| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
अर्जुनस्तु परं यत्नमातस्थे गुरुपूजने । अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् ॥१॥1.131.20
अर्जुनः तु परम् यत्नम् आतस्थे गुरु-पूजने । अस्त्रे च परमम् योगम् प्रियः द्रोणस्य च अभवत् ॥१॥१।१३१।२०
arjunaḥ tu param yatnam ātasthe guru-pūjane . astre ca paramam yogam priyaḥ droṇasya ca abhavat ..1..1.131.20
द्रोणेन तु तदाहूय रहस्युक्तोऽन्नसाधकः । अन्धकारेऽर्जुनायान्नं न देयं ते कथञ्चन ॥२॥
द्रोणेन तु तदा आहूय रहसि उक्तः अन्न-साधकः । अन्धकारे अर्जुनाय अन्नम् न देयम् ते कथञ्चन ॥२॥
droṇena tu tadā āhūya rahasi uktaḥ anna-sādhakaḥ . andhakāre arjunāya annam na deyam te kathañcana ..2..
ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने । तेन तत्र प्रदीपः स दीप्यमानो निवापितः ॥३॥
ततस् कदाचिद् भुञ्जाने प्रववौ वायुः अर्जुने । तेन तत्र प्रदीपः स दीप्यमानः निवापितः ॥३॥
tatas kadācid bhuñjāne pravavau vāyuḥ arjune . tena tatra pradīpaḥ sa dīpyamānaḥ nivāpitaḥ ..3..
भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद्व्यमुह्यत । हस्तस्तेजस्विनो नित्यमन्नग्रहणकारणात् ॥४॥ ( तदभ्यासकृतं मत्वा रात्रावभ्यस्त पाण्डवः ॥४॥ )
भुङ्क्ते एव अर्जुनः भक्तम् न च अस्य आस्यात् व्यमुह्यत । हस्तः तेजस्विनः नित्यम् अन्न-ग्रहण-कारणात् ॥४॥ ( तत् अभ्यास-कृतम् मत्वा पाण्डवः ॥४॥ )
bhuṅkte eva arjunaḥ bhaktam na ca asya āsyāt vyamuhyata . hastaḥ tejasvinaḥ nityam anna-grahaṇa-kāraṇāt ..4.. ( tat abhyāsa-kṛtam matvā pāṇḍavaḥ ..4.. )
तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत । उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत् ॥५॥
तस्य ज्या-तल-निर्घोषम् द्रोणः शुश्राव भारत । उपेत्य च एनम् उत्थाय परिष्वज्य इदम् अब्रवीत् ॥५॥
tasya jyā-tala-nirghoṣam droṇaḥ śuśrāva bhārata . upetya ca enam utthāya pariṣvajya idam abravīt ..5..
प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः । त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते ॥६॥
प्रयतिष्ये तथा कर्तुम् यथा न अन्यः धनुर्धरः । त्वद्-समः भविता लोके सत्यम् एतत् ब्रवीमि ते ॥६॥
prayatiṣye tathā kartum yathā na anyaḥ dhanurdharaḥ . tvad-samaḥ bhavitā loke satyam etat bravīmi te ..6..
ततो द्रोणोऽर्जुनं भूयो रथेषु च गजेषु च । अश्वेषु भूमावपि च रणशिक्षामशिक्षयत् ॥७॥
ततस् द्रोणः अर्जुनम् भूयस् रथेषु च गजेषु च । अश्वेषु भूमौ अपि च रण-शिक्षाम् अशिक्षयत् ॥७॥
tatas droṇaḥ arjunam bhūyas ratheṣu ca gajeṣu ca . aśveṣu bhūmau api ca raṇa-śikṣām aśikṣayat ..7..
गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु । द्रोणः सङ्कीर्णयुद्धेषु शिक्षयामास पाण्डवम् ॥८॥
गदा-युद्धे असि-चर्यायाम् तोमर-प्रास-शक्तिषु । द्रोणः सङ्कीर्ण-युद्धेषु शिक्षयामास पाण्डवम् ॥८॥
gadā-yuddhe asi-caryāyām tomara-prāsa-śaktiṣu . droṇaḥ saṅkīrṇa-yuddheṣu śikṣayāmāsa pāṇḍavam ..8..
तस्य तत्कौशलं दृष्ट्वा धनुर्वेदजिघृक्षवः । राजानो राजपुत्राश्च समाजग्मुः सहस्रशः ॥९॥
तस्य तत् कौशलम् दृष्ट्वा धनुर्वेद-जिघृक्षवः । राजानः राज-पुत्राः च समाजग्मुः सहस्रशस् ॥९॥
tasya tat kauśalam dṛṣṭvā dhanurveda-jighṛkṣavaḥ . rājānaḥ rāja-putrāḥ ca samājagmuḥ sahasraśas ..9..
