| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततो दुर्योधनो राजा सर्वास्ताः प्रकृतीः शनैः । अर्थमानप्रदानाभ्यां सञ्जहार सहानुजः ॥१॥
ततस् दुर्योधनः राजा सर्वाः ताः प्रकृतीः शनैस् । अर्थ-मान-प्रदानाभ्याम् सञ्जहार सहानुजः ॥१॥
tatas duryodhanaḥ rājā sarvāḥ tāḥ prakṛtīḥ śanais . artha-māna-pradānābhyām sañjahāra sahānujaḥ ..1..
धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः । कथयां चक्रिरे रम्यं नगरं वारणावतम् ॥२॥
धृतराष्ट्र-प्रयुक्ताः तु केचिद् कुशल-मन्त्रिणः । रम्यम् नगरम् वारणावतम् ॥२॥
dhṛtarāṣṭra-prayuktāḥ tu kecid kuśala-mantriṇaḥ . ramyam nagaram vāraṇāvatam ..2..
अयं समाजः सुमहान्रमणीयतमो भुवि । उपस्थितः पशुपतेर्नगरे वारणावते ॥३॥
अयम् समाजः सु महान् रमणीयतमः भुवि । उपस्थितः पशुपतेः नगरे वारणावते ॥३॥
ayam samājaḥ su mahān ramaṇīyatamaḥ bhuvi . upasthitaḥ paśupateḥ nagare vāraṇāvate ..3..
सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे । इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः ॥४॥
सर्व-रत्न-समाकीर्णे पुंसाम् देशे मनोरमे । इति एवम् धृतराष्ट्रस्य वचनात् चक्रिरे कथाः ॥४॥
sarva-ratna-samākīrṇe puṃsām deśe manorame . iti evam dhṛtarāṣṭrasya vacanāt cakrire kathāḥ ..4..
कथ्यमाने तथा रम्ये नगरे वारणावते । गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप ॥५॥
कथ्यमाने तथा रम्ये नगरे वारणावते । गमने पाण्डु-पुत्राणाम् जज्ञे तत्र मतिः नृप ॥५॥
kathyamāne tathā ramye nagare vāraṇāvate . gamane pāṇḍu-putrāṇām jajñe tatra matiḥ nṛpa ..5..
यदा त्वमन्यत नृपो जातकौतूहला इति । उवाचैनानथ तदा पाण्डवानम्बिकासुतः ॥६॥
यदा तु अमन्यत नृपः जात-कौतूहलाः इति । उवाच एनान् अथ तदा पाण्डवान् अम्बिकासुतः ॥६॥
yadā tu amanyata nṛpaḥ jāta-kautūhalāḥ iti . uvāca enān atha tadā pāṇḍavān ambikāsutaḥ ..6..
ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः । रमणीयतरं लोके नगरं वारणावतम् ॥७॥
मम इमे पुरुषाः नित्यम् कथयन्ति पुनर् पुनर् । रमणीयतरम् लोके नगरम् वारणावतम् ॥७॥
mama ime puruṣāḥ nityam kathayanti punar punar . ramaṇīyataram loke nagaram vāraṇāvatam ..7..
ते तात यदि मन्यध्वमुत्सवं वारणावते । सगणाः सानुयात्राश्च विहरध्वं यथामराः ॥८॥
ते तात यदि मन्यध्वम् उत्सवम् वारणावते । स गणाः स अनुयात्राः च विहरध्वम् यथा अमराः ॥८॥
te tāta yadi manyadhvam utsavam vāraṇāvate . sa gaṇāḥ sa anuyātrāḥ ca viharadhvam yathā amarāḥ ..8..
ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः । प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः ॥९॥
ब्राह्मणेभ्यः च रत्नानि गायनेभ्यः च सर्वशस् । प्रयच्छध्वम् यथाकामम् देवाः इव सु वर्चसः ॥९॥
brāhmaṇebhyaḥ ca ratnāni gāyanebhyaḥ ca sarvaśas . prayacchadhvam yathākāmam devāḥ iva su varcasaḥ ..9..
कञ्चित्कालं विहृत्यैवमनुभूय परां मुदम् । इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ ॥१०॥
कञ्चिद् कालम् विहृत्य एवम् अनुभूय पराम् मुदम् । इदम् वै हास्तिनपुरम् सुखिनः पुनर् एष्यथ ॥१०॥
kañcid kālam vihṛtya evam anubhūya parām mudam . idam vai hāstinapuram sukhinaḥ punar eṣyatha ..10..
