| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
पाण्डवास्तु रथान्युक्त्वा सदश्वैरनिलोपमैः । आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत् ॥१॥
पाण्डवाः तु रथानि उक्त्वा सत्-अश्वैः अनिल-उपमैः । आरोहमाणाः भीष्मस्य पादौ जगृहुः आर्त-वत् ॥१॥
pāṇḍavāḥ tu rathāni uktvā sat-aśvaiḥ anila-upamaiḥ . ārohamāṇāḥ bhīṣmasya pādau jagṛhuḥ ārta-vat ..1..
राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः । अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च ॥२॥
राज्ञः च धृतराष्ट्रस्य द्रोणस्य च महात्मनः । अन्येषाम् च एव वृद्धानाम् विदुरस्य कृपस्य च ॥२॥
rājñaḥ ca dhṛtarāṣṭrasya droṇasya ca mahātmanaḥ . anyeṣām ca eva vṛddhānām vidurasya kṛpasya ca ..2..
एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः । समालिङ्ग्य समानांश्च बालैश्चाप्यभिवादिताः ॥३॥
एवम् सर्वान् कुरून् वृद्धान् अभिवाद्य यत-व्रताः । समालिङ्ग्य समानान् च बालैः च अपि अभिवादिताः ॥३॥
evam sarvān kurūn vṛddhān abhivādya yata-vratāḥ . samāliṅgya samānān ca bālaiḥ ca api abhivāditāḥ ..3..
सर्वा मातृस्तथापृष्ट्वा कृत्वा चैव प्रदक्षिणम् । सर्वाः प्रकृतयश्चैव प्रययुर्वारणावतम् ॥४॥
सर्वाः मातृः तथा पृष्ट्वा कृत्वा च एव प्रदक्षिणम् । सर्वाः प्रकृतयः च एव प्रययुः वारणावतम् ॥४॥
sarvāḥ mātṛḥ tathā pṛṣṭvā kṛtvā ca eva pradakṣiṇam . sarvāḥ prakṛtayaḥ ca eva prayayuḥ vāraṇāvatam ..4..
विदुरश्च महाप्राज्ञस्तथान्ये कुरुपुङ्गवाः । पौराश्च पुरुषव्याघ्रानन्वयुः शोककर्शिताः ॥५॥
विदुरः च महा-प्राज्ञः तथा अन्ये कुरु-पुङ्गवाः । पौराः च पुरुष-व्याघ्रान् अन्वयुः शोक-कर्शिताः ॥५॥
viduraḥ ca mahā-prājñaḥ tathā anye kuru-puṅgavāḥ . paurāḥ ca puruṣa-vyāghrān anvayuḥ śoka-karśitāḥ ..5..
तत्र केच्चिद्ब्रुवन्ति स्म ब्राह्मणा निर्भयास्तदा । शोचमानाः पाण्डुपुत्रानतीव भरतर्षभ ॥६॥
तत्र केच्चिद् ब्रुवन्ति स्म ब्राह्मणाः निर्भयाः तदा । शोचमानाः पाण्डु-पुत्रान् अतीव भरत-ऋषभ ॥६॥
tatra keccid bruvanti sma brāhmaṇāḥ nirbhayāḥ tadā . śocamānāḥ pāṇḍu-putrān atīva bharata-ṛṣabha ..6..
विषमं पश्यते राजा सर्वथा तमसावृतः । धृतराष्ट्रः सुदुर्बुद्धिर्न च धर्मं प्रपश्यति ॥७॥
विषमम् पश्यते राजा सर्वथा तमसा आवृतः । धृतराष्ट्रः सु दुर्बुद्धिः न च धर्मम् प्रपश्यति ॥७॥
viṣamam paśyate rājā sarvathā tamasā āvṛtaḥ . dhṛtarāṣṭraḥ su durbuddhiḥ na ca dharmam prapaśyati ..7..
