭiḥ iṣīkāṇām mayā astreṇa abhimantritaḥ . asya vīryam nirīkṣadhvam yat anyasya na vidyate ..16..
वेत्स्यामीषीकया वीटां तामिषीकामथान्यया । तामन्यया समायोगो वीटाया ग्रहणे मम ॥१७॥
वेत्स्यामि इषीकया वीटाम् ताम् इषीकाम् अथ अन्यया । ताम् अन्यया समायोगः वीटायाः ग्रहणे मम ॥१७॥
vetsyāmi iṣīkayā vīṭām tām iṣīkām atha anyayā . tām anyayā samāyogaḥ vīṭāyāḥ grahaṇe mama ..17..
तदपश्यन्कुमारास्ते विस्मयोत्फुल्ललोचनाः । अवेष्क्य चोद्धृतां वीटां वीटावेद्धारमब्रुवन् ॥१८॥
तत् अपश्यन् कुमाराः ते विस्मय-उत्फुल्ल-लोचनाः । अवेष्क्य च उद्धृताम् वीटाम् वीट-वेद्धारम् अब्रुवन् ॥१८॥
tat apaśyan kumārāḥ te vismaya-utphulla-locanāḥ . aveṣkya ca uddhṛtām vīṭām vīṭa-veddhāram abruvan ..18..
अभिवादयामहे ब्रह्मन्नैतदन्येषु विद्यते । कोऽसि कं त्वाभिजानीमो वयं किं करवामहे ॥१९॥
अभिवादयामहे ब्रह्मन् न एतत् अन्येषु विद्यते । कः असि कम् त्वा अभिजानीमः वयम् किम् करवामहे ॥१९॥
abhivādayāmahe brahman na etat anyeṣu vidyate . kaḥ asi kam tvā abhijānīmaḥ vayam kim karavāmahe ..19..
द्रोण उवाच॥
आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम् । स एव सुमहाबुद्धिः साम्प्रतं प्रतिपत्स्यते ॥२०॥1.130.35
आचक्षध्वम् च भीष्माय रूपेण च गुणैः च माम् । सः एव सु महा-बुद्धिः साम्प्रतम् प्रतिपत्स्यते ॥२०॥१।१३०।३५
ācakṣadhvam ca bhīṣmāya rūpeṇa ca guṇaiḥ ca mām . saḥ eva su mahā-buddhiḥ sāmpratam pratipatsyate ..20..1.130.35
वैशम्पायन उवाच॥
तथेत्युक्त्वा तु ते सर्वे भीष्ममूचुः पितामहम् । ब्राह्मणस्य वचस्तथ्यं तच्च कर्मविशेषवत् ॥२१॥
तथा इति उक्त्वा तु ते सर्वे भीष्मम् ऊचुः पितामहम् । ब्राह्मणस्य वचः तथ्यम् तत् च कर्म-विशेषवत् ॥२१॥
tathā iti uktvā tu te sarve bhīṣmam ūcuḥ pitāmaham . brāhmaṇasya vacaḥ tathyam tat ca karma-viśeṣavat ..21..
भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत । युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च ॥२२॥
भीष्मः श्रुत्वा कुमाराणाम् द्रोणम् तम् प्रत्यजानत । युक्त-रूपः स हि गुरुः इति एवम् अनुचिन्त्य च ॥२२॥
bhīṣmaḥ śrutvā kumārāṇām droṇam tam pratyajānata . yukta-rūpaḥ sa hi guruḥ iti evam anucintya ca ..22..
अथैनमानीय तदा स्वयमेव सुसत्कृतम् । परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः ॥२३॥ ( हेतुमागमने तस्य द्रोणः सर्वं न्यवेदयत् ॥२३॥ )
अथा एनम् आनीय तदा स्वयम् एव सु सत्कृतम् । परिपप्रच्छ निपुणम् भीष्मः शस्त्रभृताम् वरः ॥२३॥ ( हेतुम् आगमने तस्य द्रोणः सर्वम् न्यवेदयत् ॥२३॥ )
athā enam ānīya tadā svayam eva su satkṛtam . paripapraccha nipuṇam bhīṣmaḥ śastrabhṛtām varaḥ ..23.. ( hetum āgamane tasya droṇaḥ sarvam nyavedayat ..23.. )
महर्षेरग्निवेश्यस्य सकाशमहमच्युत । अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया ॥२४॥
महा-ऋषेः अग्निवेश्यस्य सकाशम् अहम् अच्युत । अस्त्र-अर्थम् अगमम् पूर्वम् धनुर्वेद-जिघृक्षया ॥२४॥
mahā-ṛṣeḥ agniveśyasya sakāśam aham acyuta . astra-artham agamam pūrvam dhanurveda-jighṛkṣayā ..24..
ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः । अवसं तत्र सुचिरं धनुर्वेदचिकीर्षया ॥२५॥
ब्रह्मचारी विनीत-आत्मा जटिलः बहुलाः समाः । अवसम् तत्र सु चिरम् धनुर्वेद-चिकीर्षया ॥२५॥
brahmacārī vinīta-ātmā jaṭilaḥ bahulāḥ samāḥ . avasam tatra su ciram dhanurveda-cikīrṣayā ..25..
पाञ्चालराजपुत्रस्तु यज्ञसेनो महाबलः । मया सहाकरोद्विद्यां गुरोः श्राम्यन्समाहितः ॥२६॥
पाञ्चाल-राज-पुत्रः तु यज्ञसेनः महा-बलः । मया सह अकरोत् विद्याम् गुरोः श्राम्यन् समाहितः ॥२६॥
pāñcāla-rāja-putraḥ tu yajñasenaḥ mahā-balaḥ . mayā saha akarot vidyām guroḥ śrāmyan samāhitaḥ ..26..
स मे तत्र सखा चासीदुपकारी प्रियश्च मे । तेनाहं सह सङ्गम्य रतवान्सुचिरं बत ॥२७॥ ( बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च ॥२७॥ )
स मे तत्र सखा च आसीत् उपकारी प्रियः च मे । तेन अहम् सह सङ्गम्य रतवान् सु चिरम् बत ॥२७॥ ( बाल्यात् प्रभृति कौरव्य सहाध्ययनम् एव च ॥२७॥ )
sa me tatra sakhā ca āsīt upakārī priyaḥ ca me . tena aham saha saṅgamya ratavān su ciram bata ..27.. ( bālyāt prabhṛti kauravya sahādhyayanam eva ca ..27.. )
स समासाद्य मां तत्र प्रियकारी प्रियंवदः । अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम् ॥२८॥
स समासाद्य माम् तत्र प्रिय-कारी प्रियंवदः । अब्रवीत् इति माम् भीष्म वचनम् प्रीति-वर्धनम् ॥२८॥
sa samāsādya mām tatra priya-kārī priyaṃvadaḥ . abravīt iti mām bhīṣma vacanam prīti-vardhanam ..28..
अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः । अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा ॥२९॥
अहम् प्रियतमः पुत्रः पितुः द्रोण महात्मनः । अभिषेक्ष्यति माम् राज्ये स पाञ्चाल्यः यदा तदा ॥२९॥
aham priyatamaḥ putraḥ pituḥ droṇa mahātmanaḥ . abhiṣekṣyati mām rājye sa pāñcālyaḥ yadā tadā ..29..
त्वद्भोज्यं भविता राज्यं सखे सत्येन ते शपे । मम भोगाश्च वित्तं च त्वदधीनं सुखानि च ॥३०॥1.130.46
त्वद्-भोज्यम् भविता राज्यम् सखे सत्येन ते शपे । मम भोगाः च वित्तम् च त्वद्-अधीनम् सुखानि च ॥३०॥१।१३०।४६
tvad-bhojyam bhavitā rājyam sakhe satyena te śape . mama bhogāḥ ca vittam ca tvad-adhīnam sukhāni ca ..30..1.130.46
एवमुक्तः प्रवव्राज कृतास्त्रोऽहं धनेप्सया । अभिषिक्तं च श्रुत्वैनं कृतार्थोऽस्मीति चिन्तयन् ॥३१॥
एवम् उक्तः प्रवव्राज कृतास्त्रः अहम् धन-ईप्सया । अभिषिक्तम् च श्रुत्वा एनम् कृतार्थः अस्मि इति चिन्तयन् ॥३१॥
evam uktaḥ pravavrāja kṛtāstraḥ aham dhana-īpsayā . abhiṣiktam ca śrutvā enam kṛtārthaḥ asmi iti cintayan ..31..
