| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततः शिष्यान्समानीय आचार्यार्थमचोदयत् । द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते ॥१॥
ततस् शिष्यान् समानीय आचार्य-अर्थम् अचोदयत् । द्रोणः सर्वान् अशेषेण दक्षिणा-अर्थम् महीपते ॥१॥
tatas śiṣyān samānīya ācārya-artham acodayat . droṇaḥ sarvān aśeṣeṇa dakṣiṇā-artham mahīpate ..1..
पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्धनि । पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा ॥२॥
पाञ्चाल-राजम् द्रुपदम् गृहीत्वा रण-मूर्धनि । पर्यानयत भद्रम् वः सा स्यात् परम-दक्षिणा ॥२॥
pāñcāla-rājam drupadam gṛhītvā raṇa-mūrdhani . paryānayata bhadram vaḥ sā syāt parama-dakṣiṇā ..2..
तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः । आचार्यधनदानार्थं द्रोणेन सहिता ययुः ॥३॥1.137.4
तथा इति उक्त्वा तु ते सर्वे रथैः तूर्णम् प्रहारिणः । आचार्य-धन-दान-अर्थम् द्रोणेन सहिताः ययुः ॥३॥१।१३७।४
tathā iti uktvā tu te sarve rathaiḥ tūrṇam prahāriṇaḥ . ācārya-dhana-dāna-artham droṇena sahitāḥ yayuḥ ..3..1.137.4
ततोऽभिजग्मुः पाञ्चालान्निघ्नन्तस्ते नरर्षभाः । ममृदुस्तस्य नगरं द्रुपदस्य महौजसः ॥४॥1.137.5
ततस् अभिजग्मुः पाञ्चालान् निघ्नन्तः ते नर-ऋषभाः । ममृदुः तस्य नगरम् द्रुपदस्य महा-ओजसः ॥४॥१।१३७।५
tatas abhijagmuḥ pāñcālān nighnantaḥ te nara-ṛṣabhāḥ . mamṛduḥ tasya nagaram drupadasya mahā-ojasaḥ ..4..1.137.5
ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि । उपाजह्रुः सहामात्यं द्रोणाय भरतर्षभाः ॥५॥
ते यज्ञसेनम् द्रुपदम् गृहीत्वा रण-मूर्धनि । उपाजह्रुः सहामात्यम् द्रोणाय भरत-ऋषभाः ॥५॥
te yajñasenam drupadam gṛhītvā raṇa-mūrdhani . upājahruḥ sahāmātyam droṇāya bharata-ṛṣabhāḥ ..5..
भग्नदर्पं हृतधनं तथा च वशमागतम् । स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत् ॥६॥
भग्न-दर्पम् हृत-धनम् तथा च वशम् आगतम् । स वैरम् मनसा ध्यात्वा द्रोणः द्रुपदम् अब्रवीत् ॥६॥
bhagna-darpam hṛta-dhanam tathā ca vaśam āgatam . sa vairam manasā dhyātvā droṇaḥ drupadam abravīt ..6..
प्रमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया । प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते ॥७॥
प्रमृद्य तरसा राष्ट्रम् पुरम् ते मृदितम् मया । प्राप्य जीवन् रिपु-वशम् सखिपूर्वम् किम् इष्यते ॥७॥
pramṛdya tarasā rāṣṭram puram te mṛditam mayā . prāpya jīvan ripu-vaśam sakhipūrvam kim iṣyate ..7..
एवमुक्त्वा प्रहस्यैनं निश्चित्य पुनरब्रवीत् । मा भैः प्राणभयाद्राजन्क्षमिणो ब्राह्मणा वयम् ॥८॥
एवम् उक्त्वा प्रहस्य एनम् निश्चित्य पुनर् अब्रवीत् । मा भैः प्राण-भयात् राजन् क्षमिणः ब्राह्मणाः वयम् ॥८॥
evam uktvā prahasya enam niścitya punar abravīt . mā bhaiḥ prāṇa-bhayāt rājan kṣamiṇaḥ brāhmaṇāḥ vayam ..8..
आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह । तेन संवर्धितः स्नेहस्त्वया मे क्षत्रियर्षभ ॥९॥
आश्रमे क्रीडितम् यत् तु त्वया बाल्ये मया सह । तेन संवर्धितः स्नेहः त्वया मे क्षत्रिय-ऋषभ ॥९॥
āśrame krīḍitam yat tu tvayā bālye mayā saha . tena saṃvardhitaḥ snehaḥ tvayā me kṣatriya-ṛṣabha ..9..
