| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत । दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम् ॥१॥
कृतास्त्रान् धार्तराष्ट्रान् च पाण्डु-पुत्रान् च भारत । दृष्ट्वा द्रोणः अब्रवीत् राजन् धृतराष्ट्रम् जनेश्वरम् ॥१॥
kṛtāstrān dhārtarāṣṭrān ca pāṇḍu-putrān ca bhārata . dṛṣṭvā droṇaḥ abravīt rājan dhṛtarāṣṭram janeśvaram ..1..
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः । गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च ॥२॥
कृपस्य सोमदत्तस्य वाह्लीकस्य च धीमतः । गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च ॥२॥
kṛpasya somadattasya vāhlīkasya ca dhīmataḥ . gāṅgeyasya ca sāṃnidhye vyāsasya vidurasya ca ..2..
राजन्सम्प्राप्तविद्यास्ते कुमराः कुरुसत्तम । ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव ॥३॥
राजन् सम्प्राप्त-विद्याः ते कुमराः कुरु-सत्तम । ते दर्शयेयुः स्वाम् शिक्षाम् राजन् अनुमते तव ॥३॥
rājan samprāpta-vidyāḥ te kumarāḥ kuru-sattama . te darśayeyuḥ svām śikṣām rājan anumate tava ..3..
ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना । भारद्वाज महत्कर्म कृतं ते द्विजसत्तम ॥४॥
ततस् अब्रवीत् महा-राजः प्रहृष्टेन अन्तरात्मना । भारद्वाज महत् कर्म कृतम् ते द्विजसत्तम ॥४॥
tatas abravīt mahā-rājaḥ prahṛṣṭena antarātmanā . bhāradvāja mahat karma kṛtam te dvijasattama ..4..
यदा तु मन्यसे कालं यस्मिन्देशे यथा यथा । तथा तथा विधानाय स्वयमाज्ञापयस्व माम् ॥५॥
यदा तु मन्यसे कालम् यस्मिन् देशे यथा यथा । तथा तथा विधानाय स्वयम् आज्ञापयस्व माम् ॥५॥
yadā tu manyase kālam yasmin deśe yathā yathā . tathā tathā vidhānāya svayam ājñāpayasva mām ..5..
स्पृहयाम्यद्य निर्वेदात्पुरुषाणां सचक्षुषाम् । अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान् ॥६॥
स्पृहयामि अद्य निर्वेदात् पुरुषाणाम् स चक्षुषाम् । अस्त्र-हेतोः पराक्रान्तान् ये मे द्रक्ष्यन्ति पुत्रकान् ॥६॥
spṛhayāmi adya nirvedāt puruṣāṇām sa cakṣuṣām . astra-hetoḥ parākrāntān ye me drakṣyanti putrakān ..6..
क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा । न हीदृशं प्रियं मन्ये भविता धर्मवत्सल ॥७॥
क्षत्तर् यत् गुरुः आचार्यः ब्रवीति कुरु तत् तथा । न हि ईदृशम् प्रियम् मन्ये भविता धर्म-वत्सल ॥७॥
kṣattar yat guruḥ ācāryaḥ bravīti kuru tat tathā . na hi īdṛśam priyam manye bhavitā dharma-vatsala ..7..
ततो राजानमामन्त्र्य विदुरानुगतो बहिः । भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम् ॥८॥ ( समामवृक्षां निर्गुल्मामुदक्प्रवणसंस्थिताम् ॥८॥ )
ततस् राजानम् आमन्त्र्य विदुर-अनुगतः बहिस् । भारद्वाजः महा-प्राज्ञः मापयामास मेदिनीम् ॥८॥ ( समाम् अवृक्षाम् निर्गुल्माम् उदक्-प्रवण-संस्थिताम् ॥८॥ )
tatas rājānam āmantrya vidura-anugataḥ bahis . bhāradvājaḥ mahā-prājñaḥ māpayāmāsa medinīm ..8.. ( samām avṛkṣām nirgulmām udak-pravaṇa-saṃsthitām ..8.. )
तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते । अवघुष्टं पुरे चापि तदर्थं वदतां वर ॥९॥
तस्याम् भूमौ बलिम् चक्रे तिथौ नक्षत्र-पूजिते । अवघुष्टम् पुरे च अपि तद्-अर्थम् वदताम् वर ॥९॥
tasyām bhūmau balim cakre tithau nakṣatra-pūjite . avaghuṣṭam pure ca api tad-artham vadatām vara ..9..
रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि । प्रेक्षागारं सुविहितं चक्रुस्तत्र च शिल्पिनः ॥१०॥ ( राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ ॥१०॥ )
रङ्गभूमौ सु विपुलम् शास्त्र-दृष्टम् यथाविधि । प्रेक्षागारम् सु विहितम् चक्रुः तत्र च शिल्पिनः ॥१०॥ ( राज्ञः सर्व-आयुध-उपेतम् स्त्रीणाम् च एव नर-ऋषभ ॥१०॥ )
raṅgabhūmau su vipulam śāstra-dṛṣṭam yathāvidhi . prekṣāgāram su vihitam cakruḥ tatra ca śilpinaḥ ..10.. ( rājñaḥ sarva-āyudha-upetam strīṇām ca eva nara-ṛṣabha ..10.. )
मञ्चांश्च कारयामासुस्तत्र जानपदा जनाः । विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः ॥११॥
मञ्चान् च कारयामासुः तत्र जानपदाः जनाः । विपुलान् उच्छ्रय-उपेतान् शिबिकाः च महाधनाः ॥११॥
mañcān ca kārayāmāsuḥ tatra jānapadāḥ janāḥ . vipulān ucchraya-upetān śibikāḥ ca mahādhanāḥ ..11..
तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा । भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम् ॥१२॥
तस्मिन् ततस् अहनि प्राप्ते राजा स सचिवः तदा । भीष्मम् प्रमुखतस् कृत्वा कृपम् च आचार्य-सत्तमम् ॥१२॥
tasmin tatas ahani prāpte rājā sa sacivaḥ tadā . bhīṣmam pramukhatas kṛtvā kṛpam ca ācārya-sattamam ..12..
मुक्ताजालपरिक्षिप्तं वैडूर्यमणिभूषितम् । शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत् ॥१३॥
मुक्ता-जाल-परिक्षिप्तम् वैडूर्य-मणि-भूषितम् । शातकुम्भ-मयम् दिव्यम् प्रेक्षागारम् उपागमत् ॥१३॥
muktā-jāla-parikṣiptam vaiḍūrya-maṇi-bhūṣitam . śātakumbha-mayam divyam prekṣāgāram upāgamat ..13..
गान्धारी च महाभागा कुन्ती च जयतां वर । स्त्रियश्च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः ॥१४॥ ( हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा ॥१४॥ )
गान्धारी च महाभागा कुन्ती च जयताम् वर । स्त्रियः च सर्वाः याः राज्ञः स प्रेष्याः स परिच्छदाः ॥१४॥ ( हर्षात् आरुरुहुः मञ्चान् मेरुम् देव-स्त्रियः यथा ॥१४॥ )
gāndhārī ca mahābhāgā kuntī ca jayatām vara . striyaḥ ca sarvāḥ yāḥ rājñaḥ sa preṣyāḥ sa paricchadāḥ ..14.. ( harṣāt āruruhuḥ mañcān merum deva-striyaḥ yathā ..14.. )
ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम् । दर्शनेप्सु समभ्यागात्कुमाराणां कृतास्त्रताम् ॥१५॥
ब्राह्मण-क्षत्रिय-आद्यम् च चातुर्वर्ण्यम् पुरात् द्रुतम् । दर्शन-ईप्सु समभ्यागात् कुमाराणाम् कृतास्त्र-ताम् ॥१५॥
brāhmaṇa-kṣatriya-ādyam ca cāturvarṇyam purāt drutam . darśana-īpsu samabhyāgāt kumārāṇām kṛtāstra-tām ..15..
प्रवादितैश्च वादित्रैर्जनकौतूहलेन च । महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा ॥१६॥
प्रवादितैः च वादित्रैः जन-कौतूहलेन च । महा-अर्णवः इव क्षुब्धः समाजः सः अभवत् तदा ॥१६॥
pravāditaiḥ ca vāditraiḥ jana-kautūhalena ca . mahā-arṇavaḥ iva kṣubdhaḥ samājaḥ saḥ abhavat tadā ..16..
ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान् । शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः ॥१७॥
ततस् शुक्ल-अम्बर-धरः शुक्ल-यज्ञ-उपवीतवान् । शुक्ल-केशः सित-श्मश्रुः शुक्ल-माल्य-अनुलेपनः ॥१७॥
tatas śukla-ambara-dharaḥ śukla-yajña-upavītavān . śukla-keśaḥ sita-śmaśruḥ śukla-mālya-anulepanaḥ ..17..
रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह । नभो जलधरैर्हीनं साङ्गारक इवांशुमान् ॥१८॥
रङ्ग-मध्यम् तदा आचार्यः स पुत्रः प्रविवेश ह । नभः जलधरैः हीनम् साङ्गारकः इव अंशुमान् ॥१८॥
raṅga-madhyam tadā ācāryaḥ sa putraḥ praviveśa ha . nabhaḥ jaladharaiḥ hīnam sāṅgārakaḥ iva aṃśumān ..18..
स यथासमयं चक्रे बलिं बलवतां वरः । ब्राह्मणांश्चात्र मन्त्रज्ञान्वाचयामास मङ्गलम् ॥१९॥
स यथासमयम् चक्रे बलिम् बलवताम् वरः । ब्राह्मणान् च अत्र मन्त्र-ज्ञान् वाचयामास मङ्गलम् ॥१९॥
sa yathāsamayam cakre balim balavatām varaḥ . brāhmaṇān ca atra mantra-jñān vācayāmāsa maṅgalam ..19..
अथ पुण्याहघोषस्य पुण्यस्य तदनन्तरम् । विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः ॥२०॥
अथ पुण्य-अह-घोषस्य पुण्यस्य तत् अनन्तरम् । विविशुः विविधम् गृह्य शस्त्र-उपकरणम् नराः ॥२०॥
atha puṇya-aha-ghoṣasya puṇyasya tat anantaram . viviśuḥ vividham gṛhya śastra-upakaraṇam narāḥ ..20..
ततो बद्धतनुत्राणा बद्धकक्ष्या महाबलाः । बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः ॥२१॥
ततस् बद्ध-तनुत्राणाः बद्ध-कक्ष्याः महा-बलाः । बद्ध-तूणाः स धनुषः विविशुः भरत-ऋषभाः ॥२१॥
tatas baddha-tanutrāṇāḥ baddha-kakṣyāḥ mahā-balāḥ . baddha-tūṇāḥ sa dhanuṣaḥ viviśuḥ bharata-ṛṣabhāḥ ..21..
अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः । चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् ॥२२॥
अनुज्येष्ठम् च ते तत्र युधिष्ठिर-पुरोगमाः । चक्रुः अस्त्रम् महा-वीर्याः कुमाराः परम-अद्भुतम् ॥२२॥
anujyeṣṭham ca te tatra yudhiṣṭhira-purogamāḥ . cakruḥ astram mahā-vīryāḥ kumārāḥ parama-adbhutam ..22..
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे । मनुजा धृष्टमपरे वीक्षां चक्रुः सविस्मयाः ॥२३॥
केचिद् शर-आक्षेप-भयात् शिरांसि अवननामिरे । मनुजाः धृष्टम् अपरे वीक्षाम् चक्रुः स विस्मयाः ॥२३॥
kecid śara-ākṣepa-bhayāt śirāṃsi avananāmire . manujāḥ dhṛṣṭam apare vīkṣām cakruḥ sa vismayāḥ ..23..
ते स्म लक्ष्याणि विविधुर्बाणैर्नामाङ्कशोभितैः । विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम् ॥२४॥
ते स्म लक्ष्याणि विविधुः बाणैः नाम अङ्क-शोभितैः । विविधैः लाघव-उत्सृष्टैः उह्यन्तः वाजिभिः द्रुतम् ॥२४॥
te sma lakṣyāṇi vividhuḥ bāṇaiḥ nāma aṅka-śobhitaiḥ . vividhaiḥ lāghava-utsṛṣṭaiḥ uhyantaḥ vājibhiḥ drutam ..24..