प्रियं सखायं सुप्रीतो राज्यस्थं पुनराव्रजम् । संस्मरन्सङ्गमं चैव वचनं चैव तस्य तत् ॥३२॥
प्रियम् सखायम् सु प्रीतः राज्य-स्थम् पुनर् आव्रजम् । संस्मरन् सङ्गमम् च एव वचनम् च एव तस्य तत् ॥३२॥
priyam sakhāyam su prītaḥ rājya-stham punar āvrajam . saṃsmaran saṅgamam ca eva vacanam ca eva tasya tat ..32..
ततो द्रुपदमागम्य सखिपूर्वमहं प्रभो । अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति ॥३३॥
ततस् द्रुपदम् आगम्य सखिपूर्वम् अहम् प्रभो । अब्रुवम् पुरुष-व्याघ्र सखायम् विद्धि माम् इति ॥३३॥
tatas drupadam āgamya sakhipūrvam aham prabho . abruvam puruṣa-vyāghra sakhāyam viddhi mām iti ..33..
उपस्थितं तु द्रुपदः सखिवच्चाभिसङ्गतम् । स मां निराकारमिव प्रहसन्निदमब्रवीत् ॥३४॥
उपस्थितम् तु द्रुपदः सखिवत् च अभिसङ्गतम् । स माम् निराकारम् इव प्रहसन् इदम् अब्रवीत् ॥३४॥
upasthitam tu drupadaḥ sakhivat ca abhisaṅgatam . sa mām nirākāram iva prahasan idam abravīt ..34..
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी । यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज ॥३५॥
अकृता इयम् तव प्रज्ञा ब्रह्मन् न अतिसमञ्जसी । यत् आत्थ माम् त्वम् प्रसभम् सखा ते अहम् इति द्विज ॥३५॥
akṛtā iyam tava prajñā brahman na atisamañjasī . yat āttha mām tvam prasabham sakhā te aham iti dvija ..35..
न हि राज्ञामुदीर्णानामेवम्भूतैर्नरैः क्वचित् । सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ॥३६॥
न हि राज्ञाम् उदीर्णानाम् एवम्भूतैः नरैः क्वचिद् । सख्यम् भवति मन्द-आत्मन् श्रिया हीनैः धन-च्युतैः ॥३६॥
na hi rājñām udīrṇānām evambhūtaiḥ naraiḥ kvacid . sakhyam bhavati manda-ātman śriyā hīnaiḥ dhana-cyutaiḥ ..36..
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥३७॥
न अ श्रोत्रियः श्रोत्रियस्य न अ रथी रथिनः सखा । न अ राजा पार्थिवस्य अपि सखिपूर्वम् किम् इष्यते ॥३७॥
na a śrotriyaḥ śrotriyasya na a rathī rathinaḥ sakhā . na a rājā pārthivasya api sakhipūrvam kim iṣyate ..37..
द्रुपदेनैवमुक्तोऽहं मन्युनाभिपरिप्लुतः । अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः ॥३८॥
द्रुपदेन एवम् उक्तः अहम् मन्युना अभिपरिप्लुतः । अभ्यागच्छम् कुरून् भीष्म शिष्यैः अर्थी गुण-अन्वितैः ॥३८॥
drupadena evam uktaḥ aham manyunā abhipariplutaḥ . abhyāgaccham kurūn bhīṣma śiṣyaiḥ arthī guṇa-anvitaiḥ ..38..
प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह । पौत्रानादाय तान्सर्वान्वसूनि विविधानि च ॥३९॥
प्रतिजग्राह तम् भीष्मः गुरुम् पाण्डु-सुतैः सह । पौत्रान् आदाय तान् सर्वान् वसूनि विविधानि च ॥३९॥
pratijagrāha tam bhīṣmaḥ gurum pāṇḍu-sutaiḥ saha . pautrān ādāya tān sarvān vasūni vividhāni ca ..39..
