| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
एवमुक्तेषु राज्ञा तु पाण्डवेषु महात्मसु । दुर्योधनः परं हर्षमाजगाम दुरात्मवान् ॥१॥
एवम् उक्तेषु राज्ञा तु पाण्डवेषु महात्मसु । दुर्योधनः परम् हर्षम् आजगाम दुरात्मवान् ॥१॥
evam ukteṣu rājñā tu pāṇḍaveṣu mahātmasu . duryodhanaḥ param harṣam ājagāma durātmavān ..1..
स पुरोचनमेकान्तमानीय भरतर्षभ । गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत् ॥२॥
स पुरोचनम् एकान्तम् आनीय भरत-ऋषभ । गृहीत्वा दक्षिणे पाणौ सचिवम् वाक्यम् अब्रवीत् ॥२॥
sa purocanam ekāntam ānīya bharata-ṛṣabha . gṛhītvā dakṣiṇe pāṇau sacivam vākyam abravīt ..2..
ममेयं वसुसम्पूर्णा पुरोचन वसुन्धरा । यथेयं मम तद्वत्ते स तां रक्षितुमर्हसि ॥३॥
मम इयम् वसु-सम्पूर्णा पुरोचन वसुन्धरा । यथा इयम् मम तद्वत् ते स ताम् रक्षितुम् अर्हसि ॥३॥
mama iyam vasu-sampūrṇā purocana vasundharā . yathā iyam mama tadvat te sa tām rakṣitum arhasi ..3..
न हि मे कश्चिदन्योऽस्ति वैश्वासिकतरस्त्वया । सहायो येन सन्धाय मन्त्रयेयं यथा त्वया ॥४॥
न हि मे कश्चिद् अन्यः अस्ति वैश्वासिकतरः त्वया । सहायः येन सन्धाय मन्त्रयेयम् यथा त्वया ॥४॥
na hi me kaścid anyaḥ asti vaiśvāsikataraḥ tvayā . sahāyaḥ yena sandhāya mantrayeyam yathā tvayā ..4..
संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर । निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु ॥५॥
संरक्ष तात मन्त्रम् च सपत्नान् च मम उद्धर । निपुणेन अभ्युपायेन यत् ब्रवीमि तथा कुरु ॥५॥
saṃrakṣa tāta mantram ca sapatnān ca mama uddhara . nipuṇena abhyupāyena yat bravīmi tathā kuru ..5..
पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् । उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् ॥६॥
पाण्डवाः धृतराष्ट्रेण प्रेषिताः वारणावतम् । उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् ॥६॥
pāṇḍavāḥ dhṛtarāṣṭreṇa preṣitāḥ vāraṇāvatam . utsave vihariṣyanti dhṛtarāṣṭrasya śāsanāt ..6..
स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना । वारणावतमद्यैव यथा यासि तथा कुरु ॥७॥
स त्वम् रासभ-युक्तेन स्यन्दनेन आशु-गामिना । वारणावतम् अद्य एव यथा यासि तथा कुरु ॥७॥
sa tvam rāsabha-yuktena syandanena āśu-gāminā . vāraṇāvatam adya eva yathā yāsi tathā kuru ..7..
तत्र गत्वा चतुःशालं गृहं परमसंवृतम् । आयुधागारमाश्रित्य कारयेथा महाधनम् ॥८॥
तत्र गत्वा चतुःशालम् गृहम् परम-संवृतम् । आयुधागारम् आश्रित्य कारयेथाः महाधनम् ॥८॥
tatra gatvā catuḥśālam gṛham parama-saṃvṛtam . āyudhāgāram āśritya kārayethāḥ mahādhanam ..8..
शणसर्जरसादीनि यानि द्रव्याणि कानिचित् । आग्नेयान्युत सन्तीह तानि सर्वाणि दापय ॥९॥
शण-सर्जरस-आदीनि यानि द्रव्याणि कानिचिद् । आग्नेयानि उत सन्ति इह तानि सर्वाणि दापय ॥९॥
śaṇa-sarjarasa-ādīni yāni dravyāṇi kānicid . āgneyāni uta santi iha tāni sarvāṇi dāpaya ..9..
सर्पिषा च सतैलेन लाक्षया चाप्यनल्पया । मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापयेः ॥१०॥
सर्पिषा च स तैलेन लाक्षया च अपि अनल्पया । मृत्तिकाम् मिश्रयित्वा त्वम् लेपम् कुड्येषु दापयेः ॥१०॥
sarpiṣā ca sa tailena lākṣayā ca api analpayā . mṛttikām miśrayitvā tvam lepam kuḍyeṣu dāpayeḥ ..10..
