| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम् । मुहूर्तमिव सञ्चिन्त्य दुर्योधनमथाब्रवीत् ॥१॥1.141.5
धृतराष्ट्रः तु पुत्रस्य श्रुत्वा वचनम् ईदृशम् । मुहूर्तम् इव सञ्चिन्त्य दुर्योधनम् अथा अब्रवीत् ॥१॥१।१४१।५
dhṛtarāṣṭraḥ tu putrasya śrutvā vacanam īdṛśam . muhūrtam iva sañcintya duryodhanam athā abravīt ..1..1.141.5
धर्मनित्यः सदा पाण्डुर्ममासीत्प्रियकृद्धितः । सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः ॥२॥
धर्म-नित्यः सदा पाण्डुः मम आसीत् प्रिय-कृत् हितः । सर्वेषु ज्ञातिषु तथा मयि तु आसीत् विशेषतः ॥२॥
dharma-nityaḥ sadā pāṇḍuḥ mama āsīt priya-kṛt hitaḥ . sarveṣu jñātiṣu tathā mayi tu āsīt viśeṣataḥ ..2..
नास्य किञ्चिन्न जानामि भोजनादि चिकीर्षितम् । निवेदयति नित्यं हि मम राज्यं धृतव्रतः ॥३॥
न अस्य किञ्चिद् न जानामि भोजन-आदि चिकीर्षितम् । निवेदयति नित्यम् हि मम राज्यम् धृत-व्रतः ॥३॥
na asya kiñcid na jānāmi bhojana-ādi cikīrṣitam . nivedayati nityam hi mama rājyam dhṛta-vrataḥ ..3..
तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः । गुणवाँल्लोकविख्यातः पौराणां च सुसंमतः ॥४॥
तस्य पुत्रः यथा पाण्डुः तथा धर्म-परायणः । गुणवान् लोक-विख्यातः पौराणाम् च सु संमतः ॥४॥
tasya putraḥ yathā pāṇḍuḥ tathā dharma-parāyaṇaḥ . guṇavān loka-vikhyātaḥ paurāṇām ca su saṃmataḥ ..4..
स कथं शक्यमस्माभिरपक्रष्टुं बलादितः । पितृपैतामहाद्राज्यात्ससहायो विशेषतः ॥५॥
स कथम् शक्यम् अस्माभिः अपक्रष्टुम् बलात् इतस् । पितृपैतामहात् राज्यात् स सहायः विशेषतः ॥५॥
sa katham śakyam asmābhiḥ apakraṣṭum balāt itas . pitṛpaitāmahāt rājyāt sa sahāyaḥ viśeṣataḥ ..5..
भृता हि पाण्डुनामात्या बलं च सततं भृतम् । भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः ॥६॥
भृताः हि पाण्डुना अमात्याः बलम् च सततम् भृतम् । भृताः पुत्राः च पौत्राः च तेषाम् अपि विशेषतः ॥६॥
bhṛtāḥ hi pāṇḍunā amātyāḥ balam ca satatam bhṛtam . bhṛtāḥ putrāḥ ca pautrāḥ ca teṣām api viśeṣataḥ ..6..
ते पुरा सत्कृतास्तात पाण्डुना पौरवा जनाः । कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् ॥७॥
ते पुरा सत्कृताः तात पाण्डुना पौरवाः जनाः । कथम् युधिष्ठिरस्य अर्थे न नः हन्युः स बान्धवान् ॥७॥
te purā satkṛtāḥ tāta pāṇḍunā pauravāḥ janāḥ . katham yudhiṣṭhirasya arthe na naḥ hanyuḥ sa bāndhavān ..7..
दुर्योधन उवाच॥
एवमेतन्मया तात भावितं दोषमात्मनि । दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन योजिताः ॥८॥
एवम् एतत् मया तात भावितम् दोषम् आत्मनि । दृष्ट्वा प्रकृतयः सर्वाः अर्थ-मानेन योजिताः ॥८॥
evam etat mayā tāta bhāvitam doṣam ātmani . dṛṣṭvā prakṛtayaḥ sarvāḥ artha-mānena yojitāḥ ..8..
ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः । अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते ॥९॥
ध्रुवम् अस्मद्-सहायाः ते भविष्यन्ति प्रधानतः । अर्थ-वर्गः सहामात्यः मद्-संस्थः अद्य महीपते ॥९॥
dhruvam asmad-sahāyāḥ te bhaviṣyanti pradhānataḥ . artha-vargaḥ sahāmātyaḥ mad-saṃsthaḥ adya mahīpate ..9..
स भवान्पाण्डवानाशु विवासयितुमर्हति । मृदुनैवाभ्युपायेन नगरं वारणावतम् ॥१०॥
स भवान् पाण्डवान् आशु विवासयितुम् अर्हति । मृदुना एव अभ्युपायेन नगरम् वारणावतम् ॥१०॥
sa bhavān pāṇḍavān āśu vivāsayitum arhati . mṛdunā eva abhyupāyena nagaram vāraṇāvatam ..10..
यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति । तदा कुन्ती सहापत्या पुनरेष्यति भारत ॥११॥
यदा प्रतिष्ठितम् राज्यम् मयि राजन् भविष्यति । तदा कुन्ती सहापत्या पुनर् एष्यति भारत ॥११॥
yadā pratiṣṭhitam rājyam mayi rājan bhaviṣyati . tadā kuntī sahāpatyā punar eṣyati bhārata ..11..
धृतराष्ट्र उवाच॥
दुर्योधन ममाप्येतद्धृदि सम्परिवर्तते । अभिप्रायस्य पापत्वान्नैतत्तु विवृणोम्यहम् ॥१२॥
दुर्योधन मम अपि एतत् हृदि सम्परिवर्तते । अभिप्रायस्य पाप-त्वात् न एतत् तु विवृणोमि अहम् ॥१२॥
duryodhana mama api etat hṛdi samparivartate . abhiprāyasya pāpa-tvāt na etat tu vivṛṇomi aham ..12..
न च भीष्मो न च द्रोणो न क्षत्ता न च गौतमः । विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित् ॥१३॥
न च भीष्मः न च द्रोणः न क्षत्ता न च गौतमः । विवास्यमानान् कौन्तेयान् अनुमंस्यन्ति कर्हिचित् ॥१३॥
na ca bhīṣmaḥ na ca droṇaḥ na kṣattā na ca gautamaḥ . vivāsyamānān kaunteyān anumaṃsyanti karhicit ..13..
समा हि कौरवेयाणां वयमेते च पुत्रक । नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः ॥१४॥
समाः हि कौरवेयाणाम् वयम् एते च पुत्रक । न एते विषमम् इच्छेयुः धर्म-युक्ताः मनस्विनः ॥१४॥
samāḥ hi kauraveyāṇām vayam ete ca putraka . na ete viṣamam iccheyuḥ dharma-yuktāḥ manasvinaḥ ..14..
ते वयं कौरवेयाणामेतेषां च महात्मनाम् । कथं न वध्यतां तात गच्छेम जगतस्तथा ॥१५॥
ते वयम् कौरवेयाणाम् एतेषाम् च महात्मनाम् । कथम् न वध्य-ताम् तात गच्छेम जगतः तथा ॥१५॥
te vayam kauraveyāṇām eteṣām ca mahātmanām . katham na vadhya-tām tāta gacchema jagataḥ tathā ..15..
दुर्योधन उवाच॥
मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः । यतः पुत्रस्ततो द्रोणो भविता नात्र सांशयः ॥१६॥
मध्यस्थः सततम् भीष्मः द्रोणपुत्रः मयि स्थितः । यतस् पुत्रः ततस् द्रोणः भविता न अत्र सांशयः ॥१६॥
madhyasthaḥ satatam bhīṣmaḥ droṇaputraḥ mayi sthitaḥ . yatas putraḥ tatas droṇaḥ bhavitā na atra sāṃśayaḥ ..16..
कृपः शारद्वतश्चैव यत एते त्रयस्ततः । द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित् ॥१७॥
कृपः शारद्वतः च एव यतस् एते त्रयः ततस् । द्रोणम् च भागिनेयम् च न स त्यक्ष्यति कर्हिचित् ॥१७॥
kṛpaḥ śāradvataḥ ca eva yatas ete trayaḥ tatas . droṇam ca bhāgineyam ca na sa tyakṣyati karhicit ..17..
क्षत्तार्थबद्धस्त्वस्माकं प्रच्छन्नं तु यतः परे । न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम् ॥१८॥
क्षत्ता अर्थ-बद्धः तु अस्माकम् प्रच्छन्नम् तु यतस् परे । न च एकः स समर्थः अस्मान् पाण्डव-अर्थे प्रबाधितुम् ॥१८॥
kṣattā artha-baddhaḥ tu asmākam pracchannam tu yatas pare . na ca ekaḥ sa samarthaḥ asmān pāṇḍava-arthe prabādhitum ..18..
स विश्रब्धः पाण्डुपुत्रान्सह मात्रा विवासय । वारणावतमद्यैव नात्र दोषो भविष्यति ॥१९॥
स विश्रब्धः पाण्डु-पुत्रान् सह मात्रा विवासय । वारणावतम् अद्या एव न अत्र दोषः भविष्यति ॥१९॥
sa viśrabdhaḥ pāṇḍu-putrān saha mātrā vivāsaya . vāraṇāvatam adyā eva na atra doṣaḥ bhaviṣyati ..19..
विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम् । शोकपावकमुद्भूतं कर्मणैतेन नाशय ॥२०॥1.141.24
विनिद्र-करणम् घोरम् हृदि शल्यम् इव अर्पितम् । शोक-पावकम् उद्भूतम् कर्मणा एतेन नाशय ॥२०॥१।१४१।२४
vinidra-karaṇam ghoram hṛdi śalyam iva arpitam . śoka-pāvakam udbhūtam karmaṇā etena nāśaya ..20..1.141.24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In