| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे । पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः ॥१॥
कुरु-राजे च रङ्ग-स्थे भीमे च बलिनाम् वरे । पक्षपात-कृत-स्नेहः स द्विधा इव अभवत् जनः ॥१॥
kuru-rāje ca raṅga-sthe bhīme ca balinām vare . pakṣapāta-kṛta-snehaḥ sa dvidhā iva abhavat janaḥ ..1..
हा वीर कुरुराजेति हा भीमेति च नर्दताम् । पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः ॥२॥
हा वीर कुरु-राज इति हा भीम इति च नर्दताम् । पुरुषाणाम् सु विपुलाः प्रणादाः सहसा उत्थिताः ॥२॥
hā vīra kuru-rāja iti hā bhīma iti ca nardatām . puruṣāṇām su vipulāḥ praṇādāḥ sahasā utthitāḥ ..2..
ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान् । भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् ॥३॥
ततस् क्षुब्ध-अर्णव-निभम् रङ्गम् आलोक्य बुद्धिमान् । भारद्वाजः प्रियम् पुत्रम् अश्वत्थामानम् अब्रवीत् ॥३॥
tatas kṣubdha-arṇava-nibham raṅgam ālokya buddhimān . bhāradvājaḥ priyam putram aśvatthāmānam abravīt ..3..
वारयैतौ महावीर्यौ कृतयोग्यावुभावपि । मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः ॥४॥
वारय एतौ महा-वीर्यौ कृत-योग्यौ उभौ अपि । मा भूत् रङ्ग-प्रकोपः अयम् भीम-दुर्योधन-उद्भवः ॥४॥
vāraya etau mahā-vīryau kṛta-yogyau ubhau api . mā bhūt raṅga-prakopaḥ ayam bhīma-duryodhana-udbhavaḥ ..4..
ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ । युगान्तानिलसङ्क्षुब्धौ महावेगाविवार्णवौ ॥५॥
ततस् तौ उद्यत-गदौ गुरु-पुत्रेण वारितौ । युगान्त-अनिल-सङ्क्षुब्धौ महा-वेगौ इव अर्णवौ ॥५॥
tatas tau udyata-gadau guru-putreṇa vāritau . yugānta-anila-saṅkṣubdhau mahā-vegau iva arṇavau ..5..
ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत् । निवार्य वादित्रगणं महामेघनिभस्वनम् ॥६॥
ततस् रङ्ग-अङ्गण-गतः द्रोणः वचनम् अब्रवीत् । निवार्य वादित्र-गणम् महा-मेघ-निभ-स्वनम् ॥६॥
tatas raṅga-aṅgaṇa-gataḥ droṇaḥ vacanam abravīt . nivārya vāditra-gaṇam mahā-megha-nibha-svanam ..6..
यो मे पुत्रात्प्रियतरः सर्वास्त्रविदुषां वरः । ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति ॥७॥
यः मे पुत्रात् प्रियतरः सर्व-अस्त्र-विदुषाम् वरः । ऐन्द्रिः इन्द्रानुज-समः स पार्थः दृश्यताम् इति ॥७॥
yaḥ me putrāt priyataraḥ sarva-astra-viduṣām varaḥ . aindriḥ indrānuja-samaḥ sa pārthaḥ dṛśyatām iti ..7..
आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा । बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः ॥८॥
आचार्य-वचनेन अथ कृत-स्वस्त्ययनः युवा । बद्ध-गोधा-अङ्गुलि-त्राणः पूर्ण-तूणः स कार्मुकः ॥८॥
ācārya-vacanena atha kṛta-svastyayanaḥ yuvā . baddha-godhā-aṅguli-trāṇaḥ pūrṇa-tūṇaḥ sa kārmukaḥ ..8..
काञ्चनं कवचं बिभ्रत्प्रत्यदृश्यत फल्गुनः । सार्कः सेन्द्रायुधतडित्ससन्ध्य इव तोयदः ॥९॥
काञ्चनम् कवचम् बिभ्रत् प्रत्यदृश्यत फल्गुनः । स अर्कः स इन्द्रायुध-तडित् स सन्ध्यः इव तोयदः ॥९॥
kāñcanam kavacam bibhrat pratyadṛśyata phalgunaḥ . sa arkaḥ sa indrāyudha-taḍit sa sandhyaḥ iva toyadaḥ ..9..
