| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
ततो निवेशाय तदा स विप्रः संशितव्रतः । महीं चचार दारार्थी न च दारानविन्दत ॥२९॥1.14.1
ततस् निवेशाय तदा स विप्रः संशित-व्रतः । महीम् चचार दार-अर्थी न च दारान् अविन्दत ॥२९॥१।१४।१
tatas niveśāya tadā sa vipraḥ saṃśita-vrataḥ . mahīm cacāra dāra-arthī na ca dārān avindata ..29..1.14.1
स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन् । चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव ॥३०॥
स कदाचिद् वनम् गत्वा विप्रः पितृ-वचः स्मरन् । चुक्रोश कन्या-भिक्षा-अर्थी तिस्रः वाचः शनैस् इव ॥३०॥
sa kadācid vanam gatvā vipraḥ pitṛ-vacaḥ smaran . cukrośa kanyā-bhikṣā-arthī tisraḥ vācaḥ śanais iva ..30..
तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा । न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् ॥३१॥
तम् वासुकिः प्रत्यगृह्णात् उद्यम्य भगिनीम् तदा । न स ताम् प्रतिजग्राह न सनाम्नी इति चिन्तयन् ॥३१॥
tam vāsukiḥ pratyagṛhṇāt udyamya bhaginīm tadā . na sa tām pratijagrāha na sanāmnī iti cintayan ..31..
सनाम्नीमुद्यतां भार्यां गृह्णीयामिति तस्य हि । मनो निविष्टमभवज्जरत्कारोर्महात्मनः ॥३२॥
सनाम्नीम् उद्यताम् भार्याम् गृह्णीयाम् इति तस्य हि । मनः निविष्टम् अभवत् जरत्कारोः महात्मनः ॥३२॥
sanāmnīm udyatām bhāryām gṛhṇīyām iti tasya hi . manaḥ niviṣṭam abhavat jaratkāroḥ mahātmanaḥ ..32..
तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः । किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजङ्गम ॥३३॥
तम् उवाच महा-प्राज्ञः जरत्कारुः महा-तपाः । किंनाम्नी भगिनी इयम् ते ब्रूहि सत्यम् भुजङ्गम ॥३३॥
tam uvāca mahā-prājñaḥ jaratkāruḥ mahā-tapāḥ . kiṃnāmnī bhaginī iyam te brūhi satyam bhujaṅgama ..33..
वासुकिरुवाच॥
जरत्कारो जरत्कारुः स्वसेयमनुजा मम । त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम ॥३४॥1.14.6
जरत्कारः जरत्कारुः स्वसा इयम् अनुजा मम । त्वद्-अर्थम् रक्षिता पूर्वम् प्रतीच्छ इमाम् द्विजोत्तम ॥३४॥१।१४।६
jaratkāraḥ jaratkāruḥ svasā iyam anujā mama . tvad-artham rakṣitā pūrvam pratīccha imām dvijottama ..34..1.14.6
सूत उवाच॥
मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर । जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः ॥३५॥1.15.1
मात्रा हि भुजगाः शप्ताः पूर्वम् ब्रह्म-विदाम् वर । जनमेजयस्य वः यज्ञे धक्ष्यति अनिल-सारथिः ॥३५॥१।१५।१
mātrā hi bhujagāḥ śaptāḥ pūrvam brahma-vidām vara . janamejayasya vaḥ yajñe dhakṣyati anila-sārathiḥ ..35..1.15.1
तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः । स्वसारमृषये तस्मै सुव्रताय तपस्विने ॥३६॥
तस्य शापस्य शान्ति-अर्थम् प्रददौ पन्नग-उत्तमः । स्वसारम् ऋषये तस्मै सुव्रताय तपस्विने ॥३६॥
tasya śāpasya śānti-artham pradadau pannaga-uttamaḥ . svasāram ṛṣaye tasmai suvratāya tapasvine ..36..
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा । आस्तीको नाम पुत्रश्च तस्यां जज्ञे महात्मनः ॥३७॥
स च ताम् प्रतिजग्राह विधि-दृष्टेन कर्मणा । आस्तीकः नाम पुत्रः च तस्याम् जज्ञे महात्मनः ॥३७॥
sa ca tām pratijagrāha vidhi-dṛṣṭena karmaṇā . āstīkaḥ nāma putraḥ ca tasyām jajñe mahātmanaḥ ..37..