शिष्या इति ददौ राजन्द्रोणाय विधिपूर्वकम् । स च शिष्यान्महेष्वासः प्रतिजग्राह कौरवान् ॥४०॥
शिष्याः इति ददौ राजन् द्रोणाय विधि-पूर्वकम् । स च शिष्यान् महा-इष्वासः प्रतिजग्राह कौरवान् ॥४०॥
śiṣyāḥ iti dadau rājan droṇāya vidhi-pūrvakam . sa ca śiṣyān mahā-iṣvāsaḥ pratijagrāha kauravān ..40..
प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत् । रहस्येकः प्रतीतात्मा कृतोपसदनांस्तदा ॥४१॥1.131.5
प्रतिगृह्य च तान् सर्वान् द्रोणः वचनम् अब्रवीत् । रहसि एकः प्रतीत-आत्मा कृत-उपसदनान् तदा ॥४१॥१।१३१।५
pratigṛhya ca tān sarvān droṇaḥ vacanam abravīt . rahasi ekaḥ pratīta-ātmā kṛta-upasadanān tadā ..41..1.131.5
कार्यं मे काङ्क्षितं किञ्चिद्धृदि सम्परिवर्तते । कृतास्त्रैस्तत्प्रदेयं मे तदृतं वदतानघाः ॥४२॥
कार्यम् मे काङ्क्षितम् किञ्चिद् हृदि सम्परिवर्तते । कृतास्त्रैः तत् प्रदेयम् मे तत् ऋतम् वदत अनघाः ॥४२॥
kāryam me kāṅkṣitam kiñcid hṛdi samparivartate . kṛtāstraiḥ tat pradeyam me tat ṛtam vadata anaghāḥ ..42..
तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशां पते । अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परन्तपः ॥४३॥
तत् श्रुत्वा कौरवेयाः ते तूष्णीम् आसन् विशाम् पते । अर्जुनः तु ततस् सर्वम् प्रतिजज्ञे परन्तपः ॥४३॥
tat śrutvā kauraveyāḥ te tūṣṇīm āsan viśām pate . arjunaḥ tu tatas sarvam pratijajñe parantapaḥ ..43..
ततोऽर्जुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः । प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा ॥४४॥
ततस् अर्जुनम् मूर्ध्नि तदा समाघ्राय पुनर् पुनर् । प्रीति-पूर्वम् परिष्वज्य प्ररुरोद मुदा तदा ॥४४॥
tatas arjunam mūrdhni tadā samāghrāya punar punar . prīti-pūrvam pariṣvajya praruroda mudā tadā ..44..
ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च । ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् ॥४५॥1.131.9
ततस् द्रोणः पाण्डु-पुत्रान् अस्त्राणि विविधानि च । ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् ॥४५॥१।१३१।९
tatas droṇaḥ pāṇḍu-putrān astrāṇi vividhāni ca . grāhayāmāsa divyāni mānuṣāṇi ca vīryavān ..45..1.131.9
राजपुत्रास्तथैवान्ये समेत्य भरतर्षभ । अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम् ॥४६॥ ( वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः ॥४६॥ )
राज-पुत्राः तथा एव अन्ये समेत्य भरत-ऋषभ । अभिजग्मुः ततस् द्रोणम् अस्त्र-अर्थे द्विजसत्तमम् ॥४६॥ ( वृष्णयः च अन्धकाः च एव नानादेश्याः च पार्थिवाः ॥४६॥ )
rāja-putrāḥ tathā eva anye sametya bharata-ṛṣabha . abhijagmuḥ tatas droṇam astra-arthe dvijasattamam ..46.. ( vṛṣṇayaḥ ca andhakāḥ ca eva nānādeśyāḥ ca pārthivāḥ ..46.. )
सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा । स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः ॥४७॥ ( दुर्योधनमुपाश्रित्य पाण्डवानत्यमन्यत ॥४७॥1.130. )
सूतपुत्रः च राधेयः गुरुम् द्रोणम् इयात् तदा । स्पर्धमानः तु पार्थेन सूतपुत्रः अत्यमर्षणः ॥४७॥ ( दुर्योधनम् उपाश्रित्य पाण्डवान् अत्यमन्यत ॥४७॥१।१३०। )
sūtaputraḥ ca rādheyaḥ gurum droṇam iyāt tadā . spardhamānaḥ tu pārthena sūtaputraḥ atyamarṣaṇaḥ ..47.. ( duryodhanam upāśritya pāṇḍavān atyamanyata ..47..1.130. )

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In