ततः सर्वस्य रङ्गस्य समुत्पिञ्जोऽभवन्महान् । प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः ॥१०॥
ततस् सर्वस्य रङ्गस्य समुत्पिञ्जः अभवत् महान् । प्रावाद्यन्त च वाद्यानि स शङ्खानि समन्ततः ॥१०॥
tatas sarvasya raṅgasya samutpiñjaḥ abhavat mahān . prāvādyanta ca vādyāni sa śaṅkhāni samantataḥ ..10..
एष कुन्तीसुतः श्रीमानेष पाण्डवमध्यमः । एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता ॥११॥
एष कुन्ती-सुतः श्रीमान् एष पाण्डव-मध्यमः । एष पुत्रः महा-इन्द्रस्य कुरूणाम् एष रक्षिता ॥११॥
eṣa kuntī-sutaḥ śrīmān eṣa pāṇḍava-madhyamaḥ . eṣa putraḥ mahā-indrasya kurūṇām eṣa rakṣitā ..11..
एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः । एष शीलवतां चापि शीलज्ञाननिधिः परः ॥१२॥
एषः अस्त्र-विदुषाम् श्रेष्ठः एष धर्म-भृताम् वरः । एष शीलवताम् च अपि शील-ज्ञान-निधिः परः ॥१२॥
eṣaḥ astra-viduṣām śreṣṭhaḥ eṣa dharma-bhṛtām varaḥ . eṣa śīlavatām ca api śīla-jñāna-nidhiḥ paraḥ ..12..
इत्येवमतुला वाचः शृण्वन्त्याः प्रेक्षकेरिताः । कुन्त्याः प्रस्नवसंमिश्रैरस्रैः क्लिन्नमुरोऽभवत् ॥१३॥
इति एवम् अतुलाः वाचः शृण्वन्त्याः प्रेक्षक-ईरिताः । कुन्त्याः प्रस्नव-संमिश्रैः अस्रैः क्लिन्नम् उरः अभवत् ॥१३॥
iti evam atulāḥ vācaḥ śṛṇvantyāḥ prekṣaka-īritāḥ . kuntyāḥ prasnava-saṃmiśraiḥ asraiḥ klinnam uraḥ abhavat ..13..
तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत् । धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः ॥१४॥
तेन शब्देन महता पूर्ण-श्रुतिः अथ अब्रवीत् । धृतराष्ट्रः नर-श्रेष्ठः विदुरम् हृष्ट-मानसः ॥१४॥
tena śabdena mahatā pūrṇa-śrutiḥ atha abravīt . dhṛtarāṣṭraḥ nara-śreṣṭhaḥ viduram hṛṣṭa-mānasaḥ ..14..
क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः । सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम् ॥१५॥
क्षत्तर् क्षुब्ध-अर्णव-निभः किम् एष सु महा-स्वनः । सहसा एव उत्थितः रङ्गे भिन्दन् इव नभस्तलम् ॥१५॥
kṣattar kṣubdha-arṇava-nibhaḥ kim eṣa su mahā-svanaḥ . sahasā eva utthitaḥ raṅge bhindan iva nabhastalam ..15..
विदुर उवाच॥
एष पार्थो महाराज फल्गुनः पाण्डुनन्दनः । अवतीर्णः सकवचस्तत्रैष सुमहास्वनः ॥१६॥
एष पार्थः महा-राज फल्गुनः पाण्डु-नन्दनः । अवतीर्णः स कवचः तत्र एष सु महा-स्वनः ॥१६॥
eṣa pārthaḥ mahā-rāja phalgunaḥ pāṇḍu-nandanaḥ . avatīrṇaḥ sa kavacaḥ tatra eṣa su mahā-svanaḥ ..16..