तपस्वी च महात्मा च वेदवेदाङ्गपारगः । समः सर्वस्य लोकस्य पितृमातृभयापहः ॥३८॥
तपस्वी च महात्मा च वेद-वेदाङ्ग-पारगः । समः सर्वस्य लोकस्य पितृ-मातृ-भय-अपहः ॥३८॥
tapasvī ca mahātmā ca veda-vedāṅga-pāragaḥ . samaḥ sarvasya lokasya pitṛ-mātṛ-bhaya-apahaḥ ..38..
अथ कालस्य महतः पाण्डवेयो नराधिपः । आजहार महायज्ञं सर्पसत्रमिति श्रुतिः ॥३९॥ ( व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत् ॥४१॥ )
अथ कालस्य महतः पाण्डवेयः नराधिपः । आजहार महा-यज्ञम् सर्प-सत्रम् इति श्रुतिः ॥३९॥ ( व्रतैः च विविधैः ब्रह्मन् स्वाध्यायैः च अनृणः अभवत् ॥४१॥ )
atha kālasya mahataḥ pāṇḍaveyaḥ narādhipaḥ . ājahāra mahā-yajñam sarpa-satram iti śrutiḥ ..39.. ( vrataiḥ ca vividhaiḥ brahman svādhyāyaiḥ ca anṛṇaḥ abhavat ..41.. )
नागांश्च मातुलांश्चैव तथा चान्यान्स बान्धवान् । पितृंश्च तारयामास सन्तत्या तपसा तथा ॥४१॥ (
नागान् च मातुलान् च एव तथा च अन्यान् स बान्धवान् । पितृन् च तारयामास सन्तत्या तपसा तथा ॥४१॥ (
nāgān ca mātulān ca eva tathā ca anyān sa bāndhavān . pitṛn ca tārayāmāsa santatyā tapasā tathā ..41.. (
देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः । ऋषींश्च ब्रह्मचर्येण सन्तत्या च पितामहान् ॥४२॥
देवान् च तर्पयामास यज्ञैः विविध-दक्षिणैः । ऋषीन् च ब्रह्मचर्येण सन्तत्या च पितामहान् ॥४२॥
devān ca tarpayāmāsa yajñaiḥ vividha-dakṣiṇaiḥ . ṛṣīn ca brahmacaryeṇa santatyā ca pitāmahān ..42..
अपहृत्य गुरुं भारं पितृणां संशितव्रतः । जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः ॥४३॥
अपहृत्य गुरुम् भारम् पितृणाम् संशित-व्रतः । जरत्कारुः गतः स्वर्गम् सहितः स्वैः पितामहैः ॥४३॥
apahṛtya gurum bhāram pitṛṇām saṃśita-vrataḥ . jaratkāruḥ gataḥ svargam sahitaḥ svaiḥ pitāmahaiḥ ..43..
आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः । जरत्कारुः सुमहता कालेन स्वर्गमीयिवान् ॥४४॥
आस्तीकम् च सुतम् प्राप्य धर्मम् च अनुत्तमम् मुनिः । जरत्कारुः सु महता कालेन स्वर्गम् ईयिवान् ॥४४॥
āstīkam ca sutam prāpya dharmam ca anuttamam muniḥ . jaratkāruḥ su mahatā kālena svargam īyivān ..44..
एतदाख्यानमास्तीकं यथावत्कीर्तितं मया । प्रब्रूहि भृगुशार्दूल किं भूयः कथ्यतामिति ॥४५॥1.15.11
एतत् आख्यानम् आस्तीकम् यथावत् कीर्तितम् मया । प्रब्रूहि भृगुशार्दूल किम् भूयस् कथ्यताम् इति ॥४५॥१।१५।११
etat ākhyānam āstīkam yathāvat kīrtitam mayā . prabrūhi bhṛguśārdūla kim bhūyas kathyatām iti ..45..1.15.11

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In