तत्कुमारबलं तत्र गृहीतशरकार्मुकम् । गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् ॥२५॥
तत् कुमार-बलम् तत्र गृहीत-शर-कार्मुकम् । गन्धर्वनगर-आकारम् प्रेक्ष्य ते विस्मिताः अभवन् ॥२५॥
tat kumāra-balam tatra gṛhīta-śara-kārmukam . gandharvanagara-ākāram prekṣya te vismitāḥ abhavan ..25..
सहसा चुक्रुशुस्तत्र नराः शतसहस्रशः । विस्मयोत्फुल्लनयनाः साधु साध्विति भारत ॥२६॥
सहसा चुक्रुशुः तत्र नराः शत-सहस्रशस् । विस्मय-उत्फुल्ल-नयनाः साधु साधु इति भारत ॥२६॥
sahasā cukruśuḥ tatra narāḥ śata-sahasraśas . vismaya-utphulla-nayanāḥ sādhu sādhu iti bhārata ..26..
कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत् । गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः ॥२७॥
कृत्वा धनुषि ते मार्गान् रथ-चर्यासु च असकृत् । गज-पृष्ठे अश्व-पृष्ठे च नियुद्धे च महा-बलाः ॥२७॥
kṛtvā dhanuṣi te mārgān ratha-caryāsu ca asakṛt . gaja-pṛṣṭhe aśva-pṛṣṭhe ca niyuddhe ca mahā-balāḥ ..27..
गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः । त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु ॥२८॥
गृहीत-खड्ग-चर्माणः ततस् भूयस् प्रहारिणः । त्सरु-मार्गान् यथा उद्दिष्टान् चेरुः सर्वासु भूमिषु ॥२८॥
gṛhīta-khaḍga-carmāṇaḥ tatas bhūyas prahāriṇaḥ . tsaru-mārgān yathā uddiṣṭān ceruḥ sarvāsu bhūmiṣu ..28..
लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् । ददृशुस्तत्र सर्वेषां प्रयोगे खड्गचर्मणाम् ॥२९॥
लाघवम् सौष्ठवम् शोभाम् स्थिर-त्वम् दृढ-मुष्टिताम् । ददृशुः तत्र सर्वेषाम् प्रयोगे खड्ग-चर्मणाम् ॥२९॥
lāghavam sauṣṭhavam śobhām sthira-tvam dṛḍha-muṣṭitām . dadṛśuḥ tatra sarveṣām prayoge khaḍga-carmaṇām ..29..
अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ । अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ ॥३०॥
अथ तौ नित्य-संहृष्टौ सुयोधन-वृकोदरौ । अवतीर्णौ गदा-हस्तौ एक-शृङ्गौ इव अचलौ ॥३०॥
atha tau nitya-saṃhṛṣṭau suyodhana-vṛkodarau . avatīrṇau gadā-hastau eka-śṛṅgau iva acalau ..30..
बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ । बृंहन्तौ वाशिताहेतोः समदाविव कुञ्जरौ ॥३१॥
बद्ध-कक्ष्यौ महा-बाहू पौरुषे पर्यवस्थितौ । बृंहन्तौ वाशिता-हेतोः स मदौ इव कुञ्जरौ ॥३१॥
baddha-kakṣyau mahā-bāhū pauruṣe paryavasthitau . bṛṃhantau vāśitā-hetoḥ sa madau iva kuñjarau ..31..
तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ । चेरतुर्निर्मलगदौ समदाविव गोवृषौ ॥३२॥
तौ प्रदक्षिण-सव्यानि मण्डलानि महा-बलौ । चेरतुः निर्मल-गदौ स मदौ इव गो-वृषौ ॥३२॥
tau pradakṣiṇa-savyāni maṇḍalāni mahā-balau . ceratuḥ nirmala-gadau sa madau iva go-vṛṣau ..32..
विदुरो धृतराष्ट्राय गान्धार्यै पाण्डवारणिः । न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम् ॥३३॥1.133.35
विदुरः धृतराष्ट्राय गान्धार्यै पाण्डव-अरणिः । न्यवेदयेताम् तत् सर्वम् कुमाराणाम् विचेष्टितम् ॥३३॥१।१३३।३५
viduraḥ dhṛtarāṣṭrāya gāndhāryai pāṇḍava-araṇiḥ . nyavedayetām tat sarvam kumārāṇām viceṣṭitam ..33..1.133.35

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In