| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनैः । विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः ॥१॥
दत्ते अवकाशे पुरुषैः विस्मय-उत्फुल्ल-लोचनैः । विवेश रङ्गम् विस्तीर्णम् कर्णः परपुरञ्जयः ॥१॥
datte avakāśe puruṣaiḥ vismaya-utphulla-locanaiḥ . viveśa raṅgam vistīrṇam karṇaḥ parapurañjayaḥ ..1..
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः । सधनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः ॥२॥
सहजम् कवचम् बिभ्रत् कुण्डल-उद्द्योतित-आननः । स धनुः-बद्ध-निस्त्रिंशः पाद-चारी इव पर्वतः ॥२॥
sahajam kavacam bibhrat kuṇḍala-uddyotita-ānanaḥ . sa dhanuḥ-baddha-nistriṃśaḥ pāda-cārī iva parvataḥ ..2..
कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः । तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः ॥३॥
कन्या-गर्भः पृथु-यशाः पृथायाः पृथु-लोचनः । तीक्ष्णांशोः भास्करस्य अंशः कर्णः अरि-गण-सूदनः ॥३॥
kanyā-garbhaḥ pṛthu-yaśāḥ pṛthāyāḥ pṛthu-locanaḥ . tīkṣṇāṃśoḥ bhāskarasya aṃśaḥ karṇaḥ ari-gaṇa-sūdanaḥ ..3..
सिंहर्षभगजेन्द्राणां तुल्यवीर्यपराक्रमः । दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः ॥४॥
सिंह-ऋषभ-गज-इन्द्राणाम् तुल्य-वीर्य-पराक्रमः । दीप्ति-कान्ति-द्युति-गुणैः सूर्य-इन्दु-ज्वलन-उपमः ॥४॥
siṃha-ṛṣabha-gaja-indrāṇām tulya-vīrya-parākramaḥ . dīpti-kānti-dyuti-guṇaiḥ sūrya-indu-jvalana-upamaḥ ..4..
प्रांशुः कनकतालाभः सिंहसंहननो युवा । असङ्ख्येयगुणः श्रीमान्भास्करस्यात्मसम्भवः ॥५॥
प्रांशुः कनक-ताल-आभः सिंह-संहननः युवा । असङ्ख्येय-गुणः श्रीमान् भास्करस्य आत्मसम्भवः ॥५॥
prāṃśuḥ kanaka-tāla-ābhaḥ siṃha-saṃhananaḥ yuvā . asaṅkhyeya-guṇaḥ śrīmān bhāskarasya ātmasambhavaḥ ..5..
स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम् । प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत् ॥६॥
स निरीक्ष्य महा-बाहुः सर्वतस् रङ्ग-मण्डलम् । प्रणामम् द्रोण-कृपयोः न अति आदृतम् इव अकरोत् ॥६॥
sa nirīkṣya mahā-bāhuḥ sarvatas raṅga-maṇḍalam . praṇāmam droṇa-kṛpayoḥ na ati ādṛtam iva akarot ..6..
स सामाजजनः सर्वो निश्चलः स्थिरलोचनः । कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत् ॥७॥
स सामाज-जनः सर्वः निश्चलः स्थिर-लोचनः । कः अयम् इति आगत-क्षोभः कौतूहल-परः अभवत् ॥७॥
sa sāmāja-janaḥ sarvaḥ niścalaḥ sthira-locanaḥ . kaḥ ayam iti āgata-kṣobhaḥ kautūhala-paraḥ abhavat ..7..
सोऽब्रवीन्मेघधीरेण स्वरेण वदतां वरः । भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् ॥८॥
सः अब्रवीत् मेघ-धीरेण स्वरेण वदताम् वरः । भ्राता भ्रातरम् अज्ञातम् सावित्रः पाकशासनिम् ॥८॥
saḥ abravīt megha-dhīreṇa svareṇa vadatām varaḥ . bhrātā bhrātaram ajñātam sāvitraḥ pākaśāsanim ..8..
