| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः । विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव ॥१॥
ततस् स्रस्त-उत्तर-पटः स प्रस्वेदः स वेपथुः । विवेश अधिरथः रङ्गम् यष्टि-प्राणः ह्वयन् इव ॥१॥
tatas srasta-uttara-paṭaḥ sa prasvedaḥ sa vepathuḥ . viveśa adhirathaḥ raṅgam yaṣṭi-prāṇaḥ hvayan iva ..1..
तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः । कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत ॥२॥
तम् आलोक्य धनुः त्यक्त्वा पितृ-गौरव-यन्त्रितः । कर्णः अभिषेक-आर्द्र-शिराः शिरसा समवन्दत ॥२॥
tam ālokya dhanuḥ tyaktvā pitṛ-gaurava-yantritaḥ . karṇaḥ abhiṣeka-ārdra-śirāḥ śirasā samavandata ..2..
ततः पादाववच्छाद्य पटान्तेन ससम्भ्रमः । पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिः ॥३॥
ततस् पादौ अवच्छाद्य पट-अन्तेन स सम्भ्रमः । पुत्र इति परिपूर्ण-अर्थम् अब्रवीत् रथ-सारथिः ॥३॥
tatas pādau avacchādya paṭa-antena sa sambhramaḥ . putra iti paripūrṇa-artham abravīt ratha-sārathiḥ ..3..
परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः । अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः ॥४॥
परिष्वज्य च तस्य अथ मूर्धानम् स्नेह-विक्लवः । अङ्ग-राज्य-अभिषेक-आर्द्रम् अश्रुभिः सिषिचे पुनर् ॥४॥
pariṣvajya ca tasya atha mūrdhānam sneha-viklavaḥ . aṅga-rājya-abhiṣeka-ārdram aśrubhiḥ siṣice punar ..4..
तं दृष्ट्वा सूतपुत्रोऽयमिति निश्चित्य पाण्डवः । भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव ॥५॥
तम् दृष्ट्वा सूतपुत्रः अयम् इति निश्चित्य पाण्डवः । भीमसेनः तदा वाक्यम् अब्रवीत् प्रहसन् इव ॥५॥
tam dṛṣṭvā sūtaputraḥ ayam iti niścitya pāṇḍavaḥ . bhīmasenaḥ tadā vākyam abravīt prahasan iva ..5..
न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम् । कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया ॥६॥
न त्वम् अर्हसि पार्थेन सूतपुत्र रणे वधम् । कुलस्य सदृशः तूर्णम् प्रतोदः गृह्यताम् त्वया ॥६॥
na tvam arhasi pārthena sūtaputra raṇe vadham . kulasya sadṛśaḥ tūrṇam pratodaḥ gṛhyatām tvayā ..6..
अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम । श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे ॥७॥
अङ्ग-राज्यम् च न अर्हः त्वम् उपभोक्तुम् नर-अधम । श्वा हुताश-समीप-स्थम् पुरोडाशम् इव अध्वरे ॥७॥
aṅga-rājyam ca na arhaḥ tvam upabhoktum nara-adhama . śvā hutāśa-samīpa-stham puroḍāśam iva adhvare ..7..
एवमुक्तस्ततः कर्णः किञ्चित्प्रस्फुरिताधरः । गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत ॥८॥
एवम् उक्तः ततस् कर्णः किञ्चिद् प्रस्फुरित-अधरः । गगन-स्थम् विनिःश्वस्य दिवाकरम् उदैक्षत ॥८॥
evam uktaḥ tatas karṇaḥ kiñcid prasphurita-adharaḥ . gagana-stham viniḥśvasya divākaram udaikṣata ..8..
ततो दुर्योधनः कोपादुत्पपात महाबलः । भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः ॥९॥
ततस् दुर्योधनः कोपात् उत्पपात महा-बलः । भ्रातृ-पद्म-वनात् तस्मात् मद-उत्कटः इव द्विपः ॥९॥
tatas duryodhanaḥ kopāt utpapāta mahā-balaḥ . bhrātṛ-padma-vanāt tasmāt mada-utkaṭaḥ iva dvipaḥ ..9..
सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम् । वृकोदर न युक्तं ते वचनं वक्तुमीदृशम् ॥१०॥
सः अब्रवीत् भीमकर्माणम् भीमसेनम् अवस्थितम् । वृकोदर न युक्तम् ते वचनम् वक्तुम् ईदृशम् ॥१०॥
saḥ abravīt bhīmakarmāṇam bhīmasenam avasthitam . vṛkodara na yuktam te vacanam vaktum īdṛśam ..10..
क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना । शूराणां च नदीनां च प्रभवा दुर्विदाः किल ॥११॥
क्षत्रियाणाम् बलम् ज्येष्ठम् योद्धव्यम् क्षत्रबन्धुना । शूराणाम् च नदीनाम् च प्रभवाः दुर्विदाः किल ॥११॥
kṣatriyāṇām balam jyeṣṭham yoddhavyam kṣatrabandhunā . śūrāṇām ca nadīnām ca prabhavāḥ durvidāḥ kila ..11..
सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम् । दधीचस्यास्थितो वज्रं कृतं दानवसूदनम् ॥१२॥
सलिलात् उत्थितः वह्निः येन व्याप्तम् चराचरम् । दधीचस्य अस्थितः वज्रम् कृतम् दानव-सूदनम् ॥१२॥
salilāt utthitaḥ vahniḥ yena vyāptam carācaram . dadhīcasya asthitaḥ vajram kṛtam dānava-sūdanam ..12..
आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि । श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः ॥१३॥
आग्नेयः कृत्तिका-पुत्रः रौद्रः गाङ्गेयः इति अपि । श्रूयते भगवान् देवः सर्व-गुह्य-मयः गुहः ॥१३॥
āgneyaḥ kṛttikā-putraḥ raudraḥ gāṅgeyaḥ iti api . śrūyate bhagavān devaḥ sarva-guhya-mayaḥ guhaḥ ..13..
क्षत्रियाभ्यश्च ये जाता ब्राह्मणास्ते च विश्रुताः । आचार्यः कलशाज्जातः शरस्तम्बाद्गुरुः कृपः ॥१४॥ ( भवतां च यथा जन्म तदप्यागमितं नृपैः ॥१४॥ )
क्षत्रियाभ्यः च ये जाताः ब्राह्मणाः ते च विश्रुताः । आचार्यः कलशात् जातः शर-स्तम्बात् गुरुः कृपः ॥१४॥ ( भवताम् च यथा जन्म तत् अपि आगमितम् नृपैः ॥१४॥ )
kṣatriyābhyaḥ ca ye jātāḥ brāhmaṇāḥ te ca viśrutāḥ . ācāryaḥ kalaśāt jātaḥ śara-stambāt guruḥ kṛpaḥ ..14.. ( bhavatām ca yathā janma tat api āgamitam nṛpaiḥ ..14.. )
सकुण्डलं सकवचं दिव्यलक्षणलक्षितम् । कथमादित्यसङ्काशं मृगी व्याघ्रं जनिष्यति ॥१५॥
स कुण्डलम् स कवचम् दिव्य-लक्षण-लक्षितम् । कथम् आदित्य-सङ्काशम् मृगी व्याघ्रम् जनिष्यति ॥१५॥
sa kuṇḍalam sa kavacam divya-lakṣaṇa-lakṣitam . katham āditya-saṅkāśam mṛgī vyāghram janiṣyati ..15..
पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः । अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना ॥१६॥
पृथिवी-राज्यम् अर्हः अयम् न अङ्ग-राज्यम् नरेश्वरः । अनेन बाहु-वीर्येण मया च आज्ञा-अनुवर्तिना ॥१६॥
pṛthivī-rājyam arhaḥ ayam na aṅga-rājyam nareśvaraḥ . anena bāhu-vīryeṇa mayā ca ājñā-anuvartinā ..16..
यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् । रथमारुह्य पद्भ्यां वा विनामयतु कार्मुकम् ॥१७॥
यस्य वा मनुजस्य इदम् न क्षान्तम् मद्-विचेष्टितम् । रथम् आरुह्य पद्भ्याम् वा विनामयतु कार्मुकम् ॥१७॥
yasya vā manujasya idam na kṣāntam mad-viceṣṭitam . ratham āruhya padbhyām vā vināmayatu kārmukam ..17..
ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत् । साधुवादानुसम्बद्धः सूर्यश्चास्तमुपागमत् ॥१८॥
ततस् सर्वस्य रङ्गस्य हाहाकारः महान् अभूत् । साधुवाद-अनुसम्बद्धः सूर्यः च अस्तम् उपागमत् ॥१८॥
tatas sarvasya raṅgasya hāhākāraḥ mahān abhūt . sādhuvāda-anusambaddhaḥ sūryaḥ ca astam upāgamat ..18..
ततो दुर्योधनः कर्णमालम्ब्याथ करे नृप । दीपिकाग्निकृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ ॥१९॥
ततस् दुर्योधनः कर्णम् आलम्ब्य अथ करे नृप । दीपिका-अग्नि-कृत-आलोकः तस्मात् रङ्गात् विनिर्ययौ ॥१९॥
tatas duryodhanaḥ karṇam ālambya atha kare nṛpa . dīpikā-agni-kṛta-ālokaḥ tasmāt raṅgāt viniryayau ..19..
पाण्डवाश्च सहद्रोणाः सकृपाश्च विशां पते । भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम् ॥२०॥
पाण्डवाः च सहद्रोणाः स कृपाः च विशाम् पते । भीष्मेण सहिताः सर्वे ययुः स्वम् स्वम् निवेशनम् ॥२०॥
pāṇḍavāḥ ca sahadroṇāḥ sa kṛpāḥ ca viśām pate . bhīṣmeṇa sahitāḥ sarve yayuḥ svam svam niveśanam ..20..
अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत । कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा ॥२१॥
अर्जुन इति जनः कश्चिद् कश्चिद् कर्ण इति भारत । कश्चिद् दुर्योधन इति एवम् ब्रुवन्तः प्रस्थिताः तदा ॥२१॥
arjuna iti janaḥ kaścid kaścid karṇa iti bhārata . kaścid duryodhana iti evam bruvantaḥ prasthitāḥ tadā ..21..
कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम् । पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरवर्धत ॥२२॥
कुन्त्याः च प्रत्यभिज्ञाय दिव्य-लक्षण-सूचितम् । पुत्रम् अङ्ग-ईश्वरम् स्नेहात् छन्ना प्रीतिः अवर्धत ॥२२॥
kuntyāḥ ca pratyabhijñāya divya-lakṣaṇa-sūcitam . putram aṅga-īśvaram snehāt channā prītiḥ avardhata ..22..
दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव । भयमर्जुनसाञ्जातं क्षिप्रमन्तरधीयत ॥२३॥
दुर्योधनस्य अपि तदा कर्णम् आसाद्य पार्थिव । भयम् अर्जुन-सान् जातम् क्षिप्रम् अन्तरधीयत ॥२३॥
duryodhanasya api tadā karṇam āsādya pārthiva . bhayam arjuna-sān jātam kṣipram antaradhīyata ..23..
स चापि वीरः कृतशस्त्रनिश्रमः; परेण साम्नाभ्यवदत्सुयोधनम् । युधिष्ठिरस्याप्यभवत्तदा मति; र्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ ॥२४॥1.136.25
स च अपि वीरः कृत-शस्त्र-निश्रमः; परेण साम्ना अभ्यवदत् सुयोधनम् । युधिष्ठिरस्य अपि अभवत् तदा मति; र्न कर्ण-तुल्यः अस्ति धनुर्धरः क्षितौ ॥२४॥१।१३६।२५
sa ca api vīraḥ kṛta-śastra-niśramaḥ; pareṇa sāmnā abhyavadat suyodhanam . yudhiṣṭhirasya api abhavat tadā mati; rna karṇa-tulyaḥ asti dhanurdharaḥ kṣitau ..24..1.136.25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In