ततो निषादराजस्य हिरण्यधनुषः सुतः । एकलव्यो महाराज द्रोणमभ्याजगाम ह ॥१०॥
ततस् निषाद-राजस्य हिरण्यधनुषः सुतः । एकलव्यः महा-राज द्रोणम् अभ्याजगाम ह ॥१०॥
tatas niṣāda-rājasya hiraṇyadhanuṣaḥ sutaḥ . ekalavyaḥ mahā-rāja droṇam abhyājagāma ha ..10..
न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् । शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया ॥११॥
न स तम् प्रतिजग्राह नैषादिः इति चिन्तयन् । शिष्यम् धनुषि धर्म-ज्ञः तेषाम् एव अन्ववेक्षया ॥११॥
na sa tam pratijagrāha naiṣādiḥ iti cintayan . śiṣyam dhanuṣi dharma-jñaḥ teṣām eva anvavekṣayā ..11..
स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः । अरण्यमनुसम्प्राप्तः कृत्वा द्रोणं महीमयम् ॥१२॥
स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः । अरण्यम् अनुसम्प्राप्तः कृत्वा द्रोणम् मही-मयम् ॥१२॥
sa tu droṇasya śirasā pādau gṛhya parantapaḥ . araṇyam anusamprāptaḥ kṛtvā droṇam mahī-mayam ..12..
तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा । इष्वस्त्रे योगमातस्थे परं नियममास्थितः ॥१३॥
तस्मिन् आचार्य-वृत्तिम् च परमाम् आस्थितः तदा । इष्वस्त्रे योगम् आतस्थे परम् नियमम् आस्थितः ॥१३॥
tasmin ācārya-vṛttim ca paramām āsthitaḥ tadā . iṣvastre yogam ātasthe param niyamam āsthitaḥ ..13..
परया श्रद्धया युक्तो योगेन परमेण च । विमोक्षादानसन्धाने लघुत्वं परमाप सः ॥१४॥
परया श्रद्धया युक्तः योगेन परमेण च । विमोक्ष-आदान-सन्धाने लघु-त्वम् परम् आप सः ॥१४॥
parayā śraddhayā yuktaḥ yogena parameṇa ca . vimokṣa-ādāna-sandhāne laghu-tvam param āpa saḥ ..14..
अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः । रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः ॥१५॥
अथ द्रोण-अभ्यनुज्ञाताः कदाचिद् कुरु-पाण्डवाः । रथैः विनिर्ययुः सर्वे मृगयाम् अरि-मर्दनाः ॥१५॥
atha droṇa-abhyanujñātāḥ kadācid kuru-pāṇḍavāḥ . rathaiḥ viniryayuḥ sarve mṛgayām ari-mardanāḥ ..15..
तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया । राजन्ननुजगामैकः श्वानमादाय पाण्डवान् ॥१६॥
तत्र उपकरणम् गृह्य नरः कश्चिद् यदृच्छया । राजन् अनुजगाम एकः श्वानम् आदाय पाण्डवान् ॥१६॥
tatra upakaraṇam gṛhya naraḥ kaścid yadṛcchayā . rājan anujagāma ekaḥ śvānam ādāya pāṇḍavān ..16..
तेषां विचरतां तत्र तत्तत्कर्म चिकीर्षताम् । श्वा चरन्स वने मूढो नैषादिं प्रति जग्मिवान् ॥१७॥
तेषाम् विचरताम् तत्र तत् तत् कर्म चिकीर्षताम् । श्वा चरन् स वने मूढः नैषादम् प्रति जग्मिवान् ॥१७॥
teṣām vicaratām tatra tat tat karma cikīrṣatām . śvā caran sa vane mūḍhaḥ naiṣādam prati jagmivān ..17..
स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने । नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके ॥१८॥
स कृष्णम् मल-दिग्ध-अङ्गम् कृष्ण-अजिन-धरम् वने । नैषादम् श्वा समालक्ष्य भषन् तस्थौ तद्-अन्तिके ॥१८॥
sa kṛṣṇam mala-digdha-aṅgam kṛṣṇa-ajina-dharam vane . naiṣādam śvā samālakṣya bhaṣan tasthau tad-antike ..18..
तदा तस्याथ भषतः शुनः सप्त शरान्मुखे । लाघवं दर्शयन्नस्त्रे मुमोच युगपद्यथा ॥१९॥
तदा तस्य अथ भषतः शुनः सप्त शरान् मुखे । लाघवम् दर्शयन् अस्त्रे मुमोच युगपद् यथा ॥१९॥
tadā tasya atha bhaṣataḥ śunaḥ sapta śarān mukhe . lāghavam darśayan astre mumoca yugapad yathā ..19..
स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह । तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः ॥२०॥
स तु श्वा शर-पूर्ण-आस्यः पाण्डवान् आजगाम ह । तम् दृष्ट्वा पाण्डवाः वीराः विस्मयम् परमम् ययुः ॥२०॥
sa tu śvā śara-pūrṇa-āsyaḥ pāṇḍavān ājagāma ha . tam dṛṣṭvā pāṇḍavāḥ vīrāḥ vismayam paramam yayuḥ ..20..
लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा । प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः ॥२१॥
लाघवम् शब्दवेधि-त्वम् दृष्ट्वा तत् परमम् तदा । प्रेक्ष्य तम् व्रीडिताः च आसन् प्रशशंसुः च सर्वशस् ॥२१॥
lāghavam śabdavedhi-tvam dṛṣṭvā tat paramam tadā . prekṣya tam vrīḍitāḥ ca āsan praśaśaṃsuḥ ca sarvaśas ..21..
तं ततोऽन्वेषमाणास्ते वने वननिवासिनम् । ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान् ॥२२॥
तम् ततस् अन्वेषमाणाः ते वने वन-निवासिनम् । ददृशुः पाण्डवाः राजन् अस्यन्तम् अनिशम् शरान् ॥२२॥
tam tatas anveṣamāṇāḥ te vane vana-nivāsinam . dadṛśuḥ pāṇḍavāḥ rājan asyantam aniśam śarān ..22..
न चैनमभ्यजानंस्ते तदा विकृतदर्शनम् । अथैनं परिपप्रच्छुः को भवान्कस्य वेत्युत ॥२३॥
न च एनम् अभ्यजानन् ते तदा विकृत-दर्शनम् । अथ एनम् परिपप्रच्छुः कः भवान् कस्य वा इति उत ॥२३॥
na ca enam abhyajānan te tadā vikṛta-darśanam . atha enam paripapracchuḥ kaḥ bhavān kasya vā iti uta ..23..
एकलव्य उवाच॥
निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम् । द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम् ॥२४॥
निषाद-अधिपतेः वीराः हिरण्यधनुषः सुतम् । द्रोण-शिष्यम् च माम् वित्त धनुर्वेद-कृत-श्रमम् ॥२४॥
niṣāda-adhipateḥ vīrāḥ hiraṇyadhanuṣaḥ sutam . droṇa-śiṣyam ca mām vitta dhanurveda-kṛta-śramam ..24..
वैशम्पायन उवाच॥
ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः । यथावृत्तं च ते सर्वं द्रोणायाचख्युरद्भुतम् ॥२५॥
ते तम् आज्ञाय तत्त्वेन पुनर् आगम्य पाण्डवाः । यथावृत्तम् च ते सर्वम् द्रोणाय आचख्युः अद्भुतम् ॥२५॥
te tam ājñāya tattvena punar āgamya pāṇḍavāḥ . yathāvṛttam ca te sarvam droṇāya ācakhyuḥ adbhutam ..25..
कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् । रहो द्रोणं समागम्य प्रणयादिदमब्रवीत् ॥२६॥
कौन्तेयः तु अर्जुनः राजन् एकलव्यम् अनुस्मरन् । रहः द्रोणम् समागम्य प्रणयात् इदम् अब्रवीत् ॥२६॥
kaunteyaḥ tu arjunaḥ rājan ekalavyam anusmaran . rahaḥ droṇam samāgamya praṇayāt idam abravīt ..26..
नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः । भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति ॥२७॥
ननु अहम् परिरभ्य एकः प्रीति-पूर्वम् इदम् वचः । भवता उक्तः न मे शिष्यः त्वद्-विशिष्टः भविष्यति ॥२७॥
nanu aham parirabhya ekaḥ prīti-pūrvam idam vacaḥ . bhavatā uktaḥ na me śiṣyaḥ tvad-viśiṣṭaḥ bhaviṣyati ..27..
अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान् । अस्त्यन्यो भवतः शिष्यो निषादाधिपतेः सुतः ॥२८॥
अथ कस्मात् मद्-विशिष्टः लोकात् अपि च वीर्यवान् । अस्ति अन्यः भवतः शिष्यः निषाद-अधिपतेः सुतः ॥२८॥
atha kasmāt mad-viśiṣṭaḥ lokāt api ca vīryavān . asti anyaḥ bhavataḥ śiṣyaḥ niṣāda-adhipateḥ sutaḥ ..28..
मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम् । सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान् ॥२९॥
मुहूर्तम् इव तम् द्रोणः चिन्तयित्वा विनिश्चयम् । सव्यसाचिनम् आदाय नैषादम् प्रति जग्मिवान् ॥२९॥
muhūrtam iva tam droṇaḥ cintayitvā viniścayam . savyasācinam ādāya naiṣādam prati jagmivān ..29..
ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् । एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान् ॥३०॥
ददर्श मल-दिग्ध-अङ्गम् जटिलम् चीर-वाससम् । एकलव्यम् धनुष्पाणिम् अस्यन्तम् अनिशम् शरान् ॥३०॥
dadarśa mala-digdha-aṅgam jaṭilam cīra-vāsasam . ekalavyam dhanuṣpāṇim asyantam aniśam śarān ..30..
एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात् । अभिगम्योपसङ्गृह्य जगाम शिरसा महीम् ॥३१॥
एकलव्यः तु तम् दृष्ट्वा द्रोणम् आयान्तम् अन्तिकात् । अभिगम्य उपसङ्गृह्य जगाम शिरसा महीम् ॥३१॥
ekalavyaḥ tu tam dṛṣṭvā droṇam āyāntam antikāt . abhigamya upasaṅgṛhya jagāma śirasā mahīm ..31..
पूजयित्वा ततो द्रोणं विधिवत्स निषादजः । निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः ॥३२॥
पूजयित्वा ततस् द्रोणम् विधिवत् स निषाद-जः । निवेद्य शिष्यम् आत्मानम् तस्थौ प्राञ्जलिः अग्रतस् ॥३२॥
pūjayitvā tatas droṇam vidhivat sa niṣāda-jaḥ . nivedya śiṣyam ātmānam tasthau prāñjaliḥ agratas ..32..
ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः । यदि शिष्योऽसि मे तूर्णं वेतनं सम्प्रदीयताम् ॥३३॥
ततस् द्रोणः अब्रवीत् राजन् एकलव्यम् इदम् वचः । यदि शिष्यः असि मे तूर्णम् वेतनम् सम्प्रदीयताम् ॥३३॥
tatas droṇaḥ abravīt rājan ekalavyam idam vacaḥ . yadi śiṣyaḥ asi me tūrṇam vetanam sampradīyatām ..33..
एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम् । किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः ॥३४॥
एकलव्यः तु तत् श्रुत्वा प्रीयमाणः अब्रवीत् इदम् । किम् प्रयच्छामि भगवत् न आज्ञापयतु माम् गुरुः ॥३४॥
ekalavyaḥ tu tat śrutvā prīyamāṇaḥ abravīt idam . kim prayacchāmi bhagavat na ājñāpayatu mām guruḥ ..34..
न हि किञ्चिददेयं मे गुरवे ब्रह्मवित्तम । तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतां मम ॥३५॥
न हि किञ्चिद् अदेयम् मे गुरवे ब्रह्म-वित्तम । तम् अब्रवीत् त्वया अङ्गुष्ठः दक्षिणः दीयताम् मम ॥३५॥
na hi kiñcid adeyam me gurave brahma-vittama . tam abravīt tvayā aṅguṣṭhaḥ dakṣiṇaḥ dīyatām mama ..35..
एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् । प्रतिज्ञामात्मनो रक्षन्सत्ये च निरतः सदा ॥३६॥
एकलव्यः तु तत् श्रुत्वा वचः द्रोणस्य दारुणम् । प्रतिज्ञाम् आत्मनः रक्षन् सत्ये च निरतः सदा ॥३६॥
ekalavyaḥ tu tat śrutvā vacaḥ droṇasya dāruṇam . pratijñām ātmanaḥ rakṣan satye ca nirataḥ sadā ..36..
तथैव हृष्टवदनस्तथैवादीनमानसः । छित्त्वाविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः ॥३७॥
तथा एव हृष्ट-वदनः तथा एव अदीन-मानसः । छित्त्वा अ विचार्य तम् प्रादात् द्रोणाय अङ्गुष्ठम् आत्मनः ॥३७॥
tathā eva hṛṣṭa-vadanaḥ tathā eva adīna-mānasaḥ . chittvā a vicārya tam prādāt droṇāya aṅguṣṭham ātmanaḥ ..37..
ततः परं तु नैषादिरङ्गुलीभिर्व्यकर्षत । न तथा स तु शीघ्रोऽभूद्यथा पूर्वं नराधिप ॥३८॥
ततस् परम् तु नैषादिः अङ्गुलीभिः व्यकर्षत । न तथा स तु शीघ्रः अभूत् यथा पूर्वम् नराधिप ॥३८॥
tatas param tu naiṣādiḥ aṅgulībhiḥ vyakarṣata . na tathā sa tu śīghraḥ abhūt yathā pūrvam narādhipa ..38..
ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः । द्रोणश्च सत्यवागासीन्नान्योऽभ्यभवदर्जुनम् ॥३९॥
ततस् अर्जुनः प्रीत-मनाः बभूव विगत-ज्वरः । द्रोणः च सत्य-वाच् आसीत् न अन्यः अभ्यभवत् अर्जुनम् ॥३९॥
tatas arjunaḥ prīta-manāḥ babhūva vigata-jvaraḥ . droṇaḥ ca satya-vāc āsīt na anyaḥ abhyabhavat arjunam ..39..
द्रोणस्य तु तदा शिष्यौ गदायोग्यां विशेषतः । दुर्योधनश्च भीमश्च कुरूणामभ्यगच्छताम् ॥४०॥
द्रोणस्य तु तदा शिष्यौ गदा-योग्याम् विशेषतः । दुर्योधनः च भीमः च कुरूणाम् अभ्यगच्छताम् ॥४०॥
droṇasya tu tadā śiṣyau gadā-yogyām viśeṣataḥ . duryodhanaḥ ca bhīmaḥ ca kurūṇām abhyagacchatām ..40..
अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत् । तथाति पुरुषानन्यान्त्सारुकौ यमजावुभौ ॥४१॥ ( युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः ॥४१॥ )
अश्वत्थामा रहस्येषु सर्वेषु अभ्यधिकः अभवत् । तथा अति पुरुषान् अन्यान् सारुकौ यम-जौ उभौ ॥४१॥ ( युधिष्ठिरः रथ-श्रेष्ठः सर्वत्र तु धनञ्जयः ॥४१॥ )
aśvatthāmā rahasyeṣu sarveṣu abhyadhikaḥ abhavat . tathā ati puruṣān anyān sārukau yama-jau ubhau ..41.. ( yudhiṣṭhiraḥ ratha-śreṣṭhaḥ sarvatra tu dhanañjayaḥ ..41.. )
प्रथितः सागरान्तायां रथयूथपयूथपः । बुद्धियोगबलोत्साहैः सर्वास्त्रेषु च पाण्डवः ॥४२॥
प्रथितः सागर-अन्तायाम् रथ-यूथप-यूथपः । बुद्धि-योग-बल-उत्साहैः सर्व-अस्त्रेषु च पाण्डवः ॥४२॥
prathitaḥ sāgara-antāyām ratha-yūthapa-yūthapaḥ . buddhi-yoga-bala-utsāhaiḥ sarva-astreṣu ca pāṇḍavaḥ ..42..
अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः । तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान् ॥४३॥ ( एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः ॥४३॥ )
अस्त्रे गुरु-अनुरागे च विशिष्टः अभवत् अर्जुनः । तुल्येषु अस्त्र-उपदेशेषु सौष्ठवेन च वीर्यवान् ॥४३॥ ( एकः सर्व-कुमाराणाम् बभूव अतिरथः अर्जुनः ॥४३॥ )
astre guru-anurāge ca viśiṣṭaḥ abhavat arjunaḥ . tulyeṣu astra-upadeśeṣu sauṣṭhavena ca vīryavān ..43.. ( ekaḥ sarva-kumārāṇām babhūva atirathaḥ arjunaḥ ..43.. )
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् । धार्तराष्ट्रा दुरात्मानो नामृष्यन्त नराधिप ॥४४॥
प्राण-अधिकम् भीमसेनम् कृत-विद्यम् धनञ्जयम् । धार्तराष्ट्राः दुरात्मानः न अमृष्यन्त नराधिप ॥४४॥
prāṇa-adhikam bhīmasenam kṛta-vidyam dhanañjayam . dhārtarāṣṭrāḥ durātmānaḥ na amṛṣyanta narādhipa ..44..
तांस्तु सर्वान्समानीय सर्वविद्यासु निष्ठितान् । द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभ ॥४५॥
तान् तु सर्वान् समानीय सर्व-विद्यासु निष्ठितान् । द्रोणः प्रहरण-ज्ञाने जिज्ञासुः पुरुष-ऋषभ ॥४५॥
tān tu sarvān samānīya sarva-vidyāsu niṣṭhitān . droṇaḥ praharaṇa-jñāne jijñāsuḥ puruṣa-ṛṣabha ..45..
कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् । अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् ॥४६॥
कृत्रिमम् भासम् आरोप्य वृक्ष-अग्रे शिल्पिभिः कृतम् । अविज्ञातम् कुमाराणाम् लक्ष्य-भूतम् उपादिशत् ॥४६॥
kṛtrimam bhāsam āropya vṛkṣa-agre śilpibhiḥ kṛtam . avijñātam kumārāṇām lakṣya-bhūtam upādiśat ..46..
द्रोण उवाच॥
शीघ्रं भवन्तः सर्वे वै धनूंष्यादाय सत्वराः । भासमेतं समुद्दिश्य तिष्ठन्तां संहितेषवः ॥४७॥
शीघ्रम् भवन्तः सर्वे वै धनूंषि आदाय स त्वराः । भासम् एतम् समुद्दिश्य तिष्ठन्ताम् संहित-इषवः ॥४७॥
śīghram bhavantaḥ sarve vai dhanūṃṣi ādāya sa tvarāḥ . bhāsam etam samuddiśya tiṣṭhantām saṃhita-iṣavaḥ ..47..
मद्वाक्यसमकालं च शिरोऽस्य विनिपात्यताम् । एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः ॥४८॥
मद्-वाक्य-सम-कालम् च शिरः अस्य विनिपात्यताम् । एकैकशस् नियोक्ष्यामि तथा कुरुत पुत्रकाः ॥४८॥
mad-vākya-sama-kālam ca śiraḥ asya vinipātyatām . ekaikaśas niyokṣyāmi tathā kuruta putrakāḥ ..48..
वैशम्पायन उवाच॥
ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः । सन्धत्स्व बाणं दुर्धर्ष मद्वाक्यान्ते विमुञ्च च ॥४९॥
ततस् युधिष्ठिरम् पूर्वम् उवाच अङ्गिरसाम् वरः । सन्धत्स्व बाणम् दुर्धर्ष मद्-वाक्य-अन्ते विमुञ्च च ॥४९॥
tatas yudhiṣṭhiram pūrvam uvāca aṅgirasām varaḥ . sandhatsva bāṇam durdharṣa mad-vākya-ante vimuñca ca ..49..