पार्थ यत्ते कृतं कर्म विशेषवदहं ततः । करिष्ये पश्यतां नृणां मात्मना विस्मयं गमः ॥९॥
पार्थ यत् ते कृतम् कर्म विशेषवत् अहम् ततस् । करिष्ये पश्यताम् नृणाम् मा आत्मना विस्मयम् गमः ॥९॥
pārtha yat te kṛtam karma viśeṣavat aham tatas . kariṣye paśyatām nṛṇām mā ātmanā vismayam gamaḥ ..9..
असमाप्ते ततस्तस्य वचने वदतां वर । यन्त्रोत्क्षिप्त इव क्षिप्रमुत्तस्थौ सर्वतो जनः ॥१०॥
असमाप्ते ततस् तस्य वचने वदताम् वर । यन्त्र-उत्क्षिप्तः इव क्षिप्रम् उत्तस्थौ सर्वतस् जनः ॥१०॥
asamāpte tatas tasya vacane vadatām vara . yantra-utkṣiptaḥ iva kṣipram uttasthau sarvatas janaḥ ..10..
प्रीतिश्च पुरुषव्याघ्र दुर्योधनमथास्पृशत् । ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वविशच्च ह ॥११॥
प्रीतिः च पुरुष-व्याघ्र दुर्योधनम् अथ अस्पृशत् । ह्रीः च क्रोधः च बीभत्सुम् क्षणेन अन्वविशत् च ह ॥११॥
prītiḥ ca puruṣa-vyāghra duryodhanam atha aspṛśat . hrīḥ ca krodhaḥ ca bībhatsum kṣaṇena anvaviśat ca ha ..11..
ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा । यत्कृतं तत्र पार्थेन तच्चकार महाबलः ॥१२॥
ततस् द्रोण-अभ्यनुज्ञातः कर्णः प्रिय-रणः सदा । यत् कृतम् तत्र पार्थेन तत् चकार महा-बलः ॥१२॥
tatas droṇa-abhyanujñātaḥ karṇaḥ priya-raṇaḥ sadā . yat kṛtam tatra pārthena tat cakāra mahā-balaḥ ..12..
अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत । कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत् ॥१३॥
अथ दुर्योधनः तत्र भ्रातृभिः सह भारत । कर्णम् परिष्वज्य मुदा ततस् वचनम् अब्रवीत् ॥१३॥
atha duryodhanaḥ tatra bhrātṛbhiḥ saha bhārata . karṇam pariṣvajya mudā tatas vacanam abravīt ..13..
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद । अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम् ॥१४॥
स्वागतम् ते महा-बाहो दिष्ट्या प्राप्तः असि मानद । अहम् च कुरु-राज्यम् च यथेष्टम् उपभुज्यताम् ॥१४॥
svāgatam te mahā-bāho diṣṭyā prāptaḥ asi mānada . aham ca kuru-rājyam ca yatheṣṭam upabhujyatām ..14..
कर्ण उवाच॥
कृतं सर्वेण मेऽन्येन सखित्वं च त्वया वृणे । द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छामि भारत ॥१५॥
कृतम् सर्वेण मे अन्येन सखि-त्वम् च त्वया वृणे । द्वन्द्व-युद्धम् च पार्थेन कर्तुम् इच्छामि भारत ॥१५॥
kṛtam sarveṇa me anyena sakhi-tvam ca tvayā vṛṇe . dvandva-yuddham ca pārthena kartum icchāmi bhārata ..15..
दुर्योधन उवाच॥
भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव । दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिंदम ॥१६॥
भुङ्क्ष्व भोगान् मया सार्धम् बन्धूनाम् प्रिय-कृत् भव । दुर्हृदाम् कुरु सर्वेषाम् मूर्ध्नि पादम् अरिंदम ॥१६॥
bhuṅkṣva bhogān mayā sārdham bandhūnām priya-kṛt bhava . durhṛdām kuru sarveṣām mūrdhni pādam ariṃdama ..16..