धृतराष्ट्रस्य तं काममनुबुद्ध्वा युधिष्ठिरः । आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम् ॥११॥
धृतराष्ट्रस्य तम् कामम् अनुबुद्ध्वा युधिष्ठिरः । आत्मनः च असहाय-त्वम् तथा इति प्रत्युवाच तम् ॥११॥
dhṛtarāṣṭrasya tam kāmam anubuddhvā yudhiṣṭhiraḥ . ātmanaḥ ca asahāya-tvam tathā iti pratyuvāca tam ..11..
ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम् । द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम् ॥१२॥
ततस् भीष्मम् महा-प्राज्ञम् विदुरम् च महामतिम् । द्रोणम् च बाह्लिकम् च एव सोमदत्तम् च कौरवम् ॥१२॥
tatas bhīṣmam mahā-prājñam viduram ca mahāmatim . droṇam ca bāhlikam ca eva somadattam ca kauravam ..12..
कृपमाचार्यपुत्रं च गान्धारीं च यशस्विनीम् । युधिष्ठिरः शनैर्दीनमुवाचेदं वचस्तदा ॥१३॥
कृपम् आचार्य-पुत्रम् च गान्धारीम् च यशस्विनीम् । युधिष्ठिरः शनैस् दीनम् उवाच इदम् वचः तदा ॥१३॥
kṛpam ācārya-putram ca gāndhārīm ca yaśasvinīm . yudhiṣṭhiraḥ śanais dīnam uvāca idam vacaḥ tadā ..13..
रमणीये जनाकीर्णे नगरे वारणावते । सगणास्तात वत्स्यामो धृतराष्ट्रस्य शासनात् ॥१४॥
रमणीये जन-आकीर्णे नगरे वारणावते । स गणाः तात वत्स्यामः धृतराष्ट्रस्य शासनात् ॥१४॥
ramaṇīye jana-ākīrṇe nagare vāraṇāvate . sa gaṇāḥ tāta vatsyāmaḥ dhṛtarāṣṭrasya śāsanāt ..14..
प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत । आशीर्भिर्वर्धितानस्मान्न पापं प्रसहिष्यति ॥१५॥
प्रसन्न-मनसः सर्वे पुण्याः वाचः विमुञ्चत । आशीर्भिः वर्धितान् अस्मान् न पापम् प्रसहिष्यति ॥१५॥
prasanna-manasaḥ sarve puṇyāḥ vācaḥ vimuñcata . āśīrbhiḥ vardhitān asmān na pāpam prasahiṣyati ..15..
एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः । प्रसन्नवदना भूत्वा तेऽभ्यवर्तन्त पाण्डवान् ॥१६॥
एवम् उक्ताः तु ते सर्वे पाण्डु-पुत्रेण कौरवाः । प्रसन्न-वदनाः भूत्वा ते अभ्यवर्तन्त पाण्डवान् ॥१६॥
evam uktāḥ tu te sarve pāṇḍu-putreṇa kauravāḥ . prasanna-vadanāḥ bhūtvā te abhyavartanta pāṇḍavān ..16..
स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः । मा च वोऽस्त्वशुभं किञ्चित्सर्वतः पाण्डुनन्दनाः ॥१७॥
स्वस्ति अस्तु वः पथि सदा भूतेभ्यः च एव सर्वशस् । मा च वः अस्तु अशुभम् किञ्चिद् सर्वतस् पाण्डु-नन्दनाः ॥१७॥
svasti astu vaḥ pathi sadā bhūtebhyaḥ ca eva sarvaśas . mā ca vaḥ astu aśubham kiñcid sarvatas pāṇḍu-nandanāḥ ..17..
ततः कृतस्वस्त्ययना राज्यलाभाय पाण्डवाः । कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम् ॥१८॥ 1.142.19
ततस् कृत-स्वस्त्ययनाः राज्य-लाभाय पाण्डवाः । कृत्वा सर्वाणि कार्याणि प्रययुः वारणावतम् ॥१८॥ १।१४२।१९
tatas kṛta-svastyayanāḥ rājya-lābhāya pāṇḍavāḥ . kṛtvā sarvāṇi kāryāṇi prayayuḥ vāraṇāvatam ..18.. 1.142.19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In