न हि पापमपापात्मा रोचयिष्यति पाण्डवः । भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनञ्जयः ॥८॥ ( कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः ॥८॥ )
न हि पापम् अपाप-आत्मा रोचयिष्यति पाण्डवः । भीमः वा बलिनाम् श्रेष्ठः कौन्तेयः वा धनञ्जयः ॥८॥ ( कुतस् एव महा-प्राज्ञौ माद्री-पुत्रौ करिष्यतः ॥८॥ )
na hi pāpam apāpa-ātmā rocayiṣyati pāṇḍavaḥ . bhīmaḥ vā balinām śreṣṭhaḥ kaunteyaḥ vā dhanañjayaḥ ..8.. ( kutas eva mahā-prājñau mādrī-putrau kariṣyataḥ ..8.. )
तद्राज्यं पितृतः प्राप्तं धृतराष्ट्रो न मृष्यते । अधर्ममखिलं किं नु भीष्मोऽयमनुमन्यते ॥९॥ ( विवास्यमानानस्थाने कौन्तेयान्भरतर्षभान् ॥९॥ )
तत् राज्यम् पितृतः प्राप्तम् धृतराष्ट्रः न मृष्यते । अधर्मम् अखिलम् किम् नु भीष्मः अयम् अनुमन्यते ॥९॥ ( विवास्यमानान् अस्थाने कौन्तेयान् भरत-ऋषभान् ॥९॥ )
tat rājyam pitṛtaḥ prāptam dhṛtarāṣṭraḥ na mṛṣyate . adharmam akhilam kim nu bhīṣmaḥ ayam anumanyate ..9.. ( vivāsyamānān asthāne kaunteyān bharata-ṛṣabhān ..9.. )
पितेव हि नृपोऽस्माकमभूच्छान्तनवः पुरा । विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः ॥१०॥
पिता इव हि नृपः अस्माकम् अभूत् शान्तनवः पुरा । विचित्र-वीर्यः राजर्षिः पाण्डुः च कुरु-नन्दनः ॥१०॥
pitā iva hi nṛpaḥ asmākam abhūt śāntanavaḥ purā . vicitra-vīryaḥ rājarṣiḥ pāṇḍuḥ ca kuru-nandanaḥ ..10..
स तस्मिन्पुरुषव्याघ्रे दिष्टभावं गते सति । राजपुत्रानिमान्बालान्धृतराष्ट्रो न मृष्यते ॥११॥
स तस्मिन् पुरुष-व्याघ्रे दिष्टभावम् गते सति । राज-पुत्रान् इमान् बालान् धृतराष्ट्रः न मृष्यते ॥११॥
sa tasmin puruṣa-vyāghre diṣṭabhāvam gate sati . rāja-putrān imān bālān dhṛtarāṣṭraḥ na mṛṣyate ..11..
वयमेतदमृष्यन्तः सर्व एव पुरोत्तमात् । गृहान्विहाय गच्छामो यत्र याति युधिष्ठिरः ॥१२॥
वयम् एतत् अमृष्यन्तः सर्वे एव पुर-उत्तमात् । गृहान् विहाय गच्छामः यत्र याति युधिष्ठिरः ॥१२॥
vayam etat amṛṣyantaḥ sarve eva pura-uttamāt . gṛhān vihāya gacchāmaḥ yatra yāti yudhiṣṭhiraḥ ..12..
तांस्तथावादिनः पौरान्दुःखितान्दुःखकर्शितः । उवाच परमप्रीतो धर्मराजो युधिष्ठिरः ॥१३॥
तान् तथावादिनः पौरान् दुःखितान् दुःख-कर्शितः । उवाच परम-प्रीतः धर्मराजः युधिष्ठिरः ॥१३॥
tān tathāvādinaḥ paurān duḥkhitān duḥkha-karśitaḥ . uvāca parama-prītaḥ dharmarājaḥ yudhiṣṭhiraḥ ..13..
पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः । अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम् ॥१४॥
पिता मान्यः गुरुः श्रेष्ठः यत् आह पृथिवीपतिः । अशङ्कमानैः तत् कार्यम् अस्माभिः इति नः व्रतम् ॥१४॥
pitā mānyaḥ guruḥ śreṣṭhaḥ yat āha pṛthivīpatiḥ . aśaṅkamānaiḥ tat kāryam asmābhiḥ iti naḥ vratam ..14..
भवन्तः सुहृदोऽस्माकमस्मान्कृत्वा प्रदक्षिणम् । आशीर्भिरभिनन्द्यास्मान्निवर्तध्वं यथागृहम् ॥१५॥
भवन्तः सुहृदः अस्माकम् अस्मान् कृत्वा प्रदक्षिणम् । आशीर्भिः अभिनन्द्य अस्मान् निवर्तध्वम् यथागृहम् ॥१५॥
bhavantaḥ suhṛdaḥ asmākam asmān kṛtvā pradakṣiṇam . āśīrbhiḥ abhinandya asmān nivartadhvam yathāgṛham ..15..
यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते । तदा करिष्यथ मम प्रियाणि च हितानि च ॥१६॥
यदा तु कार्यम् अस्माकम् भवद्भिः उपपत्स्यते । तदा करिष्यथ मम प्रियाणि च हितानि च ॥१६॥
yadā tu kāryam asmākam bhavadbhiḥ upapatsyate . tadā kariṣyatha mama priyāṇi ca hitāni ca ..16..
ते तथेति प्रतिज्ञाय कृत्वा चैतान्प्रदक्षिणम् । आशीर्भिरभिनन्द्यैनाञ्जग्मुर्नगरमेव हि ॥१७॥
ते तथा इति प्रतिज्ञाय कृत्वा च एतान् प्रदक्षिणम् । आशीर्भिः अभिनन्द्य एनान् जग्मुः नगरम् एव हि ॥१७॥
te tathā iti pratijñāya kṛtvā ca etān pradakṣiṇam . āśīrbhiḥ abhinandya enān jagmuḥ nagaram eva hi ..17..
पौरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित् । बोधयन्पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ॥१८॥ ( प्राज्ञः प्राज्ञं प्रलापज्ञः सम्यग्धर्मार्थदर्शिवान् ॥१८॥ )
पौरेषु तु निवृत्तेषु विदुरः सर्व-धर्म-विद् । बोधयन् पाण्डव-श्रेष्ठम् इदम् वचनम् अब्रवीत् ॥१८॥ ( प्राज्ञः प्राज्ञम् प्रलाप-ज्ञः सम्यक् धर्म-अर्थ-दर्शिवान् ॥१८॥ )
paureṣu tu nivṛtteṣu viduraḥ sarva-dharma-vid . bodhayan pāṇḍava-śreṣṭham idam vacanam abravīt ..18.. ( prājñaḥ prājñam pralāpa-jñaḥ samyak dharma-artha-darśivān ..18.. )
विज्ञायेदं तथा कुर्यादापदं निस्तरेद्यथा । अलोहं निशितं शस्त्रं शरीरपरिकर्तनम् ॥१९॥ ( यो वेत्ति न तमाघ्नन्ति प्रतिघातविदं द्विषः ॥१९॥ )
विज्ञाय इदम् तथा कुर्यात् आपदम् निस्तरेत् यथा । अ लोहम् निशितम् शस्त्रम् शरीर-परिकर्तनम् ॥१९॥ ( यः वेत्ति न तम् आघ्नन्ति प्रतिघात-विदम् द्विषः ॥१९॥ )
vijñāya idam tathā kuryāt āpadam nistaret yathā . a loham niśitam śastram śarīra-parikartanam ..19.. ( yaḥ vetti na tam āghnanti pratighāta-vidam dviṣaḥ ..19.. )
कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः । न दहेदिति चात्मानं यो रक्षति स जीवति ॥२०॥
कक्ष-घ्नः शिशिरघ्नः च महा-कक्षे बिल-ओकसः । न दहेत् इति च आत्मानम् यः रक्षति स जीवति ॥२०॥
kakṣa-ghnaḥ śiśiraghnaḥ ca mahā-kakṣe bila-okasaḥ . na dahet iti ca ātmānam yaḥ rakṣati sa jīvati ..20..
नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः । नाधृतिर्भूतिमाप्नोति बुध्यस्वैवं प्रबोधितः ॥२१॥
न अ चक्षुः वेत्ति पन्थानम् न अ चक्षुः विन्दते दिशः । न अ धृतिः भूतिम् आप्नोति बुध्यस्व एवम् प्रबोधितः ॥२१॥
na a cakṣuḥ vetti panthānam na a cakṣuḥ vindate diśaḥ . na a dhṛtiḥ bhūtim āpnoti budhyasva evam prabodhitaḥ ..21..
अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम् । श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात् ॥२२॥
अन् आप्तैः दत्तम् आदत्ते नरः शस्त्रम् अ लोह-जम् । श्वाविध्-शरणम् आसाद्य प्रमुच्येत हुताशनात् ॥२२॥
an āptaiḥ dattam ādatte naraḥ śastram a loha-jam . śvāvidh-śaraṇam āsādya pramucyeta hutāśanāt ..22..