वैशम्पायन उवाच॥
ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत । कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम् ॥१७॥
ततस् क्षिप्तम् इव आत्मानम् मत्वा पार्थः अभ्यभाषत । कर्णम् भ्रातृ-समूहस्य मध्ये अचलम् इव स्थितम् ॥१७॥
tatas kṣiptam iva ātmānam matvā pārthaḥ abhyabhāṣata . karṇam bhrātṛ-samūhasya madhye acalam iva sthitam ..17..
अनाहूतोपसृप्तानामनाहूतोपजल्पिनाम् । ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे ॥१८॥
अनाहूत-उपसृप्तानाम् अनाहूत-उपजल्पिनाम् । ये लोकाः तान् हतः कर्ण मया त्वम् प्रतिपत्स्यसे ॥१८॥
anāhūta-upasṛptānām anāhūta-upajalpinām . ye lokāḥ tān hataḥ karṇa mayā tvam pratipatsyase ..18..
कर्ण उवाच॥
रङ्गोऽयं सर्वसामान्यः किमत्र तव फल्गुन । वीर्यश्रेष्ठाश्च राजन्या बलं धर्मोऽनुवर्तते ॥१९॥
रङ्गः अयम् सर्व-सामान्यः किम् अत्र तव फल्गुन । वीर्य-श्रेष्ठाः च राजन्याः बलम् धर्मः अनुवर्तते ॥१९॥
raṅgaḥ ayam sarva-sāmānyaḥ kim atra tava phalguna . vīrya-śreṣṭhāḥ ca rājanyāḥ balam dharmaḥ anuvartate ..19..
किं क्षेपैर्दुर्बलाश्वासैः शरैः कथय भारत । गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः ॥२०॥
किम् क्षेपैः दुर्बल-आश्वासैः शरैः कथय भारत । गुरोः समक्षम् यावत् ते हरामि अद्य शिरः शरैः ॥२०॥
kim kṣepaiḥ durbala-āśvāsaiḥ śaraiḥ kathaya bhārata . guroḥ samakṣam yāvat te harāmi adya śiraḥ śaraiḥ ..20..
वैशम्पायन उवाच॥
ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरञ्जयः । भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम् ॥२१॥
ततस् द्रोण-अभ्यनुज्ञातः पार्थः परपुरञ्जयः । भ्रातृभिः त्वरया आश्लिष्टः रणाय उपजगाम तम् ॥२१॥
tatas droṇa-abhyanujñātaḥ pārthaḥ parapurañjayaḥ . bhrātṛbhiḥ tvarayā āśliṣṭaḥ raṇāya upajagāma tam ..21..
ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः । परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः ॥२२॥
ततस् दुर्योधनेन अपि स भ्रात्रा समर-उद्यतः । परिष्वक्तः स्थितः कर्णः प्रगृह्य स शरम् धनुः ॥२२॥
tatas duryodhanena api sa bhrātrā samara-udyataḥ . pariṣvaktaḥ sthitaḥ karṇaḥ pragṛhya sa śaram dhanuḥ ..22..
ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोजवैः । आवृतं गगनं मेघैर्बलाकापङ्क्तिहासिभिः ॥२३॥
ततस् स विद्युत्-स्तनितैः स इन्द्रायुध-पुरोजवैः । आवृतम् गगनम् मेघैः बलाका-पङ्क्ति-हासिभिः ॥२३॥
tatas sa vidyut-stanitaiḥ sa indrāyudha-purojavaiḥ . āvṛtam gaganam meghaiḥ balākā-paṅkti-hāsibhiḥ ..23..
ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम् । भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान् ॥२४॥
ततस् स्नेहात् हरि-हयम् दृष्ट्वा रङ्ग-अवलोकिनम् । भास्करः अपि अनयत् नाशम् समीप-उपगतान् घनान् ॥२४॥
tatas snehāt hari-hayam dṛṣṭvā raṅga-avalokinam . bhāskaraḥ api anayat nāśam samīpa-upagatān ghanān ..24..
मेघच्छायोपगूढस्तु ततोऽदृश्यत पाण्डवः । सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत ॥२५॥
मेघ-छाया-उपगूढः तु ततस् अदृश्यत पाण्डवः । सूर्य-आतप-परिक्षिप्तः कर्णः अपि समदृश्यत ॥२५॥
megha-chāyā-upagūḍhaḥ tu tatas adṛśyata pāṇḍavaḥ . sūrya-ātapa-parikṣiptaḥ karṇaḥ api samadṛśyata ..25..
धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः । भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन् ॥२६॥
धार्तराष्ट्राः यतस् कर्णः तस्मिन् देशे व्यवस्थिताः । भारद्वाजः कृपः भीष्मः यतस् पार्थः ततस् अभवन् ॥२६॥
dhārtarāṣṭrāḥ yatas karṇaḥ tasmin deśe vyavasthitāḥ . bhāradvājaḥ kṛpaḥ bhīṣmaḥ yatas pārthaḥ tatas abhavan ..26..
द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत । कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह ॥२७॥
द्विधा रङ्गः समभवत् स्त्रीणाम् द्वैधम् अजायत । कुन्तिभोज-सुता मोहम् विज्ञात-अर्था जगाम ह ॥२७॥
dvidhā raṅgaḥ samabhavat strīṇām dvaidham ajāyata . kuntibhoja-sutā moham vijñāta-arthā jagāma ha ..27..
तां तथा मोहसम्पन्नां विदुरः सर्वधर्मवित् । कुन्तीमाश्वासयामास प्रोक्ष्याद्भिश्चन्दनोक्षितैः ॥२८॥
ताम् तथा मोह-सम्पन्नाम् विदुरः सर्व-धर्म-विद् । कुन्तीम् आश्वासयामास प्रोक्ष्य अद्भिः चन्दन-उक्षितैः ॥२८॥
tām tathā moha-sampannām viduraḥ sarva-dharma-vid . kuntīm āśvāsayāmāsa prokṣya adbhiḥ candana-ukṣitaiḥ ..28..
ततः प्रत्यागतप्राणा तावुभावपि दंशितौ । पुत्रौ दृष्ट्वा सुसन्तप्ता नान्वपद्यत किञ्चन ॥२९॥
ततस् प्रत्यागत-प्राणा तौ उभौ अपि दंशितौ । पुत्रौ दृष्ट्वा सु सन्तप्ता न अन्वपद्यत किञ्चन ॥२९॥
tatas pratyāgata-prāṇā tau ubhau api daṃśitau . putrau dṛṣṭvā su santaptā na anvapadyata kiñcana ..29..
तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत् । द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित् ॥३०॥
तौ उद्यत-महा-चापौ कृपः शारद्वतः अब्रवीत् । द्वन्द्व-युद्ध-समाचारे कुशलः सर्व-धर्म-विद् ॥३०॥
tau udyata-mahā-cāpau kṛpaḥ śāradvataḥ abravīt . dvandva-yuddha-samācāre kuśalaḥ sarva-dharma-vid ..30..
अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः । कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति ॥३१॥
अयम् पृथायाः तनयः कनीयान् पाण्डु-नन्दनः । कौरवः भवता सार्धम् द्वन्द्व-युद्धम् करिष्यति ॥३१॥
ayam pṛthāyāḥ tanayaḥ kanīyān pāṇḍu-nandanaḥ . kauravaḥ bhavatā sārdham dvandva-yuddham kariṣyati ..31..
त्वमप्येवं महाबाहो मातरं पितरं कुलम् । कथयस्व नरेन्द्राणां येषां त्वं कुलवर्धनः ॥३२॥
त्वम् अपि एवम् महा-बाहो मातरम् पितरम् कुलम् । कथयस्व नरेन्द्राणाम् येषाम् त्वम् कुल-वर्धनः ॥३२॥
tvam api evam mahā-bāho mātaram pitaram kulam . kathayasva narendrāṇām yeṣām tvam kula-vardhanaḥ ..32..
ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा ॥३२॥
ततस् विदित्वा पार्थः त्वाम् प्रतियोत्स्यति वा न वा ॥३२॥
tatas viditvā pārthaḥ tvām pratiyotsyati vā na vā ..32..
