| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् । दुर्योधनो लक्षयित्व पर्यतप्यत दुर्मतिः ॥१॥1.140.20
प्राण-अधिकम् भीमसेनम् कृत-विद्यम् धनञ्जयम् । दुर्योधनः लक्षयित्वा पर्यतप्यत दुर्मतिः ॥१॥१।१४०।२०
prāṇa-adhikam bhīmasenam kṛta-vidyam dhanañjayam . duryodhanaḥ lakṣayitvā paryatapyata durmatiḥ ..1..1.140.20
ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः । अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥२॥
ततस् वैकर्तनः कर्णः शकुनिः च अपि सौबलः । अनेकैः अभ्युपायैः तान् जिघांसन्ति स्म पाण्डवान् ॥२॥
tatas vaikartanaḥ karṇaḥ śakuniḥ ca api saubalaḥ . anekaiḥ abhyupāyaiḥ tān jighāṃsanti sma pāṇḍavān ..2..
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः । उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥३॥
पाण्डवाः च अपि तत् सर्वम् प्रत्यजानन् अरिंदमाः । उद्भावनम् अकुर्वन्तः विदुरस्य मते स्थिताः ॥३॥
pāṇḍavāḥ ca api tat sarvam pratyajānan ariṃdamāḥ . udbhāvanam akurvantaḥ vidurasya mate sthitāḥ ..3..
गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा । कथयन्ति स्म सम्भूय चत्वरेषु सभासु च ॥४॥
गुणैः समुदितान् दृष्ट्वा पौराः पाण्डु-सुतान् तदा । कथयन्ति स्म सम्भूय चत्वरेषु सभासु च ॥४॥
guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍu-sutān tadā . kathayanti sma sambhūya catvareṣu sabhāsu ca ..4..
प्रज्ञाचक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः । राज्यमप्राप्तवान्पूर्वं स कथं नृपतिर्भवेत् ॥५॥
प्रज्ञाचक्षुः अचक्षुष्ट्वात् धृतराष्ट्रः जनेश्वरः । राज्यम् अप्राप्तवान् पूर्वम् स कथम् नृपतिः भवेत् ॥५॥
prajñācakṣuḥ acakṣuṣṭvāt dhṛtarāṣṭraḥ janeśvaraḥ . rājyam aprāptavān pūrvam sa katham nṛpatiḥ bhavet ..5..
तथा भीष्मः शान्तनवः सत्यसन्धो महाव्रतः । प्रत्याख्याय पुरा राज्यं नाद्य जातु ग्रहीष्यति ॥६॥
तथा भीष्मः शान्तनवः सत्य-सन्धः महा-व्रतः । प्रत्याख्याय पुरा राज्यम् न अद्य जातु ग्रहीष्यति ॥६॥
tathā bhīṣmaḥ śāntanavaḥ satya-sandhaḥ mahā-vrataḥ . pratyākhyāya purā rājyam na adya jātu grahīṣyati ..6..
ते वयं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम् । अभिषिञ्चाम साध्वद्य सत्यं करुणवेदिनम् ॥७॥
ते वयम् पाण्डवम् ज्येष्ठम् तरुणम् वृद्ध-शीलिनम् । अभिषिञ्चाम साधु अद्य सत्यम् करुण-वेदिनम् ॥७॥
te vayam pāṇḍavam jyeṣṭham taruṇam vṛddha-śīlinam . abhiṣiñcāma sādhu adya satyam karuṇa-vedinam ..7..
स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित् । सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन् ॥८॥
स हि भीष्मम् शान्तनवम् धृतराष्ट्रम् च धर्म-विद् । स पुत्रम् विविधैः भोगैः योजयिष्यति पूजयन् ॥८॥
sa hi bhīṣmam śāntanavam dhṛtarāṣṭram ca dharma-vid . sa putram vividhaiḥ bhogaiḥ yojayiṣyati pūjayan ..8..
तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम् । युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः ॥९॥
तेषाम् दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम् । युधिष्ठिर-अनुरक्तानाम् पर्यतप्यत दुर्मतिः ॥९॥
teṣām duryodhanaḥ śrutvā tāni vākyāni bhāṣatām . yudhiṣṭhira-anuraktānām paryatapyata durmatiḥ ..9..