शणान्वंशं घृतं दारु यन्त्राणि विविधानि च । तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः ॥११॥
शण-अन्वंशम् घृतम् दारु यन्त्राणि विविधानि च । तस्मिन् वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः ॥११॥
śaṇa-anvaṃśam ghṛtam dāru yantrāṇi vividhāni ca . tasmin veśmani sarvāṇi nikṣipethāḥ samantataḥ ..11..
यथा च त्वां न शङ्केरन्परीक्षन्तोऽपि पाण्डवाः । आग्नेयमिति तत्कार्यमिति चान्ये च मानवाः ॥१२॥
यथा च त्वाम् न शङ्केरन् परीक्षन्तः अपि पाण्डवाः । आग्नेयम् इति तत् कार्यम् इति च अन्ये च मानवाः ॥१२॥
yathā ca tvām na śaṅkeran parīkṣantaḥ api pāṇḍavāḥ . āgneyam iti tat kāryam iti ca anye ca mānavāḥ ..12..
वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान् । वासयेः पाण्डवेयांश्च कुन्तीं च ससुहृज्जनाम् ॥१३॥
वेश्मनि एवम् कृते तत्र कृत्वा तान् परम-अर्चितान् । वासयेः पाण्डवेयान् च कुन्तीम् च स सुहृद्-जनाम् ॥१३॥
veśmani evam kṛte tatra kṛtvā tān parama-arcitān . vāsayeḥ pāṇḍaveyān ca kuntīm ca sa suhṛd-janām ..13..
तत्रासनानि मुख्यानि यानानि शयनानि च । विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता ॥१४॥
तत्र आसनानि मुख्यानि यानानि शयनानि च । विधातव्यानि पाण्डूनाम् यथा तुष्येत मे पिता ॥१४॥
tatra āsanāni mukhyāni yānāni śayanāni ca . vidhātavyāni pāṇḍūnām yathā tuṣyeta me pitā ..14..
यथा रमेरन्विश्रब्धा नगरे वारणावते । तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः ॥१५॥
यथा रमेरन् विश्रब्धाः नगरे वारणावते । तथा सर्वम् विधातव्यम् यावत् कालस्य पर्ययः ॥१५॥
yathā rameran viśrabdhāḥ nagare vāraṇāvate . tathā sarvam vidhātavyam yāvat kālasya paryayaḥ ..15..
ज्ञात्वा तु तान्सुविश्वस्ताञ्शयानानकुतोभयान् । अग्निस्ततस्त्वया देयो द्वारतस्तस्य वेश्मनः ॥१६॥
ज्ञात्वा तु तान् सु विश्वस्तान् शयानान् अकुतोभयान् । अग्निः ततस् त्वया देयः द्वारतः तस्य वेश्मनः ॥१६॥
jñātvā tu tān su viśvastān śayānān akutobhayān . agniḥ tatas tvayā deyaḥ dvārataḥ tasya veśmanaḥ ..16..
दग्धानेवं स्वके गेहे दग्धा इति ततो जनाः । ज्ञातयो वा वदिष्यन्ति पाण्डवार्थाय कर्हिचित् ॥१७॥
दग्धान् एवम् स्वके गेहे दग्धाः इति ततस् जनाः । ज्ञातयः वा वदिष्यन्ति पाण्डव-अर्थाय कर्हिचित् ॥१७॥
dagdhān evam svake gehe dagdhāḥ iti tatas janāḥ . jñātayaḥ vā vadiṣyanti pāṇḍava-arthāya karhicit ..17..
तत्तथेति प्रतिज्ञाय कौरवाय पुरोचनः । प्रायाद्रासभयुक्तेन नगरं वारणावतम् ॥१८॥
तत् तथा इति प्रतिज्ञाय कौरवाय पुरोचनः । प्रायात् रासभ-युक्तेन नगरम् वारणावतम् ॥१८॥
tat tathā iti pratijñāya kauravāya purocanaḥ . prāyāt rāsabha-yuktena nagaram vāraṇāvatam ..18..
स गत्वा त्वरितो राजन्दुर्योधनमते स्थितः । यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः ॥१९॥ 1.143.19
स गत्वा त्वरितः राजन् दुर्योधन-मते स्थितः । यथोक्तम् राज-पुत्रेण सर्वम् चक्रे पुरोचनः ॥१९॥ १।१४३।१९
sa gatvā tvaritaḥ rājan duryodhana-mate sthitaḥ . yathoktam rāja-putreṇa sarvam cakre purocanaḥ ..19.. 1.143.19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In