प्रार्थयेयं त्वया सख्यं पुनरेव नरर्षभ । वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि ॥१०॥1.137.68
प्रार्थयेयम् त्वया सख्यम् पुनर् एव नर-ऋषभ । वरम् ददामि ते राजन् राज्यस्य अर्धम् अवाप्नुहि ॥१०॥१।१३७।६८
prārthayeyam tvayā sakhyam punar eva nara-ṛṣabha . varam dadāmi te rājan rājyasya ardham avāpnuhi ..10..1.137.68
अराजा किल नो राज्ञां सखा भवितुमर्हति । अतः प्रयतितं राज्ये यज्ञसेन मया तव ॥११॥
अ राजा किल नो राज्ञाम् सखा भवितुम् अर्हति । अतस् प्रयतितम् राज्ये यज्ञसेन मया तव ॥११॥
a rājā kila no rājñām sakhā bhavitum arhati . atas prayatitam rājye yajñasena mayā tava ..11..
राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे । सखायं मां विजानीहि पाञ्चाल यदि मन्यसे ॥१२॥
राजा असि दक्षिणे कूले भागीरथ्या अहम् उत्तरे । सखायम् माम् विजानीहि पाञ्चाल यदि मन्यसे ॥१२॥
rājā asi dakṣiṇe kūle bhāgīrathyā aham uttare . sakhāyam mām vijānīhi pāñcāla yadi manyase ..12..
द्रुपद उवाच॥
अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु । प्रीये त्वयाहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम् ॥१३॥
अनाश्चर्यम् इदम् ब्रह्मन् विक्रान्तेषु महात्मसु । प्रीये त्वया अहम् त्वत्तः च प्रीतिम् इच्छामि शाश्वतीम् ॥१३॥
anāścaryam idam brahman vikrānteṣu mahātmasu . prīye tvayā aham tvattaḥ ca prītim icchāmi śāśvatīm ..13..
वैशम्पायन उवाच॥
एवमुक्तस्तु तं द्रोणो मोक्षयामास भारत । सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् ॥१४॥
एवम् उक्तः तु तम् द्रोणः मोक्षयामास भारत । सत्कृत्य च एनम् प्रीत-आत्मा राज्य-अर्धम् प्रत्यपादयत् ॥१४॥
evam uktaḥ tu tam droṇaḥ mokṣayāmāsa bhārata . satkṛtya ca enam prīta-ātmā rājya-ardham pratyapādayat ..14..
माकन्दीमथ गङ्गायास्तीरे जनपदायुताम् । सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम् ॥१५॥1.137.73 ( दक्षिणांश्चैव पाञ्चालान्यावच्चर्मण्वती नदी ॥१५॥ )
माकन्दीम् अथ गङ्गायाः तीरे जनपद-आयुताम् । सः अध्यावसत् दीन-मनाः काम्पिल्यम् च पुर-उत्तमम् ॥१५॥१।१३७।७३ ( दक्षिणान् च एव पाञ्चालान् यावत् चर्मण्वती नदी ॥१५॥ )
mākandīm atha gaṅgāyāḥ tīre janapada-āyutām . saḥ adhyāvasat dīna-manāḥ kāmpilyam ca pura-uttamam ..15..1.137.73 ( dakṣiṇān ca eva pāñcālān yāvat carmaṇvatī nadī ..15.. )
द्रोणेन वैरं द्रुपदः संस्मरन्न शशाम ह । क्षात्रेण च बलेनास्य नापश्यत्स पराजयम् ॥१६॥
द्रोणेन वैरम् द्रुपदः संस्मरन् न शशाम ह । क्षात्रेण च बलेन अस्य न अपश्यत् स पराजयम् ॥१६॥
droṇena vairam drupadaḥ saṃsmaran na śaśāma ha . kṣātreṇa ca balena asya na apaśyat sa parājayam ..16..
हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च । पुत्रजन्म परीप्सन्वै स राजा तदधारयत् ॥१७॥ ( अहिच्छत्रं च विषयं द्रोणः समभिपद्यत ॥१७॥ )
हीनम् विदित्वा च आत्मानम् ब्राह्मणेन बलेन च । पुत्र-जन्म परीप्सन् वै स राजा तत् अधारयत् ॥१७॥ ( अहिच्छत्रम् च विषयम् द्रोणः समभिपद्यत ॥१७॥ )
hīnam viditvā ca ātmānam brāhmaṇena balena ca . putra-janma parīpsan vai sa rājā tat adhārayat ..17.. ( ahicchatram ca viṣayam droṇaḥ samabhipadyata ..17.. )
एवं राजन्नहिच्छत्रा पुरी जनपदायुता । युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता ॥१८॥1.137.77
एवम् राजन् अहिच्छत्रा पुरी जनपद-आयुता । युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता ॥१८॥१।१३७।७७
evam rājan ahicchatrā purī janapada-āyutā . yudhi nirjitya pārthena droṇāya pratipāditā ..18..1.137.77

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In