ततो युधिष्ठिरः पूर्वं धनुर्गृह्य महारवम् । तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥५०॥
ततस् युधिष्ठिरः पूर्वम् धनुः गृह्य महा-रवम् । तस्थौ भासम् समुद्दिश्य गुरु-वाक्य-प्रचोदितः ॥५०॥
tatas yudhiṣṭhiraḥ pūrvam dhanuḥ gṛhya mahā-ravam . tasthau bhāsam samuddiśya guru-vākya-pracoditaḥ ..50..
ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम् । स मुहूर्तादुवाचेदं वचनं भरतर्षभ ॥५१॥
ततस् वितत-धन्वानम् द्रोणः तम् कुरु-नन्दनम् । स मुहूर्तात् उवाच इदम् वचनम् भरत-ऋषभ ॥५१॥
tatas vitata-dhanvānam droṇaḥ tam kuru-nandanam . sa muhūrtāt uvāca idam vacanam bharata-ṛṣabha ..51..
पश्यस्येनं द्रुमाग्रस्थं भासं नरवरात्मज । पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः ॥५२॥
पश्यसि एनम् द्रुम-अग्र-स्थम् भासम् नर-वर-आत्मज । पश्यामि इति एवम् आचार्यम् प्रत्युवाच युधिष्ठिरः ॥५२॥
paśyasi enam druma-agra-stham bhāsam nara-vara-ātmaja . paśyāmi iti evam ācāryam pratyuvāca yudhiṣṭhiraḥ ..52..
स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत । अथ वृक्षमिमं मां वा भ्रातृन्वापि प्रपश्यसि ॥५३॥
स मुहूर्तात् इव पुनर् द्रोणः तम् प्रत्यभाषत । अथ वृक्षम् इमम् माम् वा भ्रातृन् वा अपि प्रपश्यसि ॥५३॥
sa muhūrtāt iva punar droṇaḥ tam pratyabhāṣata . atha vṛkṣam imam mām vā bhrātṛn vā api prapaśyasi ..53..
तमुवाच स कौन्तेयः पश्याम्येनं वनस्पतिम् । भवन्तं च तथा भ्रातृन्भासं चेति पुनः पुनः ॥५४॥
तम् उवाच स कौन्तेयः पश्यामि एनम् वनस्पतिम् । भवन्तम् च तथा भ्रातृन् भासम् च इति पुनर् पुनर् ॥५४॥
tam uvāca sa kaunteyaḥ paśyāmi enam vanaspatim . bhavantam ca tathā bhrātṛn bhāsam ca iti punar punar ..54..
तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव । नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन् ॥५५॥
तम् उवाच अपसर्प इति द्रोणः अ प्रीत-मनाः इव । न एतत् शक्यम् त्वया वेद्धुम् लक्ष्यम् इति एव कुत्सयन् ॥५५॥
tam uvāca apasarpa iti droṇaḥ a prīta-manāḥ iva . na etat śakyam tvayā veddhum lakṣyam iti eva kutsayan ..55..
ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः । तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत ॥५६॥
ततस् दुर्योधन-आदीन् तान् धार्तराष्ट्रान् महा-यशाः । तेन एव क्रम-योगेन जिज्ञासुः पर्यपृच्छत ॥५६॥
tatas duryodhana-ādīn tān dhārtarāṣṭrān mahā-yaśāḥ . tena eva krama-yogena jijñāsuḥ paryapṛcchata ..56..
अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान् । तथा च सर्वे सर्वं तत्पश्याम इति कुत्सिताः ॥५७॥1.131.79
अन्यान् च शिष्यान् भीम-आदीन् राज्ञः च एव अन्य-देशजान् । तथा च सर्वे सर्वम् तत् पश्यामः इति कुत्सिताः ॥५७॥१।१३१।७९
anyān ca śiṣyān bhīma-ādīn rājñaḥ ca eva anya-deśajān . tathā ca sarve sarvam tat paśyāmaḥ iti kutsitāḥ ..57..1.131.79
ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत । त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं निशम्यताम् ॥५८॥1.132.1
ततस् धनञ्जयम् द्रोणः स्मयमानः अभ्यभाषत । त्वया इदानीम् प्रहर्तव्यम् एतत् लक्ष्यम् निशम्यताम् ॥५८॥१।१३२।१
tatas dhanañjayam droṇaḥ smayamānaḥ abhyabhāṣata . tvayā idānīm prahartavyam etat lakṣyam niśamyatām ..58..1.132.1
मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः । वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम् ॥५९॥
मद्-वाक्य-सम-कालम् ते मोक्तव्यः अत्र भवेत् शरः । वितत्य कार्मुकम् पुत्र तिष्ठ तावत् मुहूर्तकम् ॥५९॥
mad-vākya-sama-kālam te moktavyaḥ atra bhavet śaraḥ . vitatya kārmukam putra tiṣṭha tāvat muhūrtakam ..59..
एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः । तस्थौ लक्ष्यं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥६०॥
एवम् उक्तः सव्यसाची मण्डलीकृत-कार्मुकः । तस्थौ लक्ष्यम् समुद्दिश्य गुरु-वाक्य-प्रचोदितः ॥६०॥
evam uktaḥ savyasācī maṇḍalīkṛta-kārmukaḥ . tasthau lakṣyam samuddiśya guru-vākya-pracoditaḥ ..60..
मुहूर्तादिव तं द्रोणस्तथैव समभाषत । पश्यस्येनं स्थितं भासं द्रुमं मामपि वेत्युत ॥६१॥
मुहूर्तात् इव तम् द्रोणः तथा एव समभाषत । पश्यसि एनम् स्थितम् भासम् द्रुमम् माम् अपि वा इति उत ॥६१॥
muhūrtāt iva tam droṇaḥ tathā eva samabhāṣata . paśyasi enam sthitam bhāsam drumam mām api vā iti uta ..61..
पश्याम्येनं भासमिति द्रोणं पार्थोऽभ्यभाषत । न तु वृक्षं भवन्तं वा पश्यामीति च भारत ॥६२॥
पश्यामि एनम् भासम् इति द्रोणम् पार्थः अभ्यभाषत । न तु वृक्षम् भवन्तम् वा पश्यामि इति च भारत ॥६२॥
paśyāmi enam bhāsam iti droṇam pārthaḥ abhyabhāṣata . na tu vṛkṣam bhavantam vā paśyāmi iti ca bhārata ..62..
ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः । प्रत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम् ॥६३॥
ततस् प्रीत-मनाः द्रोणः मुहूर्तात् इव तम् पुनर् । प्रत्यभाषत दुर्धर्षः पाण्डवानाम् रथ-ऋषभम् ॥६३॥
tatas prīta-manāḥ droṇaḥ muhūrtāt iva tam punar . pratyabhāṣata durdharṣaḥ pāṇḍavānām ratha-ṛṣabham ..63..
भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः । शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत् ॥६४॥
भासम् पश्यसि यदि एनम् तथा ब्रूहि पुनर्वचः । शिरः पश्यामि भासस्य न गात्रम् इति सः अब्रवीत् ॥६४॥
bhāsam paśyasi yadi enam tathā brūhi punarvacaḥ . śiraḥ paśyāmi bhāsasya na gātram iti saḥ abravīt ..64..
अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः । मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन् ॥६५॥
अर्जुनेन एवम् उक्तः तु द्रोणः हृष्ट-तनूरुहः । मुञ्चस्व इति अब्रवीत् पार्थम् स मुमोच अविचारयन् ॥६५॥
arjunena evam uktaḥ tu droṇaḥ hṛṣṭa-tanūruhaḥ . muñcasva iti abravīt pārtham sa mumoca avicārayan ..65..
ततस्तस्य नगस्थस्य क्षुरेण निशितेन ह । शिर उत्कृत्य तरसा पातयामास पाण्डवः ॥६६॥
ततस् तस्य नग-स्थस्य क्षुरेण निशितेन ह । शिरः उत्कृत्य तरसा पातयामास पाण्डवः ॥६६॥
tatas tasya naga-sthasya kṣureṇa niśitena ha . śiraḥ utkṛtya tarasā pātayāmāsa pāṇḍavaḥ ..66..
तस्मिन्कर्मणि संसिद्धे पर्यश्वजत फल्गुनम् । मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम् ॥६७॥
तस्मिन् कर्मणि संसिद्धे फल्गुनम् । मेने च द्रुपदम् सङ्ख्ये स अनुबन्धम् पराजितम् ॥६७॥
tasmin karmaṇi saṃsiddhe phalgunam . mene ca drupadam saṅkhye sa anubandham parājitam ..67..
कस्यचित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः । जगाम गङ्गामभितो मज्जितुं भरतर्षभ ॥६८॥
कस्यचिद् तु अथ कालस्य स शिष्यः अङ्गिरसाम् वरः । जगाम गङ्गाम् अभितस् मज्जितुम् भरत-ऋषभ ॥६८॥
kasyacid tu atha kālasya sa śiṣyaḥ aṅgirasām varaḥ . jagāma gaṅgām abhitas majjitum bharata-ṛṣabha ..68..
अवगाढमथो द्रोणं सलिले सलिलेचरः । ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः ॥६९॥1.132.12
अवगाढम् अथो द्रोणम् सलिले सलिलेचरः । ग्राहः जग्राह बलवान् जङ्घा-अन्ते काल-चोदितः ॥६९॥१।१३२।१२
avagāḍham atho droṇam salile salilecaraḥ . grāhaḥ jagrāha balavān jaṅghā-ante kāla-coditaḥ ..69..1.132.12
स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत् । ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव ॥७०॥
स समर्थः अपि मोक्षाय शिष्यान् सर्वान् अचोदयत् । ग्राहम् हत्वा मोक्षयध्वम् माम् इति त्वरयन् इव ॥७०॥
sa samarthaḥ api mokṣāya śiṣyān sarvān acodayat . grāham hatvā mokṣayadhvam mām iti tvarayan iva ..70..
तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः । आवापैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत् ॥७१॥ ( इतरे तु विसंमूढास्तत्र तत्र प्रपेदिरे ॥७१॥ )
तद्-वाक्य-सम-कालम् तु बीभत्सुः निशितैः शरैः । आवापैः पञ्चभिः ग्राहम् मग्नम् अम्भसि अताडयत् ॥७१॥ ( इतरे तु विसंमूढाः तत्र तत्र प्रपेदिरे ॥७१॥ )
tad-vākya-sama-kālam tu bībhatsuḥ niśitaiḥ śaraiḥ . āvāpaiḥ pañcabhiḥ grāham magnam ambhasi atāḍayat ..71.. ( itare tu visaṃmūḍhāḥ tatra tatra prapedire ..71.. )
तं च दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम् । विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा ॥७२॥
तम् च दृष्ट्वा क्रिया-उपेतम् द्रोणः अमन्यत पाण्डवम् । विशिष्टम् सर्व-शिष्येभ्यः प्रीतिमान् च अभवत् तदा ॥७२॥
tam ca dṛṣṭvā kriyā-upetam droṇaḥ amanyata pāṇḍavam . viśiṣṭam sarva-śiṣyebhyaḥ prītimān ca abhavat tadā ..72..
स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः । ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः ॥७३॥
स पार्थ-बाणैः बहुधा खण्डशस् परिकल्पितः । ग्राहः पञ्चत्वम् आपेदे जङ्घाम् त्यक्त्वा महात्मनः ॥७३॥
sa pārtha-bāṇaiḥ bahudhā khaṇḍaśas parikalpitaḥ . grāhaḥ pañcatvam āpede jaṅghām tyaktvā mahātmanaḥ ..73..
अथाब्रवीन्महात्मानं भारद्वाजो महारथम् । गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम् ॥७४॥ ( अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम् ॥७४॥ )
अथ अब्रवीत् महात्मानम् भारद्वाजः महा-रथम् । गृहाण इदम् महा-बाहो विशिष्ट-मति-दुर्धरम् ॥७४॥ ( अस्त्रम् ब्रह्मशिरः नाम सप्रयोगनिवर्तनम् ॥७४॥ )
atha abravīt mahātmānam bhāradvājaḥ mahā-ratham . gṛhāṇa idam mahā-bāho viśiṣṭa-mati-durdharam ..74.. ( astram brahmaśiraḥ nāma saprayoganivartanam ..74.. )
न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथञ्चन । जगद्विनिर्दहेदेतदल्पतेजसि पातितम् ॥७५॥
न च ते मानुषेषु एतत् प्रयोक्तव्यम् कथञ्चन । जगत् विनिर्दहेत् एतत् अल्प-तेजसि पातितम् ॥७५॥
na ca te mānuṣeṣu etat prayoktavyam kathañcana . jagat vinirdahet etat alpa-tejasi pātitam ..75..
असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते । तद्धारयेथाः प्रयतः शृणु चेदं वचो मम ॥७६॥
असामान्यम् इदम् तात लोकेषु अस्त्रम् निगद्यते । तत् धारयेथाः प्रयतः शृणु च इदम् वचः मम ॥७६॥
asāmānyam idam tāta lokeṣu astram nigadyate . tat dhārayethāḥ prayataḥ śṛṇu ca idam vacaḥ mama ..76..
बाधेतामानुषः शत्रुर्यदा त्वां वीर कश्चन । तद्वधाय प्रयुञ्जीथास्तदास्त्रमिदमाहवे ॥७७॥
बाधेत अमानुषः शत्रुः यदा त्वाम् वीर कश्चन । तद्-वधाय प्रयुञ्जीथाः तदा अस्त्रम् इदम् आहवे ॥७७॥
bādheta amānuṣaḥ śatruḥ yadā tvām vīra kaścana . tad-vadhāya prayuñjīthāḥ tadā astram idam āhave ..77..
तथेति तत्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः । जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः ॥७८॥
तथा इति तत् प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः । जग्राह परम-अस्त्रम् तत् आह च एनम् पुनर् गुरुः ॥७८॥
tathā iti tat pratiśrutya bībhatsuḥ sa kṛtāñjaliḥ . jagrāha parama-astram tat āha ca enam punar guruḥ ..78..
भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः ॥७८॥1.132.22
भविता त्वद्-समः ना अन्यः पुमान् लोके धनुर्धरः ॥७८॥१।१३२।२२
bhavitā tvad-samaḥ nā anyaḥ pumān loke dhanurdharaḥ ..78..1.132.22

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In