एवमुक्तस्य कर्णस्य व्रीडावनतमाननम् । बभौ वर्षाम्बुभिः क्लिन्नं पद्ममागलितं यथा ॥३३॥
एवम् उक्तस्य कर्णस्य व्रीडा-अवनतम् आननम् । बभौ वर्ष-अम्बुभिः क्लिन्नम् पद्मम् आगलितम् यथा ॥३३॥
evam uktasya karṇasya vrīḍā-avanatam ānanam . babhau varṣa-ambubhiḥ klinnam padmam āgalitam yathā ..33..
दुर्योधन उवाच॥
आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये । तत्कुलीनश्च शूरश्च सेनां यश्च प्रकर्षति ॥३४॥
आचार्य त्रिविधा योनिः राज्ञाम् शास्त्र-विनिश्चये । तद्-कुलीनः च शूरः च सेनाम् यः च प्रकर्षति ॥३४॥
ācārya trividhā yoniḥ rājñām śāstra-viniścaye . tad-kulīnaḥ ca śūraḥ ca senām yaḥ ca prakarṣati ..34..
यद्ययं फल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति । तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते ॥३५॥
यदि अयम् फल्गुनः युद्धे न अ राज्ञा योद्धुम् इच्छति । तस्मात् एषः अङ्ग-विषये मया राज्ये अभिषिच्यते ॥३५॥
yadi ayam phalgunaḥ yuddhe na a rājñā yoddhum icchati . tasmāt eṣaḥ aṅga-viṣaye mayā rājye abhiṣicyate ..35..
वैशम्पायन उवाच॥
ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः । काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः ॥३६॥ ( अभिषिक्तोऽङ्गराज्ये स श्रिया युक्तो महाबलः ॥३६॥ )
ततस् तस्मिन् क्षणे कर्णः स लाज-कुसुमैः घटैः । काञ्चनैः काञ्चने पीठे मन्त्र-विद्भिः महा-रथः ॥३६॥ ( अभिषिक्तः अङ्ग-राज्ये स श्रिया युक्तः महा-बलः ॥३६॥ )
tatas tasmin kṣaṇe karṇaḥ sa lāja-kusumaiḥ ghaṭaiḥ . kāñcanaiḥ kāñcane pīṭhe mantra-vidbhiḥ mahā-rathaḥ ..36.. ( abhiṣiktaḥ aṅga-rājye sa śriyā yuktaḥ mahā-balaḥ ..36.. )
सच्छत्रवालव्यजनो जयशब्दान्तरेण च । उवाच कौरवं राजा राजानं तं वृषस्तदा ॥३७॥
सत्-छत्र-वाल-व्यजनः जय-शब्द-अन्तरेण च । उवाच कौरवम् राजा राजानम् तम् वृषः तदा ॥३७॥
sat-chatra-vāla-vyajanaḥ jaya-śabda-antareṇa ca . uvāca kauravam rājā rājānam tam vṛṣaḥ tadā ..37..
अस्य राज्यप्रदानस्य सदृशं किं ददानि ते । प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप ॥३८॥ ( अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः ॥३८॥ )
अस्य राज्य-प्रदानस्य सदृशम् किम् ददानि ते । प्रब्रूहि राज-शार्दूल कर्ता हि अस्मि तथा नृप ॥३८॥ ( अत्यन्तम् सख्यम् इच्छामि इति आह तम् स सुयोधनः ॥३८॥ )
asya rājya-pradānasya sadṛśam kim dadāni te . prabrūhi rāja-śārdūla kartā hi asmi tathā nṛpa ..38.. ( atyantam sakhyam icchāmi iti āha tam sa suyodhanaḥ ..38.. )
एवमुक्तस्ततः कर्णस्तथेति प्रत्यभाषत । हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः ॥३९॥ 1.135.41
एवम् उक्तः ततस् कर्णः तथा इति प्रत्यभाषत । हर्षात् च उभौ समाश्लिष्य पराम् मुदम् अवापतुः ॥३९॥ १।१३५।४१
evam uktaḥ tatas karṇaḥ tathā iti pratyabhāṣata . harṣāt ca ubhau samāśliṣya parām mudam avāpatuḥ ..39.. 1.135.41

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In