धृतराष्ट्र उवाच॥
धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते । पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः ॥१७॥
धन्यः अस्मि अनुगृहीतः अस्मि रक्षितः अस्मि महामते । पृथारणि-समुद्भूतैः त्रिभिः पाण्डव-वह्निभिः ॥१७॥
dhanyaḥ asmi anugṛhītaḥ asmi rakṣitaḥ asmi mahāmate . pṛthāraṇi-samudbhūtaiḥ tribhiḥ pāṇḍava-vahnibhiḥ ..17..
वैशम्पायन उवाच॥
तस्मिन्समुदिते रङ्गे कथञ्चित्पर्यवस्थिते । दर्शयामास बीभत्सुराचार्यादस्त्रलाघवम् ॥१८॥
तस्मिन् समुदिते रङ्गे कथञ्चिद् पर्यवस्थिते । दर्शयामास बीभत्सुः आचार्यात् अस्त्र-लाघवम् ॥१८॥
tasmin samudite raṅge kathañcid paryavasthite . darśayāmāsa bībhatsuḥ ācāryāt astra-lāghavam ..18..
आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः । वायव्येनासृजद्वायुं पार्जन्येनासृजद्घनान् ॥१९॥
आग्नेयेन असृजत् वह्निम् वारुणेन असृजत् पयः । वायव्येन असृजत् वायुम् पार्जन्येन असृजत् घनान् ॥१९॥
āgneyena asṛjat vahnim vāruṇena asṛjat payaḥ . vāyavyena asṛjat vāyum pārjanyena asṛjat ghanān ..19..
भौमेन प्राविशद्भूमिं पार्वतेनासृजद्गिरीन् । अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् ॥२०॥
भौमेन प्राविशत् भूमिम् पार्वतेन असृजत् गिरीन् । अन्तर्धानेन च अस्त्रेण पुनर् अन्तर्हितः अभवत् ॥२०॥
bhaumena prāviśat bhūmim pārvatena asṛjat girīn . antardhānena ca astreṇa punar antarhitaḥ abhavat ..20..
क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः । क्षणेन रथमध्यस्थः क्षणेनावापतन्महीम् ॥२१॥
क्षणात् प्रांशुः क्षणात् ह्रस्वः क्षणात् च रथ-धूर्गतः । क्षणेन रथ-मध्य-स्थः क्षणेन अवापतत् महीम् ॥२१॥
kṣaṇāt prāṃśuḥ kṣaṇāt hrasvaḥ kṣaṇāt ca ratha-dhūrgataḥ . kṣaṇena ratha-madhya-sthaḥ kṣaṇena avāpatat mahīm ..21..
सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः । सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः ॥२२॥
सुकुमारम् च सूक्ष्मम् च गुरुम् च अपि गुरु-प्रियः । सौष्ठवेन अभिसंयुक्तः सः अविध्यत् विविधैः शरैः ॥२२॥
sukumāram ca sūkṣmam ca gurum ca api guru-priyaḥ . sauṣṭhavena abhisaṃyuktaḥ saḥ avidhyat vividhaiḥ śaraiḥ ..22..
भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् । पञ्च बाणानसंसक्तान्स मुमोचैकबाणवत् ॥२३॥
भ्रमतः च वराहस्य लोहस्य प्रमुखे समम् । पञ्च बाणान् असंसक्तान् स मुमोच एक-बाण-वत् ॥२३॥
bhramataḥ ca varāhasya lohasya pramukhe samam . pañca bāṇān asaṃsaktān sa mumoca eka-bāṇa-vat ..23..
गव्ये विषाणकोशे च चले रज्ज्ववलम्बिते । निचखान महावीर्यः सायकानेकविंशतिम् ॥२४॥
गव्ये विषाण-कोशे च चले रज्जु-अवलम्बिते । निचखान महा-वीर्यः सायकान् एकविंशतिम् ॥२४॥
gavye viṣāṇa-kośe ca cale rajju-avalambite . nicakhāna mahā-vīryaḥ sāyakān ekaviṃśatim ..24..