स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे । ईर्ष्यया चाभिसन्तप्तो धृतराष्ट्रमुपागमत् ॥१०॥
स तप्यमानः दुष्ट-आत्मा तेषाम् वाचः न चक्षमे । ईर्ष्यया च अभिसन्तप्तः धृतराष्ट्रम् उपागमत् ॥१०॥
sa tapyamānaḥ duṣṭa-ātmā teṣām vācaḥ na cakṣame . īrṣyayā ca abhisantaptaḥ dhṛtarāṣṭram upāgamat ..10..
ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः । पौरानुरागसन्तप्तः पश्चादिदमभाषत ॥११॥
ततस् विरहितम् दृष्ट्वा पितरम् प्रतिपूज्य सः । पौर-अनुराग-सन्तप्तः पश्चात् इदम् अभाषत ॥११॥
tatas virahitam dṛṣṭvā pitaram pratipūjya saḥ . paura-anurāga-santaptaḥ paścāt idam abhāṣata ..11..
श्रुता मे जल्पतां तात पौराणामशिवा गिरः । त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् ॥१२॥
श्रुताः मे जल्पताम् तात पौराणाम् अशिवाः गिरः । त्वाम् अन् आदृत्य भीष्मम् च पतिम् इच्छन्ति पाण्डवम् ॥१२॥
śrutāḥ me jalpatām tāta paurāṇām aśivāḥ giraḥ . tvām an ādṛtya bhīṣmam ca patim icchanti pāṇḍavam ..12..
मतमेतच्च भीष्मस्य न स राज्यं बुभूषति । अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः ॥१३॥
मतम् एतत् च भीष्मस्य न स राज्यम् बुभूषति । अस्माकम् तु पराम् पीडाम् चिकीर्षन्ति पुरे जनाः ॥१३॥
matam etat ca bhīṣmasya na sa rājyam bubhūṣati . asmākam tu parām pīḍām cikīrṣanti pure janāḥ ..13..
पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा । त्वमप्यगुणसंयोगात्प्राप्तं राज्यं न लब्धवान् ॥१४॥
पितृतः प्राप्तवान् राज्यम् पाण्डुः आत्म-गुणैः पुरा । त्वम् अपि अगुण-संयोगात् प्राप्तम् राज्यम् न लब्धवान् ॥१४॥
pitṛtaḥ prāptavān rājyam pāṇḍuḥ ātma-guṇaiḥ purā . tvam api aguṇa-saṃyogāt prāptam rājyam na labdhavān ..14..
स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः । तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्येति चापरः ॥१५॥
सः एष पाण्डोः दायाद्यम् यदि प्राप्नोति पाण्डवः । तस्य पुत्रः ध्रुवम् प्राप्तः तस्य तस्य इति च अपरः ॥१५॥
saḥ eṣa pāṇḍoḥ dāyādyam yadi prāpnoti pāṇḍavaḥ . tasya putraḥ dhruvam prāptaḥ tasya tasya iti ca aparaḥ ..15..
ते वयं राजवंशेन हीनाः सह सुतैरपि । अवज्ञाता भविष्यामो लोकस्य जगतीपते ॥१६॥
ते वयम् राज-वंशेन हीनाः सह सुतैः अपि । अवज्ञाताः भविष्यामः लोकस्य जगतीपते ॥१६॥
te vayam rāja-vaṃśena hīnāḥ saha sutaiḥ api . avajñātāḥ bhaviṣyāmaḥ lokasya jagatīpate ..16..
सततं निरयं प्राप्ताः परपिण्डोपजीविनः । न भवेम यथा राजंस्तथा शीघ्रं विधीयताम् ॥१७॥
सततम् निरयम् प्राप्ताः पर-पिण्ड-उपजीविनः । न भवेम यथा राजन् तथा शीघ्रम् विधीयताम् ॥१७॥
satatam nirayam prāptāḥ para-piṇḍa-upajīvinaḥ . na bhavema yathā rājan tathā śīghram vidhīyatām ..17..
अभविष्यः स्थिरो राज्ये यदि हि त्वं पुरा नृप । ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने ॥१८॥ 1.140.38
अभविष्यः स्थिरः राज्ये यदि हि त्वम् पुरा नृप । ध्रुवम् प्राप्स्याम च वयम् राज्यम् अपि अवशे जने ॥१८॥ १।१४०।३८
abhaviṣyaḥ sthiraḥ rājye yadi hi tvam purā nṛpa . dhruvam prāpsyāma ca vayam rājyam api avaśe jane ..18.. 1.140.38

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In