चरन्मार्गान्विजानाति नक्षत्रैर्विन्दते दिशः । आत्मना चात्मनः पञ्च पीडयन्नानुपीड्यते ॥२३॥
चरत् मार्गान् विजानाति नक्षत्रैः विन्दते दिशः । आत्मना च आत्मनः पञ्च पीडयन् न अनुपीड्यते ॥२३॥
carat mārgān vijānāti nakṣatraiḥ vindate diśaḥ . ātmanā ca ātmanaḥ pañca pīḍayan na anupīḍyate ..23..
अनुशिष्ट्वानुगत्वा च कृत्वा चैनान्प्रदक्षिणम् । पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान् ॥२४॥
अनुशिष्ट्वा अनुगत्वा च कृत्वा च एनान् प्रदक्षिणम् । पाण्डवान् अभ्यनुज्ञाय विदुरः प्रययौ गृहान् ॥२४॥
anuśiṣṭvā anugatvā ca kṛtvā ca enān pradakṣiṇam . pāṇḍavān abhyanujñāya viduraḥ prayayau gṛhān ..24..
निवृत्ते विदुरे चैव भीष्मे पौरजने तथा । अजातशत्रुमामन्त्र्य कुन्ती वचनमब्रवीत् ॥२५॥
निवृत्ते विदुरे च एव भीष्मे पौर-जने तथा । अजातशत्रुम् आमन्त्र्य कुन्ती वचनम् अब्रवीत् ॥२५॥
nivṛtte vidure ca eva bhīṣme paura-jane tathā . ajātaśatrum āmantrya kuntī vacanam abravīt ..25..
क्षत्ता यदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव । त्वया च तत्तथेत्युक्तो जानीमो न च तद्वयम् ॥२६॥
क्षत्ता यत् अब्रवीत् वाक्यम् जन-मध्ये अ ब्रुवन् इव । त्वया च तत् तथा इति उक्तः जानीमः न च तत् वयम् ॥२६॥
kṣattā yat abravīt vākyam jana-madhye a bruvan iva . tvayā ca tat tathā iti uktaḥ jānīmaḥ na ca tat vayam ..26..
यदि तच्छक्यमस्माभिः श्रोतुं न च सदोषवत् । श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च ॥२७॥
यदि तत् शक्यम् अस्माभिः श्रोतुम् न च स दोषवत् । श्रोतुम् इच्छामि तत् सर्वम् संवादम् तव तस्य च ॥२७॥
yadi tat śakyam asmābhiḥ śrotum na ca sa doṣavat . śrotum icchāmi tat sarvam saṃvādam tava tasya ca ..27..
युधिष्ठिर उवाच॥
विषादग्नेश्च बोद्धव्यमिति मां विदुरोऽब्रवीत् । पन्थाश्च वो नाविदितः कश्चित्स्यादिति चाब्रवीत् ॥२८॥
विषात् अग्नेः च बोद्धव्यम् इति माम् विदुरः अब्रवीत् । पन्थाः च वः न अ विदितः कश्चिद् स्यात् इति च अब्रवीत् ॥२८॥
viṣāt agneḥ ca boddhavyam iti mām viduraḥ abravīt . panthāḥ ca vaḥ na a viditaḥ kaścid syāt iti ca abravīt ..28..
जितेन्द्रियश्च वसुधां प्राप्स्यसीति च माब्रवीत् । विज्ञातमिति तत्सर्वमित्युक्तो विदुरो मया ॥२९॥
जित-इन्द्रियः च वसुधाम् प्राप्स्यसि इति च मा ब्रवीत् । विज्ञातम् इति तत् सर्वम् इति उक्तः विदुरः मया ॥२९॥
jita-indriyaḥ ca vasudhām prāpsyasi iti ca mā bravīt . vijñātam iti tat sarvam iti uktaḥ viduraḥ mayā ..29..
वैशम्पायन उवाच॥
अष्टमेऽहनि रोहिण्यां प्रयाताः फल्गुनस्य ते । वारणावतमासाद्य ददृशुर्नागरं जनम् ॥३०॥1.144.34
अष्टमे अहनि रोहिण्याम् प्रयाताः फल्गुनस्य ते । वारणावतम् आसाद्य ददृशुः नागरम् जनम् ॥३०॥१।१४४।३४
aṣṭame ahani rohiṇyām prayātāḥ phalgunasya te . vāraṇāvatam āsādya dadṛśuḥ nāgaram janam ..30..1.144.34

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In