इत्येवमादि सुमहत्खड्गे धनुषि चाभवत् । गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत् ॥२५॥
इति एवमादि सु महत् खड्गे धनुषि च अभवत् । गदायाम् शस्त्र-कुशलः दर्शनानि व्यदर्शयत् ॥२५॥
iti evamādi su mahat khaḍge dhanuṣi ca abhavat . gadāyām śastra-kuśalaḥ darśanāni vyadarśayat ..25..
ततः समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत । मन्दीभूते समाजे च वादित्रस्य च निस्वने ॥२६॥
ततस् समाप्त-भूयिष्ठे तस्मिन् कर्मणि भारत । मन्दीभूते समाजे च वादित्रस्य च निस्वने ॥२६॥
tatas samāpta-bhūyiṣṭhe tasmin karmaṇi bhārata . mandībhūte samāje ca vāditrasya ca nisvane ..26..
द्वारदेशात्समुद्भूतो माहात्म्य बलसूचकः । वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः ॥२७॥
द्वार-देशात् समुद्भूतः माहात्म्य बल-सूचकः । वज्र-निष्पेष-सदृशः शुश्रुवे भुज-निस्वनः ॥२७॥
dvāra-deśāt samudbhūtaḥ māhātmya bala-sūcakaḥ . vajra-niṣpeṣa-sadṛśaḥ śuśruve bhuja-nisvanaḥ ..27..
दीर्यन्ते किं नु गिरयः किं स्विद्भूमिर्विदीर्यते । किं स्विदापूर्यते व्योम जलभारघनैर्घनैः ॥२८॥
दीर्यन्ते किम् नु गिरयः किम् स्विद् भूमिः विदीर्यते । किम् स्विद् आपूर्यते व्योम जल-भार-घनैः घनैः ॥२८॥
dīryante kim nu girayaḥ kim svid bhūmiḥ vidīryate . kim svid āpūryate vyoma jala-bhāra-ghanaiḥ ghanaiḥ ..28..
रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप । द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा ॥२९॥
रङ्गस्य एवम् मतिः अभूत् क्षणेन वसुधाधिप । द्वारम् च अभिमुखाः सर्वे बभूवुः प्रेक्षकाः तदा ॥२९॥
raṅgasya evam matiḥ abhūt kṣaṇena vasudhādhipa . dvāram ca abhimukhāḥ sarve babhūvuḥ prekṣakāḥ tadā ..29..
पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो बभौ । पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः ॥३०॥
पञ्चभिः भ्रातृभिः पार्थैः द्रोणः परिवृतः बभौ । पञ्च-तारेण संयुक्तः सावित्रेण इव चन्द्रमाः ॥३०॥
pañcabhiḥ bhrātṛbhiḥ pārthaiḥ droṇaḥ parivṛtaḥ babhau . pañca-tāreṇa saṃyuktaḥ sāvitreṇa iva candramāḥ ..30..
अश्वत्थाम्ना च सहितं भ्रातृणां शतमूर्जितम् । दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत् ॥३१॥
अश्वत्थाम्ना च सहितम् भ्रातृणाम् शतम् ऊर्जितम् । दुर्योधनम् अमित्र-घ्नम् उत्थितम् पर्यवारयत् ॥३१॥
aśvatthāmnā ca sahitam bhrātṛṇām śatam ūrjitam . duryodhanam amitra-ghnam utthitam paryavārayat ..31..
स तैस्तदा भ्रातृभिरुद्यतायुधै; र्वृतो गदापाणिरवस्थितैः स्थितः । बभौ यथा दानवसङ्क्षये पुरा; पुरंदरो देवगणैः समावृतः ॥३२॥ 1.134.32
स तैः तदा भ्रातृभिः उद्यत-आयुधैः; गदा-पाणिः अवस्थितैः स्थितः । बभौ यथा दानव-सङ्क्षये पुरा; पुरंदरः देव-गणैः समावृतः ॥३२॥ १।१३४।३२
sa taiḥ tadā bhrātṛbhiḥ udyata-āyudhaiḥ; gadā-pāṇiḥ avasthitaiḥ sthitaḥ . babhau yathā dānava-saṅkṣaye purā; puraṃdaraḥ deva-gaṇaiḥ samāvṛtaḥ ..32.. 1.134.32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In